41083: प्राग्दीव्यतोऽण् ======================= **Padacheda:** प्राक् | S | 0 | 0 | दीव्यतः | S | 5 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **प्राक्-दीव्यतीय-अर्थेषु समर्थेभ्यः प्रथमात् अण्-प्रत्ययः औत्सर्गिकरूपेण भवति ।** तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः प्रथमः महोत्सर्गः अस्मात् सूत्रात् आरभते । वर्तमानसूत्रतः चतुर्थाध्यायस्य तृतीयपादस्य समाप्तिं यावत् आहत्य चतुश्चत्वारिंशत् (44) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्दीव्यतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । अस्य अण्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । अण्-प्रत्ययस्य कानिचन उदाहरणानि - अ) गुरोः इदम् = गुरु + अण् = गौरव । आ) भानोः निवासः = भानु + अण् = भानव । इ) उपगोः अपत्यम् = उपगु + अण् = औपगव । प्रक्रिया इयम् - गुरु + अण् [**प्राग्दीव्यतोऽण्** (4.1.83) इति अण्] → गौरु + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → गौरो + अ [**ओर्गुणः** (6.4.146) इति भसंज्ञकस्य अन्तिम-उकारस्य गुणः] → गौरव [**एचोऽयवायावः** इति अव-आदेशः] 44 प्राग्दीव्यतीयाः अर्थाः एतादृशाः - 1. **तस्य अपत्यम्** (4.1.92) 2. **तेन रक्तं रागात्** (4.2.1) 3. **नक्षत्रेण युक्तः कालः** (4.2.3) 4. **दृष्टं साम** (4.2.7) 5. **परिवृतो रथः** (4.2.10) 6. **तत्र उद्धृतममत्रेभ्यः** (4.2.14) 7. **संस्कृतं भक्षाः** (4.2.16) 8. **सा अस्मिन् पौर्णमासी इति संज्ञायाम्** (4.2.21) 9. **सा अस्य देवता** (4.2.24) 10. **तस्य समूहः** (4.2.37) 11. **विषयः देशे** (4.2.52) 12. **सः अस्य आदिः इति छन्दसः प्रगाथेषु** (4.2.55) 13. **तदस्यां प्रहरणम् इति क्रीडायाम् णः** (4.2.57) 14. **तद् अधीते तद् वेद** (4.2.59) 15. **तद् अस्मिन् अस्तीति देशे तत् नाम्नि** (4.2.67) 16. **तेन निर्वृत्तम्** (4.2.68) 17. **तस्य निवासः** (4.2.69) 18. **अदूरभवः च** (4.2.70) 19. **तत्र जातः** (4.3.25) 20. **कृत-लब्ध-क्रीड-कुशलाः** (4.3.38) 21. **प्रायभवः** (4.3.39) 22. **सम्भूते** (4.3.41) 23. **कालात् साधु-पुष्प्यत्-पच्यमानेषु** (4.3.43) 24. **उप्ते च** (4.3.44) 25. **देयम् ऋणे** (4.3.47) 26. **व्याहरति मृगः** (4.3.51) 27. **तदस्य सोढम्** (4.3.52) 28. **तत्र भवः** (4.3.53) 29. **तस्य व्याख्यानः इति च व्याख्यातव्यनाम्नः** (4.3.66) 30. **ततः आगतः** (4.3.74) 31. **प्रभवति** (4.3.83) 32. **तत् गच्छति पथिदूतयोः** (4.3.85) 33. **अभिनिष्क्रामति द्वारम्** (4.3.86) 34. **अधिकृत्य कृते ग्रन्थे** (4.3.87) 35. **सः अस्य निवासः** (4.3.89) 36. **अभिजनः च** (4.3.90) 37. **भक्तिः** (4.3.95) 38. **तेन प्रोक्तम्** (4.3.101) 39. **तेन एकदिक्** (4.3.112) 40. **उपज्ञाते** (4.3.115) 41. **कृते ग्रन्थे** (4.3.116) 42. **तस्य इदम्** (4.3.120) 43. **तस्य विकारः** (4.3.134) 44. **अवयवे च प्राणी-ओषधि-वृक्षेभ्यः** (4.3.135) Sutrartha (English) ------------------- The अण् प्रत्यय is used as a default for the प्राग्दीव्यतीय meanings. Vasu English Summary -------------------- The affix अण् should be understood to come after whatever we shall teach hereafter up to sūtra तेन दीव्यति खनति जयति जितम् (4.4.2) etc. Vasu English Translation ------------------------ The affix अण् should be understood to come after whatever we shall teach hereafter up to sūtra तेन दीव्यति खनति जयति जितम् (4.4.2) etc. Up to aphorism (4.4.2), the affix अण् has a governing influence, except where it is specifically superseded by any particular rule. This aphorism may be looked upon either as an *adhikara* *sutra* or a *paribhasha* *sutra* or a *vidhi* *sutra*. The application of this aphorism will be illustrated throughout the next three chapters. Thus in (4.1.92) तस्यापत्यम् we read the present aphorism and add the affix अण् in the sense of 'his son'. As औपगवः 'the son of उपगुः'; कापटवः 'the son of *Kapatu*'. This affix has various meanings, such as, a patronymic (4.1.92), coloured with (4.2.1), sidereal time (4.1.3), revealed *sama*-*veda* (4.1.7), covered car (4.2.10) &c. Bhashya ------- प्राग्दीव्यतोऽण् (1329) (अणधिकाराधिकरणम्) (आक्षेपभाष्यम्) अयुक्तोऽयं निर्देशः, न हि तत्र कश्चिद् दीव्यच्छब्दः पठ्यते। कस्तर्हि? दीव्यतिशब्दः। कथं तर्हि निर्देशः कर्तव्यः? प्राग्दीव्यतेरिति। स तर्हि तथा निर्देशः कर्तव्यः -प्राग्दीव्यतेरिति? (समाधानभाष्यम्) न कर्तव्यः। दीव्यतिशब्दे दीव्यच्छब्दोऽस्ति तस्मादेषा पञ्ञ्चमी॥ (परिभाषाज्ञापकपरभाष्यम्) किं पुनः कारणं विकृतनिर्देशः क्रियते? एतज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा -एकदेशविकृतमनन्यवद्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? एकदेशविकृतेषूपसंख्यानं चोदितं तन्न कर्तव्यं भवति। अथ वा प्राक्शब्दोऽयं दिक्शब्दः, दिक्शब्दैश्च योगो पञ्ञ्चमी भवति। तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति॥ (पदकृत्यभाष्यम्) अथ प्राग्वचनं किमर्थम्? (5227 सिद्धान्तवार्तिकम्॥ 1 ॥) - प्राग्वचनं सकृद्विधानार्थम् - (भाष्यम्) प्राग्वचनं क्रियते, सकृद्विधानार्थम्। सकृद्विहितः प्रत्ययो विहितो यथा स्यात्। योगे योगे तस्य ग्रहणं मा कार्षमिति॥ (आक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। अधिकारादप्येतत् सिद्धम् -अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते॥ (5228 समाधानवार्तिकम्॥ 2 ॥) - अधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः - (भाष्यम्) अधिकारात् सिद्धमिति चेदपवादविषयेऽण् प्राप्नोति -अत इञ्ञ् (4.1.95) अण्चेत्यणपि प्राप्नोति॥ (5229 सिद्धान्तवार्तिकम्॥ 3 ॥) - तस्मात् प्राग्वचनम् - (भाष्यम्) तस्मात्प्राग्वचनं कर्तव्यम्॥ (सूत्रार्थविषये पक्षद्वयबोधकं भाष्यम्) अथ क्रियमाणेऽपि प्राग्वचने कथमिदं विज्ञायते -प्राग्दीव्यतो याः प्रकृतय इति, आहो स्वित्प्राग्दीव्यतो येऽर्था इति। किं चातः? यदि विज्ञायते प्राग्दीव्यतो याः प्रकृतय इति, स एव दोषः, अपवादविषयेऽण्प्रसङ्ग इति॥ अथ विज्ञायते प्राग्दीव्यतो येऽर्था इति, न दोषो भवति। समानेऽर्थे प्रकृतिविशेषादुत्पद्यमान इञ्ञणं बाधते। यथा न दोषस्तथाऽस्तु॥ (अन्यतरपक्षेऽभिनिवेशभाष्यम्) प्राग्दीव्यतो येऽर्था इति विज्ञायते। कुत एतत् - तथा ह्ययं प्राधान्येनार्थं प्रतिनिर्दिशति। इतरथा हि बह्व्यस्तत्र प्रकृतयः पठ्यन्ते, ततो यां कां चिदेव निमित्तत्वेनोपाददीत॥ अथ वा पुनरस्तु प्राग्दीव्यतो याः प्रकृतय इति। ननु चोक्तमपवादविषयेऽण्प्रसङ्ग इति॥ (5230 एकदेशिसमाधानवार्तिकम्॥ 4 ॥) - न वा क्व चिद्वावचनात् - (भाष्यम्) न वा एष दोषः। किं कारणम्? क्व चिद्वावचनात्। यदयं क्व चिद्वावचनं करोति -पीलाया वा (4.1.118), उदश्वितोऽन्यतरस्याम् (4.2.19) इति, तज्ज्ञापयत्याचार्यो नापवादविषयेऽण्भवतीति॥ (एकदेशिसिद्धान्तभाष्यम् यद्येतज्ज्ञाप्यते नार्थः प्राग्वचनेन। अधिकारात्सिद्धम्। ननु चोक्तमधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्ग इति। नैष दोषः। परिहृतमेतत् -न वा क्व चिद्वावचनादिति॥ किं पुनः कारणमियानवधिर्गृह्यते, न प्राक् ठकः इत्येवोच्येत? एतज्ज्ञापयत्यर्थेष्वयम्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? प्रकृतिविशेषादुत्पद्यमान इञ्ञ्-अणं बाधते॥ Kashika ------- **तेन दीव्यति०** (४.४.२) इति वक्ष्यति। तदेकदेशो दीव्यच्छब्दोऽवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, अण्प्रत्ययस्तत्र भवतीति वेदितव्यम्। अधिकारः, परिभाषा, विधिर्वेति त्रिष्वपि दर्शनेष्वपवादविषयं परिहृत्याण् प्रवर्तते। वक्ष्यति — **तस्यापत्यम्** (४.१.९२)। औपगवः। कापटवः॥ Siddhanta Kaumudi ----------------- तेन दीव्यति (SK1550) इत्यतः प्रागणधिक्रियते ॥ Balamanorama ------------ **प्राग्दीव्यतोऽण्** - प्राग्दीव्यतोऽण् ।तेन दीव्यति खनति जयति जित॑मिति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्घटितं तत्सूत्रं लक्ष्यते । तदाह — तेन दीव्यतीत्यतः प्रागिति । तथाचतस्यापत्य॑मित्याद्युत्तरसूत्रेषु विधेयप्रत्ययविशेषाऽसंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते ।कस्माद्भवती॑त्याकाङ्क्षायांसमर्थात्प्रथमा॑दिति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राऽणिति नोपतिष्ठते, अमित्यस्यौत्सर्गिकतया वैशेषिकेणेञादिना बाधात् । Tattvabodhini ------------- **प्राग्दीव्यतोऽण्** - प्राग्दिश इतीति । तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेनसमर्थानां॑,प्रथमा॑दिति पदयोः प्रयोजनं नेति भावः । ननुसमर्थः पदविधि॑रिति परिभाषया गतार्थत्वात्समर्थाना॑मित्येतव्द्यर्थम् । न च पदविधित्वं नेति शङ्क्यं,घकालतनेषु॑इत्यलिग्विधानात्सुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तस्य सकलसंमतत्वादत आह — सामर्थ्यमिति । कृतसन्धिकार्यत्वमिति । अस्य फलं तुतस्यापत्य॑मिति सूत्रे मूल एव स्फुटीभविष्यति । इहसमर्थात्प्रथमाद्वे॑ति वक्तुं युक्तम् । महोत्सर्गानाह -प्राग्दीव्यत इत्यादीना । सूत्रेदीव्य॑दित्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तःप्राग्रीश्वरा॑दितिवदित्येके । अन्ये त्वाहुः — ॒दीव्य॑दिति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिरिति । Padamanjari ----------- तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह - तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा - अस्यवामीयमित्यत्रेति भावः ।'प्रत्ययः' इत्यादिवदणित्येवाधिकारे सति ठत इञ्ऽ इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः'तेन रक्तं रागात्' इत्यादिष्वर्थेषूपस्थानं न स्यात् । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ् अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण् परिभाष्यमाणः केनापवादविषये न स्यात्, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते - यदयं'पीलाया वा' इति सूत्रमारभते, तद् ज्ञापयति - नापवादविषयेऽण् भवतीति; अन्यथा'द्वयचः' इति ढक् सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । ठुदश्वितोऽन्यतरस्याम्ऽ इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् । वयं तु ब्रूमः -'प्राग्दीव्यतः' इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते - दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ॥ Nyaas ----- `प्राग्दीव्यत्` इत्ययुक्तोऽयं निर्देशः , यावता `दीव्यति` (4.4.2) इति वक्ष्यति, न तु दीव्यदिति, तत्र दीव्यतीशब्दस्यावधित्वेनोपादाने दीव्यतेरिति निर्देशेन भवितव्यम्? इत्यत आह - `तदेकदेशः`इत्यादि। समस्तस्य दीव्यतिशब्दस्यावधित्वेनोपादाना#ए सति न युज्येतायं निर्देशः, न तु समस्तस्योपादानम्, अपि तु तदेकदेशस्य दीपव्यच्छब्दस्येत्यदोषः। अथ किमर्थं दीव्यद्ग्रहणं प्राग्ग्रहणञ्चत, नणित्येवाधिकारः क्रियताम्? नैवं शक्यम्ेवं हि क्रियमाणे **स्त्रीभ्यो ढक्** (4.1.120) इत्येवमादिनाऽधिकारान्तरेण विच्छिननस्याणः `तेन रक्तं रागात्` (4.2.1) इत्येवमादिषु पुनग्र्रहणं कर्तव्यं जायेत। अवधिनाधिकारपरिमाण आख्याते तदवधिकेष्वर्थेषु सर्वेष्वयमभ्यनुज्ञायत इतिपुनरण्ग्रहणं कर्तव्यं न भवति। तस्मादधिकारपरिमाणज्ञापनार्थं दीव्यद्ग्रहणं तावत्कर्तव्यम्। प्राग्ग्रहणमपि कर्तव्यमेव तस्यैवावधित्वद्योतनार्थम्। असति हि तस्मिन् `दीव्यतोऽण्` इत्युच्यमाने प्रकृतिरणो दीव्यच्छब्दो विज्ञायेत। `त्रिष्वपि दर्शनेषु` इत्यादि। कथं पुनरियमपवादविषयपरिहारेणाणः प्रवृत्तिर्लभ्यते, यावताधिकारे तस्मिन् सति प्रतियोगमुपस्थानादपवादविषयेऽप्यण् प्राप्नोति - `अत इञ् अण् च` इति, अन्यथा हि तस्य तत्रोपादानमनर्थकं स्यात्? परिभाषापक्षेऽपि प्राग्दीव्यतोऽर्थेष्वणित्यविशेषेण परिभाषिते सामान्येन परिभाषा प्रवर्तमाना केनापवादविषयं परिहरेत्? विधावपि प्राग्दीव्यतो याः प्रकृतयस्ताः सर्वा इहैकध्यमुपनीयाण् विधीयमानः सर्वतः प्रवर्तेत, अन्यथा सर्वतो विधानमनर्थकं स्यात्? एवं मन्यते - ज्ञापकादपवादविषये न भविष्यतीति, यदयं क्वचिद्वाग्रहणमन्यतरस्यांग्रहणञ्च करोति - **पीलाया वा** (4.1.118) , `उदइआतोऽन्यतरस्याम् (4.2.18) इति,तज्ज्ञापयति - नापवादविषयेऽण् भवतीति। विधौ तु भूयान् परीहारः। न हि प्राग्दीव्यतो याः प्रकृतयस्ताभ्योऽण् विधीयते, किं तर्हि? प्राग्दीव्यतो येऽर्थास्तेषु। तत्र समानार्थे प्रकृतिविशेषादुत्पाद्यमान इञणं बाधिष्यत इति। अथ किमर्थमियानवधिरुपादीयते, न प्राक् ठक इत्येवोच्येत, **प्राग्वहतेष्ठक्** (4.4.1) इत्येतस्माट्ठकः प्रागित्यर्थः? नैवं शक्यम्; **दध्नष्ठक्** (4.2.18) इत्येवमादिरपि ठगवधित्वेन विज्ञायते। `प्राक् कंसीयात्` इत्येवं तर्हि वक्तव्यम् - `कंसीयपरशब्दयोर्यञञौ लुक् च` (4.3.168) इति,तत्र यः कंसीयशब्दस्ततः प्रागित्यर्थः? एवमप्यशक्यं वक्तुम्; **द्विगोर्लुगनपत्ये** (4.1.88) इत्येतयापि कंसीयादुत्पद्येत, ततश्च द्वयोः कंसीययोर्विकारो द्विकंस इत्यत्र लुङ्न स्यात्। तस्माद्यथान्यासमेवास्तु॥ Prakriyasarvasvam ----------------- तेन दीव्यतीत्यतः प्राच्येष्वर्थेषु सामान्येनाण् स्यात् । अपत्यं रक्तयुक्ते च दृष्टं परिवृतोद्धृते । संस्कृतं पौर्णमासी च देवताव्यूहनीवृतः ॥ १९२ ॥ आदिः प्रयोजनं योद्धा तथा प्रहरणं क्रिया । अधीते वेदास्तिनिर्वृत्तावासादूरसम्भवाः ॥ १९३ ॥ शेषो जातः कृतो लब्धः क्रीतः कुशल इत्यपि । अनित्यभवसम्भूतौ साधुः पुष्यति पच्यते ॥ १९४ ।: उप्तं देयं रौति सोढं भवो व्याख्यान आगतः । प्रभवत्येतिनिष्क्रामत्यधिकृत्यकृतस्तथा ॥ १९५ ॥ निवासोऽभिजनो भक्तिः प्रकर्षेणोक्तमेकदिक् । उपज्ञातः कृत इदं विकारोऽवयवश्च ते ॥ १९६ ॥ इह समासादीनामर्थविभजनं विग्रहः । उपगोरपत्यमिति विग्रहे—