41078: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ================================================ **Padacheda:** अण-इञोः | S | 6 | 2 | अनार्षयोः | S | 6 | 2 | गुरु-उपोत्तमयोः | S | 6 | 2 | ष्यङ् | S | 1 | 1 | गोत्रे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In Patronymics used in narrower sense (counting first from the grand-child), which are formed the affixes अण् and इञ् , the feminine is formed by substituting य (ष्यङ्) for the अ and इ of those affixes and adding the long आ under -- यङश्चाप् (4.1.74), provided that they do not denote ऋषि clans and have prosodially long syllable preceding the last syllable. Vasu English Translation ------------------------ In Patronymics used in narrower sense (counting first from the grand-child), which are formed the affixes अण् and इञ् , the feminine is formed by substituting य (ष्यङ्) for the अ and इ of those affixes and adding the long आ under -- यङश्चाप् (4.1.74), provided that they do not denote ऋषि clans and have prosodially long syllable preceding the last syllable. The wording of this aphorism requires a little analysis. It consists of five words: (1) अणिञोः 'of अण् and इञ्' (2) अनार्षयोः 'of non-*rishi*' (3) गुरूपोत्तमयोः 'having a heavy vowel as *upottama* i. e. last but one,' (4) ष्यङ 'the substitute is *shyan*' (5) गोत्रे 'in denoting *gotra*.' That is to say, the *gotra* affixes अण् and इञ् are replaced by ष्यङ् before the feminine affix चाप्, in those words which denoting non-*rishi* *gotras*, have a heavy vowel as last but one. The word *uttama* meaning last letter, being formed by the superlative affix *tamap*, implies that the word must be of at least three syllables. Therefore, the present *sutra* does not apply to forms like दाक्षि &c. Of the substitute ष्यङ् the letter ष् and ङ् are indicatory, the real affix is य, the letter ष् differentiating this affix from ञ्यङ् and the letter ङ् affording a common hold for both. In forming the feminine we shall have to add चाप् by (4.1.74). Thus करीषगन्धि 'having the smell of dung-cake', is the name of a person. In forming a patronymic from this word, we add the affix अण् ॥ Thus करीषगन्धि + अण् (4.1.92) Replace this affix by ष्य and we have कारीषगन्ध्या ॥ कुमुदगन्धि gives us कौमुदगन्ध्या ॥ Similarly with words taking the affix इञ् (as taught in *sutra* अतइञ् (4.1.75): as वाराहिः gives us वाराह्या, so also बालाक्या ॥ Why do we say 'of अण् and इञ् ॥ Witness आर्तभागा from ऋतभाग ॥ Here the word ऋतभाग belongs to बिदादि *gana*, and therefore by (4.1.104), it would take the affix अञ् in forming *gotra* patronymic: this affix अञ् is not replaced by ष्यङ्, and the feminine is by long ई (4.1.15); for though, its last vowel but one is heavy, it is a non-*rishi* *gotra* word, yet it does not fulfil the other condition of taking the affix अण् or इञ् ॥ Why do we say 'of non-* rishi* *gotras*'? Witness वासिष्ठी and वैश्वामित्री ॥ Why do we say 'whose last vowel but one is heavy'? Observe औपगवी and कापटवी ॥ Why do we say 'denoting *Gotra*?' Witness आहिच्छत्री 'born in *Ahichhatra*', कान्यकुब्जी 'born in *Kanyakubja*'. Bhashya ------- अणिञ्ञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (1328) (तद्धितष्यङधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति -दाक्षी, प्लाक्षीति॥ (समाधानभाष्यम्) आतिशायिकेनायन्तमशब्देन निर्देशः क्रियते, स च त्रिप्रभृतिषु वर्तते, त्रिप्रभृतीनामभावात्॥ (प्रत्याक्षेपे श्लोकभाष्यम्) यद्येवम् - प्रकर्षे चेत्तमं कृत्वा दाक्ष्या नोपोत्तमं गुरु। आम्विधिः केन ते न स्यात्? प्रकर्षे यद्ययं तमः॥ प्रकर्षे चेत्तम कृत्वा दाक्ष्या नोपोत्तमं गुर्वित्युच्यते, आम्विधिः केन तव न स्यात्? अव्ययघात् इति प्राप्नोति। प्रकर्षे यद्ययं तमःउयद्ययं तमः प्रकर्षे वर्तते॥ (प्रत्याक्षेपनिरासे श्लोकभाष्यम्) उद्गतस्य प्रकर्षोऽयं गतशब्दोऽत्र लुप्यते। उद्गतस्यायं प्रकर्षः। गतशब्दस्यात्र लोपो भवति। नाव्ययार्थप्रकर्षोऽस्ति धात्वर्थोऽत्र प्रकृष्यते। नायमव्ययार्थस्य प्रकर्षः। कस्य तर्हि? धात्वर्थस्य॥ (व्युत्पत्त्या तमप्स्वीकारे दोषश्लोकभाष्यम्) उद्गतोऽपेक्षते किंचित् त्रयाणां द्वौ किलोद्गतौ॥ अनुद्गतमपेक्ष्योद्गतमित्येतद्भवति। त्रयाणां द्वौ किलोद्गतौ त्रयाणां किल द्वावुद्गतौ भवतः। चतुष्प्रभृतिकर्तव्यो वाराह्यायां न सिध्यति। चतुष्प्रभृतिषु ष्यङ् वक्तव्यः। वाराह्यायां न सिध्यति वाराह्यायां न प्राप्नोति। किं कारणम्? चतुष्प्रभृतीनामभावात्॥ (व्युत्पत्तिपक्षे दूषणान्तरबोधकं श्लोकभाष्यम्) भिद्यतेऽस्य स्वरस्तेन विधिश्चामो न लक्ष्यते। भिद्यते खल्वस्य स्वरः, तेनातिशायनिकेन तमशब्देन उत्तमस्य विधिश्चामो न लक्ष्यते विधिश्चामो न क्वचिदपि लक्ष्यते॥ (सिद्धान्ते श्लोकभाष्यम्) शब्दान्तरमिदं विद्याद् दृष्टमभ्यन्तरं त्रिषु। एवं तर्हि -अन्योऽयमातिशायनिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते॥ (आक्षेपभाष्यम्) किं पुनरयमणिञ्ञोरादेशः, आहोस्विदणिञ्ञ्भ्यां परः? कश्चात्र विशेषः? (5215 अनादेशे दोषवार्तिकम्॥ 1 ॥) - ष्यङ्यनादेशे यलोपवचनम् - (भाष्यम्) ष्यङि अनादेशे यलोपो वक्तव्यः। औदमेघ्यायाश्छात्रा औदमेघाः॥ (5216 अनादेशे दोषवार्तिकम्॥ 2 ॥) - द्विरण्विधिः - (भाष्यम्) द्विश्चाण्विधेयः। औदमेघ्यायाश्छात्रा औदमेघाः। औदमेघ्यानां संघ औदमेघः। इञ्ञः इत्यण् न प्राप्नोति॥ (आदेशपक्षे भाष्यम्) अस्तु तर्हि आदेशः॥ (5217 आदेशे दोषवार्तिकम्॥ 3 ॥) - आदेशेऽन्लोपवचनम् - (भाष्यम्) यद्यादेशः, अनो लोपो वक्तव्यः। औडुलोम्या, शारलोम्येति। ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः प्रसज्येत॥ (5218 आदेशे दोषवारकं वार्तिकम्॥ 4 ॥) न वा ष्यङो लोपनिमित्तत्वात् ॥ (भाष्यम्) न वा एष दोषः। किं कारणम्? ष्यङो लोपनिमित्तत्वात्। लोपनिमित्तः ष्यङ्, न चाकृते लोपे ष्यङ् प्राप्नोति। किं कारणम्? गुरूपोत्तमयोरित्युच्यते, न चाकृते लोपे गुरूपोत्तमता भवति॥ (परत्वपक्षे दोषवारकं भाष्यम्) अथ वा पुनरस्तु परः। ननु चोक्तं ष्यङ्यनादेशे यलोपवचनम्, द्विरण् विधिरिति। नैष दोषः। यत्तावदुच्यते -यलोपवचनमिति, अदोष एषः। किं कारणम्? पुंवद्भावाद्यजादौ तद्धिते। यजादौ तद्धिते पुंवद्भावो भविष्यति, भस्याढे तद्धिते पुंवद्भवतीति॥ अयं तर्हि दोषः -द्विरण्विधिरिति। नैष दोषः। सिद्धश्च प्रत्ययविधौ, स च सिद्धः प्रत्ययविधौ॥ (सिद्धान्तभाष्यम्) उभयमिदमुक्तम् -आदेशः, पर इति च। किमत्र न्याय्यम्? आदेश इत्येतद् न्याय्यम्। कुत एतत्? एवं चैव हि कृत्वाऽऽचार्येण सूत्रं पठितम्, षष्ठ्या च निर्देशः कृतः। अत एष पक्षो निर्दोषः॥ (प्रत्ययपक्षे दोषप्रदर्शकभाष्यम्) ननु च परस्मिन्नपि सति ये दोषास्ते परिहृताः, पुंवद्भावेन यलोपः परिहृतः। स च पुंवद्भावोऽढे भवति, तत्र ते औदमेघेयो न सिध्यति॥ (आदेशपक्षे दोषोद्भावकं श्लोकभाष्यम्) अनुबन्धौ त्वया कार्यौ यस्यादेशः, अनुबन्धौ तेन क्रतव्यौ। एकः सामान्यग्रहणार्थः, अपरः सामान्यग्रहणाविघातार्थः॥ क्व सामान्यग्रहणार्थेनार्थः? यङश्चाप्(4.1.74) इति॥ अथ क्व सामान्यग्रहणाविघातार्थेनार्थः? अत्रैव॥ किं प्रयोजनम्? चाबर्थम् चाब्यथा स्यात्॥ (आदेशवादिन आक्षेपभाष्यम्) तव कथं चाप्? (प्रत्ययवादिनः समाधानश्लोकभाष्यम्) टाब्विधिर्मम। टापा मम सिद्धम्॥ (आदेशवादिनः प्रतिबन्दिभाष्यम्) ननु च ममापि टापा सिद्धं स्यात्॥ (प्रत्ययवादिनः परिहारभाष्यम्) न सिध्यति। अण इति, इञ्ञ इति चेकारः प्राप्नोति॥ (आदेशवादिनः परिहारभाष्यम्) नैष दोषः। नैवं विज्ञायते -अणन्तादकारान्ताद्, इञ्ञन्तादिकारान्तादिति। कथं तर्हि? अण्योऽकारः, इञ्ञ्य इकार इति॥ (प्रत्ययवादिनो दोषभाष्यम्) स्वरार्थस्तर्हि त्वया चाब्वक्तव्यः। ञ्ञ्नितीत्याद्युदात्तत्वं मा भूत्, चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यादिति॥ (आदेशवादिनः प्रत्याक्षेपभाष्यम्) तवापि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाब्न प्राप्नोति॥ (प्रत्ययवादिनः श्लोकभाष्येण समाधानम्) नैष दोषः। उक्तेऽपि हि भवन्त्येते। उक्तेऽपि तु स्त्रीत्वे भवन्त्येते टाबादय इति। उक्तमेतत् -स्वार्थिकाष्टाबादय इति॥ (आदेशवादिनो दोषवारकं भाष्यम्) सानुबन्धकस्यादेशो मम। ममापि तर्हि सानुबन्धकस्यादेश इत्कार्यं नेति, तेन ञ्ञिन्न भविष्यति॥ (प्रत्ययवादिनो दोषदर्शकं श्लोकभाष्यम्) अस्थानिवत्त्वे दोषस्ते वृद्धिरत्र न सिध्यति। अस्थानिवत्त्वे दोषः -वृद्धिस्ते न प्राप्नोति। औडुलोम्या, शारलोम्येति। न चेदानीमर्द्धजरतीयं लभ्यम् -वृद्धिर्मम भविष्यति, स्वरो नेति। तद्यथा -अर्थं जरत्याः कामयन्ते, अर्धं नेति॥ (आदेशवादिनः प्रतिबन्दिश्लोकभाष्यम्) त्वयाऽप्यत्र विशेषार्थं कर्तव्यं स्याद् विशेषणम्। त्वयाऽप्यत्र विशेषणार्थोऽनुबन्धः कर्तव्यः॥ क्व विशेषणार्थेनार्थः? ष्यङः सम्प्रसारणमिति॥ (प्रत्ययवादिनो दोषनिवारकं श्लोकभाष्यम्) अक्रियैव विशेषोऽत्र सानुबन्धो विशेषवान्। अक्रियैव मम विशेषः, सानुबन्धस्तु विशेषवान्॥ (आदेशवादिनो दोषभाष्यम्) पाश्यायां ते कथं न स्यात्? पाश्यापुत्र इत्यत्र कस्मान्न भवति? (प्रत्ययवादिन उत्तरभाष्यम्) एको मे स्याद्विशेषणम् एको मम विशेषणार्थः। त्वया पुनर्द्वौ कर्तव्यौ॥ (आदेशवादिन आक्षेपकं श्लोकभाष्यम्) अतैकस्मिन्नपि सति कः करिष्यते? किं चातः? अन्यस्मिन् सूत्रभेदः स्यात् यद्येताभ्यामन्यः क्रियते, सूत्रभेदः कृतो भवति। षिति लिङ्गं प्रसज्यते। अथ षित् क्रियते,षित इतीकारः प्राप्नोति। ङिति चेक्रीयिते दोषः। अथ ङित् क्रियते, चेक्रीयिते दोषो भवति। लोलूयापुत्रः, लोलूयापतीति॥ (प्रत्ययवादिन उत्तरं श्लोकभाष्यम्) व्यवधानान्न दुष्यति॥ अकारेण व्यवहितत्वान्न दोषो भवति॥ (आदेशवादिनः श्लोकभाष्यम्) धातोरिति वर्तते, यश्चात्रानन्तरो नासौ धातुः। यो धातुः सोऽननन्तरः यश्च धातुर्नासावनन्तरः। न चेदुभयतः साम्यमुभयत्र प्रसज्यते। न चेदुभयतः साम्यम्, उभयत्र प्राप्नोति। (प्रत्ययवादिनः समर्थकं भाष्यम्) यदि पुनर्यङा धातुर्विशेष्येत? (आदेशवादिभाष्यम्) यङा विशेष्येत यदीह धातुर्यङ् धातुना वा यदि तुल्यमेतत्। यद्येव यङा धातुर्विशेष्यते, अथापि धातुना यङ्, तुल्यमेतद्भवति। (प्रत्ययवादिभाष्यम्) उभौ प्रधानं यदि नात्र दोषः। अथोभौ प्रधानं भवतः, नात्र दोषो भवति॥ (आदेशवादिभाष्यम्) तथा प्रसार्येत तु वाक्पतिस्ते। तथा सति वाक्पतिः, वाक्पुत्र इत्यत्र सम्प्रसारणं प्राप्नोति। (प्रत्ययवादिभाष्यम्) एवं तर्हि? धातुप्रकरणस्येह न स्थानमिति निश्चयः। धातुप्रकरणस्येह स्थानं नास्तीति कृत्वा एष निश्चयः क्रियते॥ (आदेशवादिभाष्यम्) अवस्यमात्वार्थं धातुग्रहणं कर्तव्यम्। इह मा भूत् -गोभ्याम्, गोभिः, नौभ्याम्, नौभिरिति॥ (प्रत्ययवादिभाष्यम्) आत्वार्थं यदि कर्तव्यं तत्रैवैतत्करिष्यते॥ उपदेशे यदेजन्तं तस्य चेदात्वमिष्यते। उद्देशो रूढिशब्दानां तेन गोर्न भविष्यति॥ एवं तर्हि उपदेशे इत्युच्यते। उद्देशश्च प्रातिपदिकानां नोपदेशः॥ Kashika ------- गोत्रे यावणिञौ विहितावनार्षौ, तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति। **निर्दिश्यमानस्यादेशा भवन्ति** इत्यणिञोरेव विज्ञायते, न तु समुदायस्य। ङकारः सामान्यग्रहणार्थः। षकारस्तदविघातार्थः। **यङश्चाप्** (४.१.७४) इति। उत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह। उत्तमस्य समीपमुपोत्तमम्। गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम्। करीषस्येव गन्धोऽस्य करीषगन्धिः। कुमुदगन्धिः। **तस्यापत्यम्** (४.१.९२) इत्यण्। तस्य ष्यङादेशः। कारीषगन्ध्या कौमुदगन्ध्या। वराहस्यापत्यम्। **अत इञ्** (४.१.९५) — वाराहिः। तस्य ष्यङादेशः॥ वाराह्या। बालाक्या। अणिञोरिति किम्? ऋतभागस्यापत्यम्, बिदादित्वादञ् आर्तभागी॥ गुरूपोत्तमादिकं सर्वमस्तीति, न त्वणिञौ। **टिड्ढाणञ्०** (४.१.१५) इति ङीबेव भवति। अनार्षयोरिति किम्? वासिष्ठी। वैश्वामित्री। गुरूपोत्तमयोरिति किम्? औपगवी। कापटवी। गोत्र इति किम्? **तत्र जाताः** (४.३.२५) — आहिच्छत्री॥ कान्यकुब्जी॥ Siddhanta Kaumudi ----------------- त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति] इत्यणिञोरेव । षङावितौ । यङश्चाप् -(SK528) कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥ Balamanorama ------------ **अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे** - अणिञोः । त्र्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तममिति । सामीप्येऽव्ययीभाव इति भावः । गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः । प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते ।अणिञो॑रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम् । 'गोत्रे' इत्येतत् अणिञोरन्वेति । ऋषेरविहितौ-अनार्षौ । इदमपि अणिञोविशेषणं । स्त्रियामित्यधिकृतम् । तदाह गोत्रे यावणिञावित्यादिना । आदेशः स्यादिति । स्थानषष्ठीनिर्देशादादेशत्वलाभः ।ननु अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह — निर्दिश्यमानस्येति । तथा च अणिञोरेवायमादेश इति भावः ।ङिच्चे॑त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण॑मित्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः ।सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे॑ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑ति इत्त्वं । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् ।यस्येति चे॑ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरुः गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी॑ति न्यायेन हला व्यवधानस्याऽदोषत्वात् । नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति । एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशेयङश्चा॑विति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इञन्तस्योदाहरति — वाराह्रेति । वराहस्यापत्यं स्त्री विग्रहः । अत इञ् । अकारलोपः । वाराहिशब्दः । तत्र इकार उत्तम#ः । रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः । वासिष्ठी वैआआमित्रीति । ऋष्यणन्तावेतौ औपगवीति । अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ् । जातिलक्षण इति ।गोत्रं च चरणैः सहे ति जातित्वम् । आहिच्छत्रीति । जातार्थे अणयं, नतु गोत्र इति न ष्यङ् । नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये । Tattvabodhini ------------- **अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे** - अणिञोः । उत्तममिति । अव्युत्पन्नं प्रातिपदिकमिदं न तूच्छब्दात्तमप्ष तेनकिमेत्तिङव्ययघादि॑त्याम् नशङ्क्यः । गोत्रे याविति ।अपत्याधिकारादन्यत्र लौकिकं गोत्र॑मिति नेह शास्त्रीयं गृह्रते । तथा चअनार्षयो॑रिति पर्युदासादेव सिद्धे गोत्रग्रहणमिह त्यक्तुं शक्यम् । न चाऽत्र गोत्रग्रहणसामर्थ्याच्छास्त्रीयमेव गोत्रं गृह्रत इति वाच्यं, दैवदत्त्या याज्ञदत्त्येत्यादीनामानन्तरापत्येऽपीष्यमाणत्वात् । अतएवानुपदं वक्ष्यतिकुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्ये॑ति । इदं च कौस्तुभानुसारि व्याख्यानमत्रत्यमूलानुगुणमपिदैवयज्ञि॑सूत्रस्थेनअगोत्रार्थ॑मित्यादिमूलग्रन्थेन सह विरुध्यत इति तत्रैव स्फुटीभविष्यति । यद्यपि स्त्रीप्रत्ययाः प्रकृतास्तथापिपत्युर्नो यज्ञसंयोगे॑इति नकारस्येव ष्यङ आदेशत्वमेवोचितम्,अणिञो॑रिति षष्ठीस्वरसादित्यभिप्रेत्याह -ष्याङादेशः स्यादिति । ष्यङः प्रत्ययत्वेऽपि लक्ष्यसिद्धिरप्रत्यूहेति मनोरमायां स्थितम् । नन्वयंङिच्चे॑त्यन्तादेशं बाधित्वापर्तावत्सर्वादेशः स्यात् ।ङिच्चे॑त्यस्यानन्यार्थङित्त्वेष्वनङादिषु चरितार्थत्वात् । ष्यङोऽनुबन्धस्ययङश्चा॑बिति विशेषणार्थतया सप्रयोजनत्वादित्याशङ्क्याह -निर्दिश्यमानस्येति । षङाविताविति । अनुबन्धद्वयकरणं ञ्यङ इव ष्यङोऽपियङश्चा॑बित्यत्र सामान्यग्रहणार्थम् । न चष्यङः संप्रसारण॑मित्यत्र विशेषणार्थं तयोरुपयोगोऽस्ति । अन्यथा पाश्यापुत्रः पाश्यापतिरित्यत्रपाशादिभ्योः येः॑इति यप्रत्ययेऽपि संप्रासारणप्रसङ्ग इति वाच्यं,यङः संप्रसारण॑मित्येकानुबन्देनापि तद्वारणात् ।लोलूयापति॑रित्यत्र त्वकारप्रत्ययेन व्यवधानात्संप्रसारणाऽभावः ।कौमुदगन्धीपुत्र॑ इत्यत्र त्वेकादेशस्य पूर्वान्तत्वेन ग्रहणान्नास्ति व्यावधानमिति संप्रसारणं सिध्यति । कौमुदगन्ध्येति । अणः ष्यङ् । वाराह्रेति । इञः ष्याङ् । अणिञोः किम् । ऋतभागस्यापत्यमार्तभागी । बिदादित्वादञ् ।शाङ्र्गरवाद्यञः॑इति ङीन् ।टिड्ढे॑त्यादिना ङीबिति तु वृत्तिकारः ।अणिञो॑रित्यत्र तु लौकिकं गोत्रं गृह्रते ।गोत्रं च चरणै॑रित्यत्र तु पारिभाषिकमेव गृह्रते । तेन जातित्वाऽभावान्ङीनः प्राप्तिर्नास्तीति स्थितस्य गतिमाहुः । Padamanjari ----------- इह सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तेन'गोत्रे' ठनार्षयोःऽ इति चाणिञ्मात्रस्य विशेषणम्,'गुरूपोतमयोः' इत्येततदन्तस्य, तदाह - गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोरिति । यद्यप्यपत्याधैकारादन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्, तथाप्यत्र पारिभाषिकस्य ग्रहणम् ; लौकिकग्रहणस्य ठनार्षयोःऽ इति पर्युदासाश्रयणेनैव सिद्धत्वात् । इहायं ष्यङ् प्रत्ययो वा स्यात् ? आदेशो वा ? प्रत्ययविधावपि हि गापोष्टक्ऽ इत्यादौ षष्ठीदर्शनात्, उतरत्र'क्रौड।लदिभ्यश्च' इति पञ्चमीनिर्देशाच्च प्रत्ययपक्षोऽपि सम्भवत्येव । तत्राद्यपक्षे उदमेघस्यापत्यं स्त्री, ठत इञ्ऽ, औदमेघि इति स्थिते तदन्तात् ष्यङ् इविहिते औदमेघ्यायाश्छात्रा औदमेघाश्छात्त्राः, औदमेघ्यानां सङ्घः, ठिञश्चऽ'सङ्घाङ्कलक्षण' इति च इञन्ताद्विधीयमानोऽण् न स्यात् । अथापि लिङ्गविशिष्टपरिभाषया इञन्ताद्विधीयमानोऽण् ष्यङ्न्तादपि स्यात्, एवमपि ठापत्यस्य च तद्धितेऽनातिऽ इति यलोपो न स्यात्, ष्यङेऽनापत्यत्वात् ? नैष दोः ;'भस्याढेअ तद्धिते' इति पुंवद्भावात्प्रागेवण उत्पतेः ष्यङ्निवर्तते, तस्मिन्निवृते ठिञःऽ इत्यण्भविष्यति, यकारस्य च श्रवणंन भविष्यति । इह तह्याइÇदमेघ्याया उपत्यम्'स्त्रीभ्यो ढक्' , औदमेघेय इति यलोपो न स्यात्, पुंवद्भावश्च नास्ति, ठढेअऽ इति प्रतिषेधात् ? इतीममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - ष्यङदेशो भवतीति । नन्वस्मिन्पक्षे उडुलोम्नोऽपत्यं स्त्री बाह्वादिषु लोमन्शब्दस्य पाठात्केवलस्यापत्येन योगाभावात्सामर्थ्यातदन्तस्य ग्रहणादिञि तस्य ष्यङदेशे सति'ये चाभावकर्मणोः' इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपो न स्यात्, ततश्चौडुलोमन्येति स्यात्, औडुलोम्येति चेष्यते, प्रत्ययपक्षे इञा व्यवधानान्नास्ति प्रकृतिभावः, यस्येति लोपेऽपि कृते स्थानिद्भावाद्व्यवधानमेव ? नैष दोषः ; नात्राकृते टिलोपे ष्यङ् प्राप्नोति, किं कारणम् ? अगुरूपोतमत्वात्, तस्मादिञ्येव टिलोपः, ततो गुरूपोतमत्वम्, ततः ष्यङ्त्यानुपूर्व्यात्सिद्धिम् । अयं तर्हि दोषः - प्रत्ययग्रहणपरिभाषयाऽणिञन्तयोर्ग्रहणम्, तयोर्विधीयमानः ष्यङ्नेकाल्त्वात्सर्वादेशः प्राप्नोति ?'ङ्च्चि' इत्यन्त्यस्य भविष्यति, तातङ्न्यायेन सर्वादेशः प्राप्नोति । यत्र हि ङ्कारस्य प्रयोजनान्तरमपि सम्भाव्यते तत्र'ङ्च्चि' इत्येतदनन्यार्थङ्त्वेष्विनङदिषु सावकाशं बाधित्वा ठनेकाल्शित्सर्वस्यऽ इत्येतद्भवति, यथा तातङ् । इहि च सर्वादेशत्वेऽपि'यङ्श्चाप्' इति विशेषणं प्रयोजनं सम्भवति, तस्मात्सर्वादेशः प्राप्नोति, तत्राह - निर्दिश्यमानस्येत्यादि । यद्ययमुतमशब्दो व्युत्पन्नः स्यात्, तदोच्छब्दातमपि कृते'किमेतिङ्व्ययघाद्' इत्याम्प्राप्नोति ? न वा द्रव्यप्रकर्षत्वात् । उच्छब्दो हि ससाधनक्रियावचन उद्गते वर्तते, तस्य क्रियाद्वारकः प्रकर्षः - अतिशयेनोद्गत इति, ततश्च द्रव्यनिष्ठत्वात्प्रकर्षस्य ठद्रव्यप्रकर्षेऽ इति प्रतिषेधो भविष्यति । एवमपि तमपः पित्वादाद्यौदातत्वप्रसङ्गः ? न वोञ्छादिषु पाठात्, उञ्छादिषु हि उतमशश्वतमौ सर्वत्रेति पठ।ल्ते । एवमपि स तावत्पाठः कतेव्यः, क्रियामात्रस्य च प्रकर्षे उतमामित्याम्प्रसङ्गश्च, अतोऽनभिदानावुच्छब्दातमपोऽनुत्पत्तिरेषितव्या । किञ्चव्युत्पन्न उतमशब्दश्चतुष्प्रभृतिषु वर्तते, कथम् ? ऊर्ध्वमुच्चारित उद्गतः, स च प्रथमोच्चारितमपेक्षते, ततश्च त्रिषु द्वावुद्गतौ, तयोश्च द्वितीयोऽतिशयेनोद्गतः, द्वयोश्च सम्प्रधारणायां तरपा भाव्यम्, ततश्च यत्रोद्गता एव त्रयस्तत्रैव स्यात् - कारीषगन्ध्येत्यादौ; वाराह्यएत्यादौ तु न स्यात् । तदेवं व्युत्पत्तिपक्षे दोषं पश्यन्नव्युत्पत्तिपक्षमाश्रित्याह - उतमशब्द इति । स्वाभावादिति । न व्युत्पत्तिवशादित्यरय्थः । त्रिप्रभृतीनामिति वचनाद्दाक्षी प्लअक्षीत्यादौ न भवति । टिड्ढाणञिति ङीबेव भवतीति । प्राप्तिमात्राभिप्रायेणेदमुक्तम् । अत्र हि जातित्वात्'शार्गरवाद्यञः' इति ङीना भाव्यम् । वासिष्ठीति । ठृष्यन्धकऽ इत्यादिनाण् । आहिच्छत्रीति । जातादावर्थेऽण् । एवमत्रादेशपक्षः स्थापितः । यद्येवम्, हस्तिशिरसोऽपत्यम्, बाह्वादित्वादिञ्, ठचि शीर्षःऽ इति शीर्षादेशः, इञः ष्यङदेशः, ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद्'ये च तद्धिते' इति शीर्षन्नादेशः प्राप्नोति ? अस्तु;'नस्तद्धिते' इति टिलोपो भविष्यति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः प्राप्नोति, ततश्च हास्तिशीर्षण्येति स्यात्, प्रत्ययपक्षे त्विञाऽव्यवहितत्वान्नास्ति शीर्षन्नादेशः, यस्येति लोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव, तेन हास्तिशीर्षेति सिद्ध्यति, तस्मात्प्रत्ययपक्ष आश्रणीयः । तदेतद्'ये च तद्धिते' इत्यत्र वामनो वक्ष्यति -'यदि प्रत्ययः, कथमौदमेघेय इति, आपत्याद्विहितः ष्यङ् सो' प्यापत्य एव, तत्र यलोपे सिद्धम्ऽ इति । जयादित्यस्तु मेने - शीर्षादेशसन्निपातेन ष्यङ्, स तद्विघातं न करिष्यतीति । यद्येवम्, अजादिप्रत्ययनिबन्धः शीर्षादेशः कथं तमजादि विहन्यात् ? ततः किम् ? ष्यङदेशोऽपि न प्राप्नोति, अनित्या सन्निपातपरिभाषा, तेन ष्यङ् भवति, शीर्षादेशश्च न भविष्यति । अयं तर्ह्यादेशपक्षे दोषः - अनुबन्धौ कर्तव्यौ यङ्श्चाबिति सामान्यग्रहणतदविघातार्थौ, अन्यथाऽणादेशे ष्यैङ्'टिड्ढाणञ्' इत्यादिना ङीप्स्यात्, इञादेशे तु ठिञ उपसङ्ख्यानम्ऽ इति ङीष्प्रसङ्गः ? नैष दोषः;'टिड्ढाणञ्' इत्यत्रात इति वर्तते, तत्र चाणाऽकारो विशेष्यते - अण्योऽकार इति । तत्र ष्यङदेशे ठनल्विधौऽ इति स्थानिवद्भावाभावान्ङीब्न भविष्यति । अणन्तादकारान्तादिति हि विज्ञायमाने स्वाश्रयमकारान्तत्वं स्थानिवद्भावादणन्तत्वं चेति स्यान्ङीपः प्रसङ्गः । ठिञ उपसङ्ख्यानम्ऽ इत्यत्रापि ठितो मनुष्यजातेःऽ इत्यत ठितःऽ इत्यपेक्ष्यते - इञ्य इकारः तदन्तादिति । इञन्तादिकारान्तादिति वा विज्ञायमाने ष्यङदेशे सति वाराह्यएत्यादिविकाराभावान्डीषभावः सिद्धः । एवमपि स्वरार्थश्चाबेष्टव्यः, अन्यथा इञादेशः ष्यङ् स्थानिवद्भावेन ञित्, टाबपि पित्वादनुदात इति ञित्स्वरेणाद्यौदातं पदं स्यात् । स्यादेतत् - इञो ञकारस्येत्संज्ञायाः प्रागेव प्रतिपदविधानात्ष्यङदेशः कारिष्यते, तत्र ञित्स्वराभावात् प्रत्ययस्वरे सति टाप्यपि सिद्धः स्वर इति, यथैव तर्हि ञित्स्वरो न भवति एवं वृद्धिरपि न स्याद्, अतो ञकारस्य सत्यामित्संज्ञायामादेश इत्यास्थेयम्, ततश्च स्वरे दोषप्रसङ्गाच्चाबर्थमनुबन्धौ कर्तव्यावेव । प्रत्ययपक्षे तु सति शिष्टे ष्यङः प्रत्ययस्वरे कृते तदन्तादापि सिद्धमिष्टम्, न रूपभेदो न स्वरभेदः । ननु च ष्यण्èóव स्त्रीत्वस्य द्योतितत्वादाब्न स्यात् ? नैष दोषः; यथा गार्ग्यायणीत्यादौ द्वाभ्यां स्त्रीत्वं द्योत्यते, तथाऽत्रापि द्वयोरेव सामर्थ्यमिति टाबपि भविष्यति ।'ष्यङः सम्प्रसारणम्' इत्यत्र विशेषणार्थं तर्हि त्वयाप्यनुबन्धौ कर्तव्यौ, इह मा भूत् - पाशानां समूहः पाश्या,'पाशादिभ्योयः' , पाश्यापतिरिति ? एवं तर्ह्येकोऽनुबन्धः करिष्यते, क एवः ? षकीरे ङीष्प्रसङ्गः । ङ्कारे'यङः सम्प्रसारणम्' इत्युच्यमाने लोलूयापुत्र इत्यत्रापि प्राप्नोति ? अप्रत्ययादित्यकारेऽतो लोपे च सति अकारेण व्यवहितत्वान्न भविष्यति । वाराहीपुत्र इत्यत्राअपि तर्हि टापा व्यवधानम् ? एकादेशस्य पूर्वं प्रत्यन्तवत्वान्नास्ति व्यवधानम् । ननु',ष्यङः सम्प्रसारणम्' इत्यत्र'लिटि धातोः' इत्यतोधातुग्रहणमनुवर्तते, ठादेच उपदेशेऽशितिऽ इत्यात्वं धातोर्यथा स्याद्, गोभ्यामित्यादौ मा भूदित्येवमर्थम् । तत्र यडन्तस्य धातोः पुत्रपत्योरनन्तरयोः सम्प्रसारणं भवतीत्युक्ते यो धातुर्लोलूयादिर्नासावनन्तरः, यश्चानन्तरो वाराह्यादिर्न स धातुः, तत्र धातुत्वानन्तर्ययोरन्यतररूपपरित्यागेन भवत्सम्प्रसारणं यथा वाराहीपुत्र इत्यादौ असत्यपि दातुत्वे आनन्तर्यमात्राश्रयणेन भवति, तथा लोलूयापुत्र इत्यत्रासत्यप्यानन्तर्ये धातुत्वाश्रयणेन स्यात् । अथ ब्रूयाः - यङ्धात्वोर्न परस्परेण विशेषणविशेष्यभावः, अपि तर्हि समुच्चयः - पुत्रपत्योरनन्तरस्य यङे धातोश्चेति ? तत्र वाराहीपुत्र इत्यादौ भविष्यति, न तु लोलूयापतिरित्यादौ; धातोर्व्यवधानात् । ततश्च सामर्थ्याद्धातुग्रहणस्योतरार्थैवानुवृत्तिः सम्पद्यत इति । यद्येवम्, वाक्पतिरित्यत्र वचेः सम्प्रसारणप्रसङ्गः ? एवं तर्हि धातोरिति निवर्तिष्यते, आत्वं पुनर्गवादेः प्रातिपदिकस्य न भवति; उपदेशोभावात् । स्वरूपज्ञापनप्रधानो निर्देशौउपदेशः ।'गोद्व्यचः' ,'नौद्व्यचः' इत्यादो तु कार्यान्तरार्थमुच्चारणम्, न स्वरूपज्ञापनार्थम् । तदेवं प्रत्ययपक्ष एक एवानुबन्धः कर्तव्यः । अत्र संग्रहश्लोकाः - पुंवद्भावाद्यजातौ यलुगणपि परस्मिन् ष्यङ् ह्यिऐदमेघे स्वार्थे ष्यङ् तद्यलुग्ढेअ क्रमत इह भवेदौडुलोम्या परस्मिन् । ष्यङ्शीर्षाधीनलाभस्तदभिविहतये न प्रभूर्हास्ति शीर्ष्ये सर्वादेशोऽपि तातङ्ङ्वि न यङ्णिञोः स्थानिनोरुक्तिहेतोः ॥ स्त्र्युक्तावप्याप्परस्मिन्निह सुलभ इति ष्ङै विधेयौ न वा ये- ऽणादेशे ङीनिवृत्यै त्वण इञ इति चेद् द्वौ विशेष्यौ न दोषः । ञित्वादादेरुदातः प्रसजति सहजादेशने वृद्ध्यभावः पाश्यापुत्त्रे निवृत्यै यण इक इह षित्वेकके ङीष्यङेस्तु ॥ लोलूयापुत्र इत्यद्व्यवहित इतरत्रापि दीर्घाऽन्तवत्स्याद् धात्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः । धात्वानन्तर्ययोश्चेन्मिथ इह न हि तेऽपेक्षिता वाक्पताविक् धोर्नात्राधिक्रियात्वे ह्युपदिशिरिति गोर्नो तदेवं ममैकः ॥ Nyaas ----- इह `अणिञोः` इति प्रत्ययमात्रं वा गृह्रते? तदन्तो वा समुदायः? तत्र यद्याद्यः पक्ष आश्रीयेत, `गुरूपोत्तमयोः` इति विशेषणं नोपपद्येत। न ह्रणिञोर्गुरूपोत्तमत्वं सम्भवति, कस्य तर्हि? तदन्तस्य समुदायस्य। तस्माद्द्वितीयः पक्ष आश्रयितुं युक्त इति मत्वाऽऽह - `गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोः` इति। यदि तर्हि समुदायस्याणन्तस्येञन्तस्य चेदं ग्रहणम्, `अनार्षयोः` इति विशेषणं न प्रकल्प्येत; समुदायस्य ऋषादेव विधानात्। अणिञोस्तु प्रकल्प्यत एतद्विशेषणम्; तयोरृषादन्यतर्च विधानात्। `गोत्रे` इत्यपि विशेषणमणिञोरेव युक्तम्, न समुदायस्य; तथा हि `अपत्यं पौत्रप्रभृति गौत्रम्` (4.1.162) इति परिभाषिकं गोत्रमिह गृह्रते,तत्र चाणिञावेव विहितौ, न समुदायः? नैष दोषः; समुदायस्यैते विशेषणे न सम्भवत इति सामर्थ्यादेकदेशयोरणिञोर्विज्ञायेते। अत एव वृत्तावाह - `गोत्रे यावणिञौ विहितावनार्षौ` इति। इहायं ष्यङादेशो वा स्यात्? प्रत्ययो वा? ननु च षष्ठीनिर्देशादादेशेनैवानेन भवितव्यमिति असन्दिग्धमेतत्, तदयुक्ता द्वितीयपक्षाशङ्का? नैतदस्ति; प्रत्ययविधावपि षष्ठीनिर्देशो दृश्यते, यथा - `गापोष्ठक्` (3.2.8) **व्रीहिशाल्योर्ढक्** (5.2.2) इति,तस्मात् प्रत्ययपक्षशङ्कापि युक्तैव। तत्र यदि प्रत्ययः स्यात्, औदमेधेय इति न सिध्येत्। उदमेघस्यापत्यं स्त्री - `अत इञ्` (4.1.95) , तदन्तादनेन ष्यङ्, इकारस्व यस्येति (6.4.148) लोप), `यङ्श्चाप्` (4.1.74) , औदमेध्या, तस्या अपत्यमिति **स्त्रीभ्यो ढक्** (4.1.120) , एयादेशः। तस्मिन् **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इति यलोप इष्यते, स न प्राप्नोति; अनापत्ययकारत्वात्। ननु च **हलस्तद्धितस्य** (6.4.150) इति चेत्? न; ईतीत्यत्रानुवर्तते। आदेशपक्षे त्वणिञोरपत्यत्वात् तदादेशस्यापि ष्यङः स्थानिवद्भावेनापत्यत्वमिति सिध्यति यलोपः। तस्मादादेशपक्ष एव साधुरित्यभिप्रायेणाह - `ष्यङादेशो भवति` इति। ननु चादेशपक्षेऽप्यौडुलोम्येति न सिध्यति, लोमशब्दो बाह्वादिषु पठते। तस् केवलस्यापत्येन संयोगो नास्तीति तदन्तः समुदायो गृह्रते, तत उडुलोम्नोऽपत्यं स्त्री -बाह्वादित्वादिञि कृते तस्य च ष्यङादेशः। तत्र **नस्तद्धिते** (6.4.144) इति टिलोप इष्यते, स च न प्राप्नोति;**ये चाभावकर्मणोः** (6.4.168) इति प्रकृतिभावात्। प्रत्ययपक्षे त्विञो व्यवहितत्वात् ष्यङः प्रकृतिभावो नास्तीति भयति टिलोपः। नन **यस्येति च** (6.4.148) इति लोपे कृते नास्ति व्यवधानम्। **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति लोपस्य (6.4.148) इति लोपे कृते नास्ति व्यवधानम्। **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति लोपस्य स्थानिवद्भावादस्त्येव। आदेशपक्षेऽप्यदोषः; आनुपूर्व्या सिद्धत्वात्। न ह्यत्राकृते लोपे गुरुपोत्तमत्वं सम्भवति। तत्र प्रागेव ष्यङ इञि तस्यैव टिलोपः, ततो गुरुपोत्तमता। ततः ष्यङित्यानुपूर्व्या सिद्धत्वम्। अयं तह्र्रादेशपक्ष दोषः - अनेकाल्त्वात् सर्वादेशः प्राप्नोति, `ङिच्च` (1.1.53) इत्यन्तस्य प्राप्नोतीति चेत्? नैतदस्ति; अपवादप्रतिषेधाद्धि सर्वादेशः प्राप्नोतीति। `ङिच्च` (1.1.52) इत्यन्तादेशः क्रियताम्, आहोस्विदनेकाल्त्वात् सर्वादेशः, तत्र परत्वात् सर्वादेशः प्राप्नोति, यथा - `तुह्रोस्तातङ्ङाशिष्यन्यतरस्याम्` (7.1.35) ? इत्यत आह - `निर्दिश्यमानस्य` इत्यादि। यथा पाच्छब्दस्य पदित्ययमादेशो विज्ञायते न पाच्छब्दान्तस्य समुदायस्य, तथाऽयमपि निर्दिश्यमानयोरणिञोरेव विज्ञायते। तत् क्व तर्हि सर्वादेशेन भवितव्यम्? यत्र समुदायात् षष्ठ्युच्चारिता, यथा -तुह्रोरिति। `ङकारः सामान्यग्रहणार्थः` इति। असति हि तत्र `यङश्चाप्` (4.1.74) इत्यत्र **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) इत्यस्यैव ग्रहणं स्यात्, न ष्यङः। `षकारस्तदविघातार्थः` इति। तत्र ह्रसत्येकानुबन्धकग्रहणे न द्वयनुबन्धकस्य (व्या।प।52) त्यस्यैव ग्रहणं स्यात्, न ञ्यङः।उत्तमशब्दोऽयमस्त्येव व्युत्पन्नं तमबन्तं प्रातिपदिकम्, अस्त्यव्युत्पन्नम्। तत्र यदि व्युत्पन्नस्येदं ग्रहणं स्याद्वाराह्रेति न सिध्येत्; यस्माद्व्युतप्त्तिमानुत्तमशब्दश्चतुष्प्रभृतिष्ववतिष्ठते। यथा ह्रुच्छब्दादुद्गताभिधायिनस्तमप्प्रत्ययोऽतिशायने विधीयते। अनुद्गतञ्चापेक्ष्योद्गतो भवति। त्रिषु च द्वावुद्गतौ,एकोऽनुद्गतः,न च द्वयोरयं चोद्गत इत्ययमनयोरतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते; तरपा विशेषविहितेन बाधितत्वात्। चतुर्षु तु त्रय उद्गताः, एकोऽनुद्गतः, ततर् त्रीनुद्गतानपेक्ष्यायञ्चोद्गतः। अयं चैषामतिशयेनोद्गत इत्यर्थविवक्षायां तमबुत्पद्यते, तस्माच्चतुर्ष्वेव प्राप्नोति; तत्र चोत्तमशब्दस्य स्वरूपसिद्धेः, ततश्च वाराह्रेति न सिध्येत्। न ह्यत्र चत्वारः सन्तीत्येतदालोच्याव्युत्पन्नोऽयमिहोत्तमशब्दो गृह्रत इति दर्शयन्ननाह - `उत्तमशब्दः स्वभावात्` इत्यादि। अध्युत्पन्न एव ह्रुत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमाह, न व्युत्पन्नः। स हि चतुष्प्रभृतीनामन्त्यमाह, तस्मात् `उत्तमशब्दः स्वभावात्` इत्यादिना ग्रन्थेनाव्युत्पन्नस्योत्तमशब्दस्येह ग्रहणमिति दर्शितं भवति। तदेवमव्युत्पन्नस्य ग्रहणे वाराहीत्येतदपि सिद्धं भवति।`टिड्ढाणञिति ङीबेव भवति` इति। प्रमादपाठोऽयम्। यथैव हि बैदीति जातित्वादञन्तात् `शाङ्र्गरवाद्यञो ङीन्` (4.1.73) इति ङीन् भवति, तथेहापि ङीनैव भवितव्यम्। जातित्वं तु गोत्रत्वात्। तस्मात् `शाङ्र्गरवाद्यञो ङीन् इति ङीनेव भवति` इत्ययमेवात्र पाठो द्रष्टव्यः।`वासिष्ठी, वैआआमित्री` इति। `ऋष्यन्ध` (4.1.114) इत्यादिनिऽण्। `औपगवी, कापटवी` इति। उपगुकपटुशब्दाभ्यामौत्सर्गिकोऽण्, **ओर्गुणः** (6.4.146) ।`आहिच्छत्री। वैआआमित्री` इति। **तत्र जातः** (4.3.25) इत्यण्॥ Prakriyasarvasvam ----------------- अणिञन्तानां गोत्रवाचिनामार्षगोत्रवर्जितानां गुरूपोत्तमानां शब्दानामणिञोः स्थाने स्त्रियां ष्यङादेशः स्यात् ॥ वृत्तवद् वर्णगणनात् त्रिप्रभृत्यक्षरान्विताः । शब्दा उपान्त्यगुरवः स्युर्गुरूपोत्तमा इहः ॥ २१६ ॥ कुमुदगन्धेरपत्यमित्यणि कौमुदगन्धः । तत्र गोत्रादौ स्त्रियां वाच्यायामणः । ष्यङ् । षङ्लोपः । 'यङश्चाप्' (४-१-७४) इति चाप् कौमुदगन्ध्या । एवं वराहादत्त इञ् । वाराहिः । ततो गोत्रे स्त्रियामिञः ष्यङ् । वाराह्या । हास्तिशीर्ष्या । आर्षगोत्रे ष्यङ् न । वासिष्ठी । अगुरूपोत्तमेऽपि न । औपगवी । द्वयोरणन्तत्वाद् ङीप् ॥