41063: जातेरस्त्रीविषयादयोपधात् =============================== **Padacheda:** जातेः | S | 5 | 1 | अ-स्त्री-विषयात् | S | 5 | 1 | अ-य-उपधात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine affix ङीष् comes after a word denoting a जाति or species when it does not express in its original meaning a feminine and which moreover has not the letter य् for its penultimate. Vasu English Translation ------------------------ The feminine affix ङीष् comes after a word denoting a जाति or species when it does not express in its original meaning a feminine and which moreover has not the letter य् for its penultimate. The word जाति was defined under *Sutra* (1.2.52). Thus कुक्कुटी 'a hen'; सूकरी 'a she-hog', ब्राह्मणी '*Brahmani*'; वृषली 'a woman of the *Sudra* caste', नाडायनी 'a woman of *Nadayana* class', चारायणी 'a *Charayani*', कटी 'a woman of *Brahmans* who read the *Katha*', बह्वृची 'a woman of the class of *Brahmans* who read the *Rig* *Veda*'. Why do we say "expressive of a *jati*"? Observe मुण्डा 'shaven' ( where the word expresses not a *jati* but a quality). Why do we say "not invariably feminine"? Witness मक्षिका 'a fly' (supposed to breed without a male). Why do we say "not having the letter य् for its penultimate?" Witness क्षत्रिया 'a female of the *Kshatriya* class'. Vart:- In excluding words that have the letter य् as penultimate, there is not involved the exclusion of the following words which have a penultimate य्) viz, गवय 'the Bos Gaveans', हय 'horse', मुकय 'a sort of animal', मत्स्य 'a fish', and मनुष्य 'a man'. Thus गवयी, हयी, मनुषी, ((6.4.150) हलस्तद्धितस्य 'there is elision of the य् of a *taddhita* affix coming after a consonant when long ई follows') मत्सी ॥ The य् of *matsya* is elided by the *vartika* 'मत्स्यस्य ङ्याम्' ॥ See also (6.4.149). All these words are also included in the class गौरादि (4.1.41) and would have taken ङीष् independently of this *vartika*. Another definition of *jati* is:- प्रादुर्भावविनाशाभ्यां सत्यस्य युगपद्गुणैः । असर्वलिंगां बह्वर्यो तां जातिं कवयो विदुः ॥ (See translation under (1.2.52)) Bhashya ------- जातेरस्त्रीविषयादयोपधात् (1314) (जातिलक्षणाधिकरणम्) (लक्षणभाष्यम्) जातेरित्युच्यते, का जातिर्नाम? आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह॥ अपर आह - प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद् गुणैः। असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः॥ गोत्रं च चरणानि च॥ (जातिलक्षणविशेषदर्शकभाष्यम्) कः पुनरेतयोर्जातिलक्षणयोर्विशेषः? यथा पूर्वं जातिलक्षणं तथा -कुमारीभार्यः इति भवितव्यम्। यथोत्तरं तथा -कुमारभार्यः इति भवितव्यम्॥ (सूत्रार्थबोधकभाष्यम्) अथास्त्रीविषयादिति कथमिदं विज्ञायते -समानायामाकृतौ यदस्त्रीविषयमिति? आहो स्वित् क्वचिदस्त्रीविषयमिति? किं चातः? यदि विज्ञायते समानायामाकृतौ यदस्त्रीविषयमिति -द्रोणी, कुटी, पात्रीति न सिध्यति॥ अथ विज्ञायते क्व चिदस्त्रीविषयमिति -माला, बलाका, अत्रापि प्राप्नोति। अस्तु क्व चिद्यदस्त्रीविषयमिति। कथं -माला, बलाकेति? अजादिषु पाठः करिष्यते॥ (पदकृत्यभाष्यम्) अयोपधादिति किमर्थम्? इभ्या, क्षत्रिया। अत्यल्पमिदमुच्ये -अयोपधादिति, अकोपधादित्यपि वक्तव्यम्। इहापि यथा स्यात् -चटका, मूषिकेति। यद्यकोपधादित्युच्यते -काकी, कोकी, पिकी, शुकी, उलूकीति न सिध्यति। अस्तु तर्ह्ययोपधादित्येव। कथं -चटका, मूषिकेति? अजादिषु पाठः कर्तव्यः॥ (5204 विध्यंशपूरकवार्तिकम्॥ 1 ॥) - योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः - (भाष्यम्) योपधप्रतिषेधे गवयहयमुकयमनुष्यमत्स्यानामप्रतिषेधो भवतीति वक्तव्यम्। गवय -गवयी। हय -हयी। मुकय -मुकयी। मनुष्य -मनुषी। मत्स्य -मत्सी॥ Kashika ------- जातिवाचि यत् प्रातिपदिकं न च स्त्रियामेव नियतमस्त्रीविषयमयकारोपधं च, तस्मात् स्त्रियां ङीष् प्रत्ययो भवति। आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह॥ कुक्कुटी। सूकरी। ब्राह्मणी। वृषली। नाडायनी। चारायणी। कठी। बह्वृची। जातेरिति किम्? मुण्डा। अस्त्रीविषयादिति किम्? मक्षिका। अयोपधादिति किम्? क्षत्रिया॥ योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः॥ हयी। गवयी। मुकयी। मत्सी। मनुषी॥ Siddhanta Kaumudi ----------------- जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । (वार्तिकम्) ॥ अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ॥ (वार्तिकम्) ॥ सकृदाख्यातनिर्ग्राह्या ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ? शुक्ला । सकृदित्यादि किम् ? देवदत्ता । (वार्तिकम्) ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया । (वार्तिकम्) ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्य (SK472) इति यलोपः । मनुषी । (वार्तिकम्) ॥ मत्सी ॥ Laghu Siddhanta Kaumudi ----------------------- जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात्। तटी। वृषली। कठी। बह्वृची। जातेः किम्? मुण्डा। अस्त्रीविषयात्किम्? बलाका। अयोपधात्किम्? क्षत्रिया। **योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः** (वार्त्तिकम्) । हयी। गवयी। मुकयी। हलस्तद्धितस्येति यलोपः। मनुषी। **मत्स्यस्य ङ्याम्** (वार्त्तिकम्) । यलोपः। मत्सी॥ Balamanorama ------------ **जातेरस्त्रीविषयादयोपधात्** - जातेरस्त्री । अर्थे कार्याऽसंभवाच्छब्दे कार्यं विज्ञायत इत्याह — जातिवाचीति । न च स्त्रियां नियतमिति । स्त्री विषयः=नियमेन वाच्या यस्या इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः । तथा चअस्त्रीविषया॑दित्यनेन अनियतस्त्रीलिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा 'अस्त्रिया' इत्येवावक्ष्यदिति भावः । ननु यदिनित्यमेकमनेकानुगतं सामान्य॑मिति तार्किकोक्ता जातिस्तर्हि शुक्लादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठीत्यादावव्याप्तिश्च ।सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः॑ इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राआहृणत्वादि सा जातिश्चेद्युवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्रजातेश्चे॑ति पुंवत्त्वनिषेधो न स्यादिति चेन्न,आकृतिग्रहणा जातिः, लिङ्गानां च न सर्वभाक् । सकृदख्यातनिग्र्राह्रा, गोत्रं च चरणैः सह॑ इति बाष्योक्तत्रिविधजातेर्विवक्षितत्वादित्यभिप्रेत्य भाष्योक्तत्रैविध्यं प्रपञ्चयति — आकृतिग्रहणा जातिरिति ।प्रथमे॑ति शेषः । आकृतिः= अवयवसंनिवेशविशेषः । गृह्रते अनेनेति ग्रहणं=व्यञ्जकम् । करणे ल्युट्, सामान्ये नपुंसकम् । आकृतिग्र्रहणं यस्या इति विग्रहः । उपसर्जनत्वात्टिड्ढाणञि॑ति ङीब्न । फलितमाह — अनुगतेति । सर्वासु घटादितत्तद्व्यक्तिषु एकरूपतत्तदाकारव्यङ्ग्येति यावत् । गृह्रते इति कर्मणि ल्युट्, आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम्,टिड्ढाणञ्इति ङीप्प्रसङ्गात् । तटीति । 'तटं त्रिषु' इत्यमरः । जलसमीपप्रदेश आकृतिविशेषविशिष्टस्तटःष अतस्तटत्वमाकृतिव्यङ्ग्यत्वाज्जातिः, अतस्तटशब्दस्य जातिवाचित्वादिनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च ङीषिति भावः । युवत्वादिकमप्याकृतिव्यङ्ग्यत्वाज्जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययसिद्धा तटत्वादिजातिरुक्ता ।नन्वेवं सति वृषलत्वादीनां जातित्वं न स्यात्, तदवयवसंनिवेशस्य ब्राहाहृणादिसाधारणत्वेन वृषलत्वादीनां तद्व्यङ्ग्यत्वाऽभावादित्याशङ्क्याह-लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिग्र्राह्रेति ।अन्या जाति॑रिति शेषः । लिङ्गानामिति कर्मणी षष्ठी । सर्वाणि लिङ्गानि न भजते इत्यर्थः । निग्र्राह्रेत्यस्य व्यक्त्यन्तरे उपदेशं विनापि सुगमेत्यर्थः, निरित्युपसपर्गवशात् । निग्र्राह्रेत्यनन्तरम्-॒अन्या जाति॑रिति शेषः । फलितमाह — असर्वेति । एकस्यामिति । एकस्यां व्यक्तौ वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तमित्यर्थः । अन्यथोक्ततटत्वादिजातेरेव 'आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते, तटस्य सर्वलिङ्गत्वात् । वृषलीति । वृषलत्वं ह्रसर्वलिङ्गं, नपुंसकत्वाऽभावात्, एकस्यां व्यक्तौ वृषलत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात्सकृदाख्यातनिग्र्राह्रं चेति भावः । ब्राआहृणत्वं तु पुत्रपौत्रादौ यद्यपि न सुगमं, ब्राआहृणात्क्षत्रियायामुत्पन्नस्य ब्राआहृणत्वाऽभावात्, तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं च तत्पित्रादावेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति ।बलाके॑ति शेषः ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॑ इति कोशाद्विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाऽभावाच्छुक्लत्वं न जातिः । अवयवसंस्थानव्यङ्ग्यत्वाऽभावान्न पूर्वलक्षणमपि । देवदत्तेति । संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्र्राह्रत्वमिति भावः । अनेन द्वितीयलक्षणेन जनननिमित्तकब्राआहृणत्वादिजातिसङ्ग्रहः । नन्वेवमपि औपगवी कठीत्याद्यसङ्ग्रहः, औपगवत्वादेरनुगतसंस्थानव्यङ्ग्यत्वाऽभावात्, सर्वलिङ्गत्वाच्चेत्यत आह — गोत्रं च चरणैः सहेति ।जाति॑रित्यनुषज्यते । गोत्रशब्देन अपत्यं विवक्षितं, नतु पौत्रप्रभृतीति परिभाषिकं, व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो ङीषितिअनुपसर्जना॑दिति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षितमिति प्रपञ्चितम् । चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः । चरणैः सह गोत्रं जातिरिति लभ्यते । गोत्रं चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिर्लोके प्रसिद्धा । तत्र गोत्रचरणा नान्तर्भवन्ति । तथापितस्मस्तच्छब्दस्तद्वाचिषु शब्देषु तत्कार्यार्थ॑ इत्यभिप्रेत्य व्याचष्टे — अपत्यप्रत्ययान्त इत्यादिना । गोत्रमुदाहरति — औपगवीति । उपगोरपत्यं स्त्रीत्यर्थेतस्यापत्य॑मित्यणिटिड्ढाण॑ञिति ङीपं बाधित्वा परत्वादनेन ङीष् । स्वरे भेदः । चरममुदाहरति — कठीति । कठेन प्रोक्तमधीयानेत्यर्थः । कलापीति वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः ।कठचरकाल्लु॑गिति तस्य लुक् । ततःतदधीते॑इत्यणःप्रोक्ताल्लु॑गिति लुक्, ततो ङीष् । चरणविषये उदाहरणान्तरमाह — वह्वृचीति । बहव ऋचोऽध्येया यस्या इति विग्रहः ।ऋक्पूरब्धूःपथामानक्षे॑अनृचबह्वृचावध्येतर्येव॑ इत्यच्समासान्तः, ततो ङीष् ।पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः । ननुलिङ्गानां च न सर्वभाक् इतिगोत्रं च चरणैः सहे॑ति च जातिलक्षणे ब्राआहृणीति परित्यज्य वृषली औपगवीत्येव कुत उदाहृतमित्यत आह — ब्राआहृणीत्यत्रेति । ब्राहृणोऽपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणि 'ब्राआहृओऽजातौ' #इति टिलोपाऽभावे आदिवृद्धौ ब्राआहृणशब्दः । स्त्रियां तु जातिलक्षणं ङीषं बाधित्वाशाङ्र्गरवाद्यञो ङी॑निति ङीन्, शाङ्र्गरवादिगणे तत्पाठस्य निरवकाशत्वादिति भावः । तदेवं जातिस्वरूपमुक्त्त्वा ङीष्विधौ तद्ग्रहणस्य प्रयोजनं पृच्छति — जातेःकिमिति मुण्डेति । मुण्डत्वं नाम विलुप्तसर्वकेशत्वम् । तत्तु नाकृतिव्यङ्ग्यं, केशदशायामपि तदाकृतेः सत्त्वात् । नापिलिङ्गानां चे॑ति लक्षणलक्षितं, सर्वलिङ्गत्वात् । नापि गोत्रचरणान्तर्भूतं, अतो न जातिरिति भावः । अस्त्रीविषयात्किमिति । विषयग्रहणलभ्यं नियतत्वं प्रव#एश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बलाकेति । पक्षिवर्गे 'बलाका विसकण्ठिका' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्ग्यतया जातित्वेऽपि नियतस्त्रीलिङ्गत्वान्न ङीषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति, तथापि प्रवृत्तिनिमित्तैक्यस्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवहितम् । क्षत्रियेति ।लिङ्गानां च न सर्वभा॑गिति जातिलक्षणसत्त्वेऽपि योपधत्वान्न ङीषिति भावः ।योपधप्रतिषेधे हयगवयेति । वार्तिकमिदम् । हयादानां योपधत्वेऽपि ङीष् वाच्य इत्यर्थः । हयीति । अआआ प्रसिद्धा । गवयीति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुकयीति । चतुष्पाज्जातिविशेषः । हल इति । मनुष्यशब्दात्स्त्रियां ङीषि मनुष्य-ई इति स्थितेहलस्तद्धितस्ये॑ति यकारस्य लोपेयस्येति चे॑त्यकारलोपे मनुषीति रूपमित्यर्थः ।हलस्तद्धितस्ये॑ति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह — मनोर्जाताविति । तद्धिताधिकारेऽपत्याधिकारस्थमिदं सूत्रम् ।मनुशब्दादपत्येऽञ्यतौ प्रत्ययौ स्तः, प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः ।मात्स्यशब्दान्ङीषि यकारस्य तद्धितावयवत्वाऽभावादप्राप्ते लोपे आह — मत्स्यस्य ङ्यामिति ।सूर्यतिष्ये॑ति सूत्रे वार्तिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपः स्यान्ङ्यामेवेति नियमार्तमिदम् । मत्सीति । ङीषि यकारलोपेयस्येति चे॑ति लोप इति भावः । ङ्यांकिम् । मात्स्योऽवतारः । Tattvabodhini ------------- **जातेरस्त्रीविषयादयोपधात्** - जातेरस्त्री । जात्या स्ववाचकशब्दो लक्ष्यते, अर्थे कार्याऽसंभवात्, स्वरूपं तु न गृह्रते, अस्त्रीविषयादित्यादेर्वैथ्र्यापत्तेरित्याशयेनाह — जातिवाचि यदिति ।आकृतिग्रहणा जाति.आकृतिग्रहणेति ।ग्रहण॑मिति करणे ल्युट् । सामान्ये नपुंसकम् । आकृतिग्र्रहणं यस्या इति बहुव्रीहिस्तदेतत्फलितमाह -अनुगतसंस्थानेत्यादि । वृषले ब्राआहृणादिव्यावृत्तसंस्थानाऽभावादव्याप्तिरिति लक्षणान्तरमाह — — लिङ्गानां चेत्यादि । चकारो भिन्नक्रमःनिग्र्रह्रे॑त्यस्यानन्तरं बोध्यः ।॒लिङ्गाना॑मिति कर्मणि षष्ठी । न सर्वभागिति । सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि गमकत्वाद्भजो ण्विः समासश्च भवत्येवेति नात्र सामर्थ्याऽभावः शङ्क्यः । वृषलीति । एकस्यां हि व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनापि तस्य सुग्रहत्वादिति भावः देवदत्तेति ।लिङ्गानां च न सर्वभाक्-सकृदाख्यातनिग्र्रह्रा । नन्वत्र परिमाणभेदेन द्रव्यभेदाभ्युपगमे स्यादेवातिप्रसङ्गः, एकस्यां व्यक्तौ देवदत्तत्वे कथिते व्यक्त्यन्तरे कथनं विनापि तस्य सुग्रहत्वात् । मैवम्, — परिमाणभेदेन द्रव्यभेदस्य प्रामाणिकैरनभ्युपगमात् । अभ्युपगमे वा समानकालतया व्यक्त्यान्तरस्य विशेषणात् । तथा च यस्यां व्यक्तौ देवदत्तत्वं कथ्यतेतत्समकालमन्या देवदत्तव्यक्तिरप्रसिद्धेति न देवदत्तत्वं जातिः । वृषलत्वादिस्तु भवत्येव, तदीयपितृभ्रात्रादिषु तस्य सुग्रहत्वादिति दिक् । उक्तलक्षणद्वयानाक्रान्तत्वात्तृतीयं लक्षणमाह — ।गोत्रं च चरणैः सह । गोत्रं च चरणैः सहेति । अपत्याधिकारादन्यत्र लौकिकं गोत्रम् । चरणः — शाखाध्येता । तदेतत्फलितमाह -अपत्यप्रत्ययान्त इति । अत्र व्याचख्युः -॒नाडायनं बह्वृचमिद॑मिति नपुंसकप्रयोगदर्शनात्सर्वलिङ्गौ गोत्रचरणौ, अतः पृथग्लक्षणं कृतम् । तेनात्रलिङ्गानां च न सर्वभा॑गिति द्वितीयलक्षणेन गतार्थता न शङ्क्येति । औपगवीति । अण्णन्तलक्षणं ङीपं परत्वादयं बाधते । एवं चापत्याधिकारेऔपगवी॑ति प्रतीकमुपादायटिड्ढाण॑ञित्यादिना ङीबिति व्याचक्षाणा उपेक्ष्या इथि भावः । केचित्तु अपत्याधिकारादत्तुरत्रैव लौकिकं गोत्रं गोत्रशब्देन गृह्रते नान्यत्रेति पारिभाषितगोत्रप्रत्ययान्त एव जातिकार्यं लभते न त्वपत्यप्रत्ययान्तः ।गोत्रं च चरणैः सहे॑ति वचनस्यापत्याधिकरात्पूर्वभावित्वात् । तथा चापत्यार्थे औपगवीति ङीबन्त इथि प्राचामुक्तिः सम्यगेवेत्याहुः । कठीति । कठेन प्रोक्तमधीयाना [वा] ।कलापिवैशंपायनान्तेवासिभ्यश्चे॑ति वैशंपायनान्तेवासित्वाण्णिनिः । तस्यकठचरकाल्लु॑गिति लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गित्यनेन । बह्वृचीति । बह्व्य ऋचोऽध्येतव्या यया सेति बहुव्रीहिः । अनृचबह्वृचावध्येतर्येवे॑ति वचनात्ऋक्पूरब्धू॑रिति अप्रत्ययः समासान्तः । यद्यपि स्त्रीणामध्ययनं प्रतिषिद्धम्, तथापि पुराकल्पे ह्रेतदासीत् । तदाह यमः — ॒पुराकल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑इति । यद्वा -॒मा नामाऽध्यगीष्ट, तद्वश्यत्वात्ताच्छब्द्यं भविष्यति, यथाऽनधीयानेऽपि माणवके । ब्राआहृणीत्यत्रेति । एवं च प्राचो ङीबुदाहरणं प्रामादिकमिति भावः । मुण्डेति । मुण्डगुणयोगान्मुण्डा ।बलाका बिसकण्ठिका॑ । क्षत्त्रियेति ।क्षत्राद्धः॑इत्यपत्ये घविधानाद्गोत्रलक्षणा,लिङ्गानां च न सर्वे॑त्यादिलक्षणा वा जातिः ।योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः । योपधप्रतिषेध इत्यादि । गौरादिषु गवादय इदानीन्तनैः प्रक्षिप्ता इत्यस्मादेव वार्तिकाद्विज्ञायत इति कैयटादयः । Padamanjari ----------- अस्त्रीविषयादित्यनन्यभावे विषयशब्द इत्याह - न च स्त्रैयामिति । स्त्रियामेव यस्य नियमेन वृत्तिस्तत्स्त्रीविषयम्, ततोऽन्यदस्त्रीविषयमित्यर्थः । इह लौकिकजातिग्रहणे ब्राह्मणत्वादीनां गोत्रस्य च नाडायनादेर्जातित्वे वादिनां विप्रतिपतेः, चरणशब्दानां च कठादीनामध्ययनक्रियासम्बन्धनिबन्धनत्वेन पाचकादिवत्क्रियाशब्दत्वेनाव्याप्तिरित्यभिमतां जाति लक्षयति - आकृतिग्रहणा जातिरिति । गृह्यतेऽनेनेति ग्रहणमिति करणसामान्ये पदं संस्क्रियते, पश्चादाकृतिशब्दसमवधाने स्त्रीत्वं प्रतीयमानं बहिरङ्गत्वात् प्रत्ययस्य निमितं न भवति । ग्रहणमाकृतिर्यस्या इति ग्रहणरूपोद्देशेनाकृतिरूपता विधीयते, न त्वाकृतिरूपोद्देशेन ग्रहणरूपतेत्यर्थः । आकृतिःउसंस्थानम्, सा ग्रहणं यस्याः साऽऽकृतिग्रहणा, अवयवसन्निवेशविशेषव्यङ्ग्येत्यर्थः । अनेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न संगृहीता भवति, ब्राह्मणक्षत्रियादीनां संस्थानस्य सदृशत्वादिति तत्संग्रहायाऽऽह - लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्ययमर्थो विवक्षितः । तत्र सर्वशब्दस्य लिङ्गापेक्षत्वेऽपिगमकत्वाद्भजो ण्विप्रत्ययः, समासश्च ।'लिङ्गानाम्' इति कर्मणि षष्ठी । अप्राप्तप्रापणार्थं चेदं वचनम्, न त्वाकृतिग्रहणेत्यस्य सङ्कोचकम्; तेन तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवत्येव । इह कस्मान्न भवति - देवदतः, देवदतेति ?उपदेशापेक्षमिदं लक्षणम् । कोऽर्थः ? असर्वलिङ्गेषु येषु जातिवाचित्वमाचार्या उपदिशन्ति तेष्वेव भवतीत्यर्थः । आकृतिग्रहणाया जातेरेकत्वनित्यत्वप्रत्येकपरिसमाप्तत्वलक्षणान् धर्मानाह - सकृदिति । एकस्मिन्पिण्डे सकृदुपदिष्टा ठयं गौःऽ इति पिण्डान्तरे निर्ग्राह्या, निश्चेतुं शक्येत्यर्तः । यदि चैका न स्यात्, नैव गृह्यएत । तथा नित्यत्वाभावेऽपि पिण्डेन सह विनाशात्पिण्डान्तरे न गृह्यएत । यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत्पिण्डे सर्वात्मना न गृह्यएत यत्राख्याता, किं पुनः पिण्डान्तरे ! कथं पुनरेकमेव वस्तु बहुत्र युगपत्कार्त्स्येन वर्तते, न हि देवदतस्तदानीमेव स्रुघ्ने भवति मधुरायां च ? दृश्यते चेत्को दोषः, न हि दृष्टेऽनुपपन्नं नाम ! गोत्रमिति । अपत्यमित्यर्थः । चरणशब्देन शाखाध्यायिनो गृह्यन्ते, गोत्रस्यानाकृतिग्रहणत्वात् सर्वलिड्गत्वाच्च पृथगुपादानम्,'नाडायनं नपुंसकम्' इति दर्शनात् । चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृतत्वात्क्रियाशब्द एव, न जातिशब्दः । कुक्कुटी, सूकरीति । आकृतिग्रहणाया जातेरुदाहरणम् । ब्राह्मणैइ, वृषलीत्यसर्वलिङ्गायाः । तत्र ब्राह्मणीति रूपोदाहरणम् । शार्ङ्गरवादिष्वस्य पाठाद् वृषलीत्येतदेव ङीप उदाहरणम् । नाडायनी, चारायणीति । गोत्रलक्षणायाः'नडादिभ्यः फक्' । अपत्यमात्रस्य ग्रहणादनन्तरापत्येऽपि भवति - अवन्ती, कुन्तीति, ठितो मनुष्यजातेःऽ इति ङीष्भवति । इह तु कुलस्यापत्यं कुलीना ब्राह्मणीति ङीष् न भवति; अजादिषु दर्शनादित्याहुः । कठीति । कठेन प्रोक्तम्, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य'कठचरकात्' इति लुक्, ततः'तदधीते' इत्यण्, तस्य'प्रोक्ताल्लुक्' इति लुक् । बहवृचीति । बह्व्य ऋचोऽस्या इति बहुव्रीहिः,'बह्वृश्चरणाख्यायाम्' इत्यकारः समासान्तः । कथं पुनः स्त्री नामाधीते ? मा नामाधिगीष्ट, तद्वंश्यत्वातु ताच्छद्ब्यं भविष्यति, यथा - अनधीयमाने माणवके । अत्रापरं जातिलक्षणमुक्तं भाष्ये - प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥ इति । सत्वस्य प्रादुर्भावविनाशाभ्यां याऽऽविर्भावतिरोभावो प्राप्नोति, यावद्द्रव्यभाविनीत्यर्थः । गुणैश्च युगपद् द्रव्येण सम्बध्यते यथा निर्गुणं द्रव्यं न भवति, तथा जातिरहितमपीत्यर्थः । बह्वर्थामिति । अर्थशब्दो विषयवाची, बहुविषयां बहुव्यक्तिव्यापिनीमित्यर्थः । असर्वलिङ्गामिति । पूर्वल्लक्षणान्तरम् । तत्र यथा पूर्वलक्षणं तथा कुमारीभार्या इति भवितव्यम्, कथम् ? कौमारमयावद्द्रव्यभाव्यपि आकृतिग्रहणत्वाद्भवनति जातिः, ततश्च'जातेश्च' इति पुंबद्भावप्रतिषेधः । वृद्धा, स्थविरेत्यादौ च जातिलक्षणो ङीष्प्राप्नोति, यथा पुनरुतरं तथा कौमारादिकं जातिर्न भवति; अयावद्द्रव्यभावित्वात् । तत्र पूर्वकं लक्षणं भाष्यकारस्याभिमतम्, नोतरम्; अपर आहेत्यभिधानात् । तथा च ङ्याप्सूत्रे युवतितरेत्यत्र'तसिलादिषु' इति प्राप्तस्य पुंवद्भावस्य'जातेश्च' इति निषेध आश्रितः । अत एव वृत्तिकारेणाप्येतदेव लक्षणमुपन्यस्तमिति केचिदाहुः । एवमपि युवजानिरित्यत्र पुंवद्भावो न प्राप्नोति, तस्माद् द्वितीयमेव लक्षणं साधीयो मन्यामहे । अत एव वृद्धा, स्थविरेति जातिलक्षणो ङीष्न भवति । युवतितरेत्यत्र तु भाष्यकारप्रयोगात्पुंवद्भावाभावः । मुण्डेति । गुणशब्दोऽयम् । मक्षिकेति । स्त्रियामेवायं नियतः । इह कस्मान्न भवति - माला, बलाकेति ? मालाशब्दो मलनं माल इति घञन्तः पुंल्लिङ्गः, क्षेत्रविशेषे नपुंसकः, स्रजि स्त्रीलिङ्गः । बलाकाशब्दो हि बलां कायतीति यौगिकः सर्वलिङ्गः, बकजातिवचनः स्त्रीलिङ्गः । नात्र यथाकथञ्चिदस्त्रीलिङ्गविषयत्वं विवक्षितम् , किं तर्हि ? यस्मिन्प्रवृत्तिनिमिते स्त्रीलिङ्गस्तस्मिन्नेव निमिते यल्लिङ्गान्तरेऽपि वर्तते तदस्त्रीविषयम् । यथा पुनरयं शब्दार्थस्तथा'स्त्रियाः पुंवत्' इत्यत्र वक्ष्यामः । तेन निमितभेदेन नानालिङ्गेषु नायं विधिर्भवति । यद्येवम्, द्रोणी, वुटी, पात्रीत्यत्र न प्राप्नोति ? द्रोणशब्दः प्रमाणविशेषे पुंल्लिङ्गः; गवादिन्यां तु स्त्रीलिङ्गः; कुटशब्दो घटे पुंल्लिङ्गः, गेहे तु स्त्रीलिङ्गः; गौरादिपाठात्सिद्धम् । हयगवयेत्यादि । गौरादिष्विदानीन्तनैर्हयादयः प्रक्षिप्ता इति वार्तिककारवचनाद्विज्ञायते ॥ Nyaas ----- जासेः प्रातिपदिकादिति सामानाधिकरण्यानुपपत्तेर्जातिवाचि यत् प्रातिपदिकं तदिहाभिधानेऽभिधेयोपचारं कृत्वा जातिशब्देनोक्तम्, अत एव वृत्तावाह - `जातिवाचि यत् प्रातिपदिकम्` इति। `अस्त्रीविषयात्` इति। अनन्यत्राभावेऽपि विषयशब्दो वर्तते, अत एव वृत्तावाह - `न चेत् स्त्रियामेव नियतम्` इति। न स्त्रियामेव यस्य भावः, किन्तु स्त्रियां चान्यत्र च तदस्त्रीविषयम्।जातिरित्युच्यते, केयं जातिर्नामेति प्रश्नस्योत्तरमाह -`आकृतिग्रहणा` इत्यादि। आक्रियते व्यज्यतेऽनयेत्याकृतिः = संस्थानमुच्यते। तथा हि - दुराकृतिः दुःसंस्थानमुच्यते, स्वाकृतिश्च सुसंस्थानम्। गृह्रतेऽनेनेतित ग्रहणम्, करणे ल्युट्। आकृतिग्र्रहणं यस्याः साऽऽकृतिकग्रहणा, संस्थानव्यङ्ग्येति यावत्। ननु चाकृतिशब्दसामानाधिकरण्याद्ग्रहणशब्दस्य स्त्रियां वृत्तिरिति `टिड्ढाणञ्` (4.1.15) इति ङीपा भवितव्यम्, तदन्तेन समासे कृते **नद्यृतश्च** (5.4.153) इति कप्, ततश्चाकृतिग्रहणीकेति प्राप्नोति? नैष दोषः; ग्रहणशब्दो हि पूर्व करणसामान्ये व्युत्पादितः, पश्चाद्विशेषेणाभिसम्बध्यते। तत्र पदान्तरसन्निधाने यस्तस्य लिङ्गविशेषसम्बन्धः, स च बहिरङ्ग इति सामान्यलिङ्गेनैवान्तरङ्गेण वाक्यं कृत्वा समासः क्रियते, यथा - **मुखनासिकावचनोऽनुनासिकः** (1.1.8) इत्यत्र। तदनेन लक्षणेन सामान्यरूपा गोत्वादिलक्षणा जातिरित्युक्तं भवति। गोत्वादयो हि विषाणादिमत्संस्थानव्यङ्ग्यत्वादाकृतिग्रहणाः। एतेन लक्षणेन ब्राआह्णत्वादयो जातिविशेषा न संगृहीताः। न हि ते संस्थानव्यङ्ग्याः; तदाश्रयस्य संस्थानस्याभिन्नत्वात्। यादृशं हि संस्थानं ब्राआह्मणस्य क्षत्रियादेः संस्थानमपि तादृशमेवेत्यतो द्वितीयं लक्षणमाह - `लिङ्गानाञ्च` इत्यादि। यापि सर्वाणि लिङ्गानि न भजति साप्यसंस्थानव्यङ्ग्यापि जातिः, यथा - ब्राआहृणत्वादिः। सा हि स्त्रीलिङ्गं पुंलिङ्गं च भजति - ब्राआहृणएः, ब्राआहृणीति, न तु नपुंसकलिङ्गमित्यसर्वलिङ्गभाग्भवति। ब्राआहृणत्वादिष्वप्युदेशाभिव्यङ्ग्यताऽश्रयणीया, अन्यथा देवदत्तः, देवदत्तेति लिङ्गद्वयं भजति, अत्रापि जातित्वं स्यात्। न चायं जातिशब्द इष्यते, किं तर्हि? संज्ञाशब्दः। विध्यर्थञ्चेदम्। अतः सर्वलिङ्गभाजोऽपि पूर्वेण लक्षणेन जातित्वमस्ति, यथा -तटः,तटी, तटमिति। सर्वलिङ्गं भजत इति सर्वलिङ्गभाक्, कर्मण्युपपदे **भजो ण्विः** (3.2.62) इति ण्विः। ननु च लिङ्गापेक्षया सर्वशब्द उपपदे भजो ण्विप्रत्ययो न प्राप्नोति, उपपदाश्रयत्वा, उपपदसमासश्च असमर्थत्वात्? नैष दोषः; यथैव हि देवदत्तस्य गुरुकुलमित्यत्रासामर्थ्येऽपि समासो भवति, गमकत्वात्; तथैवमुभयमपि भविष्यतीति।सा च जातिः - `सकृदाख्यातनिग्र्राह्रा` इति। सकृत् = एकवारम्, आख्याता = उपदिष्टा, निग्र्राह्रा = निश्चयेन ग्राह्रा। एतेन जातिधर्मानेकत्वनित्यत्वप्रत्येकपरिसमाप्तित्वलक्षणान् दर्शयति। सकृदेवारं यस्मात् कृष्णे धवले वा गोपिण्ड आख्याता तद्विलक्षणेऽपि गोपिण्डे निग्र्राह्रा, तस्मादेव नित्या प्रत्येकं परिसमाप्ता च। यदि ह्रेका न स्यात्, सकृदाख्याता गौरिति पिण्डान्तरे न गृह्रेत। यदि च नित्या न भवेत्, पिण्डविनाशे तस्या अपि विनाशात् पिण्डान्तरेण न गृह्रेत। यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत् पिण्डे सर्वात्मना न गृह्रेत यत्राख्याता, किं पुनः पिण्डान्तरे ! अंशेन हि परिसमाप्तौ सत्यामंश एव परिगृह्रते, न जातिः। नजात्यंशो जातिर्भवति, अनेकत्वप्रसङ्गात्।तृतीयं जातिलक्षममाह - `गोत्रञ्च` इत्यादि। `अपत्यं पौत्रप्रभृति गोत्रम्` (4.1.162) इति गोत्रं पारिभाषिकम्। इह तु लौकिकमपि गोत्रमपत्यमात्रं गृह्रते। चरणमध्ययनभेदेनानेकधा। गोत्रञ्च चरणैः सह जातिर्भवति। गोत्रं नाडायनादि। यद्यपि नाडायनतादि सामान्यं गोत्रवदेव कल्प्यते, तथापि तत् संस्थानव्यङ्ग्यं न भवति। सर्वलिङ्गभावक्त्वाच्च - नाडायनः पुमान्, नाडायनी स्त्री, नाडायनं नपुंसकमिति। अतो गोत्रस्य जातित्वप्रतिपादनसिद्धये गोत्रञ्चेत्युक्तम्। चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात्। क्रियाशब्द एव जातिशब्द इत्यतस्तदर्थस्य जातित्वप्तिपादनाय चरणैः सहेत्युक्तम्।`कुक्कुटी, शूकरी मयूरी` इति। आकृतिग्रहणाया जातेरुदाहरणम्। `ब्राआहृणी, वृषली` इति। असर्वलिङ्गभाजः। `नाडायनी, चारायणी` इति। गोत्रलक्षणायाः। नडचरशब्दयोः **नडादिभ्यः फक्** (4.1.99) इति फगपत्येऽर्थे। `कठी, बह्वृची` इति। चरणलक्षणयाः।`मुण्डा`इति। मुण्डगुणयोगात्। मुण्डो भवत्येष इत्यस्त्रीविषयः - मुण्डो देवदत्त इति; पुरुषेऽपि मुण्डशब्दस्य वृत्तेः। न तु जातिशब्दः,किं तर्हि? गुणशब्दः।`मक्षिका` इति। सर्वदा स्त्रियामेव नियत्वात् स्त्रीविषयो मक्षिकाशब्दः। `क्षत्त्रिया` इति। गोत्रमिह जातिः। `क्षत्त्राद्धः` (4.1.138) इति गोत्रापत्ये घविधानादरुआवलिङ्गभाक्त्वाच्च जातित्त्वम्। `क्षत्त्रियः` इति च पुंस्यपि वृत्तेरस्त्रीविषयः क्षत्त्रियशब्दः।योपधस्तु - `योपधप्रतिषेधे हयगवयमुकत्स्यमनुष्याणामप्रतिषेधः` इति। कथं पुनरेष लभ्यते? उत्तरसूत्रे चकास्यानुक्तसमुच्चयार्थत्वात्। तेन हि हयगवयादिभ्यो ङीष्विधानादयं प्रतिषेधो न प्रवर्तते। `मत्सी` इति। `सूर्यतिष्यागस्त्यमत्स्यानाम्` (6.4.149) इत यलोपः। `मनुषी` इति। **मनोर्जातावञ्यतौ षुक् च** (4.1.161) इति यत्प्रत्ययः, षुगागमश्च। जातित्वं च पुरनेषां हयगवयादीनामाकृतिग्रहणाद्वेदितव्यम्॥ Praudhamanorama --------------- **वृषलीति।** एकस्यां व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनाऽपि तस्य सुग्रहत्वादिति भावः। **औपगवीति।** अण्णन्तलक्षणं ङीपं परत्वादयं बाधते। एवं चापत्याधिकारे औपगवीति प्रतीकमुपादाय 'टिड्ढाणञ्' इति ङीबिति व्याचक्षाणा उपेक्ष्या इति भावः। **ब्राह्मणीत्यत्रेति।** एवं च प्राची ङीषुदाहरणं प्रामादिकमिति भावः। Prakriyasarvasvam ----------------- स्त्रीलिङ्गनियतान् योपधांश्च विना जातिवाचिभ्यो ङीष् स्यात् । मृगी । सिंही । ब्राह्मणी । घटी । यक्षी । यक्षिणी तु यक्षरूपमस्या अस्तीति इनावृन्नभ्यो ङीप्यश्विनीवत् साध्या । अनुपसर्जनाधिकारात् बहुमृगा भूरित्यादौ न । गोत्रचरण- योरपि जातित्वमिष्टम् । गोत्रमित्यपत्यमुक्तम् । नाडायनी । कठी । बह्वृची । स्त्रीनियतात् तु न । वलाका । योपधाच्च न । वैश्या ।। Vartika ------- योपधप्रतिषेधे गवयहयमुकयमनुष्यमत्स्यानामप्रतिषेधः । Sutra Prayogas -------------- * **यवनी** (रघुवंशम्): `जातेरस्त्रीविषयादयोपधात्` इति ङीष्। * **परभृतामुखी** (कुमारसम्भवम्): `जातेरस्त्रीविषयादयोपधात्` इति ङीप् न भवति। * **चक्रवाकी** (शिशुपालवधम्): `जातेरस्त्रीविषयादयोपधात्` इति ङीष्।