41061: वाहः =========== **Padacheda:** वाहः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine affix ङीष् comes after a प्रातिपदिक (Nominal Stem) ending with the word वाह्। Vasu English Translation ------------------------ The feminine affix ङीष् comes after a प्रातिपदिक (Nominal Stem) ending with the word वाह्। The *anuvritti* of ङीष् is to be taken in this aphorism and not that of ङीप्, though the latter was nearer. The word वाह् is formed from the root वाह् with the affix ण्वि (3.2.64). The word वाह् is never found alone, but as ends of compounds, hence we apply the rule of *tadanta*, and have translated it by saying a "word ending in *vah*." Thus दित्यौही 'sustaining the demon'. This form is thus evolved :- दित्य + वाह् + ङीष् = दित्य + ऊठ् + आह् + ङीष् ((6.4.132) वाह ऊठ्, *Uth* is the *samprasarana* of *vah*, when this is a *bha*) = दित्य + ऊह् + ङीष् (6.1.108) संप्रसारणाच्च 'after a *samprasarana* if a vowel follow, the form of the prior is the single substitute'), = दित्यौही ((6.1.89) एत्येधत्यूठ्सु '*vriddhi* is the single substitute when *eti*, *edhati* or *uth* follow'). Similarly प्रष्ठौही 'a young heifer training for the plough.' Kashika ------- ङीषेव स्वर्यते, न ङीप् । वहेरयं ण्विप्रत्ययान्तस्य निर्देशः। सामर्थ्यात् तदन्तविधेर्विज्ञानम्। वाहन्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति। दित्यौ॒ही (तै०सं० ४.७.१०.१)। प्रष्ठौही॥ Siddhanta Kaumudi ----------------- वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥ Balamanorama ------------ **वाहः** - वाहः । 'वाह' इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणं, तदन्तविधिः । तदाह — वाहन्तादिति । ङीषेवानुवर्तत इति । 'अन्यतो ङीष् इत्यत' इति शेषः । न ङीबिति । 'दिक्पूर्वपदात्' इति पूर्वसूत्रे संनिहितमपि ङीब्ग्रहणमिह नानुवर्तते, अस्वरितत्वादित्यर्थः । स्वरे विशेषः । दित्यौहीति । गवां तावत् षण्मासात्मकमेकैकं वयः ।गर्भाश्च मे वत्साश्च मे॑ इत्यनुवाके अनुक्रान्तानि वयांसि । तत्र तृतीयं वयो दित्यशब्देनोच्यते, इति यजुर्वेदभाष्ये, भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम् । दित्यं वहतीति विग्रहेच्छन्दसि सहः॑,वहश्चे॑ति ण्विः, उपधावृद्धिः, उपपदसमासः । दित्यवाह्शब्दात् ङीष् ।वाह ऊठ् । 'एत्येधत्यूठ्सु ' इति वृद्धिः, दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविषयत्वाद्वेदवाक्यमुदाहृतम् । सोके तु वाहयतेः क्विपि, वाह्शब्दात् ङीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमेप्येतत्सूत्रमेतदर्थमिहोपन्यस्तम् । Tattvabodhini ------------- **वाहः** - वाहः । ण्विप्रत्ययान्तस्य वहेरनुकरणमिदम् ।वहश्चे॑त्यनेन कर्मण्युपपद एव वहेर्ण्विप्रत्ययविधानात्केवलस्य संभवो नास्तीति सामर्थ्यात्तदन्तविधिरित्यभिप्रेत्याह — वाहन्तादिति । न ङीबिति । अस्वरितत्वादिति भावः । दित्यौहीति । ङीषि भसंज्ञायांवाह ऊठ्,संप्रसारणाच्च॑इति पूर्वरूपम् ।एत्येधत्यूठ्सु॑इहि वृद्धिः । Padamanjari ----------- सामर्थ्यादिति । कर्मण्युपपदे वहेर्ण्विधानात्केवलस्य वाहः सम्भवो नास्तीत्येतत्सामर्थ्यम् । दित्यौहीति ।'च्छन्दसिसहः' ,'वहश्च' इति ण्विः, उपधावृद्धिः, ङीषि'वाह ऊठ' , तत्र सम्प्रसारणमित्यनुवृतेः'सम्प्रसारणाच्च' इति पूर्वरूपत्वम्, ठेत्येधत्यूठ्सुऽ इति वृद्धिः ॥ Prakriyasarvasvam ----------------- वाहन्ताद् ङीष् स्यात् । 'वहश्च' (३-२-६४) इति च्छान्दसण्विप्रत्ययस्य लोकेऽपीष्टत्वाद् भारवाह—ई'वाह ऊठ्' (६-४-१३२) इति वस्योठ्, पूर्वरूपम् । 'एत्येधति—' (६-१-८९) इति वृद्धिः । भारौही ॥