41057: सहनञ्विद्यमानपूर्वाच्च ============================= **Padacheda:** सह-नञ्-विद्यमान-पूर्वात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ङीष् does not come in the feminine after a प्रातिपदिक (Nominal Stem) denoting a part of the body when the word is subordinate in a compound, preceded by the word 1. सह 'with' 2. नञ् 'not' or 3. विद्यमान 'having'. Vasu English Translation ------------------------ The affix ङीष् does not come in the feminine after a प्रातिपदिक (Nominal Stem) denoting a part of the body when the word is subordinate in a compound, preceded by the word 1. सह 'with' 2. नञ् 'not' or 3. विद्यमान 'having'. Thus सकेशा, अकेशा विद्यमानकेशा ॥ So also सनासिका अनासिका or विद्यमाननासिका ॥ The last example shows, that the present rule governs also (4.1.55) *ante*: as well as (4.1.54). Kashika ------- **स्वाङ्गाच्चोपसर्जनाद्०** (४.१.५४) इति **नासिकोदरौष्ठजङ्घा०** (४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते। सह नञ् विद्यमान इत्येवंपूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। सकेशा। अकेशा। विद्यमानकेशा। सनासिका। अनासिका। विद्यमाननासिका॥ Siddhanta Kaumudi ----------------- सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥ Balamanorama ------------ **सहनञ्विद्यमानपूर्वाच्च** - सहनञ् । त्रिकपूर्वादिति ।स्वाङ्गा॑दिति शेषः । सकेशेति । सह केशा यस्या इति बहुव्रीहिः । सहशब्दो विद्यमानवचनः ।वोपसर्जनस्ये॑ति सभावविकल्पः ।स्वाङ्गाच्चे॑ति प्राप्तस्य निषेधः । 'नासिकोदर' इति ङीष्विकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाहरति — विद्यमाननासिकेति । विद्यमाना नासिका यस्या इति बहुव्रीहिः । Tattvabodhini ------------- **सहनञ्विद्यमानपूर्वाच्च** - सकेशाष अविद्यमानाः केशा यस्याः सा — अकेशा । Padamanjari ----------- पूर्वग्रहणमकृत्वा'सहनञ्विद्यमानेभ्यः' इत्युच्यमाने सहादिभ्यः परं यत्स्वाङ्गं तदन्तान्ङीष् न भवतीत्यर्थो भवति, ततश्चेह प्रतिषेधः प्रसज्येत - विद्यमानं मुखमस्य विद्यमानमुखः, कल्याणो विद्यमानमुखोऽस्याः कल्याणविद्यमानमुखीति, भवति ह्यएतद् यथोक्तविशेषणम्; इह च न स्याद् - विद्यमानकल्याणमुखेति, न ह्यत्र यथोक्तं विशेषणमस्ति, तस्मात्पूर्वग्रहणम् ॥ Nyaas ----- `सकेशा` इति। सह केशैर्वर्तत इति। `तेन सहेति तुल्योगे` (2.2.28) इति समासः। **वोपसर्जनस्य** (6.3.82) इति सहस्य सभावः। `अकेशा`इति। अविद्यमानाः केशा अस्येति, `नञोऽस्त्यर्थानां बहुव्रीहिरुत्तरपदलोपश्च` (वा।102) इति विद्यमानशब्दलोपः। अथ पूर्वग्रहणं किम्, सहनञ्विद्यमानादित्येवोच्येत, एतया हि पञ्चम्या स्वाङ्गे विशेष्यमाणे सहादिपूर्वता लभ्यत एव? नैतदेवम्; पञ्चमी हि परत्वेन स्वाङ्गं विशेषयेत् - सहादिभ्यः परं यत् स्वाङ्गमिति। ततश्च सहादिभ्यः परेण स्वाङ्गेनान्यस्यापि कल्याणं विद्यमानमुखमस्या इति विग्रहः। अथ वा - विद्यमानं मुखं यस्य स विद्यमानमुखः, कल्याणो विद्यमानमुखो यस्या इति विग्रहः। पूर्वग्रहणे सति पूर्वशब्दस्यावयववाचित्वात् सहादिपूर्वत्वेन प्रातिपदिकं विशेष्यत इति सहाद्यवयवं यत् स्वाङ्गान्तं प्रातिपदिकं तस्मादिति विज्ञायमाने नात्र प्रतिषेधो भवति, न ह्रेतत् सहाद्यवयवमेव। किं तर्हि? कल्याणशब्दावयवमिति न भवत्यनिष्टप्रसङ्गः॥ Prakriyasarvasvam ----------------- एतत्पूर्वात् स्वाङ्गान्न ङीष् । सहकेशा । अनासिका । विद्यमानोदरा ॥