41044: वोतो गुणवचनात्
=====================
**Padacheda:** वा | S | 0 | 0 |
उतः | S | 5 | 1 |
गुण-वचनात् | S | 5 | 1 |
Sutrartha
---------
**उकारान्त-गुणवाचकशब्दात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः विधीयते ।**
**स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः **ङीष्** इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **यः उकारान्तः शब्दः गुणवाचकः अस्ति, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीष्-प्रत्ययः भवति** — इति अस्य सूत्रस्य अर्थः । कानिचन उदाहरणानि एतानि —
1. लघु + ङीष् → **लघ्वी** । यथा, 'लघ्वी च असौ सिद्धान्तकौमुदी च = लघुसिद्धान्तकौमुदी' ।
2. गुरु + ङीष् → ** गुर्वी** । यथा, 'गुर्वी तस्याः कामावस्था' ।
3. पृथु + ङीष् → **पृथ्वी** ।
4. बहु + ङीष् → **बह्वी** ।
5. पटु + ङीष् → **पट्वी** ।
6. मृदु + ङीष् → **मृद्वी** ।
7. साधु + ङीष् → **साध्वी** ।
8. उरु + ङीष् → **उर्वी**
**प्रकृतसूत्रेण उक्तः ङीष्-प्रत्ययः विकल्पेन एव भवति, अतः पक्षे "लघु", "गुरु", "पृथु" आदयः शब्दाः तादृशाः एव स्त्रीलिङ्गे अपि प्रयुज्यन्ते** । यथा, "लघुः रात्रिः", "गुरुः व्याख्या" — इत्यादयः ।
**दलकृत्यम्**
1.**'उकारान्तशब्दात्' इति किमर्थम् ?** — "शुचि" इति इकारान्त-गुणवाचकशब्दात् प्रकृतसूत्रेण ङीष्-प्रत्ययः न भवति । यथा, "शुचिः ब्राह्मणी" ।
2. **'गुणवचनात्' इति किमर्थम् ?** — "आखु" इति उकारान्तशब्दः गुणवाचकः नास्ति, अतः अस्मात् शब्दात् प्रकृतसूत्रेण ङीष्-प्रत्ययः न भवति ।
**वार्त्तिकद्वयम्**
प्रकृतसूत्रस्य भाष्ये द्वे वार्त्तिके पाठिते स्तः —
1. — **"वसु" (निर्मलता) इति गुणवाचकशब्दात् ङीप्-प्रत्ययः भवति** — इति अस्य वार्त्तिकस्य अर्थः । यथा, "वसु + ङीप् → वस्वी" । ङीष्-प्रत्ययेन अन्तोदात्तशब्दस्य निर्माणं भवेत्, परन्तु "वस्वी" इति शब्दः आद्युदात्तः अस्ति; अतः तस्य निर्माणार्थम् ङीप्-प्रत्ययः इष्यते । तस्यैव विधानम् अनेन वार्त्तिकेन कृतम् अस्ति ।
2. — **"खरु" (उत्कण्ठा) इति शब्दात्, तथा च यस्मिन् शब्दे उपधायाम् संयोगः अस्ति तादृशात् शब्दात् प्रकृतसूत्रेण ङीष्-प्रत्ययः न भवति** — इति अस्य वार्त्तिकस्य आशयः । यथा, " खरुः ब्राह्मणी" । या कन्या पतिंवरा अस्ति, इत्युक्ते स्वस्य पत्युः स्वयमेव चयनं करोति, सा "खरुः" नाम्ना ज्ञायते । एवमेव "पण्डुः ब्राह्मणी" अत्र संयोगोपधत्वात् ङीष्-प्रत्ययः न भवति ।
**'गुणवाचकः' इत्यस्य अर्थः**
व्याकरणशास्त्रं शब्दानां सामान्यरूपेण चतुर्षु गणेषु विभाजनं कृतम् अस्ति — जातिवाचकशब्दाः, गुणवाचकशब्दाः, क्रियावाचकशब्दाः, तथा च संज्ञावाचकशब्दाः । एतेभ्यः गुणवाचकशब्दानां विषये प्रकृतसूत्रम् प्रवर्तते ।**आ कडारादेका संज्ञा** (1.4.1) अस्य सूत्रस्य भाष्ये अन्ते भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतं लभ्यते । तत्र — **समास-कृदन्त-तद्धितान्त-अव्यय-सर्वनाम-जाति-संख्या-संज्ञाशब्द-व्यतिरिक्तम् अर्थवद् शब्दस्वरूपम् गुणवचनसंज्ञं भवति** इति भाष्यकारस्य आशयः वर्तते । प्रकृतसूत्रस्य भाष्ये अपि एकया कारिकया गुणवाचकशब्दानां व्याख्या भाष्ये दत्ता दृश्यते —
सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः
पादशः अर्थः —
(i) **सत्त्वे निविशते, अपैति**— गुणः इत्युक्ते सः पदार्थः यः नित्यं द्रव्ये एव तिष्ठति (द्रव्यात् पृथक्, स्वतन्त्ररूपेण नैव भवितुम् अर्हति), परन्तु तस्य नाशः तु अवश्यं सम्भवति (इत्युक्ते, एकवारं द्रव्ये दृश्यते चेत् सर्वदा तत्र भवेद् एव इति न आवश्यकम् ) । यथा, आम्रस्य हरितवर्णः, आम्लता वा आम्रस्यैव आधारेण विद्यते परन्तु गच्छता कालेन तस्मात् अवश्यं दूरी भवति (निर्गच्छति) ।
(ii) **पृथग् जातिषु दृश्यते** — गुणः इत्युक्ते सः पदार्थः यः भिन्नासु जातिषु दृश्यते । यथा, शुक्लत्वगुणः घटे अपि भवति, पटे अपि भवति, धेनौ अपि भवति, मेघे अपि भवति । जातित्वं तु एकस्यां जातौ एव विद्यते; अतः गुणः जातेः अपि भिन्नः ज्ञेयः — इति आशयः ।
(iii) ** आधेयश्च अक्रियाजश्च** — गुणः इत्युक्ते सः पदार्थः यः कुत्रचित् क्रियया जायते, कुत्रचित् क्रियां विना अपि जायते । यथा, घटस्य रक्तवर्णः अग्निना सह संयोगे कृते दाहेन सिद्ध्यति, परन्तु आकाशस्य 'महत्त्वम्' इति गुणः न हि कयाचित् क्रियया सिद्ध्यति । अतः क्रियया गुणः भिन्नः अस्ति इत्याशयः ।
(iv) ** सः असत्त्वप्रकृतिः गुणः** — गुणः इत्युक्ते सः पदार्थः यः यद्यपि द्रव्यस्यैव आधारेण तिष्ठति तथापि द्रव्यभिन्नः अस्ति । वस्तुतः पूर्वोक्तैः त्रिभिः विशेषैः अपि गुणात् द्रव्यस्य भिन्नत्वं न हि सिद्ध्यति, अतः अत्र चतुर्थे पादे अयं स्पष्टः निर्देशः आवश्यकः वर्तते । अस्य स्पष्टीकरणम् एतादृशम् — द्रव्यम् (यथा, नासिका, हस्तौ, पादौ, मुखम् इत्यादयः) अपरे द्रव्ये (यथा, शरीरे) तिष्ठति, परन्तु तस्य नाशः अपि सम्भवति । एकमेव द्रव्यं (यथा, नासिकादिकम्) पृथक् जातिषु दृश्यते । तथैव द्रव्यम् (यथा, नासिकादिकम्) उत्पाद्यम् अपि अस्ति, तथैव किञ्चित् अन्यद् द्रव्यम् (यथा, आकाशः) अनुत्पाद्यम् अपि अस्ति । अनेन प्रकारेण द्रव्यम् अपि पूर्वोक्तैः त्रिभिः विशेषैः ग्रहीतुम् शक्यम् । एतादृश्याः अतिव्याप्तेः निर्मूलनार्थम् एव अस्मिन् चतुर्थे पादे "द्रव्यभिन्नः पदार्थः गुणः" इति स्पष्टः निर्देशः कृतः दृश्यते ।
अनेन प्रकारेण द्रव्यभिन्नः ,जातिभिन्नः, क्रियाभिन्नः च पदार्थः गुणसंज्ञकः भवति — इति अस्याः कारिकायाः आशयः ।
अस्मिन्नेव सन्दर्भे भाष्यकारेण अन्यः अपि कश्चन श्लोकः निर्दिष्टः वर्तते —
उपैत्यन्यज्जहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि ।
वाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृतः॥
पादशः अर्थः —
(i) **उपैति अन्यत्, जहाति अन्यत्**— गुणः इत्युक्ते सः पदार्थः कदाचित् द्रव्यस्य आश्रयं स्वीकरोति; कदाचित् द्रव्यस्य आश्रयं त्यजति ।
(ii)** दृष्टः द्रव्यान्तरेषु अपि** — गुणः इत्युक्ते सः पदार्थः यः भिन्नेषु पृथक् द्रव्येषु (सजातीयेषु विजातीयेषु च) दृश्यते ।
(iii) **वाचकः सर्वलिङ्गानाम्** — गुणः इत्युक्ते सः पदार्थः यः लिङ्गवाचकः अस्ति (लिङ्गस्य निर्देशं करोति, अतः क्रियाभिन्नः अस्ति इत्याशयः) ।
(iv) **द्रव्याद् अन्यः गुणः स्मृतः** — गुणः इत्युक्ते सः पदार्थः यः द्रव्यभिन्नः अस्ति ।
अत्रापि द्रव्यभिन्नः, जातिभिन्नः, क्रियाभिन्नः च पदार्थः गुणसंज्ञकः भवति — इति विषयः स्पष्टीकृतः दृश्यते ।
Vasu English Summary
--------------------
The affix ङीष् is optionally used in the feminine after a word ending in short अ and being expressive of quality.
Vasu English Translation
------------------------
The affix ङीष् is optionally used in the feminine after a word ending in short अ and being expressive of quality.
The word गुणवचनः means what expresses quality: i.e. "words not being words formed by primitive or secondary affixes, or other words entitled to the name of *sankhya* or *sarvanaman*, or *jati*, or compound words, provided they are words denoting qualities and capable of being used as adjectives qualifying substantives as the word शुक्ल is, not as the word रूप, which though it expresses a quality, cannot be used as an adjective." (Guide to *Panini*). Thus from पटु 'dexterous', we have पट्वी or पटुः (without a feminine affix); so मृदुः or मृद्वी 'soft'. Why do we say 'ending in a short उ'? Observe शुचिरियं ब्राह्मणी 'this *Brahmana* lady is pure'. Why do we say "expressive of a quality? " Observe आखुः 'a mouse' (both masculine and feminine).
Vart:- After the word वसु when expressive of a quality, the affix *nip* is employed in the feminine; in order to make the first syllable acutely accented. As, वस्वी ॥ वसु is formed by उ (*Vn*. I.10) and is *adyudatta* because the उ is नित् ॥
Vart:- Prohibition must be stated after the word खरु, and words though ending in short उ, have conjunct consonant as penultimate. As खरुरियं ब्राह्मणी 'a *Brahmani* who chooses her own husband'. Similarly पाण्डु is both gender, as ण्ड् is a conjunct consonant. As पाण्डुरियं ब्राह्मणी ॥
The word *Guna* गुणः 'quality' has been thus defined:-
सत्वे निविशतेपैति पृथग् जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥
Bhashya
-------
वोतो गुणवचनात् (1305) (विकल्पाधिकरणम्) (जिज्ञासाभाष्यम्) गुणवचनादित्युच्यते, को गुणो नाम? (गुणलक्षणभाष्यम्) सत्वे निविशतेऽपैति पृथग् जातिषु दृश्यते। आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॥ (लक्षणान्तरभाष्यम्) अपर आह॥ उपैत्यन्यज्जहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि। वाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृतः॥ (5169 सिद्धान्तसाधकवार्तिकम्॥ 1 ॥) - गुणवचनान्ङीबाद्युदात्तार्थम् - (भाष्यम्) गुणवचनाद् ङीब्वक्तव्यः। किं प्रयोजनम्? आद्युदात्तार्थः। आद्युदात्ताः प्रयोजयन्ति -वस्वी, पट्वी॥ (5170 अतिव्याप्तिवारकवार्तिकम्॥ 2 ॥) - खरुसंयोगपधप्रतिषेधश्च - (भाष्यम्) खरुसंयोगोपधानां च प्रतिषेधो वक्तव्यः -खरुरियं ब्राह्मणी, पाण्डुरियं ब्राह्मणी॥
Kashika
-------
गुणमुक्त वान् गुणवचनः। गुणवचनात् प्रातिपदिकाद् उकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति। पट्वी, पटुः। मृद्वी, मृदुः। उत इति किम्? शुचिरियं ब्राह्मणी। गुणवचनादिति किम्? आखुः॥ वसुशब्दाद् गुणवचनाद् ङीबाद्युदात्तार्थम्॥ वस्वी॑॥ खरुसंयोगोपधात् प्रतिषेधो वक्त व्यः॥ खरुरियं ब्राह्मणी। पाण्डुरियं ब्राह्मणी।
सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॥
Siddhanta Kaumudi
-----------------
उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः किम् ? शुचिः । गुणेति किम् ? आखुः । (वार्तिकम्) ॥ खरुः पतिंवरा कन्या । पाण्डुः ॥
Laghu Siddhanta Kaumudi
-----------------------
उदन्ताद् गुणवाचिनो वा ङीष् स्यात्। मृद्वी, मृदुः॥
Balamanorama
------------
**वोतो गुणवचनात्** - वोतो गुणवचनात् । प्रातिपदिकादित्यनुवृत्तम् । वा उत इतिच्छेदः । उता गुणवचनस्य प्रातिपदिकस्य विशेषणात्तदन्तविधिः । तदाह — उदन्तादिति । वा ङीबिति । ङीषिति नात्रानुवर्तते ।गुणवचनान्ङीबाद्युदात्तार्थः॑ इति वार्तिकादिति भावः । मृद्वीति । मृदुशब्दान्ङीपि यण् । अत्र-॒सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॑ इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः । द्रव्यमात्रसमवेत इति यावत् । मात्रपदात्सत्ताजातिव्र्यवच्छिद्यते, तस्या द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वेऽतिव्याप्तिवारणाय आह — अपैतीति । कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः । द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह — आधेयश्चाक्रियाजश्चेति । आधीयते उत्पाद्यते इत्याधेयः=उत्पाद्यः, अक्रियाजः=अनुत्पाद्यः । उत्पाद्यत्वाऽनुत्पाद्यत्वाभ्यां द्विविध इति यावत् । गुणोनित्याऽनित्यभेदेन द्विविधो भवति । नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अप्युत्प#आद्यत्वान्नातिव्याप्तिरिति भावः । एवमपि द्रव्येऽतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वादसमवायिकारणसंयोगनाशे ततोऽपायात्, विजातीयपार्थिवाद्यवयवेषु सत्त्वात्, नित्याऽनित्यभेदसत्त्वाच्च । त आह — असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । त्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासत्ताद्भिन्नत्वमिति लब्धम् ।आधेयश्चाक्रियाजश्चे॑त्यनेन क्रियानिरासात्क्रियाभिन्नत्वं लब्धम् । असत्वप्रकृतीरित्यनेन द्रव्यस्य निरासाद्द्रव्यभिन्नत्वं लब्धम् । तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम् । समवेतत्वाऽभावादभावनिरासः । अत्रनित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॑ इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तद्भिन्नत्वमपि निवेश्यम् । 'आकडारादेक संज्ञा' इति सूत्रभाष्ये तुसमासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवती॑त्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्तस्य प्रपञ्चनपरं वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वाद्गुणवचनत्वाऽभाव इति वाच्यं, गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्रव्यवाचित्वस्यैव विवक्षितत्वात् । एवं च रूपशब्दस्य न गुणवचनता तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाऽभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणेगुणवचनेभ्यो मतुपो लुगिष्टः॑ इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ 'रूपो घटः' इत्यादिप्रयोगापत्तेः । प्रपञ्चितं चैदरूणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । शुचिरिति । शुक्लेत्यर्थः ।शुक्लशुभ्रशुचिओतविशदश्येतपाण्डराः॑ इत्यमरः । नच शुचिधातोःइगुपधात् कि॑दित्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम्, उणादीनामव्युत्पत्तिपक्षाश्रयणात् । आखुरिति । मूषिकेत्यर्थः । आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाऽभावान्न ङीप् ।खरुसंयोगापधान्ने॑ति वार्तिकम् । खरुश्च संयोगापधश्चेति समाहारद्वन्द्वः । खरुशब्दात् संयोगोपधाञ्चवोतो गुणवचनादि॑ति ङीप् नेत्यर्थः । खरुशब्दमप्रसिद्धत्वाद्व्याचष्टे — पतिंवरा कन्येति । पतिलाभोत्कण्ठावतीत्यर्थः । औत्कण्ठलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः । पाण्डुरिति । ओतेत्यर्थः । संयोगोपधत्वान्न ङीप् ।
Tattvabodhini
-------------
**वोतो गुणवचनात्** - गुणवचनात् । गुणो नाम नेहादेङ्रूपः,उतः॑इति विशेषणाद्वचनग्रहणाच्च, नापि विशेषणमात्रमिदम्, आखुद्र्रव्यमित्यादावतिप्रसङ्गादिति चेत् । अत्राहुः — ॒संज्ञाजातिक्रियाशब्दान् हित्वाऽन्ये गुणवाचिनः॑ ।चतुष्टयीशब्दानां प्रवृत्तिरित्याकरग्रन्थनिष्कर्षादेव निर्णयः॑ इति । भाष्ये तुसत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ।॑इति स्थितम् । सत्त्वं द्रव्यम् । सत्त्व एव निविशतो इति सावधारणं व्याख्येयम् । एतेनसत्ता व्यावर्त्त्यते । सा हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मसु । ननु द्रव्य एव द्रत्र्यत्वं वर्तत इति तत्राऽतिव्याप्तिरत आह -अपैतीति । अपगच्छतीत्यर्थः । अर्थात्सत्त्वादेव । यथा पीततायां जातायां फलादेर्नीलताऽपैति, नैवं द्रव्यत्वं द्रव्यादपैति । एवमपि गोत्वं गोषु वर्तते अआआदेश्चापैति तत्रातिव्याप्तिरत आह — पृथग्जातिषुदृश्यत इति । गोत्वं हि द्रव्यत्वाऽवान्तरनानाजातिषु न दृश्यते । गुणस्तु दृश्यते । यथा अम्रे दृष्टा नीलता तृणादिष्वपि दृश्यते । एतेन पूर्वार्धेन सकलजातेव्र्यवच्छेदः । एवं तर्हि कर्म द्रव्ये वर्तते ततोऽपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह — आधेयश्चाक्रियाजश्चेति । उत्पाद्योऽनुत्पाद्य इत्यर्थः । उत्पाद्यो — यथा घटादेः पाकजो रूपादिः । अक्रियाजोऽनुत्पाद्यः । स यथा आकाशादेर्महत्त्वादिः । क्रिया तु सर्वाप्युत्पाद्यैव न नित्येति तस्या द्वेविध्याऽभावाद्गुणत्वाऽभावाः । एवमपिल द्रव्यस्य गुणत्वं प्राप्नोति, अवयविद्रव्यं ह्रस्तपादादिषु दृश्यते, द्विविधं च भवति नित्याऽनित्यभेदेन, निरवयवस्याऽत्मपरमाण्वादेर्नित्यात्वादवयविद्रव्यस्य तु घटादेरनित्यत्वादत आह — असत्त्वपर्कृतिरिति । अद्रव्यस्वभाव इत्यर्थः । पतिवरेति । एवं च पाणिग्रहणोत्कण्ठाभिधायित्वाद्गुणवचनोऽयमिति भावः ।
Padamanjari
-----------
गुणमुक्तवान्गुणवचन इति ।'कृत्यल्युटो बहुलम्' इति भूते कर्तरि ल्युट्ंअ दर्शयति । स पुनर्यः प्राग्गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति वर्तते स वेदितव्यः । शुचिरिति । उत इत्यस्मिन्नसत्वेऽपि पट्वीत्यादिसिध्यर्थमेवात इत्यस्यासम्बन्धो व्याख्येयः, ततश्चेहापि प्रसङ्ग इति भावः । गुणवचनान्ङीबिति ।'मनोरौ वा' इत्यस्यानन्तरमिदं पठितव्यमित्यर्थः । उतरसूत्रम्'बह्वादिभ्यो वा' इति पठितव्यम् । आद्यौदातार्थमिति । आद्यौदातेषु गुणवचनस्य ङीब्विधानस्य प्रयोजनमित्यर्थः । अन्तोदातेषु ठुदातयणो हल्पूर्वात्ऽ इति ङीबप्युदात इति नास्ति विशेषः । आद्यौदातेषु तु ङीबनुदात एवावतिष्ठते । वस्वीति ।'शृस्वृस्निहि' इत्यादिना वसेरुप्रत्ययः, नित्वादाद्यौदातो वसुशब्दः, गुणवचनश्चायं नैर्मल्यवचनः । प्रशस्तवचन इत्यन्ये । तथा च - अतिशयेन वसुर्वसिष्ठो भवति पटुअशब्दोऽप्याद्यौदातः,'धान्ये नित्' इत्यधिकारे'फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च' इति उप्रत्ययः, फलेर्गुगागमः, पाटेश्च पटिरादेशः, फल्गुः, पटुअः, नाकुः, मधुः, जतु - इत्युदाहरणानि । मृदुशब्दस्त्वन्तोदातः,'म्रद क्षोदे' 'कुर्भ्रश्च' इत्यधिकारे'प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च' इति कुप्रत्ययः, पृथुः, मृदुः ।'भ्रस्जेः सलोपः सम्प्रसारणञ्च' , न्यङ्क्वादित्वात्कुत्वम्, भृगुः । खरुरीति ।'खरुः कन्या पतिवरा' इति निघण्टुअः, तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनत्वाम् । तपरकरणं किम् ? पटुअमिच्छति पटूअयति, पटूअयतेः क्विप्, पटूअः स्त्री - अत्र मा भूत् । यद्यप्ययं सम्प्रति क्रियावचनः, तथापि पूर्वं गुणमुक्तवानिति कृत्वा स्यात्प्रसङ्गः । इह ठुतः इति विशेषणाद्वचनग्रहणाच्च शास्त्रीयोऽदेङ्गुणो न गृह्यते । लोके तूपसर्जनं मुण उच्यते, शास्त्रेऽपि यस्य गुणस्य हि भावादिति विशेषणमात्रं गुणो गृह्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकादयस्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रतिपन्नाः; तदिह जिघृक्षितं गुणं लक्षयति - सत्वे निविशत इत्यादि । सीदन्त्यस्मिञ्जातिगुणक्रिया इति सत्वमुद्रव्यम् । तत्र यो निविशतेउसमवैति स गुणः ।'यो निविशते स गुणः' इत्युच्यमाने गुणक्रियाजात्योर्गुणत्वप्रसङ्गात्सत्व इत्युक्तम् । एवमपि सता जातिर्गुणः स्यात्, सा हि द्रव्यगुणकर्मसु त्रिष्वपि समवैति ? तदर्थं द्रव्य एवेत्यवधारणं द्रष्टव्यम् । एवमपि द्रव्यत्वजातिर्गुणः स्यात्सत्वे निवेशातत्रैव च निवेशात् ? इत्यत आह - अपैतीति । ततः सत्वादपैतिउअपगच्छति, क्वचिद्वा कदाचिद्वा न भवतीत्यर्थः । यथा - आम्रफले श्यामता पूर्वमुपैति, रक्ततायां तत्र जातायामपैति च द्रव्यत्वजातिस्तु सर्वदा द्रव्ये निविशते नापैति, यदि हि कदाचित्क्वचिद्वा न स्याद् द्रव्यमेवैतन्न स्यात् । एवमपि गोत्वादिजातिर्गुणः स्यात्, सा हि सत्वे निविशते, अपैति च, ततोऽश्वादिष्वभावअत् ? इत्यत आह - पृथग् जातिष्विति । पृथगिति पृथक्पदम्, पृथग्भूतासु जातिष्वित्यर्थः । जात्याधारेषु द्रव्योषु दृश्यमानो जातिषु दृश्यत इत्युपचर्यते, समासे तु सति'जात्यन्ताच्छः' इति नित्याधिकारपरिगणितश्च्छः प्रसज्येत । तदेवमुक्तलक्षणोपेतो यः पृथग्जातीयेषु दृश्यते स गुणः, न चैवंरूपा गोत्वादिजातिः । यद्यपि खण्डमुण्डादिरूपेण खण्डमुण्डादयः पृथग्जातीयाः, तथापि गोत्वेन तासामेकजातीयत्वमेव । ये त्वपैतीत्यस्य सत्येवाधारे तत्परित्यागमर्थमाहुः, तेषां'पृथग्जातिषु' इत्यनर्थकम् ; गोत्वादिजातेरप्यपैतीत्यनेनैव व्यावृत्तिसिद्धेः । तस्मात्पूर्वोक्त एवार्थः । एवमपि हि क्रिया गुणः स्यात्, सा हि द्रव्ये निविशते यदा सक्रियं तत्रैव च निविशते, अपैति च ततो यदा निष्क्रियं द्रव्यं पृथग्जातीयेषु गवाश्वादिषु दृश्यते ? अत आह - आधेयश्चेति । आधेयःउनिष्पाद्यः, यथा - पाकनिक्षिप्तेषु घटादिषु रक्तता गुणः । अक्रियाजःउअनुत्पाद्यः, यथा - तेजः परमाणुषु स एव रक्तता गुणः । तदेवमाश्रयभेदेनोत्पाद्यानुत्पाद्यस्वभावो गुण इति नित्योत्पाद्यस्य कर्मणो गुणत्वाभावः। एवमपि द्रव्यं गुणः प्राप्नोति, तदपि शरीरादिकं पादादिषु द्रव्येष्वेव पृथग्जातीयेषु निविशते संयोगविनाशे च ततोऽपैति, आधेयं चाक्रियाजम्, अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेश्चानुत्पाद्यत्वादित्यत आह - सोऽसत्वप्रकृतिर्गुण इति । य उक्तलक्षणोपेतः सत्वप्रकृतिर्न भवतिउद्रव्यस्वभावको न भवति, स गुण इत्यर्थः । अत्रोतरार्द्धेनैव सर्वजातीनां व्यावृत्तिसिद्धेः पूर्वार्द्धं व्यर्थम्, जातीनां नित्यत्वेनोत्पाद्यत्वाभावात् ? नैतदेवम् ; असति पूर्वार्द्धे न जातिर्व्यावर्तते, यथा - तैजसानां परमाणूनां यद्रूपम्, यच्चेष्टकादिपाक्यद्रव्यगतम् - तदुभयं मिलतमुत्पाद्यानुत्पाद्यस्वभावमित्युभयोरपि गुणत्वं भवति, न पुनः प्रत्येकम्; उभयस्वभावत्वात् । तथा पाक्यद्रव्यरूपं जातिश्च - इत्युभयं मितितमुत्पाद्यानुत्पाद्यस्वभावमिति जातिरपि गुणः स्यादेव, न हि सजातीयत्वे सतीति विशेषणमुपातम्, अतः पूर्वार्द्धेन जातिव्यावृत्तिः । नन्वेवमपि'पृथग्जातिषु दृश्यते' इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात्'सत्वे निविशते' इति स्वभावकथनम् । ततः ठपैतिऽ'पृथग्जातिषु दृश्यते' इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । नन्वेवमपि'पृथग्जातिषु दृश्यते' इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात्'सत्वे निविशते' इति स्वभावकथनम् । ततः ठपैतिऽ'पृथग्जातिषु दृश्यते' इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । तदेवम्'सत्वे निविशते अपैति आदेयश्चाक्रियाजश्च' इत्येकं लक्षणम् ।'सत्वे निविशते पृथग्जातिषु' इत्यादिकं चापरमिति लक्षणद्वयमनुसर्तव्यम् ॥
Nyaas
-----
`गुणमुक्तवान् गुणवचनः` इति। भूते काले ल्युटो विधानात्। स पुनर्यः प्राग् गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वद्द्रव्यमभिधत्ते स वेदितव्यः। `पट्वी, मृद्वी` इति। अत्र पटुत्वं मृदुत्वञ्च यताक्रमं गुणमभिधाय पटुमृदुशब्दौ तद्वति द्रव्ये वर्तेते इति गुणवचनौ भवतः।`शुचिः` इति। शुचिशब्दः शुचित्वे गुणे वर्त्तित्वा द्रव्ये वर्तत इति गुणवचनः, न तूकारान्तः। `आखुः` इति। जातिवचनोऽयम्, न गणवचनः।`गुणवचनान्ङीबाद्युदात्तार्थम्` इति। गुणवचनान्ङीब्विधेयः, न ङीष्। स्वरे विशेषः। किमर्थम्? आद्युदात्तार्थम्। अन्तोदात्तेषु **उदात्तयणो हल्पूर्वात्** (6.1.174) इत्युदात्तत्वमीकारस्य विधीयत इति नास्ति विशेषो ङीब्ङीषोः। आद्युदात्तेषु तु ङीबनुदात्त एवावतिष्ठते, तस्मात् तदर्थं ङीब्विधेयः। ननु च ङीष् प्रकृतः, तत् कथं ङीप् शक्यते विधातुम्? नैष दोषः; ङीबेव ह्यत्र मण्डूकप्लुतिन्यायेनानुवर्तते, न ङीष्; अस्वरितत्वात्। `वस्वी` इति। `वस निवासे` (धातुपाठः-1942) `भृमृशीतृचरित्सरितनि{धनि-नास्ति-द।उ।} धनिमिमस्जिभ्य उः` (द।उ।1।92) इति वर्तमाने `धान्ये नित्` (द।उ।1।94) इति च शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च` (द।उ।1।95) इत्युप्रत्ययः, निच्च, नित्त्वादाद्यदात्तत्वं भवति। गुणवचनश्चायं वसुशब्दः, वसुत्वे गुणे वर्त्तित्वा तद्वति द्रव्ये वर्तत इति कृत्वा। पटुशब्दोऽप्याद्युदात्तत्वान्ङीपं प्रोजयति। `अट पट गतौ` (धातुपाठः-296,297), हेतुमण्णिच्, `फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च` (द।उ।1।103) इत्युप्रत्ययः, पाटेश्च पटिरादेशः, `धान्ये नित्` (द।उ।1।94) इत्यनुवृत्तेर्नत्वादाद्युदात्तत्वम्। मृदुशब्दश्च प्रत्ययस्वरेणान्तोदात्त इति, तत्र ङीपो ङीषो वा विशेषो नास्ति। `म्रद मर्दने` (धातुपाठः-767), `कुभ्र्रश्च` (द।उ।1।107) इत्यतः कुरित्यनुवर्तमाने `प्रथिम्रदिभ्रस्जां सम्प्रसारणं च` (द।उ।1।113) इति कुप्रत्ययः, सम्प्रसारणं च भवति।`खरुसंयोगोपधप्रतिषेधः` इति। खरुशब्दात् संयोगोपधाश्च प्रतिषेधः। स तु वेत्यस्य व्यवस्थितविभाषाविज्ञानादेव लभ्यत इति वक्तव्यमिति। `उतः` इति तपरकरणं दीर्घनिवृत्त्यर्थम्, तेन पटुरित्यत्र न भवति। पटुमिच्छतीति `सुपः आत्मनः क्यच्` (3.1.8) , `अकृत्सार्वधातुकयोः` (7.4.25) इति दीर्घः। पटू य इति स्थिते क्विप्, **अतो लोपः** (6.4.48) इत्यकारलोपः, **लोपो व्योर्वलि** (6.1.66) इति यकारस्य लोपः। इह `उतः` इति विशेषणोपादनादेव शास्त्रीयगुणस्यापरिग्रहः सिद्धः म ह्रेदेङ्गां मध्ये कश्चिदुकारान्तोऽस्ति। लोके तु क्वचिदुपसर्जनं गुण इत्यभिधीयते, यथा - गुणभूता वयमिति, अप्रधानभूता इति गम्यते। यस्य गुणस्य हि भावात् तद्वति द्रव्यशब्दे निवेशस्तदभिधाने त्वतलावित्यत्र विशेषणमात्रं गुणशब्देनोच्यते, तथा हि, जातावपि भावप्रत्ययो भवति - इह तु यादृशो गुण इष्यते तादृशं परिभाषितुमाह - `सत्त्वे निवशतेऽपैति` इत्यादि। व्यवच्छेदफलकत्वात् सर्ववाक्यानां सत्तव एवेत्यवधारणं द्रष्टव्यम्। सत्त्वम् = द्रव्यम्, तत्रैव निविशते, तदेवाश्रयतीत्यर्थः। अपैति = ततः सत्त्वादपगच्छथि, यथा - आम्रफले श्यामता पूर्वमुपैति, रक्ततायामुपजातायां ततोऽपैति। `पृथग्जातिषु दृश्यते` (इति)। पृथक् = नाना जातयो येषां ते पृथग्जातयः, अतस्तेषु पृथग्जातिषु दृश्यते। न हि गोत्वमआआदिषु व्यक्तिषु दृश्यते। गोव्यते। गोव्यक्तौ दृष्टः शङ्खादावपि शुक्लादिर्गुणौ दृश्यते। एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं भवति। न हि जातिद्र्रव्यमेवाश्रयति। यथा हि सत्ता द्रव्यगुणकर्मसु त्रिष्वपि वर्तते, द्रव्यत्वं द्रव्य एव, कर्मत्वं कर्मण्येव, गुणत्वं गुण एव, नापि द्रव्यवर्तिनी जातिः सत्त्वादपैति; जन्मनः प्रभृत्या विनाशात्तस्याधारद्रव्यापरित्यागात् न जातिः पथग्जातिषु दृश्यते। न हि गोत्वमआआदिव्यक्तिषु दृश्यते, नाप्यआत्वं गवादिष्विति नास्ति जातेर्गुणत्वप्रसङ्गः। कर्मणस्तु स्यात्; तदपि हि सत्त्व एव निवशिते यदा सक्रियं द्रव्यं भवति, अपैति च ततो यदा तु निष्क्रियं भवति। `पृथग्जातिषु दृश्यते` इति। घटपटादिषु दृश्यते। अतः रक्तता गुणः, स ह्रग्निसन्नियोगेन निष्पाद्यते। `अक्रियाजश्च` इति। क्रिया = व्यापारः, ततो जातः क्रियाजः, न क्रियाजोऽक्रियाजः = नित्यः, यथा - आकाशादिषु महत्त्वादिर्गुणः। तदेवं गुणस्योत्पाद्यत्वानुत्पाद्यत्वप्रकारद्वयदर्शनेन कर्मणो गुणत्वनिवृत्तिः कृता भवति। तद्ध्युत्पाद्यमेव, नानुत्पाद्यम्। एवमपि द्रव्यस्य गुणत्वं प्राप्नोति,तस्यापि ह्रेते धर्मा विद्यन्ते।तथा हि - तदपि यदि द्रव्य एवारम्भकेऽवयवभूते निविशते, अपैति च ततः, यथा - शरीरमवयवीति। तद्धि हस्तपादादिष्ववयवेषु समवैति; तद्विनाशे च विनाशात् ततोऽपैति। पृथग्जातिषु दृश्यते, हस्त्यादिषु दृश्यते। द्रव्यस्यापि पूर्वोक्तं प्रकारद्वयमस्त्येव। अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेस्तद्वदनुत्पाद्यत्वात्? इत्यत आह - `सोऽसत्त्वप्रकृतिर्गुणः`इति। प्रकृतिः = स्वभावः। सत्त्वं द्रव्यं प्रकृतिर्यस्य स सत्त्वप्रकृतिः, न सत्त्वप्रकृतिरसत्त्वप्रकृतिः। यथोक्तैर्धर्मैर्युक्तो यो द्रव्यस्वभावो न भवति स गुणः। द्रव्यम् = द्रव्यस्वभावम्, अतो गुणो न भवति॥
Praudhamanorama
---------------
**पतिंवरेति।** तथा च पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनोऽयमिति भावः।
Prakriyasarvasvam
-----------------
उदन्ताद् गुणवचनाद् वा ङीष् । मृद्वी, मृदुः । खरोः संयोगोपधाच्च न । खरुः परुषा पाणिग्रहोत्कण्ठावती वा । एवं पाण्डुः ॥
Vartika
-------
गुणवचनात् ङीबाद्युदात्तार्थम् ।
Sutra Prayogas
--------------
* **नितान्तगुर्वीं** (रघुवंशम्): `वोतो गुणवचनात्` इति ङीष्।
* **गुर्वी** (रघुवंशम्): `वोतो गुणवचनात्` इति ङीष्।
* **अनन्यगुर्वाः** (शिशुपालवधम्): `वोतो गुणवचनात्` इति ङीष् न प्राप्नोति।
* **तनुः** (शिशुपालवधम्): `वोतो गुणवचनात्` इति विकल्पादनीकारः।
* **तनुः** (भट्टिकाव्यम्): `वोतो गुणवचनात्` इति ङीबभावपक्षे रूपम्।
* **तनु** (भट्टिकाव्यम्): `वोतो गुणवचनात्` इति ङीपो विकल्पः।
* **गुरुर्** (भट्टिकाव्यम्): `वोतो गुणवचनात्` इति वा ङीप् न भवति।
* **गुरुम्** (भट्टिकाव्यम्): `वोतो गुणवचनात्` इति विकल्पेन ङीष्।