41043: शोणात् प्राचाम् ====================== **Padacheda:** शोणात् | S | 5 | 1 | प्राचाम् | S | 6 | 3 | Sutrartha --------- **'शोण' इति शब्दात् स्त्रीत्वं द्योतयितुम् प्राचाम् आचार्याणाम् मतेन ङीष्-प्रत्ययः भवति ।** **शोणः** (अधिकरक्तवर्णः, intense red color) अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् **अन्यतो ङीष्** (4.1.40) इति सूत्रेण नित्यं ङीष्-प्राप्ते प्रकृतसूत्रेण सः विकल्प्यते । **पूर्वदिशि विद्यमानानाम् आचार्याणां मतेन एव "शोण"-शब्दात् ङीष्-प्रत्ययः भवति** — इति अस्य सूत्रस्य अर्थः । ङीष्-प्रत्यये कृते "शोण + ङीष् → शोणी" इति सिद्ध्यति । पक्षे अजन्तलक्षणः टाप्-प्रत्ययः अपि विधीयते, येन "शोणा" इति रूपं सिद्ध्यति । Vasu English Summary -------------------- The affix ङीष् is used in the feminine according to the opinion of the Eastern Grammarians after the word शोण। Vasu English Translation ------------------------ The affix ङीष् is used in the feminine according to the opinion of the Eastern Grammarians after the word शोण। Thus शोणी or शोणा वडवा 'a red or bay mare'. By *Phit* *Sutra* II.10 referred to already in (4.1.39) the *udatta* in शोणा falls on the first syllable, and by (4.1.40) it would have taken ङीष् always; but the present *sutra* makes a *niyama* rule and restricts the application of ङीष् according to the opinion of Eastern Grammarians only, and not of others. Kashika ------- शोणशब्दात् प्राचामाचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा, वडवा॥ Siddhanta Kaumudi ----------------- शोणी । शोणा ॥ Balamanorama ------------ **शोणात् प्राचाम्** - शोणात्प्राचाम् ।रोहितो लोहितो रक्तः शोणः कोकनदच्छविः॑ इत्यमरः ।वर्णानां तणतिनितान्ताना॑मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः ।अन्यतो ङी॑षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम् । Tattvabodhini ------------- **शोणात् प्राचाम्** - शोणात् ।शोणः कोकनदच्छवि॑रिति कोशाच्छोणशब्दस्य वर्णवाचित्वात्वर्णानां तणे॑त्याद्युदात्ततयाअन्यतो ङी॑षिति सिद्धेऽपि प्राचामेव ङीष् नान्येषामिति नियमार्थमिदम् । Padamanjari ----------- शोणशब्दोऽयं वर्णवाची'वर्णानां तणतिनितन्तानाम्' इत्याद्यौदातः, तत्र ठन्यतो ङीष्ऽ इत्येव सिद्धे नियमार्थं वचनम् - प्राचामेव नान्येषामिति ॥ Nyaas ----- शोणशब्दोऽयं वर्णवचनः। `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इतिवचनादाद्युदात्तः। तत्र **अन्यतो ङीष्** (4.1.40) इति सिद्धे वचनं नियमार्थम् - प्रचामेद यथा स्यात्, अन्येषां मा भूदिति॥