41041: षिद्गौरादिभ्यश्च
=======================
**Padacheda:** षित्-गौर-आदिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha
---------
**षित्-प्रातिपदिकेभ्यः, गौरादिगणस्य च शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीष् इति प्रत्ययः विधीयते ।**
**स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः **ङीष्** इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **येषु प्रातिपदिकेषु षकारः इत्संज्ञकः अस्ति तेभ्यः प्रातिपदिकेभ्यः, तथा च गौरादिगणे पाठितेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् 'ङीष्' इति प्रत्ययः विधीयते** — इति अस्य सूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् —
1. षिद्भ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।
प्रातिपदिकेषु विद्यमानं षित्वं तेभ्यः विहितस्य प्रत्ययस्य आधारेण सम्भवति । अतः **यानि प्रातिपदिकानि षित्-प्रत्ययस्य योजनेन सिद्ध्यन्ति, तेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति** इति अस्य अंशस्य अर्थः । त्रीणि उदाहरणानि एतानि —
1. "पथिन्" इत्यस्मात् शब्दात् **पथः ष्कन्** (5.1.75) इति सूत्रेण ष्कन्-प्रत्यये कृते "पथिक" इति शब्दः सिद्ध्यति । एतादृशः प्राप्तः "पथिक" इति शब्दः षित्-प्रत्ययान्तः अस्ति अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्यये कृते "पथिकी" इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
.. code-block:: text
पथिक + ङीष् [स्त्रीत्वं द्योतयितुम् **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ पथिक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ पथिकी
2. **नृतीँ** (गात्रविक्षेपे, (4.10 )) अस्माद् धातोः **शिल्पिनि ष्वुन्** (3.1.145) इति सूत्रेण ष्वुन्-प्रत्यये कृते "नर्तक" इति शब्दः सिद्ध्यति । प्रत्ययस्य षित्त्वात् "नर्तक" इति शब्दः अपि षित् स्वीक्रियते; अतः अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययः भवति । "नर्तक + ङीष् → नर्तकी" ।
3. **वृङ्** (सम्भक्तौ, (9.45)) अस्माद् धातोः **जल्पभिक्षकुट्टलुण्टवृङः षाकन्** (3.2.155) इति सूत्रेण षाकन्-प्रत्यये कृते "वराक" इति शब्दः सिद्ध्यति । अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्यये कृते "वराक + ङीष् → वराकी" इति रूपं सिद्ध्यति ।
2. गौरादिगणस्य प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।
गौरादिगणे पाठितेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययः भवति ।
**गौरादिगणः एतादृशः** —
**गौरादिगणः** — गौर, मत्स्य, मनुष्य, हय, गवय, मुकय, ऋष्य, शृङ्ग, पुट, द्रुण, द्रोण, हरिण, कण, पटर, उकण, आमलक, कुवल, बदर, बिम्ब, तर्कार, शर्कार, पुष्कर, शिखण्ड, सुषम, सलन्द, गडुज, सृपाट, सृगेठ, आढक, शष्कुल, सूर्म, सुब, सूर्य, पूष, मूष, घातक, सकलूक, सल्लक, मालक, मालत, साल्वक, वेतस, अतस, पृस, मह, मठ, छेद, आनन्द, श्वन्, तक्षन्, अनडुही, अनड्वाही, **एषणः करणे** (*गणसूत्रम्*), देह, काकादन, गवादन, तेजन, रजन, लवण, पान, मेध, गौतम, आयस्थूण, भौरि, भौलिकि, भौलिङ्गि, औद्गाहमानि, आलिङ्गि, आपिच्छिक, आरट, टोट, नट, नाट, मलाट, शातन, पातन, पावन, सवन, आस्तरन, अधिकरण, एत, अधिकार, आग्रहायणी, प्रत्यवरोहिणी, सेवन, **सुमङ्गलात् संज्ञायाम्** (*गणसूत्रम्*), सुन्दर, मण्डल, पिण्ड, विटक, कुर्द, गूर्द, पट, पाण्ट, लोफाण्ट, कन्दर, कन्दल, तरुण, तलुन, बृहत्, महत्, सौधर्म, **रोहिणी नक्षत्रे** (*गणसूत्रम्*), **रेवती नक्षत्रे** (*गणसूत्रम्*) विकल, निष्फल, पुष्कल, **कटाच्छ्रोणिवचने** (*गणसूत्रम्*), **पिप्पल्यादयश्च** (*गणसूत्रम्*), मातामह, पितामह । **आकृतिगणोऽयम्** । इति गौरादिगणः ।
**गौरादिगणे निर्दिष्टः पिप्पल्यादिगणः अयम्** — पिप्पली; हरीतकी; कोशातकी; शमी; करीरी; पृथिवी; क्रोष्ट्री ।
**गौरादिगणे पाठितानां शब्दानां विषये अन्यैः सूत्रैः औत्सर्गिकरूपेण टाप्/ङीप्-प्रत्यये प्राप्ते; तद्बाधित्वा ङीष्-प्रत्ययः एव इष्यते; अतः तेषाम् ग्रहणम् अस्मिन् गणे कृतम् अस्ति** । कानिचन विशिष्टानि उदाहरणानि एतानि —
1. "गौर" इति शब्दः यद्यपि वर्णवाचकः अस्ति तथापि अस्य अन्तिमः अकारः उदात्तः अस्ति; अतः अस्मात् **अन्यतो ङीष्** (4.1.40) इत्यनेन ङीष्-प्रत्ययः नैव भवति । अतः अस्मात् ङीष्-प्रत्ययविधानार्थम् अस्मिन् गणे तस्य समावेशः क्रियते । प्रक्रिया इयम् —
.. code-block:: text
गौर + ङीष् [**षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ गौर् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ गौरी
2. "मत्स्य, मनुष्य, हय, गवय, मुकय, ऋष्य" एते सर्वे जातिवाचकशब्दाः सन्ति; परन्तु एते सर्वे यकारोपधाः शब्दाः अपि सन्ति; अतः एतेभ्यः **जातेरस्त्रीविषयादयोपधात्** (4.1.63) इति सूत्रं नैव प्रसज्यते; अतः एतेभ्यः तेन सूत्रेण ङीष्-प्रत्ययः न सम्भवति । एतेभ्यः अपि ङीष्-प्रत्ययः अवश्यम् इष्यते; अतः एतेषाम् गौरादिगणे समावेशः कृतः अस्ति । **वस्तुतस्तु, **जातेरस्त्रीविषयादयोपधात्** (4.1.63) इति सूत्रे एव इति वार्त्तिकं पाठ्यते, येन हय-गवयादीनां विषये ङीष्-प्रत्ययः अवश्यं भवति । अस्यैव वार्त्तिकस्य पुनर्निर्देशार्थम् गौरादिगणे एते शब्दाः पाठिताः सन्ति** । एतेषाम् ङीष्-प्रत्यये परे रूपाणि इत्थं सिद्ध्यन्ति —
(i) मत्स्य + ङीष् → मत्सी । प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपः तथा च **सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः** (6.4.149) इत्यत्र पाठितेन इति वार्त्तिकेन यकारस्य लोपः भवति ।
(ii) मनुष्य + ङीष् → मनुषी । प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपः तथा च **हलस्तद्धितस्य** (6.4.150) इति यकारस्य लोपः भवति ।
(iii) हय + ङीष् → हयी । प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपः भवति ।
(iv) गवय + ङीष् → गवयी । प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपः भवति ।
(v) मुकय + ङीष् → मुकयी । प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपः भवति ।
(vi) ऋष्य + ङीष् → ऋषी । प्रक्रियायाम् **यस्येति च** (6.4.148) इति अकारलोपः तथा च **हलस्तद्धितस्य** (6.4.150) इति यकारस्य लोपः भवति ।
3. "श्वन्, तक्षन्" एताभ्याम् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् एतयोः गौरादिगणे ग्रहणं कृतम् अस्ति । प्रकिये एतादृश्यौ —
.. code-block:: text
श्वन् + ङीष् [**षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ शून् + ई [**श्वयुवमघोनामतद्धिते** (6.4.133) इति सम्प्रसारणम् । **सम्प्रसारणाच्च** (6.1.108] इति पूर्वरूपम् ]
→ शूनी
तक्षन् + ङीष् [**षिद्गौरादिभ्यश्च** [[4.1.41) इति ङीष्]
→ तक्ष् न् + ई [**अल्लोपोऽनः** (6.4.134) इति अकारलोपः]
→ तक्ष्णी [**रषाभ्यां नो णः समानपदे** (8.4.1) इति णत्वम्]
4. "अनडुह्" इति शब्दः अदन्तः नास्ति अतः अस्मात् शब्दात् स्त्रीप्रत्ययप्रकरणस्य अन्यैः सूत्रैः कोऽपि स्त्रीप्रत्ययः नैव विधीयते । अस्यां स्थितौ, अस्मात् शब्दात् ङीष्-प्रत्ययविधानार्थम्, तदनुषङ्गेन च अस्य शब्दस्य वैकल्पिक-आम्-आगम-विधानार्थम् **अस्मात् शब्दात् ङीष्-प्रत्यययोजनं कृत्वा एव " अनडुही, अनड्वाही" इत्थम् अस्य गौरादिगणे ग्रहणं कृतम् अस्ति** । प्रक्रिया एतादृशी —
.. code-block:: text
अनडुह् + ङीष् [**षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ अनडुह् / अनडु आम् ह् + ङीष् [**चतुरनडुहोरामुदात्तः** (7.1.98) इत्यस्मिन् सूत्रे पाठितेन इति वार्त्तिकेन, अथ वा गौरादिगणे पाठसामर्थ्यात् अत्र आम् इति आगमः विधीयते । अस्य आगमस्य मकारः इत्संज्ञकः अस्ति; अतः **मिदचोऽन्त्यात्परः** (1.1.47) इत्यनेन अयम् आगमः अन्त्यात् अचः परः विधीयते ।]
→ अनडुही / अनड्वाही [**इको यणचि** (6.1.77) इति यणादेशः]
**अनयोः ङीष्-प्रत्ययान्तशब्दयोः अस्मिन् गणे कृतम् ग्रहणम् पुंवद्भावप्रतिषेधार्थम् अपि अस्ति इति न्यासकारेण अत्र स्पष्टीकृतं वर्तते ।** अतएव, "अनडुही भार्या यस्य सः = अनडुहीभार्यः" तथा च "अनड्वाही भार्या यस्य सः = अनड्वाहीभार्यः" इत्यत्र **स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु** (6.3.34) इत्यनेन प्राप्तः पुंवद्भावः नैव भवति ।
5. ** एषणः करणे ** (गणसूत्रम्) — इष्-धातोः, एष्-धातोः च **करणाधिकरणयोश्च** (3.3.117) इत्यनेन करणे, अधिकरणे च ल्युट्-प्रत्यये कृते "एषण" इति शब्दः सिद्ध्यति । अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इत्यनेन ङीप्-प्रत्ययः प्राप्नोति । अस्यां स्थितौ, **यदि ल्युट्-प्रत्ययः करणकारकस्य निर्देशार्थम् विहितः अस्ति, तर्हि ङीप्-प्रत्ययं बाधित्वा ङीष्-प्रत्ययः इष्यते; तदर्थं च इदं गणसूत्रम् निर्मितम् अस्ति ।** अतः करणकारके "एषण + ङीष् → एषणी" इति शब्दः सिद्ध्यति । अधिकरणकारके तु "एषण + ङीप् → एषणी" इत्येव रूपं भवति । उभयत्र यद्यपि रूपं समानमेव दृश्यते; तर्ह्यपि तयोः उच्चारणे भेदः वर्तते । ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः ज्ञेयः ।
6. "गौतम" इति शब्दः **शार्ङ्गरवाद्यञो ङीन्** (4.1.73) इत्यत्र पाठिते शार्ङ्गरवादिगणे विद्यते । अस्मात् शब्दात् **शार्ङ्गरवाद्यञो ङीन्** (4.1.73) इत्यनेन ङीन्-प्रत्यये नित्यं प्राप्ते; सः केवलं विकल्पेन एव इष्यते; पक्षे ङीष्-प्रत्ययः अपि इष्यते । अतएव अयं शब्दः गौरादिगणे अपि स्वीकृतः अस्ति । "गौतम + ङीष् → गौतमी" ।
7. **सुमङ्गलात् संज्ञायाम्** (गणसूत्रम्) — "सुमङ्गल"-शब्दात् स्त्रीत्वं द्योतयितुम् संज्ञानिर्देशार्थम् ङीष्-प्रत्ययः भवति, येन "सुमङ्गली" इति शब्दः सिद्ध्यति । संज्ञानिर्देशार्थम् एव **केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च** (4.1.30) इत्यनेन ङीप्-प्रत्ययः अपि विधीयते । भाषायां तु टाप् प्रत्ययः एव भवति ।
8. "तरुण, तलुन" आभ्यां शब्दाभ्याम् **वयसि प्रथमे** (4.1.20) इत्यत्र निर्दिष्टेन इति वार्त्तिकेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् एतयोः अस्मिन् सूत्रे ग्रहणं क्रियते । "तरुण + ङीष् → तरुणी" । "तलुन + ङीष् → तलुनी" ।
9. "बृहत्, महत्" एताभ्याम् **उगितश्च** (4.1.6) इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधं कृत्वा ङीष्-प्रत्ययविधानार्थम् एतयोः अस्मिन् गणे ग्रहणं क्रियते । " बृहत् + ङीष् → बृहती" । "महत् + ङीष् → महती" ।
10. **रोहिणी नक्षत्रे**, **रेवती नक्षत्रे** (गणसूत्रे) — "रोहित" तथा "रेवत" शब्दाभ्यां नक्षत्रस्य निर्देशार्थम् ङीष्-प्रत्ययः विधीयते — अनयोः गणसूत्रयोः अर्थः । यथा, "रोहित + ङीष् → रोहिणी (नक्षत्रम्)" । "रेवत + ङीष् → रेवती (नक्षत्रम्)" ।
11. **कटाच्छ्रोणिवचने** (गणसूत्रम्) — "कट"-शब्दात् शरीरस्य अवयवस्य निर्देशार्थम् ङीष्-प्रत्ययः भवति — इति अस्य गणसूत्रस्य अर्थः । "कट +ङीष् → कटी" । अन्यत्र टाप्-प्रत्यये कृते "कटा" इत्येव सिद्ध्यति ।
12. **पिप्पल्यादयश्च** (गणसूत्रम्) — पिप्पल्यादिगणे स्त्रीप्रत्ययस्य योजनं कृत्वा एव केचन शब्दाः पाठिताः सन्ति । एतेषु विद्यमानः स्त्रीप्रत्ययः ङीष् एव ज्ञेयः — इति अस्य गणसूत्रस्य अर्थः ।
13. "मातामह, पितामह" — एताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति । यथा, "मातामह + ङीष् → मातामही" । "पितामह + ङीष् → पितामही" ।
वस्तुतस्तु, **पितृव्यमातुलमातामहपितामहाः** (4.2.36) अस्मिन् सूत्रे दत्तेन अनेन वार्त्तिकेन पितृ-मातृ-शब्दाभ्याम् विहितः 'डामहच्' प्रत्ययः षिद् एव उक्तः अस्ति; अतः प्रकृतसूत्रेण षित्त्वात् एव एताभ्याम् ङीष्-प्रत्यये प्राप्ते एतयोः गौरादिगणे समावेशः व्यर्थः भवति । व्यर्थं सन् अयं ज्ञापयति — षित्-लक्षणः ङीष् अनित्यः अस्ति — इति । **कुत्रचित् षित्-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययः नैव विधीयते** — इति अस्य आशयः । अतएव **दंश्** (दशने, (1.1144)) इति धातोः **दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे** (3.2.182) इत्यनेन ष्ट्रन्-प्रत्यये कृते "दंश् + ष्ट्रन् = दंष्ट्र" इति सिद्धः यः "दंष्ट्र"-शब्दः, **तस्मात् ङीष्-प्रत्ययः न भवति अपितु **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययं कृत्वा "दंष्ट्रा" इत्येव शब्दः सिद्ध्यति ।**
गौरादिगणस्य प्रत्येकं शब्दस्य विषये कस्य प्रत्ययस्य बाधं कृत्वा ङीष्-प्रत्ययः विधीयते तत् न्यासे, पदमञ्जर्यां च विस्तरेण, सरलभाषया निर्दिष्टम् अस्ति । जिज्ञासुभिः सः विषयः तत्रैव द्रष्टव्यः ।
**अनुपसर्जनात् इत्यधिकारः**
प्रकृतसूत्रम् **अनुपसर्जनात्** (4.1.14) इत्यस्मिन् अधिकारे विद्यते । अतः यत्र षित्-शब्दाः, गौरादिगणस्य वा शब्दाः अनुपसर्जनरूपेण समासे विद्यन्ते; तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । अतएव "बहवः सुन्दराः यस्या सा" इत्यत्र बहुव्रीहिसमासेन प्राप्तात् "बहुसुन्दर" शब्दात् **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः एव भवति, येन "बहुसुन्दरा" इति शब्दः सिद्ध्यति ।
**ङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्**
ङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —
1. **इत्संज्ञकः ङकारः** सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । **ङ्याप्प्रातिपदिकात्** (4.1.1) इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।
2. **इत्संज्ञकः षकारः** सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने **ङ्याप्प्रातिपदिकात्** (4.1.1) इत्यत्र; तथा च **ङ्यापोः संज्ञाछन्दसोर्बहुलम्** (6.3.63) इत्यत्रापि **तदनुबन्धके न अतदनुबन्धकस्य** अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।
**ङीप्/ङीष्-प्रत्यययोः भेदः**
ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः **अनुदात्तौ सुप्पितौ** (3.1.4) इत्यनेन **अनुदात्तसंज्ञकः** अस्ति । ङीष्-प्रत्ययस्य ईकारः तु **आद्युदात्तश्च** (3.1.3) इत्यनेन **उदात्तसंज्ञकः** अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।
Vasu English Summary
--------------------
The affix ङीष् is used in forming the feminine after the words ending with affixes which have an indicatory ष् and after the words गौर etc.
Vasu English Translation
------------------------
The affix ङीष् is used in forming the feminine after the words ending with affixes which have an indicatory ष् and after the words गौर etc.
Thus by *Sutra* (3.1.145) (शिल्पिनि ष्वुन्) the affix ष्वुन् is added to a root, to form noun of agency, denoting an artist. The feminine of the words so formed, will take *nish*. As, नर्तकी 'an actress', खनकी 'a digger'; रजकी 'a dyer'. So also the words गौर & c; as गौरी, मत्सी । The following is the list of words belonging to *Gauradi* class.
1 गौर, 2 मत्स्य, 3 मनुष्य, 4 शृङ्ग, 5 पिङ्गल 6 हय, 7 गवय, 8 मुकय, 9 ॠष्य, 10 पुट, 11 तूण 12 द्रुण, 13 द्रोण; 14 हरिण, 15 कोकण, (काकण,) 16 पटर, 17 उकण, (आमल) 18 आमलक, 19 कुवल, 20 बिम्ब, 21 बदर, 22 फर्करक (कर्कर) 23 तर्कार, 24 शर्कार, 25 पुष्कर 26 शिखण्ड, 27 सलद 28 शष्कण्ड 29 सनन्द 30 सुषम, 31 सुषव 32 अलिन्द 33 गडुज, 34 पाण्डश 35 आढक, 36 आनन्द, 37 आश्वत्थ 38 सृपाट, 39 आखक (आपच्चिक), 40 शष्कुल, 41 सूर्य (सूर्म) 42 शूर्प, 43 सूच, 44 यूष (पूष) 45 यूथ, 46 सूप, 47 मेथ, 48 वल्लक, 49 घातक, 50 सल्लक, 51 मालक, 52 मालत, 53 साल्वक; 54 वेतस, 55 वृक्ष (वृस) 56 अतस, 57 उभय 58 भृङ्ग, 59 मह, 60 मठ, 61 छेद, 62 पेश, 63 मेद, 64 श्वन्, 65 तक्षन्, 66 अनडुही, 67 अनड्वाही, 68 । एषणः करणे । 69 देह, 70 देहल, 71 काकादन 72 गवादन, 73 तेजन, 74 रजन, 75 लवण, 76 औदाहमानि (औद्गाहमानि) 77 गौतम (गोतम) 78 पारक, 79 अयस्थूण (अथःस्थूण) 80 भौरिकि, 81 भौलिकि, 82 भौलिङ्गि 83 यान 84 मेध, 85 आलम्बि, 86 आलजि, 87 आलब्धि, 88 आलक्षि, 89 केवाल, 90 आपक. 91 आरट, 92 नट, 93 टोट, 94 नोट, 95 मूलाट, 96 शातन, 97 पोतन, 98 पातन, 99 पाठन (पानट) 100 आस्तरण, 101 अधिकरण, 102 अधिकार 103 अग्रहायणी (आग्रहायणी) 104 प्रत्यवरोहिणी 105 सेचन, 106 सुमङ्गलात्संज्ञायाम् । 107 अण्डर 108 सुन्दर, 109 मण्डल, 110 मन्थर, 111 मंगल 112 पट, 113 पिण्ड, 114 षण्ड, 115 ऊर्ध, 116 गुर्द, 117 शम, 118 सूद, 119 औड (आर्द) 120 हद (ह्द) 121 पाण्ड, 122 भाण्डल (भाण्ड) 123 लोहाण्ड, 124 कदर, 125 कन्दर, 126 करल, 127 तरुण, 128 तलुन, 129 कल्माष, 130 बृहत्, 131 महत्, 132 सोम, 133 सौधर्म । 134 रोहिणी नक्षत्रे । 135 रेवती नक्षत्रे । 136 विकल, 137 निष्कल 138 पुष्कल । 139 कटाच्छ्रोणिवचने । पिप्पल्यादयश्च । 140 पिप्पली, 141 हरितकी (हरीतकी) 142 कोशातकी, 143 शमी, 144 वरी, 145 शरी, 146 पृथिवी, 147 क्रोष्टु, 148 मातामह, 149 पितामह, 150 सुगेढ, 151 सुब, 152 सूर्य, 153 सकलूक, 154 आलिंगि, 155 पावन, 156 एत, 157 विटक, 158 भट्ट, 159 दहन, 160 कन्द, 181 कण ॥
N.B.- The word गौर though denoting color, is finally acute by virtue of this *sutra*; the word मत्स &c. being *jati* words having a penultimate य would not have taken *nip* (4.1.63) but for this *sutra*; श्वन् and तक्षन् would have taken डाप् (4.1.13), एषण is formed by ल्युट् and would have taken *nip* (4.1.15) इष्यतेऽनया = एषणी 'a balance, a probe'. गौतम would take *nin* also by (4.1.73). Similarly it may be shown why the several words have been included in this list. By the *vartika* मातरि षिच्च given under (4.2.36), the affix आमह in मातामह is treated as having an indicatory ष ॥ The word मातामह will take ङीष् because it is षित्; its inclusion in the list of *Gauradi* indicates that the rule of ङीष् application, because a word is षित्, is not universal (अनित्यः षिल् लक्षणो ङीष्) ॥ Therefore we have forms like दंष्ट्रा &c.
Kashika
-------
ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियां ङीष् प्रत्ययो भवति। **शिल्पिनि ष्वुन्** (३.१.१४५) — नर्तकी। खनकी। रजकी। गौरादिभ्यः — गौरी। मत्सी॥ गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बिम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे (ग०सू० ४१)। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरण। अधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम् (ग०सू० ४२)। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे (ग०सू० ४३)। रेवती नक्षत्रे (ग०सू० ४४)। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने (ग०सू० ४५)। पिप्पल्यादयश्च (ग०सू० ४६)। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। **मातामहपितामहयोर्मातरि षिच् च** (महाभाष्य वा० ४.२.३६) इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम् — अनित्यः षिल्लक्षणो ङीषिति। तेन दंष्ट्रेत्युपपन्नं भवति॥
Siddhanta Kaumudi
-----------------
षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥ (वार्तिकम्) ॥ अनडुही ॥ अनड्वाही । (गणसूत्रम् -) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥
Laghu Siddhanta Kaumudi
-----------------------
षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । नर्तकी । गौरी । अनडुही । अनड्वाही । आकृतिगणोऽयम् ॥
Balamanorama
------------
**षिद्गौरादिभ्यश्च** - षिद्गौरादिभ्यश्च । ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः । नर्तकीति ।नृती गात्रविक्षेपे॑ 'शिल्पिनि ष्वुन्' 'षः प्रत्ययस्य' इति षकार इत्,हलन्त्य॑मिति नकारश्च इत्, 'युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात्ङीष्, टापोऽपवादः,यस्येति चे॑त्यकारलोप इति भावः । गौरीति । ओतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् । 'अन्यतो ङीष्' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वाऽयम् ।उमा कात्ययनी गौरी॑त्यमरः ।दशवर्षा भवेद्गौरी॑ति स्मृतिः ।अनडुही अनड्वाहीति । अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः । एवं चअनुडुहः स्त्रियामाम् वेचि वक्तव्य॑मिति न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र-गौर मत्स्य म मनुष्य, शृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन आन्-इति पठित्वापिप्पल्यादयश्चे॑त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः । आन्शब्दस्य तु॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति । गौरादिरित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् ।
Tattvabodhini
-------------
**षिद्गौरादिभ्यश्च** - षिद्गौरादि । नर्तकीति । नृतुधातोःशिल्पिनि ष्वुन् । ष्वुनः षित्त्वमवयवेऽचरितार्थत्वात्तदन्तस्य प्रातिपदिकस्य विशेषणम् । त्रपूषः षित्त्वस्याऽङ्विधौ चरितार्थत्वत्त्रपेत्यत्र तु न ङीष् । मृजेः षित्त्वमनार्षं, भिदादौ भृजेति पाठादित्याहुः । मृजेः षित्त्वादेवाह्, भिदादौ मृजेति पाठस्त्वनार्ष इत्यन्ये । गौरीति । गौरशब्दस्य वर्णवाचित्वेऽपि प्रातिपदिकस्वरेणान्तोदात्तत्वात्अन्यतो ङीष्इति ङीष् न प्राप्नोतीतिहि गणे पाठः ।आमनडुहःस्त्रियां वा । अनङ्वाही । अनडुहीति । अनकारान्तत्वाज्जातिलक्षणस्य पुंयोगलक्षणस्य वा ङीषोऽप्राप्ततया गणेऽस्मिन्पठते । प्रत्ययसहितपाठस्तु ङीषि परे आम्विकल्पार्थः । गौर मत्स्य मनुष्य शृङ्ग गवय हय मुकय[गौतम]अनङ्वाही अनडुही तरुण तलुन आन् ।पिप्पल्यादयश्च । पिप्पल्यादयश्च । पिप्पली ।हरीतकी । कोशातकी । पृथिवी । मातामहीत्यादि । यत्तु प्राचाऋन्नेभ्यो ङीप्इत्यत्रशुनी॑त्युदाहृतं तत्तु गौरादिगणे आन्शब्दपाठाऽदर्शनप्रयुक्तमित्याहुः । अत्र केचित् — नित्यस्त्रीत्वात्जातेरस्त्रीविषया॑दित्यप्राप्ते ङीषि पिप्पल्यादयो गौरादिषु पठन्ते, ङीषन्तपाठस्तु चिन्त्यप्रयोजनः । नच पिप्पली भार्या यस्य स पिप्पलीभार्य इत्यादौ पुंवद्भावं बाधित्वा ङीषः श्रवणं यथा स्यादित्येतदर्थः स इति वाच्यम्, भाषितपुंस्कत्वाऽभावादेव पुंवद्भावनिषेधसिद्धेः । किं चाऽवान्तरगणत्वाभ्युपगमोऽपि पिप्पल्यादेव्यर्थ एव । न चैवं जाताधिकारेचित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यान॑मित्यत्र पिप्ल्यादेराकृतिगणत्वात्पुनर्ङिषिति वक्ष्यमाणग्रन्थो विरुध्यत इति वाच्यं, गौरादेराकृतिगणत्वादित्यपि वक्तुं शक्यत्वादित्याहुः ।
Padamanjari
-----------
षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्वम्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति ।'शिल्पिनि ष्वुन्' इत्यत्र व्युत्पादितम् । गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदातत्वात्पाठः । मत्स्यादानां योपधानाम् ठयोपधात्ऽ इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात् । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति - इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्वान् ङीबेव भवति । अन्येषामपि ल्युङ्न्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्, गौतमस्य शार्ङ्गरवादित्वान् ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् ठणिञोःऽ इति ष्यङ्प्राप्तौ । आपिच्छिका नाम राजानः,'जनपदशब्दात्क्षत्रियादञ्' ,'तस्य आतश्च' इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्, अस्मादेव निपातनाण्णत्वम् - आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम् - आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति ।'केवलमामक' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र'नञ्सुभ्याम्' इत्यन्तोदातत्वान्ङीप्यपि सत्युदातनिवृतस्वरेण भाव्यमिति नास्ति विशेषः । तथा च च्छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदातत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः'लघावन्ते' इति मध्योदातो द्रष्टव्यः । तरुणतलुनयोः'नञ्स्नञीकक्तरुण' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि रयेर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब् भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्राएणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति ।'प्रथेः षिवन्सम्प्रसारणं च' इति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्यर्थः - पृथिवीभार्य इति । स्त्रीवषियस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुअशब्दस्य'स्त्रियां च' इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति'स्त्रियां च' इत्यत्र निरूपयिष्यामः । षित्वादेव सिद्ध इति ।'मातरि षिच्च' इति वार्तिककारवचनात्षित्वम्, निपातनसामर्थ्याद्वा । उक्तं हि - धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणाअं रूढ।ल्र्थं च निपातनम् ॥ इति । दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ॥
Nyaas
-----
`षिद्भ्यः प्रातिपदिकेभ्यः` इति। षकार इद्येषां तानि। कथं पुनः प्रातिपदिकानि षिन्ति भवन्ति, यावता ध्वुनादेः प्रत्ययस्य षकार इत्संज्ञकः,न तु तेषाम्? नैष दोषः; अवयवगतं हि षित्त्वं समुदायस्य विशेषणं भविष्यति, यथा - अक्षिगतं काणत्वं पुरुषस्य -काणः पुरुष इति। यद्येवम्, धातुगतमपि षित्त्वं समुदायस्य विशेषणं प्राप्नोति, `त्रपूष् लज्जायाम्` (धातुपाठः-347), अङ, अपत्रपेति? नैतदस्ति; यो ह्रनुबन्धोऽवयवे निष्प्रयोजनः स समुदायार्थो विज्ञायते। धातोस्तु विद्यत एव षित्करणस्य नान्यत् प्रयोजनमस्ति, अतः समुदयार्थमेव तद्विज्ञायते। `रजकी` इति। अत्र **रञ्जेश्च** (6.4.26) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादनुनासिकलोपः।गौरादिषु गौरशब्दस्य सत्यपि वर्णवाचित्वे प्रातिपदिकस्वरेणान्तोदात्तत्वात् पूर्वेण प्राप्नोतीतीह पाठः। मत्स्यादीनां यकारोपधानाम् `अयोपधात्` (4.1.63) इति जातिलक्षणस्य ङीषः प्रतिषेधे प्राप्ते। शृङ्गशब्दस्य प्राक् आञ्शब्दात् पुटादीनाञ्चानन्दवर्ज्जितानां स्त्रीविषयत्वात् शृङ्गशब्दस्य प्राप्ते पुटादीनां चास्त्रीविषया (4.1.63) दिति प्रतिषेधे प्राप्ते। आनन्दशब्दस्याजातिवाचित्वान्ङीष्यप्राप्ते। आंस्तक्षन्नित्येतयोः `ऋन्नेभ्यो ङीप्` (4.1.5) इतिङीपि प्राप्ते। अनुडुह्रनड्वाहीत्यनयोरनकारान्तत्वान्ङीप्यप्राप्ते। इकारान्तयोः सप्रत्ययोर्गणे पाठः पुंवद्भावप्रति,#एधार्थः - अनडुहीभार्यः, अनड्वाहीभार्य इति। एतदेव वचनं ज्ञापकम् - अनडुहः स्त्रियां विकल्पेनाम्भवतीति। तेन यदुक्तम् - `अनडुहः {स्त्रियां वेति - वा।पाठ।} स्त्रियाञ्चेति वक्तव्यम्` (वा।829) इति, तन्न वक्तव्यमिति भवति। `{एषणः का।वृ।}एषणं करणे` इति। एषणशब्दः करणे कारके ङीषमुत्पादयतीति। इष्यतेऽनयेत्येषणी। करण इति किम्? इष्यतेऽस्यामित्यधिकरणे ङीपि। मेध इत्यस्याजातित्वान्ङीष्यप्राप्ते। गौतमस्य शार्ङ्रगरवादित्वान्ङीनि प्राप्ते। पक्षे च वचनात्सोऽप#इ भवत्येव। आयस्थूणादीनामालिपिशब्दपर्यन्तानां `अणिञोरनार्षयोः` (4.1.78) इति ष्यङि प्राप्ते। आयस्थूणशब्दः शिवाद्यणन्तः। `{भौरि,भौलिकि-गणपाठः} भौरिक्यादयः `अत इञ्` (4.1.95) इतीञन्ताः। आपिच्छिकस्य ङीषि प्राप्ते। आपिच्छिकानां राजानः, तेषामपत्यं स्त्री। **जनपदशब्दात् क्षत्रियादञ्** (4.1.168) इत्यञ्, तस्य `अतश्च` (4.1.175) इति लुकि कृतेप्रत्ययलक्षणेन ङीप्प्राप्नोति। आरटादीनां प्राक् शातनशब्दात् स्त्रीविषयत्वान्ङीष्यप्राप्ते। शातनादीनां ल्युडन्तत्वान्ङीपि प्राप्ते। अधिकरणान्ङीपि। अग्रे हायनमस्य इत्याग्रहायणी। स्वार्थिकोऽण्, णत्वं निपातनात्। अणन्तत्वान्ङीपि प्राप्ते। ईकारान्तस्य पाठः पुंवद्भावप्रतिषेधार्थः - आग्रहायणीभार्य इति। प्रत्यवरोहणसेवनयोर्ल्युडन्तयोष्टित्वान्ङीपि। केचित्तु पुंद्भावप्रतिषेधार्थं प्रत्यवरोहिणीति पठन्ति -प्रत्यवरोहिणीभार्य इति। `सुमङ्गलात्संज्ञायाम्` (इति)। `नित्यं संज्ञाच्छन्दसोः` (4.1.29) इति वर्तमाने `केवलमामक` (4.1.30) इत्यादिना ङीपि प्राप्ते। पक्षे वचनात् सोऽपि भवति। संज्ञायामिति किम्? सुमङ्गला। सुन्दरादीनां प्राक् तरुणशब्दात् स्त्रीविषयत्वात् ङीष्यप्राप्ते। तरुणतलुनशब्दयोर्वयोलक्षणे ङीपि प्राप्ते। `नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्` (वा।338) इत्यत्र तु वयोग्रहणम्। बृहन्महच्छब्दयोरुगित्वान्ङीपि प्राप्ते। `रोहिणी नक्षणे` इति। नक्षत्र इति किमर्थम्? रोहिता। `रेवती नक्षत्रे` इति किम्? येषां रेवतशब्दोऽत्राकारान्त इति दर्शनं तेषां प्रत्युदाहरणं टाप् - रेवतेति। येषां त्विदं वचनम् - राविद्यतेऽस्या इति रेशब्दान्मतुप्, निपातनाद्वत्वमिति, तेषां प्रत्युदाहरणम् **उगितश्च** (6.3.45) इति ङीप् - रेवतीति। स्वरे विशेषः। विकलादीनां टापि प्राप्ते। कटशब्दाच्छोण्यभिधाने ङीष्। कटी श्रोणिरित्यर्थः। श्रोणिरिति किम्? कटा। `पिप्पल्यादयश्च` इति। एतावद्गणे पठते। तांस्तु पिप्पस्यादीन् दर्शयितुं पिप्पली हरीतकीत्यादिकं वृत्तिकावचनम्।`पृथिवी` इति। ईकारान्तनिपातनं पुंवद्भावनिवृत्त्यर्थम् - पृथिवीभार्य इति। क्रोष्टुशब्दस्य **स्त्रियां च** (7.1.96) इतितृज्वद्भावः।`मातरि षिच्च` इति। **पितृव्यमातुलमातामहपितामहाः** (4.2.36) इत्यत्र पितृमातृभ्यां पितरि वाच्ये डामहज्निपातयिष्यते। मातरि डामहजेव। तस्यापि षित्त्वम्। `दंष्ट्रा` इति। `{दन्श धातुपाठः-} दंश दशने` (धातुपाठः-989), `दाम्नीशस्` (3.2.182) इत्यादिनाष्ट्रन्। षिल्लक्षणस्यानित्यत्वान् ङीषष्टाब्भवति॥
Praudhamanorama
---------------
श्वन्शब्दोऽत्र पठ्यते। तेन 'ऋन्नेभ्यो ङीप्' इत्यत्र यत्प्राचा शुनीत्युदाहृतं तत्प्रामादिकम्। यत्तु व्याचक्षते- श्वानमाचष्टे श्वेवाचरतीति वाऽर्थे णिचः क्विपो वा क्वौ उपसर्जनत्वात् ङीषभावे निःशुनीत्यादिवत् ङीबिति; तन्न, णिचि सम्प्रसारणटिलोपयोरुक्तं रूपं मुख्यमते दुर्लभम्। अन्यत्र तु आस्तां कथंचित्।
Prakriyasarvasvam
-----------------
षितः प्रातिपदिकाद् गौरादेश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । उदङ्मते तु पूर्वसूत्रेण गार्गी ॥
Sutra Prayogas
--------------
* **तदध्यासितकातराक्ष्या** (रघुवंशम्): `षिद्गौरादिभ्यश्च` इति ङीष्।
* **नर्तकीः** (रघुवंशम्): `षिद्गौरादिभ्यश्च` इति ङीप्।
* **मुकुलिताक्षीं** (कुमारसम्भवम्): `षिद्गौरादिभ्यश्च` इति ङीष्।
* **चण्डि** (कुमारसम्भवम्): `षिद्गौरादिभ्यश्च` इति गौरादित्वात् ङीष्।
* **निरञ्जनाक्षीः** (किरातार्जुनीयम्): `षिद्गौरादिभ्यश्च` इति ङीप्।
* **तूणीमुखान्मित्रकुलादिवार्यः** (किरातार्जुनीयम्): `षिद्गौरादिभ्यश्च` इति ङीप् (गौरादित्वात्)।
* **पिशङ्गीः** (शिशुपालवधम्): `षिद्गौरादिभ्यश्च` इति ङीष्।
* **लोध्रगौरीः** (शिशुपालवधम्): `षिद्गौरादिभ्यश्च` इति ङीष् ।
* **पृथिवी** (शिशुपालवधम्): `षिद्गौरादिभ्यश्च` इति ङीष्।
* **वैदग्धीम्** (शिशुपालवधम्): `षिद्गौरादिभ्यश्च` इति ङीष्।
* **सान्द्रचन्द्रांशुगौर्याम्** (शिशुपालवधम्): `षिद्गौरादिभ्यश्च` इति ङीष् ।
* **मुखच्छदपटसादृशीं** (शिशुपालवधम्): `षिद्गौरादिभ्यश्च` इति ङीष्।