41027: दामहायनान्ताच्च ====================== **Padacheda:** दाम-हायन-अन्तात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'दामन्' उत 'हायन', तथा च यस्य पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन भवति, तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः **ङीप्** प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **यस्य बहुव्रीहिसमासस्य उत्तरपदम् "दामन्" (string) अथवा "हायन" (वर्षम्) इति अस्ति तथा च यस्य पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन भवति, तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति** — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणे एतादृशे — 1. दामन्-शब्दान्त-सङ्ख्यादि-बहुव्रीहिसमासः — "द्वे दाम्नी अस्याः" इत्यत्र "द्वि + दामन्" इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इत्यनेन वैकल्पिके डाप्-प्रत्यये प्राप्ते; तथा च **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन वैकल्पिके ङीप्-प्रत्यये प्राप्ते, द्वौ अपि बाधित्वा प्रकृतसूत्रेण नित्यं ङीप्-प्रत्ययस्य विधानं भवति, येन "द्विदाम्नी" इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text द्वे दाम्नी अस्याः धेनोः → द्वि + दामन् + ङीप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः । तत्र स्त्रीत्वं द्योतयितुम् **दामहायनान्ताच्च** (4.1.27) इत्यनेन ङीप्-प्रत्ययः भवति] → द्वि + दाम्न् + ई [**अल्लोपोऽनः** (6.4.134) इति अकारलोपः]। → द्विदाम्नी प्रकृतसूत्रे "सङ्ख्यादिः" इति पदम् अनुवर्तते, अतः "द्विविधे दाम्नी अस्याः = द्विविध + दामन् + ङीप् → द्विविधदाम्नी" इत्यपि प्रयोगः सिद्ध्यति । 2. हायन-शब्दान्त-सङ्ख्यादि-बहुव्रीहिसमासः — "द्वे हायनी अस्याः" इत्यत्र "द्वि + हायन" इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप्** (4.1.4) इत्यनेन वैकल्पिके टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण नित्यं ङीप्-प्रत्ययः विधीयते, येन "द्विहायनी" इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text द्वे हायने अस्याः बालिकायाः (a girl who is two years old) → द्वि + हायन + ङीप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः । तत्र स्त्रीत्वं द्योतयितुम् **दामहायनान्ताच्च** (4.1.27) इत्यनेन ङीप्-प्रत्ययः भवति] → द्वि + हायन् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]। → द्विहायनी **"हायन"-शब्दस्य सन्दर्भे अत्र व्याख्यानेषु द्वे वार्त्तिके अपि पाठिते स्तः** — 1. — यस्य बहुव्रीहिसमासस्य उत्तरपदम् "हायन" इति शब्दः अस्ति; तथा च पूर्वपदम् "त्रि" अथवा "चतुर्" इति शब्दः अस्ति; तस्य विषये समस्तपदनिर्माणसमये "हायन"-शब्दस्य नकारस्य णत्वं भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा, "त्रीणि हायनानि अस्या: बालिकायाः" इत्यत्र "त्रि + हायन + ङीप् → **त्रिहायणी**" इति णत्वे कृते अन्तिमं रूपं सिद्ध्यति । एवमेव, "चत्वारि हायनानि अस्या: बालिकायाः" इत्यत्रापि "चतुर् + हायन + ङीप् → **चतुर्हायणी**" इति णत्वे कृते अन्तिमं रूपं सिद्ध्यति । 2. — यत्र "हायन" इति शब्दः "वयः" (age) अस्मिन् अर्थे प्रयुज्यते; तत्रैव प्रकृतसूत्रस्य प्रयोगः (तदनुषङ्गेन णत्वस्य च विधानम्) भवति — इति अस्य वार्त्तिकस्य अर्थः । यदि "हायन"-शब्दः वयोवाचिनि अर्थे नैव प्रयुक्तः विद्यते; तर्हि प्रकृतसूत्रं तत्र नैव प्रयोक्तव्यम्, इति अत्र आशयः अस्ति । यथा, "त्रीणि हायनानि अस्या: शालायाः" इत्यत्र "हायन"-शब्देन केवलं वर्षस्य निर्देशः भवति, वयसः न — यतः वयः केवलम् प्राणिनां सम्भवति, न हि शालादिकानां पदार्थानाम् । अस्यां स्थितौ "त्रि + हायन" इति स्थिते अत्र न हि प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति; न च णत्वम् अपि विधीयते । अतः अत्र **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "त्रिहायना (शाला)" इत्येव शब्दः सिद्ध्यति । **पूर्वसूत्रात् केवलम् "सङ्ख्यादेः" इत्येव अत्र अनुवर्तते, न हि अव्ययादेः इति** पूर्वसूत्रे विद्यमानात् "संख्याव्ययादेः" इत्यस्मात् शब्दात् अत्र केवलम् "सङ्ख्यादेः" इत्येव अंशः अनुवर्तते; "अव्ययादेः" इत्यंशः अत्र नैव स्वीक्रियते । अतएव, "उत्क्रान्तं दाम यस्याः" अस्मिन् अर्थे "उत् + दामन्" इत्यत्र इति वार्त्तिकेन बहुव्रीहिसमासे कृते तत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः नैव भवति; अपितु **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इति वैकल्पिकः डाप्, तदभावपक्षे **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इति वैकल्पिकः ङीप्, तदभावपक्षे च स्त्रीप्रत्ययस्यैव अभावः — इति त्रिभिः पद्धतिभिः यथासङ्ख्यम् "उद्दामा", " उद्दाम्नी" तथा च "उद्दामन्" इति स्त्रीलिङ्गशब्दाः सिद्ध्यन्ति । Vasu English Summary -------------------- The affix ङीप् comes in the feminine after a बहुव्रीहि समास beginning with a Numeral and ending with the words 1. दामन् 'a rope' and 2. हायन 'a year'. Vasu English Translation ------------------------ The affix ङीप् comes in the feminine after a बहुव्रीहि समास beginning with a Numeral and ending with the words 1. दामन् 'a rope' and 2. हायन 'a year'. The word दामन् was liable to be operated upon by three rules, by, (4.1.13) ordaining डाप्, by (4.1.11) prohibiting totally the affixing of ङीप् and (4.1.28) ordaining *nip* optionally : the present *sutra* ordains *nip* to the exclusion of all those rules. As द्विदाम्नी 'a (mare) bound by two ropes'. त्रिदाम्नी ॥ Similarly हायन would have taken long आ by (4.1.4), this ordains long ई ॥ Thus द्विहायनी 'two years (old girl)', त्रिहायणी; चतुर्हायणी ॥ Vart:- The word '*hayana*' must denote 'age', for the purposes of this *sutra*. Therefore we have no *nip* here:- द्विहायना शाला 'a hall of two years existence'. So also त्रिहायना and चतुर्हायना ॥ Moreover in these latter cases the न is not changed into ण; for when हायन denotes 'age', it is then only that the न is changed into ण and not otherwise. Bhashya ------- दामहायनान्ताच्च ( 1296) (ङीबधिकरणम्) (5154 पूर्वपक्षवार्तिकम्॥ 1 ॥) - दामहायनान्तात्संख्याऽऽदेः - (भाष्यम्) दामहायनान्तात्सङ्ख्याऽऽदेरिति वक्तव्यम्। इह मा भूत् -उद्दामा वडवेति॥ (5155 एकदेशिसमाधानवार्तिकम्॥ 2 ॥) - तत्पुरुषविज्ञानाद्वा सिद्धम् - (भाष्यम् बहुव्रीहेरिति वर्तते। तत्पुरुषश्चायम् -उत्क्रान्ता दाम्न उद्दामेति॥ भवेत्सिद्धम् -यदा तत्पुरुषः॥ यदा तु खलु बहुव्रीहिस्तदा न सिध्यति -उत्क्रान्तं दाम अस्या इति। (एकदेश्याक्षेपसमाधानभाष्यम्) ननु चेतनावत एतद्भवति -उत्क्रमणं वाऽपक्रमणं वा, दाम चाचेतनम्॥ अचेतनेष्वपि चेतनवदुपचारो दृश्यते। तद्यथा -स्रस्तान्यस्या बन्धनानि, स्रस्यन्तेऽस्या बन्धनानीति॥ (सिद्धान्तभाष्यम्) तत्तर्हि संख्यादेरिति वक्तव्यम्? न वक्तव्यम्, प्रकृतमनुवर्तते॥ क्व प्रकृतम्? संख्याऽव्ययादेर्ङीप् (4.1.26) इति॥ यदि तदनुवर्तते, अव्ययादेरपि प्राप्नोति। नैष दोषः। संख्यादेरित्यनुवर्तते, अव्ययादेरितिनिवृत्तम्॥ (परिभाषामुखेन सिद्धान्तभाष्यम्) कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तते, एकदेशो न? एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति। तद्यथा -तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ (5.2.24) पक्षात्तिः (25) इत्यत्र मूल इत्यनुवर्तते, पाक इति निवृत्तम्॥ (सिद्धान्तांशकथनभाष्यम्) अथेह कथं भवितव्यम् द्वौ हायनावस्याः शालायाः? द्विहायना, त्रिहायनेति? हायनो वयसि स्मृतः॥ वयोवाचिनो हायनशब्दस्य ग्रहणम्। न चैष वयोवाची। अथ णत्वं कस्मान्न भवति? णत्वमपि वयोवाचिन एव॥ Kashika ------- ऊधस इति निवृत्तम्। संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम्। संख्यादेर्बहुव्रीहेर्दामशब्दान्ताद् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविकल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्तात् टापि प्राप्ते, द्विहायनी। त्रिहायणी। चतुर्हायणी॥ हायनो वयसि स्मृतः॥ तेनेह न भवति — द्विहायना शाला। त्रिहायना। चतुर्हायना। **णत्वमपि त्रिचतुर्भ्यां हायनस्येति वयस्येव स्मर्यते** (महाभाष्य २.२१३)॥ Siddhanta Kaumudi ----------------- सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥ (वार्तिकम्) । (वार्तिकम्) ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥ Balamanorama ------------ **दामहायनान्ताच्च** - दामहायनान्ताच्च । 'सङ्ख्यादेः'ङी॑विति चानुवर्तते । तदाह — सङ्ख्यादेरिति । अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम् । दामान्ते इति द्विदामन्शब्दे दामान्तेडाबुभाभ्या॑मिति डापि 'अन उपधालोपिनः' इति ङीपि,अनो बहुव्रीहे॑रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्तेदामहायनान्ताच्चे॑ति वचनमित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्या इति विग्रहः । ङीपि 'अल्लोपोऽनः' इति भावः । नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति । उद्दामेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः । डाब्विषेधावपीति । अपिनाअन उपधे॑ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति — द्विहायनी बालेति । द्वौ हायनौ यस्या इति विग्रहः ।अथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह — त्रिचतुभ्र्यामिति । नन्वेवमपिद्विहायना शाले॑त्यत्रापि ङीप् स्यात्,त्रिहायना शाले॑त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह — वयोवाचकस्येति । इष्यते इति ।भाष्यकृते॑ति शेषः । Tattvabodhini ------------- **दामहायनान्ताच्च** - दाम । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । सङ्ख्यादेरिति । समासनिर्देशेऽपि स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः । अननुवृत्तेरिति । भाष्यकृताऽननुवर्ततत्वादिति भावः । एवं चोद्दामेत्यत्रदामहायनान्ताच्चे॑त्यस्याऽप्रवृत्त्या पूर्वोक्तेषु डाप्ङीब्नेषेधेषु प्राप्तेषु बहुराज्ञीवद्रूपत्रयं भवत्यतो व्याचष्टे -डान्बिषेधावपीति । Padamanjari ----------- 'स्वीरितेनाधिकारः' इत्यत्र द्वौ पक्षौ - शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह - सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति । हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत्'त्रिचतुर्भ्या हायनस्य' इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह - णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ॥ Nyaas ----- `ऊधसः` इति निवृत्तम्,प्रकृत्यन्तरोपादानात्। `संख्याग्रहणनुवर्तते, नाव्ययग्रहणम्` इति। संख्याग्रहणस्यैव स्वरितत्वात्। `डाप्प्रतिषेधविकल्पेषु प्राप्तेषु` इति। `डाबुभाभ्यामन्यतरस्याम्` (4.1.13) इत्यादिना डापि प्राप्ते **अनो बहुव्रीहेः** (4.1.12) इति प्रतिषेध `अन उपधालोपिनोऽन्यतरस्याम्ट (4.1.28) इति विकल्पे च। द्वे दामनी अस्या इति `द्विदाम्नी`। `द्वौ हायनावस्या इति `द्विहायनी`। `हायनो वयसि स्मृतः` इति। प्रकृतिरिति शेषः। कस्य प्रकृतिः? ङीपः प्रकृतत्वात् तस्यैव। बहुव्रीह्रधिकारादत्र हायमान्तो बहुव्रीहिरिति गम्यते। एतदुक्तं भवति - हायमान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इति। तेन यदि वयो गम्यते ततो ङीब्भवति, नान्यथा। एतच्चोत्तरसूत्रेऽन्यतरस्यांग्रहणस्योभयोर्योगयोः शेषभूतत्वाद्व्यवस्थितविभाषाविज्ञानाच्च लभ्यते। अथ त्रिचतुभ्र्यां हायनस्याप्युपसंख्यानाद्यथा हि त्रिहायनी चतुर्हायणीत्यत्र णत्वं भवति; तथा त्रिहायना शाला, चतुर्हायना शालेत्यत्रापि कस्मान्न भवति? इत्याह - `णत्वमपि` इत्यादि। तदपि हि णत्वमौपसंख्यानिकमाचार्यैर्वयस्येव स्मर्यते। न च शालाया वयः सम्भवति, तस्य प्राणिधर्मत्वादिति नेह णत्वं प्रवर्तते।अन्तग्रहणं विस्पष्टार्थम्। बहुव्रीह्रधिकारादेव हि सामर्थ्यात् तदन्तविधिर्लभ्यते; न हि केवलयोर्दामहायनशब्दयोर्बहुव्रीहिसंज्ञा केनचिद्विहिता॥ Praudhamanorama --------------- बहुव्रीहिविशेषणत्वादेव सिद्धे अन्तग्रहणं स्पष्टार्थम्। **संख्यादेरिति।** स्वरितत्वबलादेकदेश एवानुवर्तत इति भावः। Prakriyasarvasvam ----------------- संख्यादेर्दामहायनान्ताद् बहुव्रीहेः स्त्रियां ङीप् स्यात् । द्विदाघ्नी । द्विहायना । त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् । त्रिहायणी । चतुर्हायणी । ङीमगत्वे वयस्येव । द्विहायना त्रिहायना वा शाला ॥ Vartika ------- वयोवाचकस्यैव हायनशब्दस्य ङीप् णत्वं चेष्यते ।