41022: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ================================================ **Padacheda:** अ-परिमाण-बिस्त-आचित-कम्बल्येभ्यः | S | 5 | 3 | न | S | 0 | 0 | तद्धित-लुकि | S | 7 | 1 | Sutrartha --------- **यस्य तद्धितार्थ-द्विगुसमासस्य उत्तरपदम् परिमाणवाचकशब्दः नास्ति, अथवा 'बिस्त', 'आचित', 'कम्बल्य' एतेषु कश्चन परिमाणवाचकः शब्दः अस्ति; तस्य विषये तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न विधीयते ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः **ङीप्** प्रत्ययः प्रकृतसूत्रेण निषिध्यते । **तद्धितार्थद्विगुसमासेन निर्मितात् समस्तपदात् स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति सूत्रेण ङीप्-प्रत्यये प्राप्ते; यदि तस्य समासस्य उत्तरपदं परिमाणवाचकशब्दः नास्ति, अथ वा "बिस्त", "आचित", तथा च "कम्बल्य" एतेषु कश्चन परिमाणवाचकशब्दः अस्ति, तत्र तद्धितप्रत्ययस्य लुक् भवति चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति** — इति वर्तमानसूत्रस्य आशयः । 1. परिमीयते (सर्वतः मीयते) अनेन इति ** परिमाणम्** । standard unit of measurement इत्यर्थः । पुरा प्रचलितानि परिमाणानि एतादृशानि — मासा, अक्ष, कर्ष, पल, सुवर्ण, बिस्त, कुरुबिस्त, तुला, भार, आचित, कार्षापण, कार्षिक, पण, आढक, द्रोण, खारी, वाह, निकुञ्च, कुडव, प्रस्थ, पाद, अंश, भाग, वंटक । एतेषां परस्परसम्बन्धः अमरकोशे वैश्यवर्गे 2.9.85 तः 2.9.89 इत्यत्र निर्दिष्टः वर्तते । एतान् विहाय अन्यानि अपि कानिचन परिमाणवाचकानि पदानि (यथा, शम, दिण्डि, वितस्ति, कम्बल्य — आदीनि) व्यवहारे प्रचलितानि आसन् । 2. न हि सर्वे प्रमाणवाचकशब्दाः परिमाणवाचकाः । Not all things which are used for measurement are considered as standard-units of measurement. यथा, 'गज' इति शब्दः अपि प्रमाणरूपेण प्रयुक्तः दृश्यते (द्वौ गजौ प्रमाणम् अस्याः नद्याः = This river is as deep as two elephants), परन्तु अयम् परिमाणवाचकशब्दः न । एवमेव, काण्ड, पुरुष आदयः शब्दाः अपि ज्ञेयाः । प्रकृत सूत्रे विद्यमानयोः द्वयोः विषययोः क्रमेण विवरणम् एतादृशम् — 1. यस्य द्विगुसमासस्य उत्तरपदम् परिमाणवाचकशब्दं विहाय कश्चन अन्यः शब्दः अस्ति, तस्मात् द्विगुसमासात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । उदाहरणानि एतानि — (i) "पञ्चभिः अश्वैः क्रीता" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इत्यनेन द्विगुसमासे कृते ततः **तेन क्रीतम्** (5.1.37) इत्यस्मिन् अर्थे **आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्** (5.1.19) इति सूत्रेण ठक्-प्रत्ययः भवति, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगुश्च** (2.1.23) इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् "अश्व" इति अपरिमाणवाची शब्दः अस्ति । अतः अत्र **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "पञ्च + अश्व + टाप् → पञ्चाश्वा" इति शब्द सिद्ध्यति । (ii) संख्यावाचकशब्दाः अपि परिमाणवाचिनः न सन्ति, अतः "द्वौ शतौ अवहरति" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुसमासः भवति; ततः **सम्भवत्यवहरति पचति** (5.1.52) इत्यस्मिन् अर्थे **पणपादमाषशताद्यत्** (5.1.34) इत्यनेन यत्-प्रत्यये कृते **शाणाद्वा** (5.1.35) इत्यत्र पाठितेन इति वार्त्तिकेन सः विकल्प्यते, अतः पक्षे **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यनेन कन्-प्रत्ययः भवति, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + शत + टाप् →‌ द्विशता" इति शब्द सिद्ध्यति । (iii) कालवाचकशब्दाः अपि परिमाणवाचिनः न सन्ति, अतः "द्वे वर्षे भूते" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुसमासः भवति; ततः **तमधीष्टो भृतो भूतो भावी ** (5.1.52) इत्यस्मिन् अर्थे ठञ्-प्रत्यये कृते तस्य **वर्षाल्लुक् च** (5.1.88) इत्यनेन पाक्षिकः लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21)इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + वर्ष + टाप् →‌ द्विवर्षा" इति शब्द सिद्ध्यति । (iv) "द्वौ वर्षौ प्रमाणम् अस्याः" इत्यत्र द्विगुसमासः, ततः **प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यनेन मात्रच्-प्रत्ययः, तस्य च इति वार्त्तिकेन लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + वर्ष + टाप् →‌ द्विवर्षा" इति शब्द सिद्ध्यति । 2. यस्य द्विगुसमासस्य उत्तरपदम् "बिस्त", "आचित", "कम्बल्य" एतेभ्यः कश्चन परिमाणवाचकः शब्दः अस्ति, तस्मात् द्विगुसमासात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । उदाहरणानि एतानि — (i) "द्वाभ्यां बिस्ताभ्या क्रीतम्" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इत्यनेन द्विगुसमासे कृते ततः **तेन क्रीतम्** (5.1.37) इत्यस्मिन् अर्थे **प्राग्वतेष्ठञ्** (5.1.18) इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च **बिस्ताच्च** (5.1.31) इत्यनेन वैकल्पिकः लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् "बिस्त" इति शब्दः अस्ति । अतः अत्र **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + बिस्त + टाप् → द्विबिस्ता" इति शब्द सिद्ध्यति । (ii) "द्वौ आचितौ पचति" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इत्यनेन द्विगुसमासे कृते ततः**सम्भवत्यवहरति पचति** (5.1.52) इत्यस्मिन् अर्थे **प्राग्वतेष्ठञ्** (5.1.18) इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् "आचित" इति शब्दः अस्ति । अतः अत्र **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + आचित + टाप् → द्व्याचिता" इति शब्द सिद्ध्यति । (iii) "द्वाभ्यां कम्बल्याभ्यां क्रीतम्" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इत्यनेन द्विगुसमासे कृते ततः **तेन क्रीतम्** (5.1.37) इत्यस्मिन् अर्थे **प्राग्वतेष्ठञ्** (5.1.18) इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् "कम्बल्य" इति शब्दः अस्ति । अतः अत्र **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + कम्बल्या + टाप् → द्विकम्बल्या" इति शब्द सिद्ध्यति । "बिस्त" इत्यस्य स्थाने बहुत्र "विस्त" इति वकारघटितः प्रयोगः अपि दृश्यते । **दलकृत्यम्** **1. अपरिमाणबिस्ताचितकम्बल्येभ्यः इति किमर्थम् ?** यदि बिस्तादिभिन्नः कश्चन परिमाणवाची शब्दः द्विगुसमासस्य उत्तरपदरूपेण विद्यते; तर्हि तत्र तद्धितप्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रेण उक्तः निषेधः नैव प्रवर्तते; अतः **द्विगोः** (4.1.21) इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति । यथा, "आढक" इत्यस्य परिमाणवाचकशब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । अतएव, "द्वाभ्याम् आढकाभ्यां क्रीतम्" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इत्यनेन द्विगुसमासे कृते ततः **तेन क्रीतम्** (5.1.37) इत्यस्मिन् अर्थे **प्राग्वतेष्ठञ्** (5.1.18) इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति ङीप्-प्रत्ययः अवश्यं भवति, येन "द्वि + आढक + ङीप् → द्व्याढकी" इति शब्द सिद्ध्यति । **2. तद्धितार्थद्विगुः इति किमर्थम् ?** यदि अत्र तद्धितार्थद्विगुसमासः नास्ति तर्हि प्रकृतसूत्रेण उक्तः निषेधः अत्र नैव प्रवर्तते । यथा, "पञ्चानाम् अश्वानां समाहारः" इत्यत्र "पञ्च + अश्व" इति समाहारद्विगुसमासे कृते तत्र इति वार्त्तिकेन नित्यं स्त्रीलिङ्गमेव इष्यते । अस्यां स्थितौ अत्र 'तद्धितार्थद्विगुसमासः नास्ति अपितु समाहारद्विगुसमासः अस्ति' इति कारणात् **द्विगोः** (4.1.21) इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति, येन "पञ्च + अश्व + ङीप् → पञ्चाश्वी" इति शब्दः सिद्ध्यति । **3. तद्धितलुकि इति किमर्थम् ?** तद्धितार्थद्विगुसमासस्य विषये यदि तद्धितप्रत्यय लुक् नैव सम्भवति, तर्हि तत्र समस्तपदस्य अन्ते विद्यमानम् तद्धितप्रत्ययम् अनुसृत्य एव उचितः स्त्रीप्रत्ययः विधीयते । इत्युक्ते, तत्र **द्विगोः** (4.1.21) इत्यस्यैव प्रसक्तिः नास्ति, अतः तत्र प्रकृतसूत्रेण कृतः बाधः अपि न प्रवर्तते । यथा, "द्वौ आचितौ पचति" इत्यत्र आदौ **संख्यापूर्वो द्विगुः** (2.1.52) इत्यनेन द्विगुसमासे कृते ततः**सम्भवत्यवहरति पचति** (5.1.52) इत्यस्मिन् अर्थे **द्विगोः ष्ठंश्च** (5.1.54) इति सूत्रेण वैकल्पिके ख-प्रत्यये कृते तत्र प्रत्ययस्य विधानसामर्थ्यात् तस्य लुक् नैव भवति; अतः अस्यां स्थितौ स्त्रीत्वं द्योतयितुम् **द्विगोः** (4.1.21) इति सूत्रं नैव प्रवर्तते; अपितु **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "द्वि + आचित + ख + ङीप् → द्व्याचितीना" इत्येव शब्द सिद्ध्यति । **बाध्यबाधकभावः** 1. "काण्ड" इति शब्दः परिमाणवाची नास्ति, अतः तस्य विषये तद्धितार्थद्विगुसमासे तद्धितलुकि सति प्रकृतसूत्रेण ङीप्-प्रत्ययस्य निषेधे प्राप्ते, **काण्डान्तात् क्षेत्रे** (4.1.23) इति अग्रिमसूत्रेण सः नियम्यते । यदि समस्तपदेन क्षेत्रस्य निर्देशः भवति, तर्हि एव एतादृशः ङीप्-प्रत्ययनिषेधः भवेत्, अन्येषु स्थलेषु तद्धितलुकि सति अपि ङीप्-प्रत्ययनिषेधः नैव स्यात् (इत्युक्ते, ङीप्-प्रत्ययः अवश्यं भवेत्) — इति **काण्डान्तात् क्षेत्रे** (4.1.23) सूत्रस्य आशयः । 2. प्रमाणवाची "पुरुषः" इति शब्दः परिमाणवाची नास्ति, अतः तस्य विषये तद्धितार्थद्विगुसमासे तद्धितलुकि सति प्रकृतसूत्रेण ङीप्-प्रत्ययस्य निषेधे प्राप्ते, **पुरुषात् प्रमाणेऽन्यतरस्याम्** (4.1.24) इति सूत्रेण सः विकल्प्यते; अतः ङीप्-प्रत्यये कृते, तथा च ङीप्-प्रत्ययस्य निषेधे (टाप्-प्रत्यये कृते) — उभयथा रूपं सिद्ध्यति । Vasu English Summary -------------------- The affix ङीप् is not used when a तद्धित affix is elided after a द्विगु समास (Numeral Determinative Compound) ending in a word not denoting a mass or measure; or in 1. बिस्त 2. आचित or 3. कम्बल्य। Vasu English Translation ------------------------ The affix ङीप् is not used when a तद्धित affix is elided after a द्विगु समास (Numeral Determinative Compound) ending in a word not denoting a mass or measure; or in 1. बिस्त 2. आचित or 3. कम्बल्य। This debars 'nip' which otherwise would have presented itself by virtue of the last *sutra*. The words बिस्तः 'a weight of gold equal to 80 *Raktikas*', आचितम् 'a measure of 10 cart-loads or 80,000 *tolahs*'; and कम्बल्यः 'a measure', all denote measure; and are the only words expressing measure to which this rule applies. The word परिमाण means 'measure', as distinguished from संख्या 'a Numeral', See (5.1.19), &c. Thus पञ्चाश्व is a *Dvigu* compound, meaning 'purchased for five horses.' Here the *Taddhita* affix ठञ् (5.1.37) giving the sense of 'purchased with' has been elided by (5.1.28). This compound does not end in a word denoting *parimana* techincally so called or a measure. The feminine of this word will not be formed by ङीप् but by टाप्, thus, पञ्चश्वा 'a female purchased for five horses'. The words denoting 'time' or 'number' are not words denoting 'measure' as understood in this *sutra* by the word '*parimana*'. Thus, द्विवर्षा, 'a two years old female child', त्रिवर्षा 'a three years old female child' (V. 2.37 *Vart*.) So also द्विशता 'a female purchased for two hundreds', similarly त्रिशता ॥ So also with the words बिस्त &c. As द्विबिस्ता 'purchased for two *bistas*', त्रिबिस्ता, द्व्याचिता, त्र्याचिता, द्विकम्बल्या, and त्रिकम्बल्या, &c. Why do we say 'not ending in a word denoting a *Parimana* or a 'measure'? Observe द्व्याढकी, त्र्याढकी "a female purchased for two or three *adhaka*". Here *adhaka* means a measure equal to 7 Ib. II oz. avoir. Why do we say 'when a *Taddhita* affix is elided'? In '*Samahara* *Dvigu*' compounds, the affix '*nip*' will apply. Thus पञ्चाश्वी 'an aggregate of five horses', so also दशाश्वी ॥ Bhashya ------- अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (1294) (निषेधाधिकरणम्) (योगविभागेन सूत्रांशप्रत्याख्यानभाष्यम्) इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्। कथम्? एवं वक्ष्यामि -परिमाणान्तात्तद्धितलुकि ङीब्भवतीति। तन्नियमार्थं भविष्यति -परिमाणान्तादेव तद्धितलुकि ङीब् भवति, नान्यत इति॥ ततो बिस्ताचितकम्बल्येभ्यो नेति। तद्धितलुकीत्येव॥ Kashika ------- पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते। अपरिमाणान्ताद् द्विगोर्बिस्ताचितकम्बल्यान्तात् च तद्धितलुकि सति ङीप् प्रत्ययो न भवति। बिस्तादीनां परिमाणार्थं ग्रहणम्। सर्वतो मानं परिमाणम्। अपरिमाणान्तात् तावत् — पञ्चभिरश्वैः क्रीता पञ्चाश्वा। दशाश्वा। कालः संख्या च न परिमाणम्। द्विवर्षा। त्रिवर्षा। द्वाभ्यां शताभ्यां क्रीता द्विशता। त्रिशता। बिस्तादिभ्यः — द्विबिस्ता। त्रिबिस्ता। द्व्याचिता। त्र्याचिता। द्विकम्बल्या। त्रिकम्बल्या। अपरिमाणेति किम्? द्व्याढकी। त्र्याढकी। तद्धितलुकीति किम्? समाहारे — पञ्चाश्वी। दशाश्वी॥ Siddhanta Kaumudi ----------------- अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध (SK1693) इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥ Balamanorama ------------ **अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि** - तदाह-अपरिमाणान्तादित्यादिना । अपरिमाणान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-आर्हीयष्ठक्, अध्यर्धेति लुगिति । पञ्चभिरऔः क्रीतेति विग्रहे 'तद्धितार्थ' इति द्विगुः ।आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठ॑गित्यधिकारेतेन क्रीत॑मिति ठक्,अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञाया॑मिति तस्य लुक् । अत्र 'द्विगोः' इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्रद्विगो॑रिति प्राप्तङीब्निषेधेऽपिटिड्ढाण॑ञिति ठग्निमित्तको ङीब् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्रसङ्ख्याया अतिशदन्तायाः॑ इति कनःअध्यर्धे॑ति लुकिअपरिमाणे॑ति निषेधस्य चरितार्थत्वादिति चेत्सत्यम्,टिड्ढाण॑ञित्यत्र प्रत्यासत्त्या टिड्ढाणञादीनां यो ।ञकारस्तदन्तमिति विवक्षितम् । पञ्चाआशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः । नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । विस्तादिशब्दानां तु परिमाणविशेषवाचित्वात्अपरिमाणे॑त्यनेनाऽप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑ इत्यमरः ।गुञ्जाः पञ्च-आद्यमाषकः । ते षोडश अक्ष इति च । गुञ्जापञ्चकं माषपरिम#आणम् । माषषोडशकमक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे 'तद्धितार्थ' इति द्विगुः ।सम्भवत्यवहरतिपचती॑ति ठक्, तस्य 'अध्यर्धे' ति लुक् ।द्विगो॑रिति ङीपि प्रितषिद्धे सति टापि-॒द्विबिस्ता मूषा॑ । द्विबिस्त परिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । द्व्याचितेति । 'आचितो दश भाराः' इत्यमरः ।तुला स्त्रियां पलशतं भारः स्यादिंवशतिः पुमा॑निति च । द्वावाचितौ वहतीत्यर्थेआढकाचिढपात्रात्खोऽन्यतरस्याम्द्विगोष्ठं श्च॑ इति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति तस्य लुक् । अनेन 'द्विगोः' इति ङीपि निषिद्धे टापि-॒द्व्याचिता शकटी॑ । द्विकम्बल्येति । कम्बलस्य प्रकृतिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं ।तदर्थं विकृतेः प्रकृतौ॑ इत्यर्थेकम्बलाच्च संज्ञाया॑मिति यत् । द्वाभ्यां कम्बल्याब्यां क्रीतेति विग्रहेतेन क्रीत॑मिति ठञःअध्यर्द्धे॑ति लुक्,द्विगो॑रिति ङीपि अनेन प्रतिषिध्दे टाप् । नन्वत्र ।न तद्दितलुकी॑त्येवास्तु । तावतैव पञ्चभिरऔः क्रीता पञ्चाओति सिद्धेःअपरिमाणे॑ति मास्तु । एवंच द्विबिस्ता द्व्याचिता द्विकम्बल्येत्यपि सिद्धे विस्तादिग्रहणमपि मास्त्वित्यत आह — परिमाणान्तात्त्विति ।गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥॑ इति स्मृतिः । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्यां॒॑द्विगोष्ठंश्चे॑ति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति लुक् । 'द्विगोः' इति ङीप् । द्व्याढकीति रूपम् ।न तद्धितलुकी॑त्येवावत्येवोक्तेऽत्रापि ङीपो निषेधः स्यात् । अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणत्वान्ङीब्निषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति । Tattvabodhini ------------- **अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि** - पञ्चाओति । नन्वत्रद्विगो॑रिति ङीब्माभूत्, ठगन्तत्वात्तु स्यादेव । न चअपरिमाणे॑ति निषेधस्यनिरवकाशतेति वाच्यम्, पञ्चानामजानां निमित्तं धनपतिसंयुक्तिःपञ्चाजा॑पञ्चोष्ट्रे॑त्यादौसावकाशत्वात् । तत्र हिगोद्द्यचोऽसङ्ख्ये॑ति यत्प्रत्ययस्यअध्यर्धपूर्वे॑त्यादिना लुगिति चेदत्राहुः — ॒ठको योऽकार॑ इति व्याख्यानाट्ठगन्तलक्षणो ङीब्नेति । द्विबिस्तेति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑इत्यमरः ।आचितो दश भाराः स्युः॑ । द्विकम्बल्येति । द्वाभ्यां कम्बल्याभ्यां क्रीता । कम्बल्यम् -ऊर्णापलशतम् ।कम्बलाच्च संज्ञाया॑मिति यत् । ततः क्रीतार्थस्य ठञो लुक् । ह्रढकीति । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्याम्,द्विगोष्ठंश्चे॑ति खठनौ विहितौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ् । तस्यअध्यर्द्धे॑ति लुक् । एतेनद्द्याचिता॑व्याख्याता । स्यादेतत् -॒काण्डान्ता॑दित्युत्तरसूत्रेपरितः सर्वतो येन मीयते तत् — परिमाणमाढककुडवादि, न तु परिच्छेदकमात्र॑मिति मनोरमायां स्थितम् । तथा चाऽपरिमाणत्वादेव सिद्धे बिस्तादिग्रहणमिह व्यर्थं स्यात् । अत्राहुः — ॒उन्मानस्य निषेदे बिस्तादीनामेवे॑ति नियमार्तं तद्ग्रहणं, तेनद्विकार्षापणी॒॑द्द्यक्षी॑त्यादी सिध्यतीति । Padamanjari ----------- परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात् । सर्वतो मानं परिमाणमिति ।'परिमाणं तु सर्वतः' इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः । पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक् । कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोतरसूत्रे'काण्डशब्दस्यापरिमाणवाचित्वात्' इति वक्ष्यति,'प्रमाणविशेषः काण्डम्' इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः'प्रमाणे लो द्विगोर्नित्यम्' इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात् ? कश्चिदाह - इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते - द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः'द्वित्रिपूर्वान्निष्कात्' इति लुक्, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह - बिस्तकम्बल्यग्रहणं ज्ञापकम् - उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्, सुवर्णबिस्तौ हेस्नोऽक्षे,'कम्बलाच्च संज्ञायाम्' कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन् बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति'पणपादमाषशताद्यत्' इति नित्ये यति प्राप्ते'शाणाद्वा' इत्यत्र'शताच्चेति वक्तव्यम्' इति वचनात्पक्षे'सङ्ख्याया अतिशदन्तायाः कन्' इति कन्, तस्य ठध्यर्धपूर्वात्ऽ इति लुक् । द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, ठाढकाचितपात्रात्खोन्यतरस्याम्ऽ,'द्विगोष्ठ्ंअश्च' इति पक्ष ठन्खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य पूर्ववल्लुक् । द्विकम्बल्येति । क्रीतार्थे ठञो लुक् । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् । पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि - परिमाणान्तातद्धितलुकीति, तन्नियमार्थं भविष्यति - परिमाणान्तादेव तद्धितलुकि ङीब् भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत - द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप् । तस्माद्यथान्यासमेवास्तु ॥ Nyaas ----- `तद्धितलुकि सति`इति। एतेन `तद्धितलुकि` इत्येषा विषयसप्तमीति दर्शयति। परसप्तमीत्येषानोपपद्यते;लुकोऽभावरूपत्वात्, अभावे च पौर्वापर्याभावात्। `सर्वतो मानं परिमाणम्` इति। परिशब्दः सर्वतो भावे। सर्वत आरोहतः परिणाहतश्च मीयते = परिच्छद्यते येन तत्परिमाणम्- प्रस्थादिः।`पञ्चाआआ` इति। तद्धितार्थे द्विगुः, **तेन क्रीतम्** (5.1.37) इत्यार्हीयष्ठक्, `अध्यर्थपूर्वाद्द्विगोर्लुक्` (5.1.28) । `कालः संख्या च न परिमाणम्` इति। न हि ताभ्यामारोहतः परिणाहतश्च मीयते। ज्ञापकाच्च न तयोः परिमाणत्वमवसीयते। यदयं **परिमाणान्तस्यासंज्ञाशाणयोः** (7.3.17) इति सिद्धायामुत्तरपदवृद्धौ **संख्यायाः संवत्सरसंख्यस्य च** (7.3.15) इति संख्यासंवत्सरग्रहणं करोति, तज्ज्ञापयति -कालः संख्या च न परिमाणं भवतीति। विस्तादि च परिमाणविशेष एव ग्रहीतव्यः। अतो वृत्तिग्रन्थः - परिमाणार्थं ग्रहणमिति। काण्डस्य वा परिमाणत्वे तूत्तरसूत्रेण नियमार्थता न विरुध्यते। यद्येवं **कालाः परिमाणिना** (2.2.5) इत्यत्र सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्त इति यदुक्तं तद्विरुध्यते? नास्ति विरोधः; उपचारेण तथान्यत्र परिमाणिवाचिना सुबन्तेनाभिधानात्। इह हि मुख्यं कालस्य परिमाणत्वे निषिध्यते। तत्र ह्रौपचारिकं कालस्य परिमाणत्वमाश्रित्य परिमाणवचनाः कालशब्दा इत्युक्तम् - कालाः परिमाणनेति ब्राउवता। परिमाणवचनत्वं कालशब्दानामुपयुक्तं भवति,न हि तेन विना परिमाणापेक्षयोत्तरपदस्य परिमाणिव्यपदेश उपपद्यते। न च कालस्य मुख्यं परिमाणत्वमस्ति। अतः सामर्थ्यादौपचारिकं परिमाणत्वमाश्रितमिति गम्यते। उपचारस्य हेतुः परिच्छेदस्य हेतुत्वमात्रम्, परिमाणस्य साधम्र्यम्। कालो हि मासादिर्जातादिसमबन्धिनीमादित्यगतिं गमयतीति भवति परिच्छेदस्य हेतुः। अतः परिमाणसाधम्र्यादुपपद्यते, तत्र च परिमाणोपचारः। `द्विवर्षा, त्रिविर्षा` इति। द्वे वर्षे भूतेति **तमधीष्टो भृतो भूतो भावी** (5.1.80) इत्यनेन विहितस्य ठकः **वर्षाल्लुक् च** (5.1.88) इति लुक् पाक्षिकः। चित्तवत्त्वे तु प्रत्ययार्थस्य विवक्षिते **चित्तवति नित्यम्** (5.1.89) इति नित्यमेव लुक्। द्वे वर्षे प्रमाणमस्या इति `प्रमाणे लो द्विगोर्नित्यम्` (वा।558,559) इति नित्यमेव लुक्। `द्विशता, त्रिशता` इति। द्वाभ्यां शताभ्यां क्रीतेति `पणपादमाषसशताद्यत्` 5.1.34) इति यति प्राप्ते **शाणाद्वा** (5.1.35) इत्यत्रोपसंख्यानम् - `शताच्चेति वक्तव्यम्`(वा। 510) इति। तेन शतसशब्दात् पक्षे **संख्याया अतिशदन्तायाः कन्** (5.1.22) इति कन्,तस्य पूर्ववल्लुक्।`द्विविस्ता`इति। द्वौ बिस्तौ पचति। **सम्भवत्यवहरति पचति** (5.1.52) इत्यनेनार्हीयष्ठक्, तस्य पूर्ववल्लुक्। द्वावाचितौ पचति `द्व्याचिता`। **आढकाचितपात्रात् खोऽन्यतरस्याम्** (5.1.53) इति वर्तमाने **द्विगोः ष्ठंश्च** (5.1.54) इति ष्ठन्, तस्य पूर्वल्लुक्। द्वाभ्यां कम्बल्याभ्यां क्रीता `द्विकम्बल्या`। **तेन क्रीतम्** (5.1.37) इति ठक्,तद्वदेव। लुक्।`द्व्याढकी` इति। द्वावाढकौ पचति। **आढकाचितपात्रात् खोऽन्यतरस्याम्** (5.1.53) इति वर्तमाने **द्विगोः ष्ठंश्च** (5.1.54) इतिपक्षे ष्ठन्, तस्या लुक्। `पञ्चाआई` इति। पूर्ववत् समाहारे द्विगुः।इहेमौ द्वौप्रतिषेधावुच्येते, तत्रैकः शक्यमकर्त्तुम्। कथम्? एवं सूत्रन्यासः करिष्यते - परिमाणान्तातद्धितलुकीति। पूर्वेणैव सिद्धे नियमार्थमेतत् - परिमाणान्तादेव तद्धितलुकि ङीब्भवति, नान्यस्मात्। तेन द्व्याढकीत्यादावेव भवति, न पञ्चाओत्यादौ;ततो विस्ताचितकम्बल्येभ्यो न तद्धितलुकीत्यनुवर्तते,बिस्तादिभ्यः परिमाणेभ्योऽपि तद्धितलुकि ङीब्न भवतीति? नैवं शक्यम्; विपरीतोऽपि नियमः सम्भाव्येत -परिमाणान्तात् तद्धितलुक्येवन भवति, नान्यत्रेति। ततश्च द्वयोः कुडवयोः समाहारो द्विकुडवीत्त्र न स्यात्। तस्माद्यथान्यासमेवास्तु॥ Praudhamanorama --------------- **पञ्चाश्वेति।** नन्वत्र 'द्विगोः' इति ङीष् मा भूत्। ठगन्तत्वात्तु स्यादेवेति चेत्? न 'ठको योऽकार' इति व्याख्यानात्। **द्विबिस्तेति।** 'सुवर्णबिस्तौ हेम्नोऽक्षे' इत्यमरः। 'आचितो दश भाराः स्युः'। **द्विकम्बल्येति।** द्वाभ्यां कम्बल्याभ्यां क्रीता। कम्बल्यमूर्णापलशतम्। 'कम्बलाच्च संज्ञायाम्' इति यत्। क्रीतार्थस्य ठञो लुक्। **द्व्याढकीति।** द्वावाढकौ पचतीति 'आढकाचितपात्रात् खोऽन्यतरस्याम्' 'द्विगोष्ठँश्च' इति ख-ठन्भ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य लुक्। एतेन द्व्याचिता व्याख्याता। Prakriyasarvasvam ----------------- अपरिमाणान्ताद् बिस्ताद्यन्ताच्च द्विगोस्तद्धितलुकि न ङीप् स्यात् । द्वौ वर्षौ भृता द्विवर्षा । द्विबिस्ता । द्वयाचिता । द्विकम्बल्या । क्रीताद्यर्थे ‘अध्यर्धपूर्व—’ (५-१-२८)इति लुक् । परिमाणान्तात् तु ङीबेव । द्विप्रस्थी शाटी । तत्क्रीतेत्यथः ।