41020: वयसि प्रथमे
==================
**Padacheda:** वयसि | S | 7 | 1 |
प्रथमे | S | 7 | 1 |
Sutrartha
---------
**कुमारावस्थायाः निर्देशार्थम् ह्रस्व-अकारान्तात् प्रातिपदिकात् ङीप्-प्रत्ययः भवति ।**
**स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः **ङीप्** प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **शरीरस्य भिन्नाभ्यः अवस्थाभ्यः कुमार-अवस्थायाः निर्देशार्थम् प्रयुक्तात् प्रातिपदिकात् ह्रस्व-अकारान्तात् ङीप्-प्रत्ययः भवति** — इति अस्य सूत्रस्य अर्थः । सामान्यरूपेण शरीरस्य तिस्रः अवस्थाः परिगण्यन्ते — कुमारावस्था (कौमारम्, young age), युवावस्था (यौवनम्, adult age), तथा च वृद्धावस्था (जरा / वार्धक्यम्, old age) । एतासाम् तिसृणाम् अपि अवस्थानाम् निर्देशार्थम् भिन्नाः शब्दाः प्रयुज्यन्ते । एतासु कुमारावस्थायाः निर्देशार्थम् प्रयुक्तेभ्यः **अदन्तेभ्यः प्रातिपदिकेभ्यः** स्त्रीत्वे प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —
1. कुमार + ङीप् → "कुमारी" ।
2. किशोर + ङीप् → "किशोरी" ।
3. बर्कर (शिशुः इत्यर्थः) + ङीप् → "बर्करी" ।
एते त्रयः अपि शब्दाः कुमारावस्थां निर्दिशन्ति, अतः एतेभ्यः स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः विधीयते ।
"कन्या" इति शब्दः अपि कुमारवयोवाची एव । अयं शब्दः "कन्य" इति शब्दात् **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते सिद्ध्यति । वस्तुतस्तु अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव प्राप्नोति, परन्तु पाणिनिना स्वयमेव "कन्या" इति शब्दः **कन्यायाः कनीन च** (4.1.116) इत्यत्र प्रयुक्तः अस्ति । अस्मात् ज्ञापकात् "कन्य"-शब्दात् टाप्-प्रत्ययः एव भवति ।
**वार्त्तिकम् — **
यद्यपि प्रकृतं सूत्रम् शरीरस्य प्रथमायाः अवस्थायाः (कुमारावस्थायाः) निर्देशकानां शब्दानां विषये पाठितम् अस्ति, तथापि शरीरस्य द्वितीयायाः अवस्थायाः (युवावस्थायाः) निर्देशकानां शब्दानां विषये अपि प्रकृतसूत्रस्य प्रयोगः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —
1. वधूट / बधूट (a young person recently entered adulthood and stays close to the father's house) + ङीप् → "वधूटी / बधूटी"
2. चिरण्ट (a young person recently entered adulthood who continues to stay in father's house) + ङीप् → "चिरण्टी ।"
1. "युवन्"-शब्दः अदन्तः नास्ति अतः अस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः न भवति । अपि च, "युवन्"-शब्दात् स्त्रीत्वं द्योतयितुम् **यूनस्तिः** (4.1.77) इत्यनेन ति-प्रत्ययः क्रियते, येन "युवति" इति शब्दः सिद्ध्यति ।
2. "तरुण", "तलुन" एतयोः शब्दयोः **षिद्गौरादिभ्यश्च** (4.1.41) इत्यत्र विद्यमाने गौरादिगणे ग्रहणं कृतम् अस्ति; अतः एताभ्याम् शब्दाभ्याम् ङीष्-प्रत्यये कृते "तरुणी", "तलुनी" इति शब्दौ सिद्ध्यतः ।
**दलकृत्यम्**
1. **'प्रथमे (= अचरमे)' इति किमर्थम् ?** यः शब्दः कुमारावस्थाम्, युवावस्थां वा न दर्शयति (वृद्धावस्थां दर्शयति), तस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते । यथा —
(i) स्थविर + टाप् → "स्थविरा" ।
(ii) वृद्ध + टाप् → "वृद्धा" ।
"वृद्धा कुमारी इव = वृद्धकुमारी" इति शब्दः वस्तुतः वृद्धावस्थायाः निर्देशार्थम् एव प्रयुज्यते, परन्तु अत्र वृद्धायां कुमारीत्वम् आरोपितम् अस्ति अतः अत्र ङीप्-प्रत्ययेनैव अन्तिमं रूपं सिद्ध्यति इति अत्र तत्त्वबोधिन्यां स्पष्टीकृतम् वर्तते ।
2. **'अतः' इति किमर्थम् ?** प्रकृतसूत्रे **अजाद्यतष्टाप्** (4.1.4) इत्यस्मात् सूत्रात् "अतः" इति अनुवर्तते; अतः प्रकृतसूत्रस्य प्रयोगः अदन्तेभ्यः प्रातिपदिकेभ्यः एव भवति । अतएव "शिशुः" शब्दस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, "इयं शिशुः" ।
3. **'वयसि' इति किमर्थम् ?** प्रकृतसूत्रे प्रयुक्तः "वयः" इति शब्दः 'age' इत्यस्मिन् अर्थे नैव प्रयुक्तः अस्ति, अपि तु 'stage of life' (शरीरस्य अवस्था) अस्मिन् अर्थे प्रयुक्तः वर्तते । "प्राणिनाम् कालकृत-अवस्था-विशेषं वयः" इति अस्य शब्दस्य व्याख्या । अतएव "प्रथम", "द्वितीय", "तृतीय" — आदीनां शब्दानां विषये प्रकृतसूत्रस्य प्रयोगः न भवति, यतः एतैः सूत्रैः केवलम् सङ्ख्यात्मकं वयः निर्दिश्यते, न हि शरीरावस्था । एवमेव "उत्तानशय" (= the one who sleeps only on the back, without moving on their own) इति शब्दः यद्यपि अतिशिशुः (infant) इत्यस्य निर्देशार्थं प्रयुज्यते तथापि अनेन शब्देन शरीरावस्था न हि निर्दिश्यते अपि तु शयनपद्धतिः निर्दिश्यते, अतः अस्य विषये अपि प्रकृतसूत्रस्य प्रयोगः न भवति (कश्चित् रोगपीडितः वृद्धः अपि उत्तानशयः भवितुम् अर्हति इत्याशयः) । एवमेव "लोहितपाद" (used to indicate infant who feet are still reddish) इति शब्दः यद्यपि सामान्यतः 'शिशुः' अस्मिन् अर्थे प्रयुज्यते तथापि अनेन शब्देन पादयोः वर्णस्य निर्देशः भवति न हि शरीरस्य अवस्थायाः, अतः अस्य शब्दस्य विषये अपि इदं सूत्रं न प्रयुज्यते । तथैव "प्रौढ" इति शब्दः अपि वह्-धातुनिर्मितः अस्ति (शरीरावस्थां न दर्शयति) अतः तस्य विषये अपि प्रकृतसूत्रं न प्रयुज्यते ।
'पिता रक्षति कौमारे, भर्ता रक्षति यौवने, पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति' — इत्यस्मिन् श्लोके शरीरस्य तिस्रः अपि अवस्थाः परिगणिताः सन्ति ।
Vasu English Summary
--------------------
The affix ङीप् is used in the feminine after a प्रातिपदिक (Nominal Stem) ending in अ and denoting early age.
Vasu English Translation
------------------------
The affix ङीप् is used in the feminine after a प्रातिपदिक (Nominal Stem) ending in अ and denoting early age.
The word वयः means the condition of the body as dependent upon time; such as, youth, old age &c. Words expressive of early age form their feminine by ई, though ending in अ ॥ Thus, कुमारी 'a girl'. किशोरी 'a young girl' बर्करी 'a she-kid'.
Why do we say denoting 'early age?' Observe स्थविरा 'an old woman'; वृद्धा 'an old woman'. Why do we say ending in अ ? Observe शिशु, which is both masculine and feminine.
Vart:- The *sutra* should have been आचरमे वयसि 'words expressive of not old age'? Thus वधूटी 'a young woman', चिरण्टी 'a young woman'. These words denote the second stage of life, and not the first, i. e. they denote women who have attained their maturity.
How do you explain the form कन्या 'a girl'? This is an exception, and *Panini* himself uses the word '*kanya*' showing that it is a valid form; as in *sutra* (4.1.116).
The words like उत्तानशया 'an infant girl that does not know how to lie down properly' लोहितपादिका 'a female infant whose feet are still tender and red' do not directly, but metaphorically, express age, and hence are not governed by this rule.
Bhashya
-------
वयसि प्रथमे (1294) (5150 सूत्रार्थसाधकवार्तिकम्॥ 1 ॥) - वयस्य चरमे - (भाष्यम) वयस्यचरम इति वक्तव्यम्। इहापि यथा स्यात् -वधूटी, चिरण्टीति। (अतिव्याप्तिनिरासभाष्यम्) इह कस्मान्न भवति -उत्तानशया, लोहितपादिका, द्विवर्षा, त्रिवर्षेति। नैतानि वयोवाचीनि॥ कथं तर्हि वयो गम्यते? संबन्धाद्॥ (अव्याप्तिनिरासभाष्यम्) यदि तर्हि यत्र सम्बन्धाद्वयो गम्यते तत्र न भवति-इति-ःइहापि न प्राप्नोति -कुमारीति॥ अत्रापि हि सम्बन्धाद्वयो गम्यते। कोऽसौ सम्बन्धः? योऽसौ पुंसा सहासंप्रयोगः॥ (विवरणभाष्यम्) सम्बन्धादेवात्र वयो गम्यते॥ इह पुनः सम्बन्धसम्बन्धात्। इह तावत् -उत्तानशयेति - यदा कर्तृत्वं विशेषितं भवति तत उत्तरकालं वयो गम्यते॥ लोहितपादिकेति - यदा बहुव्रीह्यर्थो विशेषितः तत, उत्तरकालवयो गम्यते॥ द्विवर्षा त्रिवर्षेति - यदा द्विग्वर्थो विशेषितः, तत उत्तरकालं वयो गम्यते॥ (अतिव्याप्तिनिरासभाष्यम्) यदि तर्हि यत्र सम्बन्धादेव वयो गम्यते तत्र भवति-इति-ःइहापि प्राप्नोति -कन्येति। निपातनादेतत्सिद्धम्॥ किं निपातनम्? कन्यायाः कनीन च (4.1.116) इति॥
Kashika
-------
कालकृतशरीरावस्था यौवनादिर्वयः। प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते, ततः स्त्रियां ङीप् प्रत्ययो भवति। कुमारी। कि शोरी। बर्करी। प्रथम इति किम्? स्थविरा। वृद्धा। अत इत्येव — शिशुः॥ वयस्यचरम इति वक्तव्यम्॥ वधूटी। चिरण्टी। द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयते। कथं कन्या? **कन्यायाः कनीन च** (४.१.११६) इति ज्ञापकात्। उत्तानशया लोहितपादिकेति? नैता वयःश्रुतयः॥
Siddhanta Kaumudi
-----------------
प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी । (वार्तिकम्) ॥ वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न । कन्यायाः कनीन च (SK1119) इति निर्देशात् ॥
Laghu Siddhanta Kaumudi
-----------------------
प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात्। कुमारी॥
Balamanorama
------------
**वयसि प्रथमे** - वयसि प्रथमे । प्राणिनां कालकृतावस्ताविशेषो वयः । तच्च कौमारं यौवनं वार्धकं चेति त्रिधा ।पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति॥॑ इति दर्शनात् । चतुर्विधं वय इत्यन्ये ।आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति॥॑ इति दर्शनात् ।प्रथमे वयसी॑त्यनन्तरंविद्यमाना॑दिति शेषः । 'अजाद्यतष्टाप्' इत्यतोऽत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विसेष्यते । तदन्तविधिः । स्त्रियामित्यधिकृतम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । तदाह — प्रथमवयोवाचिन इत्यादिना । कुमारीति । अप्रादुर्भूतयौवनेत्यर्थः । वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपाद्बोध्यः ।वयस्यचरम इति । चरमम्न्त्यं वयः, तद्भिन्नमचरमं । प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः । किमर्थमित्यत आह — वधूटी चिरण्टीति । अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भावः । अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह — यावनवाचिनाविति । भाष्यप्रामाण्यादिति भावः । शिशुरिति । शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाऽभावान्न ङीबिति भावः । कन्याया नेति ।ङी॑बिति शेषः । कुत इत्यत आह — कन्यायाः कनीन चेति । नचद्विवर्षा स्त्री॑त्यादावपि ङीप् शङ्क्यः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमयोवाचित्वाऽभावात्, पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्या यो वयोवाची तस्यैव विवक्षितत्वात् ।
Tattvabodhini
-------------
**वयसि प्रथमे** - वयसि । कालकृता शरीरावस्था वयः । यस्त्वर्थपर्करणादिकमनपेक्ष्य श्रवणमात्रेण वयः पर्तिपादयति स वयोवाचीत्युच्यते, अन्तरङ्गत्वात् । तेनेह न, — उत्तानशया । लोहितपादा । इह प्रकरणादिना वयसः प्रतीतावपि शब्दादप्रतीतेः । अवलाऽपि हि व्याध्यादिवशादुताना शेते, अलक्तकेन च रक्तचरणा भवति । प्रथमेति किम् । वृद्धा । कुमारीति । पर्थमवयोवचन एवाऽयं शब्दो न त्वनूढत्वप्रयुक्तः । पुंस्यपिकुमार॑इति प्रयोगात् ।वृद्धकुमारी॑ति तु गौणः प्रयोगः । वयस्यचरम इति वाच्यम् । वयस्यचरम इति । यौवनं न प्रथमवयः, किंतु द्वितीयमिति वार्तिकारम्भः ।उपचयापचयलक्षणे द्वे एव वयसी॑ इति पक्षे यौवनस्यापि प्राथम्यात्सूत्रेणैव सिध्यतीत बोध्यम् । वयांसि चत्वारीत्येके । यदाहुः — ॒अद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यसि॑॥ इति । त्रीणीत्यन्ये । यदाहुः — ॒पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थावीरे भावे न स्त्री स्वातन्त्र्यमर्हति॥॑इति ।
Padamanjari
-----------
श्रुत्येति । श्रवणमात्रेण प्रकरणाद्यनपेक्षयेत्यर्थः । कुमारीति । प्रथमवयोवचन एवायम्, न पुंयोगाभावहेतुकः पुंस्यपि प्रयोगात् । यस्तु वृद्धायां प्रयोगः - वृद्धकुमारीति, स पुंयोगाभावात्साधर्म्याद्वेदितव्यः । वयस्यचरम इति । चरमु अन्त्यम्, अचरमे उ अनत्ये । इह केचिच्चत्वारि वयांसीच्छन्ति - कौमारप्, यौवनम्, मध्यत्वम्, वृद्धत्वमिति । यथाहुः - 'प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति' ॥ इति । अन्ये तु त्रीणि - 'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरिभावे न स्त्री स्वातन्त्र्यमर्हति' ॥ इति । अन्ये तु बालत्व-मध्यत्व-वृद्धत्वानि त्रीणि - ठाषोडशाद्भवेद्वालो यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिर्यावत्परतो वृद्ध उच्यतेऽ ॥ इति । एषु सर्वेषु दर्शनेषु यौवनं द्वितीयं वयो भवति, यौवनवचनौ च वधूटचिरण्टशब्दौ, अतो न प्राप्नोति, तदाह - द्वितीयवयोवचनावेताविति । यदा तु द्वे एव वयसी उपचयापचयलक्षणे, तदैतन्न वक्तव्यम् ; यौवनस्यापि प्रथमवयोरूपत्वात् । श्रुत्या वर्तते इति यदुक्तं तस्य व्यावर्त्यं दर्शयति - उतानशया लोहितपादिकेति नैता वयः श्रुतय इति । श्रुत्या उ श्रवणमात्रेण नैते वयः प्रतिपादयन्तीत्यर्थः । इह तावदुतानशयेति क्रियाकारकसम्बन्धमात्रं प्रतीयते, तदेव च प्रवृत्तिनिमितम् । उतानादिषु कर्तृष्विति शेरतेरच् प्रत्ययः, सर्वैव च कदाचिदुताना शेते, उच्यते चेदम् - उतानशयेति, तत्र नियमो गम्यते - अन्यथा स्वप्तुमसामर्थ्यादुतानैव शेत इति । एवमपि सन्देहः - बाला, वृद्धेति ? तस्मादुतानैव शेत इति नियमे वृद्धत्वाभावे च प्रकरणादिनाऽवसिते बाल्यं गम्यते, लाहितपादिकेत्यत्रापि अन्यपदार्थमात्रं श्रुत्या प्रतीयते । प्रकरणादिना स्वभावत एवास्य रक्तौ पादो नालक्तकादिनेति प्रतीतौ सत्यां बालेति गम्यते । इतिशब्दः प्रकारे, एवप्रकारा न वयःश्रुतय इत्यर्थः । अत एव बहुवचनम्, तेन द्विवर्षेत्यादावपि न भवति । अत्रापि प्रकरणादिना वयो गम्यते, परिमाणमात्रं तु शब्दार्थः, शालादावपि प्रयोगात् । द्वे वर्षे भूता इति ठञः'वर्षाल्लुक्च' ,'चितवति नित्यम्' इति लुक् ॥
Nyaas
-----
`यौवनादिः` इति। आदिशब्दो वृद्धत्वाद्युपसंग्रहार्थं इति। `श्रुत्या वर्तते` इति। यत् प्रातिपदिकं श्रवणमात्रेणैव प्रकरणाद्यनपेक्षं प्रथमं वयः प्रत्याययति तदत्र श्रुत्या वर्तते। `कुमारी` इति। ननु च नायं कुमारीशब्दः प्रथमे वयसि वर्तते, क्व तर्हि? पुंयोगाभावे, तथा हि वृद्धायामपि हि प्रयुज्यते - वृद्धा कुमारीति? नैतदस्ति;कुमारीशब्दो हि प्रथम एव वयसि रूढः। यस्तु वृद्धायामपि तस्य प्रयोगस्तत्र कुमारीसाधम्र्यात्, न तु पुंयोगाभावात्। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्, यथा -#ऋ- गौर्वाहीक इति।`वयस्यचरमे` इति। अचरमे = अनन्त्ये ङीब्भवतीत्येतदर्थरूपमस्य सूत्रस्य व्याख्यानमित्यर्थः। तेत्रेदं व्याख्यानम् - प्रथमवयोग्रहणमिहाचरमस्य वयस उपलक्षणम्, तेनान्यत्राप्यचरमे वयसि ङीब्भवतीति। किं पुनः कारणं प्रथम एव वयसि गृह्रमाणे न सिध्यति, येनैवं सूत्रार्थो व्याख्येयः? इत्याह - `द्वितीयवयोवचनावेतौ` इत्यादि। इह केचिच्चत्वारि वयांसीच्छन्ति -कौमार यौवन मध्यत्व वृद्धत्वानि। तथा चाहुः - `प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम्।तृतीये न तपस्तप्तं चतुर्थं किं करिष्यति॥ इति।अन्ये त्रीणीच्छन्ति -कौमारयौवनस्थाविराणि। तथा चाहुः -पिता रक्षतिकौमारे भर्ता रक्षति यौवने, पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥इति। केचिद्बाल्यमध्यत्ववृद्धत्वानीति त्रीणीच्छन्ति।तथा चाहुः -आषोडशाद्भवेद्बालो यावत् क्षीरान्नवर्तकः।मध्यमः सप्ततिर्यावत् परतो वृद्ध उच्यते॥ इति।एतेषु सर्वेषु यौवनं द्वितीयं वयो भवति। ननु प्रथमवयोवचनौ तु वधूटीचिरण्टीशब्दावित्यतो न प्राप्नोति, तस्मादचरमस्य वयस इहोपलक्षणं प्रथमं वय इति व्याख्येयमिति केचित्।यस्तु मन्यते `केचित्तु द्वे एव वयसी इच्छन्तीति, यावत्यो बुद्धिमत्योऽवस्थास्ताः सर्वा राशीकृत्य प्रथमं वयो व्यवस्थाप्यते, यास्त्वपचयवत्योऽवस्थास्ताः सर्वा राशीकृत्य द्वितीयं वयः। तथा चोक्तम् - `वद्र्धते यावदन्नेन तावद्वर्धितव्यं पश्चदपायेन योक्ष्यते`इति,एतदेव दर्शनमाश्रित्यैतत् सूत्रं प्रणीतम्। इति। तेन वधूटी, चिरण्टीत्यत्रापि ङीब्भवतीति तेन द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयत इत्यस्य ग्रन्थस्याविरोधाय यतितव्यम्। न ह्रस्मिन्दर्शने यौवनं द्वितीये वयस्यन्तर्भवति;यौवनावस्था वृद्धिमतीत्वात्।अथ कथमुत्तानशयालोहितपादिकेति, यावता बाल्यमत्र गम्यते, बालैव ह्रुत्तानशया लोहितपादिका भवति, तस्माद्भवितव्यमेव ङीपेत्यत आह - `नैता वयः श्रुतयः` इति। नैते वयोवचनाः शब्दा इत्यर्थः। इह तावदुत्तानशयेति प्रातिपदिकश्रवणमात्रेण क्रियाकारकसम्बन्धमात्रं प्रतीयते - उत्ताना शेत इत्युत्तानशया। **हरतेरनुद्यमनेऽच्** (3.2.9) इत्यतोऽज्ग्रहणेऽनुवर्तमाने **अधिकरणे शेतेः** (3.2.15) इत्यत्रोत्तानादिषु कर्त्तुष्वित्युपसंख्यानादच्,`स्त्रियाः पुंवत्` (6.3.33) इति पुंवद्भावः। सर्वैवोत्ताना शेते, उच्यते चेदमुत्तानशयेति;तत्र नियमो गम्यते। अन्यथा शायितुमसामर्थ्यादुत्तानैव या सेते सोत्तानशयेति गम्येति। अवगतेऽप्यस्मिन्नियमे सन्देह एव - किमसौ बाला? वृद्धा वा? इति। वृद्धाऽपि हि कदाचिदन्यथा शयितुमशक्ता स्यात्, उत्तानैव च शेते। तस्माद्यदोत्तानैव शेत इति नियमप्रतीतिर्भवति, वृद्धत्वाभावश्च कुतश्चितप्रकरणादेरवसितो भवति, तदा बाल्यं गम्यते। `लोहितपादिका`इति। अत्रापि लोहितौ पादावस्या इत्यन्यपदार्थमात्रं तावत् तच्छब्दात् प्रतीयते। यदा तु प्रकरणादिना स्वभावत एवास्या रक्तौ पादौ नालक्तकरसादिनेति प्रतीतिर्भवति तदा बालेति गम्यते। इतिशब्दः प्रकारार्थः। एवम्प्रकारा नैता वयः श्रुतय इत्यर्थः। कथं बाला, वत्सेति? अजादित्वाट्टाब्भविष्यति। ननु वचनसामर्थ्यादनेन ङीबपि प्राप्नोति? नैतदस्ति;तस्यान्यत्र कुमारी, किशोरीत्यादौ चरितार्थत्वात्॥
Praudhamanorama
---------------
**कुमारीति।** प्रथमवयोवाची एव शब्दो न त्वनूढत्वप्रयुक्तः। वृद्धकुमारीति तु गौणः प्रयोगः।
Prakriyasarvasvam
-----------------
वृद्धत्वात् पूर्वं प्रथमवय इति हरः । तदर्थाददन्ताद् ङीप् स्यात् । कुमारी । किशोरी । वधूटीचिरण्टीशब्दौ यौवनार्थौ वधूटी । चिरण्टी । वृद्धत्वे तु वृद्धा । स्थविरा । अनदन्तत्वाच्छिशुः ।
Vartika
-------
वयस्यचरम इति वाच्यम् ।
Sutra Prayogas
--------------
* **तरुण्यः** (शिशुपालवधम्): `वयसि प्रथमे` इति ङीप् ।