41018: सर्वत्र लोहितादिकतन्तेभ्यः ================================= **Padacheda:** सर्वत्र | S | 0 | 0 | लोहितादि-कतन्तेभ्यः | S | 5 | 3 | Sutrartha --------- **गर्गादिगणे विद्यमानानाम् 'लोहित' इत्यस्मात् आरभ्य 'कत' इति शब्दानाम् यञ्-प्रत्ययान्तरूपात् स्त्रीत्वं द्योतयितुम् नित्यं ष्फ-प्रत्ययः भवति ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः **ष्फ** प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **गर्गादिभ्यो यञ्** (4.1.105) इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यञ्-प्रत्यये कृते, एतेभ्यः यञन्तेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् **यञश्च** (4.1.16) इत्यनेन ङीप्-प्रत्यये प्राप्ते; **गर्गादिगणस्य "लोहित" इत्यस्मात् आरभ्य "कत" इति यावताम् उपत्रिंशत् शब्दानां विषये यञन्तात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययं बाधित्वा ष्फ-प्रत्ययः भवति** — इति अस्य सूत्रस्य आशयः । **केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते** । **गर्गादिभ्यो यञ्** (4.1.105) इति सूत्रे निर्दिष्टः गर्गादिगणः अधः निर्दिष्टः अस्ति । **अस्मिन् गणे विद्यमानाः लोहितादि-कतन्तशब्दाः स्थूलरूपेण (bold font) निर्दिष्टाः सन्ति** । एतेषां विषये प्रकृतत्रस्य प्रयोगः भवति । गर्ग । वत्स । वाजासे । संकृति । अज । व्याघ्रपात् । विदभृत् । प्राचीनयोग । अगस्ति । पुलस्ति । रेभ । अग्निवेश । शङ्ख । शट । शक । एक । घूम । अवट । मनस् । धनंजय । विश्वावसु । जरमाण । **लोहित । शंसित । बभ्रु । वल्गु । मण्डु । शङ्कु । लिगु । गुहलु । मन्तु । मङ्क्षु । अलिगु । जिगीषु । मनु । तन्तु । मनायीसूनु । कथक । कन्थक । ऋक्ष । तृक्ष । वृक्ष । तनु । तरुक्ष । तलुक्ष । तण्ड । वतण्ड । कपिकत । कपि । कत ।** कुरुकत । अनडुह् । कण्व । शकल । गोकक्ष । अगस्त्य । कण्डिनी । यज्ञवल्क । पर्णवल्क । अभयजात । विरोहित । वृषगण । रहूगण । शण्डिल । वर्णक । चणक । चुलुक । मुद्गल । मुसल । जमदग्नि । पराशर । जतूकर्ण । जातूकर्ण । महित । मन्त्रित । अश्मरथ । शर्कराक्ष । पूतिमाष । स्थूरा । अदरक । अररक । एलाक । पिङ्गल । कृष्ण । गोलन्द । उलूक । तितिक्ष । भिषज । भिषज् । भिष्णज । भडित । भण्डित । दल्भ । चेकित । चिकित्सित । देवहू । इन्द्रहू । एकलु । पिप्पलु । बृहदग्नि । सुलोहिन । सुलाभिन् । उक्थ । कुटीगु ॥ इति गर्गादिगणः । अत्र स्थूलरूपेण निर्दिष्टानां शब्दानां विषये प्रकृतसूत्रं प्रवर्तते । कानिचन उदाहरणानि एतानि — 1. "लोहित"-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् **यञश्च** (4.1.16) इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् — .. code-block:: text लोहितस्य गोत्रापत्यं स्त्री → लोहित + यञ् + ष्फ + ङीष् [**गर्गादिभ्यो यञ्** (4.1.105) इति यञ् । ततः स्त्रीत्वं द्योतयितुम् **सर्वत्र लोहितादिकतन्तेभ्यः** (4.1.18) इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् **षिद्भिदादिभ्योऽङ्** (3.3.104) इत्यनेन ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।] → लौहित + य + फ + ई [**तद्धितेष्वचामादैः** (7.2.117) इति आदिवृद्धिः ] → लौहित् + य + फ + ई [**यस्येति च** (6.4.148) इति अकारलोपः] → लौहित् + य + आयन + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति प्रत्ययादिफकारस्य आयन्-आदेशः] → लौहित् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः भवति ।] → लौहित् + य् + आयन् + ई [**यस्येति च** (6.4.148) इति नकारोत्तस्य अकारस्य लोपः] → लौहित्यायनी अनेन प्रकारेण "लोहितस्य गोत्रापत्यं स्त्री = लौहित्यायनी" इति सिद्ध्यति । एवमेव — 1. शंसितस्य गोत्रापत्यं स्त्री = शंसित + यञ् + ष्फ + ङीष् → "शांसित्यायनी" 2. कपेः गोत्रापत्यं स्त्री = कपि + यञ् + ष्फ + ङीष् → "काप्यायनी" 3. कतस्य गोत्रापत्यं स्त्री = कत + यञ् + ष्फ + ङीष् → "कात्यायनी" इत्यादीनि अन्यानि उदाहरणानि । 2. "बभ्रु"-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् **यञश्च** (4.1.16) इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् — .. code-block:: text बभ्रोः गोत्रापत्यं स्त्री → बभ्रु + यञ् + ष्फ + ङीष् [गर्गादिगणे विद्यमानात् बभ्रु-शब्दात् **मधुबभ्र्वोर्ब्राह्मणकौशिकयोः** (4.1.106) इति यञ्-प्रत्ययः भवति । ततः स्त्रीत्वं द्योतयितुम् **सर्वत्र लोहितादिकतन्तेभ्यः** (4.1.18) इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् **षिद्भिदादिभ्योऽङ्** (3.3.104) इत्यनेन ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।] → बाभ्रु + य + फ + ई [**तद्धितेष्वचामादैः** (7.2.117) इति आदिवृद्धिः ] → बाभ्रो + य + फ + ई [**ओर्गुणः** (6.4.146) इति गुणः] → बाभ्रव् + य + फ + ई [**वान्तो यि प्रत्यये** (6.1.79) इति अवादेशः] → बाभ्रव् + य + आयन + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति प्रत्ययादिफकारस्य आयन्-आदेशः] → बाभ्रव् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः भवति ।] → बाभ्रव् + य् + आयन् + ई [**यस्येति च** (6.4.148) इति नकारोत्तस्य अकारस्य लोपः] → बाभ्रव्यायणी [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] अनेन प्रकारेण "बभ्रोः गोत्रापत्यं स्त्री = बाभ्रव्यायणी" इति सिद्ध्यति । एवमेव — 1. वल्गोः गोत्रापत्यं स्त्री = वल्गु + यञ् + ष्फ + ङीष् → "वाल्गव्यायनी" । 2. मण्डोः गोत्रापत्यं स्त्री = मण्डु + यञ् + ष्फ + ङीष् →‌ "माण्डव्यायनी" । 3. शङ्कोः गोत्रापत्यं स्त्री = शङ्कु + यञ् + ष्फ + ङीष् → "शाङ्कव्यायनी" । इत्यादीनि अन्यानि उदाहरणानि । 1. प्रकृतसूत्रे निर्दिष्ट: "कतन्त" इति शब्दः "कत अन्ते येषाम्" इति बहुव्रीहिसमासेन सिद्ध्यति । अत्र "कत + अन्त = कतन्त" इत्यत्र वस्तुतः **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घः प्राप्नोति, परन्तु अस्य शब्दस्य शकन्ध्वादिगणे ग्रहणं कृत्वा सवर्णदीर्घं बाधित्वा इत्यनेन पररूपे कृते "कतन्त" इति शब्दः सिद्ध्यति । 2. गर्गादिगणे "कत" इति शब्दः वस्तुतः त्रिषु स्थलेषु विद्यते — "कुरुकत", "कपिकत", तथा च "कत" । एताभ्याम् "कुरुकत" तथा च "कपिकत" इत्यत्र "कत"-शब्दः केवलम् अंशरूपेण विद्यते, पूर्णशब्दस्वरूपेण न । अतः प्रकृतसूत्रे विद्यमानः "कत"शब्दः पृथग् रूपेण विद्यमानेन कत-शब्देन सह एव अन्वेति । **ष्फ-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययविधानम्** ष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य **षः प्रत्ययस्य** (1.3.6) इत्यनेन इत्संज्ञा भवति । अयं **इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति** । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः **षिद्गौरादिभ्यश्च** (4.1.41) इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः । **'शकल' इति शब्दस्य विषये अपि ष्फ-प्रत्ययविधानम्** गर्गादिगणे विद्यमानः "शकल" इति शब्दः वस्तुतः लोहितादि-कतन्तेषु नैव परिगण्यते । परन्तु **अस्मात् शब्दात् यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः एव भवति** — इति अत्र भाष्यकारेण स्पष्टीकृतम् अस्ति । अतः, "शकलस्य गोत्रापत्यं स्त्री = शकल + यञ् + ष्फ + ङीष् → शाकल्यायनी" इति शब्दः सिद्ध्यति । तर्हि एतत् साधयितुम् "शकल"-शब्दः "कत"-शब्दात् पूर्वमेव किमर्थं न स्थापितः इति चेत्, गर्गादिगणस्यैव कश्चन उपगणः "कण्वादिगणः", यः **कण्वादिभ्यो गोत्रे** (4.2.111) इत्यस्मिन् सूत्रे प्रयुक्तः अस्ति; तस्मिन् अपि "शकल" इति शब्दः आवश्यकः । कण्वादिगणस्य आरम्भः तु "कत"-शब्दात् अनन्तरं भवति । अतः "शकल" इति शब्दः कत-शब्दात् पूर्वम् स्थापयितुम् नैव शक्यः । अतएव तस्य विषये भाष्ये विशेषविधानं कृतम् अस्ति । **प्रकृतसूत्रे "सर्वत्र" इति शब्दस्य प्रयोजनम्** प्रकृतसूत्रे विद्यमानः "सर्वत्र" इति शब्दः पूर्वसूत्रे पाठितस्य "प्राचां" शब्दस्य अनुवृत्तिबाधनार्थम् अस्ति । इत्युक्ते, **प्राचां ष्फ तद्धितः** (4.1.17) इति पूर्वसूत्रात् "प्राचाम्" शब्दस्य अनुवृत्तिः अग्रे मा भूत् इति हेतुना अस्मिन् सूत्रे "सर्वत्र" शब्दः स्थापितः वर्तते । **प्राचां ष्फ तद्धितः** इत्यत्र निर्दिष्टः नियमः केवलं प्राचां मतेन साधु अस्ति, परन्तु प्रकृतसूत्रे निर्दिष्टः नियमः सर्वेषाम् मतेन साधु अस्ति — इति अत्र आशयः वर्तते । वस्तुतस्तु **प्राचां ष्फ तद्धितः** (4.1.17) इत्यनेन गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ष्फ-प्रत्यये विहिते सति प्रकृतसूत्रे "सर्वत्र" शब्दं विना अपि "सर्वत्र" इति अर्थः अवश्यं स्पष्टी भवति, यतः प्रकृतसूत्रे गर्गादिगणस्य केभ्यश्चन शब्देभ्यः एव पुनः ष्फ-प्रत्ययः पाठितः विद्यते । अतएव अयम् "सर्वत्र" इति शब्दः प्रकृतसूत्रार्थं नास्ति अपितु अस्य पूर्वसूत्रे अपकर्षः कर्तव्यः इति अस्मिन् सन्दर्भे भाष्यकारः विवृणोति — सर्वत्रग्रहणं किमर्थम् ? प्राचामेव हि स्यात्। नैतदस्ति प्रयोजनम्, सिद्धं प्राचां पूर्वेण । इदं तर्हि प्रयोजनम्। सर्वेषामेव यथा स्यात् — आवट्यायनी, चापं बाधित्वा ष्फो यथा स्यात् । — महाभाष्यम् **यत्र यत्र यञन्तात् अन्यः कश्चित् प्रत्ययः स्त्रीप्रत्ययः विहितः दृश्यते, तत्र तत्र सर्वत्र प्राचां मतेन तं बाधित्वा ष्फ-प्रत्ययः एव करणीयः** — इति अनेन अपकर्षण भाष्यकारः स्पष्टी करोति । **आवट्याच्च** (4.1.75) इति सूत्रेण "आवट्य" इति यञ्-प्रत्ययान्तात् शब्दात् वस्तुतः चाप्-प्रत्ययः पाठितः अस्ति, परन्तु प्राचां मतेन तत्रापि प्रकृतसूत्रेण चाप्-प्रत्ययस्य बाधं कृत्वा ष्फ-प्रत्ययः एव भवति, येन "आवट्य + ष्फ + ङीष् → आवट्यायनी" इति सिद्ध्यति — इति उदाहरणम् अपि अस्मिन् सन्दर्भे भाष्ये दत्तं विद्यते । **बाध्यबाधकभावः** 1. गर्गादिगणे विद्यमानानाम् लोहितादि-कतन्त-शब्दानां विषये **यञश्च** (4.1.16) इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः विधीयते । तद्भिन्नानाम् शब्दानां विषये तु प्रकृतसूत्रं नैव प्रवर्तते; अतः तेषां विषये इत्यनेन औत्सर्गिकः ङीप्-प्रत्ययः एव भवति । 2. प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् "ष्फ" इत्येव प्रत्ययः विधीयते — इति **प्राचां ष्फ तद्धितः** (4.1.17) इत्यनेन सूत्रेण उच्यते । Vasu English Summary -------------------- The affix ष्फ is invariably added in the feminine after the words beginning with लोहित and ending with क्त when they take the affix यञ्। Vasu English Translation ------------------------ The affix ष्फ is invariably added in the feminine after the words beginning with लोहित and ending with क्त when they take the affix यञ्। The words लोहित &c. are a subdivision of *Gargadi* class ( IV. 1.105). The present *sutra* makes the application of the affix ष्फ, compulsory while it was optional in the last. The word कत refers to the independent *pratipadika* कत in the said subdivision, which follows immediately after the word कपि, and not to the word कुरुकत of the same class, where the word कत is not an independent full nominal-stem but a member only. Thus, लोहित्यायनी, शांशित्यायनी, बाभ्रव्यायणी ॥ *Karika* कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते ॥ पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम् ॥ For the purposes of the application of ष्फ and अण्, the word शकल which is enumerated in the *Ganapatha* after the word कण्व (See (4.1.105)) should be regarded as if it stood immediately before कण्व and after कत ॥ Thus we have शाकल्यायनी (with ष्फ), and शकलाः with अण्, meaning शाकल्यस्येमे छात्राः 'the pupils of *Sakalya*'. Bhashya ------- सर्वत्र लोहितादिकतन्तेभ्यः (1292) (सर्वत्र पदकृत्यभाष्यम्) सर्वत्रग्रहणं किमर्थम्? प्राचामेव हि स्यात्। नैतदस्ति प्रयोजनम्, सिद्धं प्राचां पूर्वेण॥ इदं तर्हि प्रयोजनम्। सर्वेषामेव यथा स्यात् -आवट्यायनी, चापं बाधित्वा ष्फो यथा स्यात्। (5147 सूत्रांशपूरकवार्तिकम्॥ 1 ॥) - लोहितादिषु शाकल्यस्योपसंख्यानम् - (भाष्यम्) लोहितादिषु शाकल्यस्योपसंख्यानं कर्तव्यम् -शाकल्यायनी। यदि पुनरयं शकलशब्दो लोहितादिषु पठ्येत। नैवं शक्यम्। इह हि शाकल्यस्य च्छात्राः शाकलाः कण्वादिभ्योगोत्रे(4.2.11) इत्यण्न स्यात्। (गणपाठनिश्चायकभाष्यम्) एवं तर्हि - कण्वात्तु शकलः पूर्वः कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः॥ कतादुत्तर इष्यते। कतशब्दात् शकलशब्द उत्तरः पठितव्यः॥ पूर्वोत्तरौ तदन्तादी पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ। ये कण्वादयस्ते शकलादयः। ये कतपर्यन्तास्ते शकलपर्यन्ताः॥ किं प्रयोजनम्? ष्फाणौ तत्र प्रयोजनम्। तत्रैवं सति प्फाणौ सिद्धौ भवतः॥ कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्॥ Kashika ------- यञ इत्येव। पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम्। सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यो यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति। कतशब्दः स्वतन्त्रं यत् प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात् परः कपि कतेति, न प्रातिपदिकावयवः कुरुकतेति। लौहित्यायनी। शांसित्यायनी। बाभ्रव्यायणी। कण्वात् तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्॥ प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्य इति मन्यते। कतन्तेभ्य इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा **कण्वादिभ्यो गोत्रे** (४.२.१११) इति। तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्यते। शाकल्यायनी। शाकल्यस्येमे छात्राः शाकलाः॥ Siddhanta Kaumudi ----------------- लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥ Balamanorama ------------ **सर्वत्र लोहितादिकतान्तेभ्यः** - सर्वत्र लोहितादिर्गर्गाद्यन्तर्गणः । लोहित आदिर्येषामिति, कतोऽन्तो येषामिति च विग्रहः ।कतन्ते॑त्यत्र शकन्ध्वादित्वात्पररूपम् । 'यञ' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते ।प्राचां ष्फ तद्धितः॑ इति सूत्रंप्राचां॑वर्जमनुवर्तते । सर्वत्रेति । सर्वेषु मतेष्वित्यर्थः । नित्यमिति यावत् । तदाह — लोहितादिभ्य इत्यादिना । लौहित्यायनीति । लोहितस्यापत्यं स्त्रीति विग्रहः । लोहितशब्दाद्गर्गादियञन्तात् ष्फः । ष इत्, फकारस्यायन्,यस्येति चे॑ति यकारादकारस्य लोपः, 'तद्धितः' इत्यप्यनुवृत्तेः षित्त्वान्ङीषिति भावः । कात्यायनीति । पूर्ववत्प्रक्रिया बोध्या । Tattvabodhini ------------- **सर्वत्र लोहितादिकतान्तेभ्यः** - सर्वत्र । सर्वषां मत इत्यर्थः । तदेतत्फलितमाह — नित्यं ष्फः स्यादिति । नन्वारम्भसामर्थ्यान्नित् ।त्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेत् । अत्राहुः — पूर्वसूत्रे बाधकबाधनोपयुक्तस्येह स्पष्टार्थमभ्युपगमान्न वैयथ्र्यमिति ।यञ॑इत्यनुवर्तनादाह — यञन्तेभ्य इति । लोहितादिर्गर्गाद्यन्तर्गण इति भावः । लौहित्यायनीति ।सांशित्यायानी॒॑बाभ्राव्यायणी॑त्यदायोऽपि ज्ञेयाः । ननु गर्गादौ कत — कण्व-शकलेति पठते, तथा चशाकल्यायनी॑ति रूपं न सिध्येत् । यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठते, तथा चशाकल्यायनी॑ति रूपं न सिध्येत् । यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठते तर्हि शाकल्यस्य छात्राः शाकला इत्यत्रकण्वादिभ्यो गोत्रे॑इति कण्वादिकार्यमण् न सिध्येत् । उच्यते — कतकण्वशकलेति गणपाधे कण्वशब्दात् पूर्वं शकलशब्दः पठितव्यः ।॒कतन्तेभ्य॑इत्यत्र कतस्याऽन्तः कतन्तः, कतोऽन्तो येषां ते कतन्ताः । शाकन्ध्वादित्वात्पररूपम् । कतन्तश्च कतन्ताश्चेति बहुव्रीहितत्पुरुषयोरेकशेषोऽभ्युपेयः । तथाकण्वादिभ्य॑इत्यत्रापि कण्वस्यादिः कण्वादिः, कण्व आदिर्येषामिति बहुव्रीहितत्पुरुषयोरेकशेषस्तथा च सर्वेष्टसिद्धिरिति । Padamanjari ----------- लोहितादीति पृथक्पदं लुप्तविभक्तिकम्, पूर्वत्र च प्राचां मते ष्फो विहितः, इह तु सर्वत्र मते । कोऽर्थः ? सर्वेषाअं मत इत्यर्थः, तदाह - सर्वेषामाचार्याणां मत इति । मतेनेति तृतीयान्तपाठे सूत्रे पष्ठ।ल्न्तात्रल् । स्वतन्त्रमिति । योऽन्यस्यावयवो न भवति तत्स्वतन्त्रं प्रातिपदिकम्, कः पुनरसावित्यत्राह - कपिशब्दात्पर इति । लौहित्यायनीत्यादिर्गर्गाद्यन्तर्गणः । बभ्रुशब्दोऽपि तत्रैव पठ।ल्ते, यञ्तु'मधुबब्भ्र्वोर्ब्राह्मणकौशिक्योः' इत्यननैव भवति । कण्वात्वित्यादि । कण्वशब्दात्पूर्वः कतशब्दातूतरः शकलशब्द इष्यते, कतशकलकण्वेत्येवभेषां संनिवेशः कार्य इत्यर्थः । किमेवं सति भवति ? इत्याह - पूर्वोतराविति । शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोतरयोर्गणयोस्तौ तथोक्तौ । पूर्वो गणो लोहितादिः शकलशब्दान्तो भवति, उतरश्च गणः शकलशब्दादिर्भवतीत्यर्थः । सत्यमेवं भवति, प्रयोजनं तु किम् ? इत्यत आह - ष्फाणाविति । श्लोकं व्याटष्टे - प्रातिपदिकेष्वन्यथा पाठ इति । कपिकत, कुरुकत, अनडुह्, कण्व, शकलेत्येवं गर्गादिषु गणसन्निवेशः । स एवं व्यवस्थापयितव्य इति । एवमिति श्लोकोक्तयाऽऽनुपूर्व्येत्यर्थः । अनडुह्कुरुकतशब्दावस्मात्स्थानादपकृष्यान्यत्र पाठयौ, शकलशब्दस्तु कतकण्वयोर्मध्ये पठितव्य इति यावत् । नन्वेवं गणद्वयादपि प्रच्युतः शकलशब्दः ष्फाणौ द्वावपि न प्रतिपद्येत, तत्राह - कतन्तेभ्य इति । बहुव्रीहितत्पुरुषयोरेकशेष इति । कतस्यान्तः समीपभूतः कतन्त इति तत्पुरुषेण शकलशब्द उच्यते, शकन्ध्वादित्वान्निपातनाद्वा पररूपम् । तथा कतोऽन्तो येषां तानि कतन्तानीति बहुव्रीहिः, तत्र बहुव्रीहितत्पुरुषयोः सह विवक्षायां बहुव्रीहिः शिष्यते;'स्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यते' इति वचनात् । तथेत्यादि ।'कण्वादिभ्यः' इत्यपि बहुव्रीहितत्पुरुषयोरेकेशेष इत्यर्थः । कण्वस्यादिः समीपभूतः कण्वादिः शकलशब्दः, कण्व आदिर्येषां तानि कण्वादीनि, ततः पूर्ववदेकशेषः । तत्र बहुव्रीहितत्पुरुषयोर्मध्ये तत्पुरुषसमासेन । मध्यवर्तीति । गणद्वयस्य । प्रत्ययद्वयमपीति । ष्फाणावित्यर्थः । शाकला इति । ठापत्यस्य चऽ इति यलोपः । अपर आह - पूर्वोतरौ तदन्तादी ग्राह्याविति शेषः, पूर्वो गणस्तदन्तो ग्राह्यः - सर्वत्र लोहितादिशकलान्तेभ्य इति, उतरो गणस्तदादिर्ग्राह्यः - शकलादिभ्यो गोत्र इति । एवं ष्फाणौ प्रयोजनमिति ॥ Nyaas ----- `स्वतन्त्रम्` इति। यो ह्रन्यस्यावयवभूतो न भवति केवलः कतशब्दस्तत् स्वतन्त्रं प्रातिपदिकम्। यस्तु कुरुकतशब्दस्यावयवः कतशब्दस्तस्य स्वान्तन्त्र्यं नास्ति; समुदायप्रतिबद्धत्वात्। कः पुनरसौ कतशब्दः स्वतन्त्रं प्रातिपदिकमित्यत आह - `कपिशब्दात्` इत्यादि। `लौहित्यायनी`। शांसित्यायनी` इति। लोहितशंसितशब्दाभ्यां गर्गादित्वाद्यञ्। `वाभ्रव्यायणी` इति। अत्रापि बभ्रुशब्दात् `मधुबभ्रुवोब्र्राआहृणकौशिकयोः` (4.1.106) इति यञ् **ओर्गुणः** (6.4.146) , **वान्तो यि प्रत्यये** (6.1.79) इति वान्तादेशः, यञन्तेभ्यः ष्फः। `कण्वात्तु`इत्यादि। कण्वशब्दात् पूर्वः शकलशब्द इष्यते, कतशब्दात्तूत्तरः। किमेवं सति भवतीत्याह - `पूर्वोत्तरो`इत्यादि। एवं सति पूर्वोत्तरो गणौ तदन्तादी भवतः। तच्छब्देन शकलशब्दः प्रत्यवमृश्यते। शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोत्तरयोर्गणयोस्तौ तदन्तादी पूर्वोत्तरगणौ। लोहितादिः शकलशब्दान्तो भवति पूर्वो यथः। उत्तर गणः कण्वादिः शकलशब्दादिर्भवति। किं पुनः पूर्वोत्तरयोर्गणयोस्तदन्तादित्वे प्रयोजनमित्याह -`ष्फाणौ तत्र प्रयोजनम्` इति। पूर्वस्य गणस्यशकलान्तत्वे ष्फः प्रयोजनम्। उत्तरस्य शकलादित्वेऽण् प्रयोजनम्।`प्रातिपदिकेष्वन्यथा पाठः`इति। कपिकत, कुरुकत, अनडुह्, कण्व, शकल - इत्यनयाऽनुपूर्व्या प्रातिपदिकेषु पाठः। `स एवं व्यवस्थापयितव्यः` इति। कण्वात्तु शकलः पूर्वः`इत्यादिना याऽऽनुपर्वी दर्शिता तया व्यवस्थापयितव्यः। अत एतदुक्तं भवति - कुरुकत, अनडुह् - इत्येतावन्यस्मिन् स्थाने पठितव्यौ, शकलशब्दस्तु कतकण्वशब्दयोर्मध्ये पठितव्यः। `मन्यते` इति श्लोवार्त्तिकारः। कथं पुनरेवं पाठे सति शकलशब्दात् ष्फाणौ सिध्यत आह - `कतन्तेभ्यः` इत्यादि। कतस्यान्तः कतन्त इति तत्पुरुषः `कतन्तेभ्यः`इति निपातनात्पररूपत्वम्। कतशब्दोऽन्ते येषां लोहितादीनां ते कतन्ता इति बहुव्रीहिः। कतन्तश्च शकलशब्दः, कतन्ताश्च लोहितादय इति कतन्तश्च कतन्ताश्चेति सरूपाणामेकशेषः। `तथा` इत्यादिना यथा कतन्तेभ्य इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्य इत्यत्रापीति दर्शयति। कण्वस्यादिः कण्वादिः शकलशब्दः कण्वशब्दः आदिर्येषां गोकक्षादीनां ते कण्वादयः, कण्वादिश्च कण्वादयश्च कण्वादयः, पूर्ववदेकशेषः। `तत्पुरुषवृत्त्यासंगृहीतः`इति। `कतन्तेभ्यः` इत्यत्र **कण्वादिभ्यो गोत्रे** (4.2.111) इत्यत्र तत्पुरुषवृत्त्या तत्पुरुषसमासेन। `मध्यापीत` इति। कतकण्वशब्दयोर्गणयोर्वा। `प्रत्ययद्वयम्` इति। ष्फप्रत्ययम्, अण्प्रत्ययञ्च। `प्रतिपद्यते` इति। प्राप्नोति। तत्पुरुषवृत्त्याहि तस्य संग्रहे सत्यस्य सूत्रस्यायमर्थो जायते - कतन्ताच्छकलशब्दात् तथा यञन्तात् कतन्तेभ्यश्च लोहितादिभ्यो यञन्तेभ्यः स्त्रियां ष्फप्रत्ययो भवतीति। तेन ष्फप्रत्ययं प्रतिपद्यते शकलशब्दः। `शाकल्यायनी` इति। **कण्वादिभ्यो गोत्रे** (4.2.111) इत्यत्रापि तत्पुरुषवृत्त्या शकलशब्दस्य संग्रहे सत्ययमर्थो भवति। कण्वादेः शकलशब्दान्ताद्गोत्रप्रत्ययान्तात् कण्वादिभ्यो गोकक्षान्तेभ्यो गोत्रप्रत्ययान्तेभ्यः शैषिकेष्वर्थेष्वण्प्रत्ययो भवतीति। तेनाण्प्रत्ययमपि शकलशब्दः प्रतिपद्यते - शाकल्यस्येमे छात्राः शाकला इति॥ Prakriyasarvasvam ----------------- गर्गाद्युक्तेभ्यो लोहितादिभ्यः कतन्तेभ्यः सर्वाचार्यमते ष्फः स्यात् । लौहित्यायनी । बाभ्रव्यायणी । कात्यायनी । शाकलाच्चेष्टम् । शाकल्यायनी ।