41013: डाबुभाभ्यामन्यतरस्याम्
=============================
**Padacheda:** डाप् | S | 1 | 1 |
उभाभ्याम् | S | 5 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha
---------
**मन्नन्तेभ्यः प्रातिपदिकेभ्यः, तथा च अन्नन्तेभ्यः बहुव्रीहिसमस्तपदेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन डाप्-प्रत्ययः भवति ।**
**स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु तृतीयः प्रत्ययः **डाप्** इति प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते "मन्" इति विद्यते तस्मात् प्रातिपदिकात्, तथा च यस्य बहुव्रीहिसमस्तपदस्य अन्ते "अन्" इति विद्यते तस्मात् प्रातिपदिकात् द्योतयितुम् **डाप्** इति स्त्रीप्रत्ययः विकल्पेन भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि —
1. मन्नन्तानि प्रातिपदिकानि — "पामन्", "दामन्", "सीमन्" एतादृशेभ्यः मन्नन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्यये प्राप्ते **मनः** (4.1.11) इत्यनेन सः निषिध्यते । अस्यां स्थितौ प्रकृतसूत्रेण विकल्पेन **डाप्** इति प्रत्ययः विधीयते । यथा —
.. code-block:: text
सीमन् + डाप् [**डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इति डाप्]
→ सीमन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]
→ सीम् + आ [**टेः** (6.4.143) इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]
→ सीमा
अनेन प्रकारेण "सीमा" इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । एवमेव, "पामन् + डाप् → पामा", "दामन् + डाप् → दामा" इत्येते प्रातिपदिके अपि सिद्ध्यतः । सर्वत्र पक्षे डाप्-प्रत्ययं विना "सीमन्, दामन्, पामन्" एते नकारान्तशब्दाः अपि स्त्रीलिङ्गे प्रयुज्यन्ते ।
"सीमा" इति आकारान्तशब्दस्य प्रथमाविभक्तेः रूपाणि — "सीमा, सीमे, सीमाः" इति भवन्ति । "सीमन्" इति नकारान्तशब्दस्य प्रथमाविभक्तेः रूपाणि तु — "सीमा, सीमानौ, सीमानः" इति भवन्ति । उभयत्र प्रथमैकवचनम् "सीमा" इति समानमेव अस्ति ।
2. येषाम् अन्ते "अन्" इति विद्यते तादृशानि बहुव्रीहिसमासेन सिद्धानि प्रातिपदिकानि — "बहुराजन्", "बहुतक्षन्", "बहुयज्वन्", "बहुधीवन्" एतादृशेभ्यः बहुव्रीहिसमासेन निर्मितेभ्यः अन्नन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् **ऋन्नेभ्यो ङीप्** (4.1.5) इत्यनेन ङीप्-प्रत्यये प्राप्ते **अनो बहुव्रीहेः** (4.1.12) इत्यनेन सः निषिध्यते । अस्यां स्थितौ प्रकृतसूत्रेण विकल्पेन **डाप्** इति प्रत्ययः विधीयते । प्रक्रियाः एतादृश्यः —
(i) "बहवः राजानः यस्याः सा" इत्यत्र —
.. code-block:: text
बहवः राजानः यस्याः सा
= बहु + राजन् + डाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इति डाप् ।]
→ बहु + राजन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]
→ बहु + राज्+ आ [**टेः** (6.4.143) इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]
→ बहुराजा
अनेन प्रकारेण "बहुराजा" इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन विकल्पेन ङीप्-प्रत्यये कृते "बहुराज्ञी", तथा च पक्षे स्त्री-प्रत्ययं विना "बहुराजन्" इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति ।
(ii) "बहवः तक्ष्णः यस्याः सा" इत्यत्र —
.. code-block:: text
बहवः तक्ष्णः यस्याः सा
= बहु + तक्षन् + डाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इति डाप् ।]
→ बहु + तक्षन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]
→ बहु + तक्ष्+ आ [**टेः** (6.4.143) इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]
→ बहुतक्षा
अनेन प्रकारेण "बहुतक्षा" इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे **अन उपधालोपिनोन्यतरस्याम्** (4.1.28) इत्यनेन विकल्पेन ङीप्-प्रत्यये कृते "बहुतक्ष्णी", तथा च पक्षे स्त्री-प्रत्ययं विना "बहुतक्षन्" इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति ।
(iii) "बहवः यज्वानः यस्याः सा" इत्यत्र —
.. code-block:: text
बहवः यज्वानः यस्याः सा
= बहु + यज्वन् + डाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । अत्र **वनो र च** (4.1.7) इत्यनेन ङीप्-प्रत्यये प्राप्ते इति वार्त्तिकेन सः निषिध्यते । ततः **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इति डाप्-प्रत्ययः विधीयते ।]
→ बहु + यज्वन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]
→ बहु + यज्व् + आ [**टेः** (6.4.143) इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]
→ बहुयज्वा
अनेन प्रकारेण "बहुयज्वा" इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना "बहुयज्वन्" इति स्त्रीलिङ्गवाचि प्रातिपदिकम् अपि सिद्ध्यति ।
(iv) "बहवः धीवानः यस्याः सा" इत्यत्र एतादृशी प्रक्रिया भवति —
.. code-block:: text
बहवः धीवानः यस्याः सा
= बहु + धीवन् + डाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । ततः **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इति विकल्पेन डाप्-प्रत्ययः ।]
→ बहु + धीवन् + आ [डकारपकारयोः इत्संज्ञा, लोपः]
→ बहु + धीव् + आ [**टेः** (6.4.143) इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः]
→ बहुधीवा
अनेन प्रकारेण "बहुधीवा" इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे **वनो र च** (4.1.7) इत्यत्र निर्दिष्टेन इति वार्त्तिकेन विकल्पेन ङीप्-प्रत्यये, तदनुषङ्गेन च नकारस्य रेफादेशे कृते "बहुधीवरी" इति शब्दः अपि सिद्ध्यति । पक्षे स्त्रीप्रत्ययं विना "बहुधीवन्" इत्यपि स्त्रीलिङ्गवाची शब्दः प्रयुज्यते ।
**डाप्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्**
डाप्-प्रत्यये डकारपकारयोः इत्संज्ञा भवति । तत्र —
1. **इत्संज्ञकः पकारः** **अनुदात्तौ सुप्पितौ** (3.1.4) इति अनुदात्तस्वरविधानार्थम् स्थापितः अस्ति ।
2. **इत्संज्ञकः डकारः** डित्कार्यार्थः अस्ति । डित्-प्रत्यये परे **टेः** (6.4.143) इत्यनेन भसंज्ञकस्य अङ्गस्य टेः लोपः भवति । अतएव उपरि निर्दिष्टेषु सर्वेषु अपि उदाहरणेषु टिलोपे कृते रूपं सिद्ध्यति ।
Vasu English Summary
--------------------
The affix डाप् comes optionally after both - 1. प्रातिपदिक (Nominal Stem) ending in अन् 2. बहुव्रीहि समास ।
Vasu English Translation
------------------------
The affix डाप् comes optionally after both - 1. प्रातिपदिक (Nominal Stem) ending in अन् 2. बहुव्रीहि समास ।
Of the affix डाप्, the letter ड् indicates that the affix is to be added after the elision of the टि (1.1.64) of the base. Thus पामन् + डाप् = पाम् + आ = पामा, This being an optional rule we have I.s पामा d, पामे or पामानौ, pl, पामाः or पामानः; similarly with सीमा, as, सीमा, सीमे or सीमानौ, सीमाः or सीमानः ॥
So also in *Bahuvrihi* compounds ending in अम्. As:-
बहुराजा, बहुराजे or बहुराजानौ, बहुराजाः or बहुराजानः ॥
बहुतक्षा, बहुतक्षे or बहुतक्षाणौ, बहुतक्षाः or बहुतक्षाणः ॥
Why do we say "optionally" ? So that the option may apply to *sutra* (4.1.7) also; i. e. when a *pratipadika* ending in वन्, which can be regarded as ending in अन्, is a *Bahuvrihi* compound, then the change of न् into र् and the application of ङीप् are optional we may apply the affix डाप् instead. As:-
बहुधीवा or बहुधीवरी; बहुपीवा or बहुपीवरी ॥
Bhashya
-------
बुभाभ्यामन्यतरस्याम् (1287) (विकल्पाधिकरणम्) (सूत्रैकदेशाक्षेपभाष्यम्) किमर्थमुभाभ्यामित्युच्यते? (समाधानभाष्यम्) उभाभ्यां योगाभ्यां डाब्यथा स्यात्। मन्नन्तादन्नन्ताच्च बहुव्रीहेः॥ (सिद्धान्तभाष्यम्) नैतदस्ति प्रयोजनम्। प्रकृतमुभयमनुवर्तते॥ (आक्षेपभाष्यम्) अथान्यतरस्यां ग्रहणं किमर्थम्? (समाधानभाष्यम्) अन्यतरस्यां डाब्यथा स्यात्। डापामुक्ते प्रतिषेधोऽपि यथा स्यादिति॥ (समाधानाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। इह डाबुच्यते, प्रतिषेधोऽपि। तावुभावपि वचनाद्भविष्यतः॥ (समाधानभाष्यम्) इदं तर्हि प्रयोजनम् - डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यात्॥ (प्रत्याक्षेपभाष्यम्) सिद्धोऽत्र ङीप्-अन उपधालोपिनोऽन्यतरस्याम् (4.1.28) इति॥ (सूत्रान्तरैकदेशाक्षेपभाष्यम्) अथ तदन्यतरस्यां ग्रहणं शक्यमकर्तुम्? बाढं शक्यम्॥ कथम्? इह डाबप्युच्यते, प्रतिषेधोऽपि, ङीबपि। तत्सर्वं वचनाद्भविष्यति॥ (आक्षेपनिरासभाष्यम्) नैवं शक्यं विज्ञातुम्। अक्रियमाणे हि तत्रान्यतरस्यां ग्रहणेऽनवकाशो ङीब् डाप्प्रतिषेधौ बाधेत॥ (प्रत्याक्षेपभाष्यम्) डाप्प्रतिषेधावप्यनवकाशौ तौ वचनाद्भविष्यतः॥ (समाधानभाष्यम्) सावकाशौ डाप्प्रतिषेधौ। कोऽवकाशः? सुपर्वा, चारुपर्वेति। तस्मादन्यतरस्यां ग्रहणं कर्तव्यम्॥ (आक्षेपभाष्यम्) इदं तु खल्वन्यतरस्यां ग्रहणं शक्यमकर्त्तुम्॥ (समाधानभाष्यम्) इदमप्यवश्यं कर्तव्यम्॥ किं प्रयोजनम्? डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रावपि यथा स्यातामिति। रविधाने बहुव्रीहेरुपसंख्यानं चोदितं तन्न वक्तव्यं भवति॥ (जिज्ञासाभाष्यम्) अथेह कथं भवितव्यं - बहवः श्वानोऽस्यां रथ्यायाम्, बहवो युवानोऽस्यां शालांयामिति? (रूपाक्षेपभाष्यम्) बहूशूका, बहुयूका इति भवितव्यम्॥ का रूपसिद्धिः -डाप्, टिलोपः, प्रसारणम्, प्रसारणपरपूर्वत्वम्, नद्यृतश्चेति कप्॥ (सिद्धान्तभाष्यम्) कपा तावन्न भवितव्यम्॥ किं कारणम्? नद्यन्तानां यो बहुव्रीहिरित्येवं तद्विज्ञायते, न चैष नद्यन्तानां बहुव्रीहिः॥ प्रसारणेनापि न भवितव्यम्। वक्ष्यत्येतत् -श्वादीनां प्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थमिति॥ परपूर्वत्वेन चापि न भवितव्यम्। वक्ष्यत्येतत् -संप्रसारणपूर्वत्वे समानाङ्गग्रहणमसमानाङ्गप्रतिषेधार्थमिति॥ तस्माद्बहुश्वा, बहुयुवेति भवितव्यमिति॥
Kashika
-------
डाप् प्रत्ययो भवत्युभाभ्यां मन्नन्तात् प्रातिपदिकादनन्ताच्च बहुव्रीहेरन्यतरस्याम्। पामा, पामे, पामाः। सीमा, सीमे, सीमाः। न च भवति — पामानः। सीमानः। बहुव्रीहौ — बहुराजा, बहुराजे, बहुराजाः। बहुतक्षा, बहुतक्षे, बहुतक्षाः। न च भवति — बहुराजानः। बहुतक्षाणः। अन्यतरस्यांग्रहणं किमर्थम्? बहुव्रीहौ **वनो र च** (४.१.७) इत्यस्यापि विकल्पो यथा स्यात्। बहुधीवा,बहुधीवरी। बहुपीवा, बहुपीवरी॥
Siddhanta Kaumudi
-----------------
सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥
Balamanorama
------------
**डाबुभाभ्यामन्यतरस्याम्** - डाबुभाभ्याम् ।उभाभ्या॑मित्येतद्व्याचष्टे — सूत्रद्वयोपात्ताभ्यामिति । 'मन' इति 'अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तान्मन्नादन्नन्तबहुव्रीहेश्चेत्यर्थः । नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम् । नच तदभावे डाब्नित्यः स्यादिति वाच्यं, डापो नित्यत्वे तेनैव ङीपो निवृत्तिसंभवेन ङीब्निषेधवैयथ्र्यात् । एवञ्च ङीप्निषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धेरन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति केचित् । भाष्ये तुअन्यतरस्या॑मिति योगविभागमाश्रित्य 'बहुव्रूहौ' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दाड्डापि टिलोपे सीमाशब्दात्सोर्हल्ङ्यादिलोपः । डाबभावपक्षेऽपि 'मनः' इति ङीब्निषेधे सौसीमे॑त्येव राजवद्रूपम् । तर्हि डाब्विधेः किं फलमित्यत आह-सीमे सीमानाविति । मन्नन्तविषये उदाहरणान्तरमाह-दामेति । दाधातोरौणादिको मनिन् ।हिरण्मयं दाम दक्षिणा॑ इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह-न पुंसीति । दामन्शब्दः पुंसि न, किंतु स्त्रीनपुंसकयोरित्यर्थः,निषिद्धलिङ्गं शेषार्थ॑मिति परिभाषितत्वात् । अन्नन्तबहुव्रीहेरुदाहरति-बहुयडज्वेति । बहवो यज्वानो यस्या इति विग्रहः । डापि टिलोपे बहुयज्वाशब्दात्सोर्हल्ङ्यादिलोपः । ङीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह-बहुयज्वे बहुयज्वानाविति । शसि-बहुयज्वनः । अत्राऽल्लोपस्तु न भवति,न संयोगाद्वमन्ता॑दिति निषेधात् । अत एव 'अन उपदालोपिनः' इत्यस्य नायं विषयः ।
Tattvabodhini
-------------
**डाबुभाभ्यामन्यतरस्याम्** - डाबुभाभ्याम् । उभाभ्याङ्गरहणं व्यर्थं, मन्नन्ताऽन्नन्तयोरनुवृत्त्यैव तत्फलसिद्धेरित्येके । उभोरप्यनुवृत्तिसृचनाय त्द्ग्रहणमावश्यकम्, अन्यथा संनिहितस्यान्नन्तस्यैवानुवृत्तिरिति शङ्का स्यादित्यन्ये । ननु निषेधापोर्वचनसामर्थ्यात्पर्यायः सिध्यति तत्किमन्यतरस्यङ्गरहणेन । सत्यम् ।अन्यतरस्या॑मिति योगो विभज्यते, तत्रमनः॑इति निवृत्तम् । अनो बहुव्रीहेर्डाब्वा स्यात् । पूर्वेणैव डैपि सिद्धे पुनर्विधानमिदम्ऋन्नेभ्यः — ॑इति ङीपा स ह विकल्पार्थम् ।अन उपधालोपिनः — ॑इति सूत्रं तु नियमार्थम् ।अनो योऽसौ विकल्पः स उपधालोपिन एवे॑ति । एवं टबहुधीवर्य्यौ॒॑बहुधीवानौ॑बहुधीवे॑त्युक्तरुपत्रयं सिद्धमितिबहुव्रीहौ वे॑त्येतन्नाऽपूर्वं वचनमिति बोध्यम् ।उपधालोपिन एवे॑ति नियमात्तुसुपर्वा॑चारुपर्वे॒त्यादावनुधालोपिनो ङीप्न भवति, किंतु डाप्प्रतिषेधावेव भवतः । अयं च योगविभागोऽबश्यमभ्युपेयः, अन्यथाबहिधावरी॑त्यत्र प्रकरणान्तरस्थेनअन उपधालोपिन॑इति वक्ष्यमाणेन पाक्षिके ङीपि कृतेऽपिऋन्नेभ्यः॑इति प्राप्तं ङीपमनूद्य तत्संनियोगेन हि विधायमानो योवनोर चे॑ति ,#ऊत्रमेव ङीब्राऔ विधत्तामिति चेन्, उभयविधौ गौरवात् । किञ्चोभयविधायकत्वेऽपिअनो बहुव्रीहे॑रित्यनेन ङीपि निषिद्धे रोऽपि दुर्लभः, संनियोगशिष्टत्वात् । भाष्ये तुअनो बहुव्रीहे॑रित्यस्याऽनन्तरम्उपधालोपिनो वे॑ति सूत्रमस्तु,अन उपधे॑त्यादि प्रदेशान्तरस्थं सूत्रं, ङाप्सूत्रेऽन्यतरस्याङ्ग्रहणं च मास्त्वित्युक्तम् ।
Padamanjari
-----------
अन्तरस्यांग्रहणं किमिति । डापा मुक्ते प्रतिषेधो यथा स्यादित्येवमर्थं तावदेतन्न कर्तव्यम्, कथम् ? डाबुप्युच्यते, प्रतिषेधोऽपि तावुभौ वचनाद्भविष्यतः । यदि हि नकारान्तस्य श्रवणं न स्यात्, तदा डापैवापवादेन ङीपो बाधात् प्रतिषेधोऽनर्थकः स्यात् । अथ डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यादित्येवमर्थमन्यतरस्यांग्रहणम् ? तदपि न; बहुराज्ञीत्यादौ ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेनैव ङीपः सिद्धत्वात् । यत्र तर्हि तेन न सिद्धयति - अतिशर्मेत्यादौ, तदर्थमेतत्स्यात् ? यद्येवम्, अनेनैवोपधालोपिनोऽपि सिद्धत्वाद् ठन उपधालोपिनःऽ इत्येतदनर्थकं स्यात् । एवं तर्हि तदन्यतरस्यां ग्रहणं न करिष्यामीतिदमन्यतरस्यांग्रहणं क्रियते, कथम् ? अनेनैवान्यतरस्यांग्रहणेनोपधालोपिनोऽनुपधालोपिनश्च ङीपि प्रापिते सति ठन उपधालोपिनःऽ इत्येतावदपि क्रियमाणं नियमार्थं भविष्यति - अनो बहुव्रीहेर्यन् ङीब्विधानं तदुपधालोपिन एवेति, ततश्च तदन्यतरस्यांग्रहणं न कर्तव्यं भवति ? तदवश्यं कर्तव्यम्, असति हि तस्मिन्ननेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्राद् डाप्प्रतिषेधङीप्सु त्रिष्वपि प्राप्तेषूपधालोपिनो डाप्प्रतिषेधौ बाधित्वा नित्यं ङीबेव यथा स्यादित्येवमर्थं तत्स्यात् । अतस्तदवश्यं कर्तव्यम्, इदं तु न कर्तव्यमिति प्रश्नः । परिहरति - बहुव्रीहाविति । अयमभिप्रायः - डाप्प्रतिषेधाभ्या मुक्ते ङीबपि यथा स्यादित्येवमर्थमिदं तावदन्यतरस्याग्रहणम् । न च ठन उपधालोपिनःऽ इत्यस्य वैयर्थ्यम् ; नियमार्थत्वात् - अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति । तेन सुपर्वा, सुशर्मेत्यादावनेनान्यतरस्यांग्रहणेन प्रापितो ङीब् न भवति, बहुराज्ञीत्यादावेव तु भवति । नन्वेवमिदमन्यतरस्यांग्रहणं मा भूत्, ठन उपधालोपिनःऽ इत्येतदेव विध्यर्थमस्तु, को वा विशेषः ? अनेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्रान् ङीपि प्रापिते तन्नियमार्थं स्याद्, असति वास्मिन् डाप्प्रतिषेधयोरेव प्राप्तयोरुपधालोपिनोऽप्राप्तो ङीप् पक्षे विधीयते इति ? अयमस्ति विशेषः - अस्मिन्नन्यतरस्यांग्रहणे सति डाप्प्रतिषेधाभ्यां मुक्ते स्वेन स्वेन सास्त्रेण ङीब् भवन् वन्नन्तेषु'वनो र च' इत्यनेनैव भवतीति बहुधीवरीत्यादौ रेफोऽपि भवति । एवमनेन वन्नन्तादुपधालोपिनोऽनुपदालोपिनश्च बहुव्रीहेर्बहुधीवन्सुपर्वन्नित्यादेर्ङीब्रेफयोः प्रापितयोरन्यत्र बहुराजन्सुशर्मन्नित्यादौ केवले ङीपि प्रापिते सतिठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्येतन्नियमार्थं भवति, तेन च नियमेन सुशर्मेत्यादौ ङीब् व्यावर्त्यते । सुपर्वेत्यादौ ङीपि व्यावर्तिते तत्सन्नियोगशिष्टत्वाद्रेफोऽपि न भवति । बहुराज्ञीत्यादौ तु यथाप्राप्तो ङीबवस्थितः, बहुधीवरीत्यादौ च'वनो र च' इत्यनेन प्राप्तौ ङीब्रेफाववस्थिताविति सर्वमिष्ट्ंअ सिध्यति । असति त्वस्मिन्, तस्मिंश्च विध्यर्थेऽपूर्व एव ङीप् तेन विधीयत इति वन्नन्ते बहुव्रीहौ ठृन्नेभ्यो ङीप्ऽ इत्येतत्सन्नियुक्तं'वनो र च' इत्येतन्न प्रवर्तेतेति केवले ङीपि सति बहुधीव्नीति स्यात् । अतः ठन उपधालोपिनःऽ इत्यतन्नियमार्थं यथा स्यात्स्वतन्त्रो विधिर्मा भूदित्येवमर्थमिहान्यतरस्यांग्रहणं क्रियत इति । तदिदम् ठन उपधालोपिनःऽ इत्यत्र वृत्तिकारः स्पष्टयिष्यति । यद्यनेनान्यतरस्यांग्रहणेन पक्षे ङीबपि प्राप्यते दामेत्यादौ मन्नन्तादपि प्राप्नोति ? नैष दोषः; योगविभागः क्रियते - डाबुभाभ्यां भवति, ततः ठन्यतरस्याम्;ऽ ठनो बरुव्रीहेःऽ इत्येव वर्ते,'मनः' इति निवृतम् ॥
Nyaas
-----
इहान्यतरस्यांग्रहमस्य डापः मुक्ते पक्षे प्रतिषेधोऽपि यथा स्यादित्येतद्वा प्रयोजनं स्यात्? डाप्प्रतिषेधाभ्यां मुक्ते पक्षे ङीबपि यथा स्यादित्येतद्वा? तत्राद्यं तावदयुक्तम्;डाबपि ह्रुच्यते, प्रतिषेधोऽपि, तावुभावपि वचनसामर्थ्याद्भविष्यतः। द्वितीयमप्ययुक्तम्। अन्यतरस्यांग्रहमेन ह्रनुपधालोपिनो वा बहुव्रीहेः पक्षे ङीब्विधीयते? उपधालोपिनो वा? तत्र प्रथमस्तावत् पक्षो नोपपद्यते, यदि ह्यत्रानुपधालोपिनःपक्षे ङीब्विधीयेत प्रतिषेधवचनमनर्थकं स्यात्; द्वितीयोऽपि नोपपद्यते, `अन उपधालोपिनोऽन्यतरस्याम्` (4.1.28) इति प्रतिपदं विकल्पेन ङीपो विधास्यमानत्वात्। न च तदन्यतरस्यांग्रहमं न करिष्याम इतीहान्यतरस्यांग्रहणं कर्त्तुं युक्तम्; तद्ध्यवश्यमेव कर्तव्यम्, उपधालोपिनो हि ङीपा मुक्ते डाप्प्रतिषेधौ यथा स्याताम् - बहुराज्ञ्यौ, बहुराजानौ, बहुराजे इति। इतरथा हि डाप्प्रतिषेधौ सुपर्वादिष्वनुपधालोपिषु सावकाशौ परत्वान्ङीपा बाध्येयाताम्। तस्माद्वक्ष्यमाणमप्यन्यतरस्यांग्रहणं कर्तव्यमेवेति तत्सर्वं मनसि कृत्वाऽऽह - `अन्यतरस्यांग्रहणं किमर्थम्` इति। निरर्थकमिति भावः। `बहुव्रीहौ`इत्यादि। **वनो र च** (4.1.7) इत्यनेन यत्कार्यं विधीयते तस्यापि बहुव्रीहौ विकल्पो यथा स्यादित्येवमनर्थकमन्यतरस्यांग्रहणम्। यद्यत्प्राप्तं तत्तद्विकल्पेन प्रत्युपस्थापयितव्यम्। ङीब्रोफावप्राप्तौ, **अनो बहुव्रीहेः** (4.1.12) इति प्रतिषेधात्। तस्मात् तद्विधानार्थमन्यतरस्यांग्रहणं कर्तव्यम्। कथमन्यतरस्यामिति? योगविभागोऽत्र क्रियते, तत्र बहुव्रीहिग्रहणमनुवर्तते, **वनो र च** (4.1.7) इत्येतच्च मण्डूकप्लुतिन्यायेन। तेन वन्नन्ताद्बहुव्रीहेरन्यतरस्यां ङीब्रोफश्चान्तादेशो लभ्यत इति बहुपीवा, बहुधीवा, बहुपीवरी, बहुधीवरीत्यादि सिद्धं भवति। अन्ये त्वाहुः - उभाभ्यांग्रहमसहितादन्यतरस्यांग्रहणाद्वन्नन्ताद्बहुव्रीहेर्ङीब्रोफौ लभ्येते। `उभाभ्याम्` (4.1.13) इतिनेयं पञ्चमी, कं तर्हि? तृतीया, वन्नन्ते बहुव्रीहौ स्त्रीत्वमुभाभ्यां ङीब्रोफाभ्यां करणाभ्यां प्रयोक्त्रा प्रत्याययितव्यमिति। ननु च मन्नन्तात् प्रातिपदिकादन्नन्ताच्च बहुव्रीहेर्डाबुभाभ्यामित्यदुभाभ्यांग्रहणस्य प्रयोजनम्? एवं मन्यते - स्वरितत्वादेव `उभाभ्याम` (4.1.13) इति वचनमन्तरेणाप्युभाभ्यामेव प्रत्ययो लभ्यत एवेति॥
Praudhamanorama
---------------
ननु निषेधडापोर्वचनसामर्थ्यात् पर्यायः सिद्धः, सत्यम्। 'अन्यतरस्याम्' इति योगो विभज्यते। तत्र 'मनः' इति निवृत्तम्। अनो बहुव्रीहेर्डाब् वा स्यात्। ङीपा सह विकल्पलाभार्थमिदम्। 'अन उपधालोपिन' इति सूत्रन्तु नियमार्थम्। अनो योऽसौ विकल्पः स उपधालोपिन एवेति। तथा च सुपर्वेत्यादौ अनुपधालोपिनि निषेधार्थमिदम्। बहुराज्ञीत्यादौ तु 'ऋन्नेभ्य' इत्येव ङीप्। तेन बहुधीवरीति सिद्ध्यति। 'ऋन्नेभ्य' इति हि ङीपमनूद्य तत्सन्नियोगेन विधीयमानो रेफः। प्रकरणान्तरस्थेन ङीपि कृते न सिद्ध्येत्। ननु 'वनो र च' इति सूत्रमेव ङीब्रौ विधत्तामिति चेन्न, उभयविधौ गौरवात्। किञ्चैवमपि ङीपि निषिद्धे रोऽपि दुर्लभः, सन्नियोगशिष्टत्वात्। भाष्ये तु सूत्रभङ्गेन समाहितम्। तद्यथा— 'अनो बहुव्रीहेः' इत्यस्यानन्तरमुपधालोपिनो वेति सूत्रमस्तु। 'अन उपधा' इत्यादिप्रदेशान्तरस्थं सूत्रं, डाप्सूत्रे 'अन्यतरस्यां' ग्रहणं च मास्तु इति।
Sutra Prayogas
--------------
* **बद्धदर्भमयकाञ्चिदामया** (शिशुपालवधम्): `डाबुभाभ्यामन्यतरस्याम्` इति डाप्प्रत्ययः।