41002: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
============================================================================
**Padacheda:** सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् | S | 1 | 1 |
Sutrartha
---------
**ङ्यन्तात्, आबन्तात्, प्रातिपदिकात् च सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् एते प्रत्ययाः भवन्ति ।**
प्रातिपदिकेभ्यः पदस्य निर्माणं कर्तुम् आवश्यकाः एकविंशतिः सुप्-प्रत्ययाः प्रकृतसूत्रेण पाठिताः सन्ति । एते एकविंशतिः प्रत्ययाः **सुपः** (1.4.103) इति सूत्रेण क्रमेण **एकवचन-द्विवचन-बहुवचन**-संज्ञकाः भवन्ति, तथा च **विभक्तिश्च** (1.4.104) इति सूत्रेण विभक्तिसंज्ञकाः भूत्वा "प्रथमा", **द्वितीया** इत्यादिभिः संज्ञाभिः अपि निर्दिश्यन्ते । तद्यथा —
| **एकवचनम्** | **द्विवचनम्** | **बहुवचनम्** |
| प्रथमा** | सुँ | औ | जस् |
| **द्वितीया** | अम् | औट् | शस् |
| **तृतीया** | टा | भ्याम् | भिस् |
| **चतुर्थी** | ङे | भ्याम् | भ्यस् |
| **पञ्चमी** | ङसिँ | भ्याम् | भ्यस् |
| **षष्ठी** | ङस् | ओस् | आम् |
| **सप्तमी** | ङि | ओस् | सुप् |
एते एकविंशतिः प्रत्ययाः "सु" इत्यनेन प्रारभ्यन्ते, "प्" इति इत्संज्ञकवर्णेन च समाप्यन्ते, अतः **आदिरन्त्येन सहेता** (1.1.71) इत्यनेन प्रत्याहारनिर्माणं कृत्वा "सुप्" इति प्रत्याहारेण एतेषां निर्देशः भवति ।
**सुप्-प्रत्ययेषु इत्संज्ञकवर्णाः**
एतेषु प्रत्ययेषु केचन वर्णाः इत्संज्ञकाः सन्ति । तद्यथा —
1. **उपदेशेऽजनुनासिक इत्** (1.3.2) इत्यनेन सुँ इत्यस्य उकारः** तथा **ङसिँ इत्यस्य इकारः** इत्संज्ञां प्राप्नुतः ।
2. **हलन्त्यम्** (1.3.3) इत्यनेन **औट्-इत्यस्य टकारः** तथा **सुप्-इत्यस्य पकारः** इत्संज्ञां प्राप्नुतः । अनेनैव सूत्रेण जस्/अम्/शस्/भ्याम्/भिस्/भ्यस्/ङस्/ओस्/आम्-प्रत्ययानाम् सकारस्य मकारस्य च इत्संज्ञायां प्राप्तायाम् **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन सा निषिध्यते ।
3. **चुटू** (1.3.7) इत्यनेन **जस् इत्यस्य जकारः** तथा च **टा इत्यस्य टकारः** च इत्संज्ञां प्राप्नुतः ।
4. **लशक्वतद्धिते** (1.3.8) इत्यनेन **शस्-इत्यस्य शकारः** तथा च **ङे/ङसिँ/ङस्/ङि एतेषाम् ङकारः** च इत्संज्ञां प्राप्नुतः ।
एतेषाम् सर्वेषाम् अपि इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे **तस्य लोपः** (1.3.9) इत्यनेन लोपः भवति ।
**सुप्-प्रत्ययानां स्वरः**
**अनुदात्तौ सुप्पितौ** (3.1.3) इति सूत्रे सुब्ग्रहणसामर्थ्यात् एतेषाम् सर्वेषाम् शब्दानाम् आदिस्वरः अनुदात्तसंज्ञकः भवति ।
**सुप्-संज्ञायाः प्रयोजनम्**
सुप्-संज्ञायाः मुख्यम् प्रयोजनम् अस्ति **सुप्तिङन्तं पदम्** (1.4.14) इत्यनेन पदनिर्माणम् । यथा, "राम" इति प्रातिपदिकात् क्रमेण सु-औ-जस्-इत्यादीनां प्रत्ययानां योजनं कृत्वा "रामः, रामौ, रामाः" इत्यादीनि पदानि सिद्ध्यन्ति ।
Sutrartha (English)
-------------------
The प्रत्ययाः - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् get attached to a word that ends in ङीप्/ङीष्/ङीन्/टाप्/डाप्/चाप् pratyay, or is a प्रातिपदिक.
Vasu English Summary
--------------------
(After what ends with the feminine terminations ङी or आप् or after a प्रातिपदिक (Nominal Stem), the following case-affixes ae used for declension) - 1st - सु (स), औ , जस् (अस्)। 2nd - अम् , औट् (औ), शस् (अस्)। 3rd - टा (आ), भ्याम् , भिस् । 4th - ङे (ए), भ्याम् , भ्यस्। 5th - ङसि (अस्), भ्याम् , भ्यस्। 6th - ङस् (अस्), ओस् , आम्। 7th - ङि (इ), ओस् , सुप् (सु)।
Vasu English Translation
------------------------
(After what ends with the feminine terminations ङी or आप् or after a प्रातिपदिक (Nominal Stem), the following case-affixes ae used for declension) - 1st - सु (स), औ , जस् (अस्)। 2nd - अम् , औट् (औ), शस् (अस्)। 3rd - टा (आ), भ्याम् , भिस् । 4th - ङे (ए), भ्याम् , भ्यस्। 5th - ङसि (अस्), भ्याम् , भ्यस्। 6th - ङस् (अस्), ओस् , आम्। 7th - ङि (इ), ओस् , सुप् (सु)।
Ist., *su* (*s*), *au*, *jas* (*as*)
2nd., *am*, *aut* (*au*), *sas* (*as*)
3rd., *ta* (*a*), *bhyam*, *bhis*
4th., *ne* (*e*), *bhyam*, *bhyas*
5th., *nasi* (*as*), *bhyam*, *bhyas*
6th., *nas* (*as*), *os*, *am*
7th., *ni* (*i*), *os*, *sup* (*su*)
In the above affixes, letters like उ in सु 'anubandhas' employed either for the sake of facility of pronunciation, or as distinguishing marks. The final प् is employed for the sake of forming the *pratyahara* सुप्, which is the collective name for the above 21 case-affixes. The force and meaning of these affixes have already been explained in a former part of this work; and therefore, need not be repeated here. We shall now give examples of the application of these affixes to words formed by ङीप्, as, कुमारी; by ङीष् as, गारी; by ङीन् as शार्ङ्गरवी; by टाप् as खट्वा; by डाप् as बहुराजा; and by चाप् as कारीषगन्ध्या; and lastly to a *pratipadika* as दृषद् ।
कुमारी ।
Ist, कुमारी, कुमार्यौ, कुमार्यः
2nd, कुमारीम्, कुमार्यौ, कुमारीः
3rd, कुमार्या, कुमारीभ्याम्, कुमारीभिः
4th, कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः
5th, कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः
6th, कुमार्याः, कुमार्योः, कुमारीणाम्
7th, कुमार्याम्, कुमार्योः, कुमारीषु
खट्वा ।
Ist, खट्वा, खट्वे, खट्वाः
2nd, खट्वाम्, खट्वे, खट्वाः
3rd, खट्व्या, खट्वाभ्याम्, खट्वाभिः
4th, खट्वायै, खट्वाभ्याम्, खट्वाभ्यः
5th, खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः
6th, खट्वायाः, खट्वयोः, खट्वानाम्
7th, खट्वायाम्, खट्वयोः, खट्वासु
दृषद् ।
Ist, दृषद्, दृषदौ, दृषदः
2nd, दृषदम्, दृषदौ, दृषदः
3rd, दृषदा, दृषद्भ्याम्, दृषद्भिः
4th, दृषदे, दृषद्भ्याम्, दृषद्भ्यः
5th, दृषदः, दृषद्भ्याम्, दृषद्भ्यः
6th, दृषदः, दृषदोः, दृषदाम्
7th, दृषदि, दृषदोः, दृषत्सु
The words गौरी and शार्ङ्गरवी are declined like कुमारी; and बहुराजा and कारीषगन्ध्या are declined like खट्वा ॥
Kashika
-------
ङ्याप्प्रातिपदिकादित्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः। औटष्टकारःसुडिति प्रत्याहारग्रहणार्थः। पकारः सुबिति प्रत्याहारार्थः। संख्या कर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यता। ङ्यन्तात् तावत् — कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेणोदाहरणम् — कुमारी, कुमार्यौ, कुमार्यः। कुमारीम् कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी शार्ङ्गरवी चोदाहार्य। आपः खल्वपि — खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेणोदाहरणम् — खट्वा, खट्वे, खट्वाः। खट्वाम्,खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्,खट्वाभिः। खट्वायै, खट्वाभ्याम् खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्,खट्वाभ्यः। खट्वायाः, खट्वयोः,खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये चोदाहार्ये। एवं प्रातिपदिकात् — दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृषदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु॥
Siddhanta Kaumudi
-----------------
ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ॥
Laghu Siddhanta Kaumudi
-----------------------
सु औ जस् इति प्रथमा । अम् औट् शस् इति द्वितीया । टा भ्याम् भिस् इति तृतीया । ङे भ्याम् भ्यस् इति चतुर्थी । ङसि भ्याम् भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी ॥
Balamanorama
------------
**स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्** - स्वैजसमौट् । सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्, ङे-भ्यां-भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप् — इत्येकविंशतिः स्वादयः । समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । ङ्याप्प्रातिपदिकादित्यदिकृतं,प्रत्ययः॑,परश्चे॑ति च यथायथं च विपरिणम्यते । तदाह — ङ्यन्तादित्यादिना । सुङस्योरिति । सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा — इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, 'सुप्' इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः ।उपदेशेऽजनुनासिक इत्,चुटू॑, लशक्वतद्धिते॑, 'हलन्त्यम्' इति सूत्रै॑रिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते ।
Tattvabodhini
-------------
**स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्** - स्वौजसमौट् । समाहारे द्वन्द्वः । सुङस्यौरिति । सोरुकारःअर्वणस्त्रसा॑वित्यत्र विशेषणार्थः ।असी॑त्युक्ते हि असकारादाक्त्यिर्थः स्यात् । तथा चवाजमर्वत्सु॑ इति न सिध्येत् । ङसेरिकारःटाङसिङसां॑ — ॒ङसिङयोः स्मात्स्मिनौ॑ इत्येतदर्थः । जश्शसोर्जकारशकारौजसः शी॑ तस्माच्छसौ नः॑ इत्यनयोर्विषयविभागार्थौ । [ननु] अन्यतरस्य निरनुबन्धकत्वमेवास्त्विति चेत्[न], जाकाराऽभावेऔ॑इत्यस्य आव् स्यात्, ततश्च प्रत्ययस्य वकारान्तता संभाव्येत । एवं शसः शकाराऽभावे औटो ङित्त्वं संभाव्येत, तथाचतेजसी॑ इत्यादौ टिलोपः स्यात् । अथवालिहा॑वित्यादौ ङित्त्वसामर्थ्यादभस्यापि टेर्लोपः संभाव्येत । औटष्टकारःसु॑डिति प्रत्याहारार्थः । टाटकारस्तुटाङसिङसां॑ — ॒द्वितीयाटौस्वेनः॑ इति विशेषणार्थः । एतेनआदिरन्त्येने॑ति सूत्रे काशिकाकारेण यदुक्तम्-॒अन्त्येनेति किम् ,सु॑डिति तृतीयैकवचनावयवेन मा भूत्-इति तत्परास्तम् । औटष्टकारस्यान्यार्थतया तेनैव संभवात्, प्रत्यासत्तेश्च । अतेव शब्दकौस्तुभे तत्रान्यदेव प्रयोजनमुक्तम् — ॒मध्यमेनेता सहित आदिस्तदुत्तरेषामपि ग्राहको मा भूदित्यन्त्येनेति ग्रहणम् । अन्त्येनेता सहितो मध्यमः पूर्वेषामपि मा भूदित्यादिग्रहणम्-इति । अमुमेवार्थं मनसि निधाय — ॒आद्यन्ताभ्यामवयवाभ्यामवयवी समुदाय आक्षिप्यते॑ — इति निष्कृष्टमुक्तं प्राक् । प्रकृतमनुसरामः — ङेप्रभृतीनां ङकारोघेर्ङिति॑ङेराम् — ॑ इति विशेषणार्थः । सुपः पकारस्तु प्रत्याहारार्थः ।
Padamanjari
-----------
उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः ठेततदोः सुलोपःऽ,'दीर्घात्सुतिसि' इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । ठनङ्सौऽ इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्यस्याभावात् । न च ठनङसिऽ इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः;'सर्वनामस्थाने' इत्यनुवृतेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्याइकारस्यावादेशे सन्देहः स्यात् - किमौकारस्योच्चारणम्, अथावित्यस्येति ।'जसः शी' इत्यादौ विशेषणार्थस्तु न भवति; ठसः शीऽ इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्, शसादीनां सानुबन्धकत्वात् । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्।'तस्माच्छसः' इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात् ।'टा' इत्यत्र टकारः'टाङसिङसामिनात्स्याः' इति विशेषणार्थः; अन्यथा'सुपां सुलुक्' इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात् । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । णेóप्रभृतिषु ङ्कारः'घेर्ङिति' इति विशेषणार्थः । ङ्सेरिकारः'युष्मदस्मद्भां ङ्सो' श्ऽ इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च - ठौटष्टकारः सुडिति प्रत्याहारार्थःऽ इत्यग्रिमग्रन्थेन भवितव्यम् । क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह - संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति ।'बहुषु बहुवचनम्' ,'कर्मणि द्वितीया' इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङदिविधिनाप्येकवाक्यत्वं यथा स्यादिति ।'बहुषु बहुवचनम्' इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद् ठव्ययादाप्सुपःऽ इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्यौत्पतिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ॥
Nyaas
-----
`उकारादवोऽनुबन्धाः` इत्यादि। तत्र प्रथमैकवचनस्योकार उच्चारणार्थाः। `अनहसौ` (7.1.93) इति विशेषणार्थः कस्मान्न विज्ञायते? व्यावत्र्याभावात्। जसो जकारोऽसन्दिग्धोच्चारणार्थः, असति हि तस्मिन्नौकारस्यावादेशे कृते सन्देहः स्यात् - कीदृशस्य प्रत्ययस्योच्चारणमिति, तत्र व्याख्यानं कर्तव्यमापद्यते। अथ `जसः शी` (7.1.17) इत्यत्र विशेषणार्थः कस्मान्न विज्ञायते? `असः शी` (इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्। `औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः` इति। वृत्तौ त्वेष ग्रन्थो नास्ति; भवितव्यं त्वनेन। लेखकप्रमाददोषादिदानीमन्तर्हितः। शसः शकार औटष्टकारस्य `खरि च` (8.4.54) इति चर्त्वेनासन्दिग्धोच्चारणार्थः। शकारः सन्देहनिरासार्थः, इतरथा ह्रौडसित्युच्यमाने सन्देहः स्यात् - किं टकारस्येदमुच्चारणम्, उत डकारस्येति?तत्र डकारोच्चारणाट्टिलोपः स्यात्। ननु च सत्यपि शकारे भवितव्यमेव सन्देहेन - किमिदं कृतचर्त्वस्य डकारस्योच्चरणम्?टकारस्य वेति? नैतदस्ति; यदि हि डकारस्य स्यात्, शकारोच्चारणमनर्थकं स्यात्। अथ **तस्माच्छसो नः पुंसि** (6.1.103) इति तत्र विशेषणार्थः **टाङसिङसामिनात्स्याः** (7.1.12) इत्यत्र। `सुपां सुलुक्` (7.1.39) इत्यादौ सुपां सुलुक् पूर्वसवर्ण आ आत् शे इत्याकारप्रश्लेषः, तत्रासति टकारे तस्यापि ग्रहणं स्यात्। `संख्याकर्मादयश्च` इत्यादि। संख्या स्वादीनामर्थे विहिता **बहुषु बहुवचनम्** (1.4.21) इत्यादिना शास्त्रान्तरेण। कर्मादयश्च **कर्मणि द्वितीया** (2.3.2) इत्येवमादिना। `तेन सहास्यैकवाक्यता` इति। कर्मणि बहुत्वे बहुवचनं शस्। कर्मणि द्वित्वैकत्वयोद्विवचने औडमौ। एवमन्यत्राप्येकवाक्यता वेदितव्या।यदि तर्हि तेन सहास्यैकवाक्यता , तदा युक्तं **बहुषु बहुवचनम्** (1.4.21) इत्यत्र - `यत्र च संख्या सम्भवति तत्रायमुपदेशः, अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव` इति, तद्विरुध्यते, एकवाक्यतायां हि विशिष्ट एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात् सामान्यविहितत्वं नोपपद्यते।यदपीदं तत्रोक्तम्- `ङ्याप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वसंख्यावाच्यत्वेन विधीयते` इति, तदपि विरुध्यत एव; न ह्रेकवाक्यतायां विहितस्य बहुवचनस्य पश्चाद्बहुत्वसंख्याय वाच्यत्वेन विधानं युक्तम्। तेन शास्त्रान्तेणानेन च संहत्य बहुत्वसंख्यायामेव बहुवचनविधानात् पूर्वकस्तावन्नास्ति विरोधः। एकवाक्यतायामपि हि यथा स्वादीनां सामान्येन विधानमुपपद्यते तथा **बहुषु बहुवचनम्** (1.4.21) इत्त्रैव प्रतिपादितम्। योऽपि द्वितीयो विरोध उद्भावितः सोऽपि न भवत्येव; ह्राप्प्रातिपदिकात् स्वादयो लस्य तिबादय इति बहुवचनं विहितमिति **बहुषु बहुवचनम्** (1.4.21) इत्यनेन सैहकवाक्यतामापन्नेनेत्ययं तत्राभिप्रायो वेदितव्यः। तस्यानेन सूत्रेण बहुत्वसंख्या वाच्यत्वेन विधीयत इत्यत्रापि स्वादिसूत्रेण (4.1.2) `लस्य` (3.4.77) इत्यादिना च शास्त्रेण सहैकवाक्यतां प्रतिपन्नेनेत्येषोऽभिप्रायो द्रष्टव्यः। एवञ्च संहत्यैव बहुवचनं विहितम्। संहत्यैव च तस्य बहुतवसंख्या वाच्यत्वेन विधीयत इति कुतो विरोधः; ननु च `बहुवचनम्` (1.4.21) इत्येकमिदं शास्त्रम्, तस्य दि स्वादिसूत्रेणै (4.1.2) कवाक्यता, ततो `लस्य` (3.4.77) इत्यादिना शास्त्रान्तरेण सा नोपपद्यते? अथ तेनैकवाक्यता, स्वादिसूत्रेण (4.1.2) सा नोपपद्यते? नैव दोषः; द्वे ह्रेते वचने तन्त्रोच्चारिते, तत्रैकस्य स्वादिसूत्रेणैकवाक्यता, अपरस्य `लस्य` (1.4.21) इत्यादिना शास्त्रान्तरेण।अथ वा - अन्यथा विरोधाभावः प्रतिपाद्यते। इह हि स्वादयोऽनेन सूत्रेण **कर्मणि द्वितीया** (2.3.2) इत्येवमादिकं शास्त्रमनपेक्ष्य वा विधीयेरन्? तद्वापेक्ष्य तेन सहैकवाक्यतामापन्ने ते? इति द्वौ पक्षौ। तत्राद्ये पक्षेऽविशेषेणैव स्वादयो विधीयन्त इति, तथा विहितानां तु तेषां नियमः क्रियते - यत्र संख्या सम्भवति तत्रासौ बहुषु बहुवचनम्` (1.4.21) इत्यादिना शास्त्रान्तरेण कर्मादिसम्बन्ध्येकत्वादिसंख्यावाच्यत्वेन विधीयते, यानि तु निःसख्यान्यव्ययानि तेब्यः सामान्यविहिताः स्वादय सन्तीत्येव। द्वितीये तु पक्षे विशिष्ट एवार्थे कर्मादिसम्बन्धिनि बहुत्वादौ स्वादयो विधीयन्ते। तत्र **बहुषु बहुवचनम्** (1.4.21) इत्याद्यः पक्ष आश्रितः, इह तु द्वितीय इति नास्ति विरोधः; पक्षान्तरमाश्रित्य तथाऽभिधानात्। अथ द्वितीये पक्षे कथमव्ययेभ्यः सुबुत्पत्तिः, न ह्रेकवाक्यतायां संक्याकर्माद्यर्थरहितेभ्यः स्वाद्युत्पत्तिरुपपद्यते? नैष दोषः; ज्ञापकाद्भविष्यति। यदयं **अव्ययादाप्सुपः** (2.4.82) इत्यव्ययादुत्पन्नस्य सुपो लुकं शास्ति, तज्ज्ञापयति - भवत्यव्ययाद्विभक्त्युत्पत्तिरिति। `कुमारी` इति। **वयसि प्रथमे** (4.1.20) इति ङीप्। `गौरी` इति। **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्। `शाङ्र्गरवी` इति `शाङ्र्गरवाद्यञो ङीन्` (4.1.73) । `खट्वा` इति। `अजाद्यतष्टाप्` (4.1.4) इति टाप्। `बहूराजा` इति। `डाबुभाभ्यामन्यतरस्याम्` (4.1.13) इति डाप्। `कारीवगन्ध्याः` इति। करीषस्य गन्ध इव गन्धो यस्येति। **गन्धस्येदुत्पूतिसुसुरभिभ्यः** (5.4.135) , **उपमानाच्च** (5.4.137) इतीत्त्वम्। करीषगन्धेरपत्यमिति **यस्येति च** (6.4.148) इत्यकारलोपः,**तद्धितेष्वचामादेः** (7.2.117) इत्यादि वृद्धिः,`अणिञोरनार्षयोर्गुरुपोत्तमयोः` (4.1.78) इत्यादिना ष्यङादेशः, `यङश्चाप्` (4.1.74) इति चाप्॥
Praudhamanorama
---------------
**सुङस्योरिति।** सोरुकारः 'अर्वणस्त्रसौ' इत्यत्र विशेषणार्थः। असीत्युक्ते ह्यसकारादावित्यर्थः स्यात्। तथा च 'वाजमर्वत्सु पय उस्रियासु' इति न सिध्येत्। ङसेरिकारो 'युष्मदस्मभ्यां ङसोऽश्' इत्यत्र अस्य ग्रहणं मा भूदिति। यदि तु 'एकवचनस्य च' इत्यत्र 'पञ्चम्या' इत्यनुवृत्तेः परिशेषादन्यस्य ङसोऽत्र ग्रहणं भविष्यतीत्युच्यते तर्हि 'टाङसिङसाम्—' इत्येतदर्थः। जश्शसोर्जकारशकारौ 'जसः शी' 'तस्माच्छसो नः' इत्यनयोर्विषयविभागार्थौ। अन्यतरस्य निरनुबन्धकत्वमेवास्तु इति चेन्न। जसो जकाराभावे औ इत्यस्याऽऽव् स्यात्। ततश्च प्रत्ययस्य वकारान्ततापि सम्भाव्येत। एवं शसः शकाराभावे औटो ङित्वं सम्भाव्येत। अतोऽसन्देहार्थं तत्करणौचित्यात्। औटष्टकारः सुडिति प्रत्याहारार्थः। टाटकारस्तु 'टाङसि'इति विशेषणार्थः। ङेप्रभृतीनां ङकारो 'घेर्ङिति' इति विशेषणार्थः। पकारस्तु प्रत्याहारार्थः। एवं च सर्वेषां सफलत्वेऽपि संज्ञार्था इति प्राचो ग्रन्थोऽसङ्गत एव। सम्यग् ज्ञानं संज्ञा, तदर्थाः विशेषणार्था इति यावत्। इति भङ्त्वा व्याख्यानेऽपि क्लिष्टत्वमेवेत्युपेक्षितम्।
Prakriyasarvasvam
-----------------
अथ पुल्लिङ्गादिशब्देभ्यः सुब्विधिः । ङ्याप्प्रातिपदिकादेते स्युः । सु औ जस् । अम् औट् शस् । टा भ्याम् भिस् । ङे भ्याम् भ्यस् । ङसि भ्याम् भ्यस् । ङस् ओस् आम् । ङि ओस् सुप् । इति च्छेदः ॥ सुलोपोऽकोर्जसः शी च शसो नष्टाङसीति च । निदेशार्थमुकाराद्या घेर्ङितीत्यादयेऽपि ङः ॥ ५७३ ॥ औटष्टश्च सुपः पञ्च सुट्सुबादिग्रहार्थको । त्रिकाणां प्रथमाद्याख्याः पूर्वाचार्योदिताः खलु ॥ ५७४ ॥ तत्र त्वदन्तात् कृष्णशब्दात् प्रथमायां;
Sarala
------
(ङ्यन्तादावन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः) ॥