41001: ङ्याप्प्रातिपदिकात् ========================== **Padacheda:** ङी-आप्-प्रातिपदिकात् | S | 5 | 1 | Sutrartha --------- **इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये केऽपि प्रत्ययाः वक्ष्यन्ते, ते सर्वे ङ्यन्तात् आबन्तात् प्रातिपदिकात् च भवन्ति ।** इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः पञ्चमाध्यायस्य अन्तपर्यन्तम् विद्यते । **अस्मिन् अधिकारे प्रोक्ताः सर्वे प्रत्ययाः (1) ङ्यन्तात् (2) आबन्तात् (3) प्रातिपदिकात् च विधीयन्ते** — इति अस्य सूत्रस्य आशयः । क्रमेण अर्थः, उदाहरणानि एतानि — 1) ङ्यन्त-शब्दाः - ङीप्, ङीष्, ङीन् - एते त्रयः स्त्री-प्रत्ययाः 'ङी' इति सामान्यशब्देन गृह्यन्ते ।एतेषु कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः **ङ्यन्तः** नाम्ना ज्ञायते । एतादृशेभ्यः ङ्यन्तशब्देभ्यः अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुम् अर्हन्ति । यथा, "गौरी" इति शब्दः ङीष्-प्रत्ययान्तः अस्ति, अतः अस्मात् शब्दात् अस्मिन् अधिकारे पाठिताः सुप्-प्रत्ययाः विधीयन्ते, येन अस्य शब्दस्य सर्वाणि विभक्तिरूपाणि सिद्ध्यन्ति । 2) आबन्त-शब्दाः - टाप्, डाप्, चाप् - एते त्रयः स्त्री-प्रत्ययाः 'आप्' इति सामान्यशब्देन गृह्यन्ते ।एतेषु कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः **आबन्तः** नाम्ना ज्ञायते । एतादृशेभ्यः आबन्तशब्देभ्यः अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुम् अर्हन्ति । यथा, "माला" इति शब्दः टाप्-प्रत्ययान्तः अस्ति, अतः अस्मात् शब्दात् अस्मिन् अधिकारे पाठिताः सुप्-प्रत्ययाः विधीयन्ते, येन अस्य शब्दस्य सर्वाणि विभक्तिरूपाणि सिद्ध्यन्ति । 3) प्रातिपदिकानि - **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45) तथा च **कृत्तद्धितसमासाश्च** (1.2.46) इति द्वाभ्यां सूत्राभ्यां प्रातिपदिकसंज्ञा दीयते । ये शब्दाः प्रातिपदिकसंज्ञकाः सन्ति, तेभ्यः अपि प्रकृतसूत्रस्य अधिकारे पाठिताः प्रत्ययाः विधीयन्ते । यथा, "देव" इति शब्दः प्रातिपदिकसंज्ञकः अस्ति, अतः अस्मात् शब्दात् अस्मिन् अधिकारे पाठिताः सुप्-प्रत्ययाः विधीयन्ते, येन अस्य शब्दस्य सर्वाणि विभक्तिरूपाणि सिद्ध्यन्ति । **अस्मिन् अधिकारे पाठिताः प्रत्ययाः** अस्मिन् अधिकारे आहत्य त्रिप्रकारकाः प्रत्ययाः पाठिताः सन्ति — 1. सुप्-प्रत्ययाः — **स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्** (4.1.2) इत्यनेन सूत्रेण आहत्य 21 सुप्-प्रत्ययाः पाठ्यन्ते । एते सर्वे प्रत्ययाः ङ्यन्तेभ्यः, आबन्तेभ्यः, प्रातिपदिकेभ्यः च विधीयन्ते । यथा, "गौरी" इति ङ्यन्तात् शब्दात् एतेषां एकविंशतेः प्रत्ययानां प्रयोगं कृत्वा "गौरीः , गौर्यौ, गौर्यः" इत्यादीनि पदानि सिद्ध्यन्ति । 2. स्त्रीप्रत्ययाः — **स्त्रियाम्** (4.1.3) इत्यस्मात् सूत्रात् आरभ्य **दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्** (4.1.81) इति सूत्र यावत् आहत्य नव स्त्रीप्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः केवलं पुंलिङ्गवाचिभ्यः प्रातिपदिकेभ्यः विधीयन्ते । यथा, "देव" इति शब्दात् अस्मिन् अधिकारे पाठितस्य ङीप्-प्रत्ययस्य योजनेन "देवी" इति शब्दः सिद्ध्यति । 3. तद्धितप्रत्ययाः — **तद्धिताः** (4.1.76) अस्मिन् अधिकारे आहत्य 280+ तद्धितप्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः (यथायोग्यं) ङ्यन्तेभ्यः, आबन्तेभ्यः, प्रातिपदिकेभ्यः च विधीयन्ते । यथा, "पट्वी" इति ङीष्-प्रत्ययान्तशब्दात् तद्धितसंज्ञकम् तरप्-प्रत्ययम् उपयुज्य"पट्वितरा" इति शब्दः सिद्ध्यति । **सूत्रे "ङ्याप्" इति शब्देन अन्तग्रहणम्** प्रकृतसूत्रे केवलम् "ङी + आप्" इति निर्देशः कृतः अस्ति । अत्र विद्यमानः "ङी" शब्दः 'ङीप्/ङीष्/ङीन्' इत्येतेषाम् त्रयाणाम् सामान्यग्रहणार्थम प्रयुक्तः अस्ति । अनेन "ङी"शब्देन **येन विधिस्तदन्तस्य** (1.1.72) इति सूत्रेण, अथ वा **प्रत्ययग्रहणे यस्मात् स विहितः तदादेः तदन्तस्य ग्रहणम्** इति परिभाषया तदन्तग्रहणम् अपि क्रियते, अतएव अत्र **ङ्यन्तात्** इति अर्थः सिद्ध्यति । एवमेव, सूत्रे विद्यमानः "आप्" इति शब्दः अपि तदन्तग्रहणं करोति, अतः तस्य अर्थः अपि **आबन्तात्** इत्येव जायते । ** ऊङ्-प्रत्ययान्तशब्देभ्यः प्रत्ययविधानम्** प्रकृतसूत्रस्य अधिकारे निर्दिष्टाः प्रत्ययाः केवलम् ङ्यन्त-शब्देभ्यः, आबन्त-शब्देभ्यः, प्रातिपदिकसंज्ञकेभ्यः च विधीयन्ते । एतैः त्रिभिः गणैः प्रायेण सर्वेषाम् अपि तादृशानां शब्दानाम् ग्रहणं भवति येभ्यः अस्मिन् अधिकारे पाठितानां प्रत्ययानां विधानम् इष्यन्ते । परन्तु एतेषु त्रिषु अपि गणेषु **ऊङ्**-प्रत्ययान्तशब्दानाम् (यथा, "कुरू", "ब्रह्मबन्धू" इत्यादीनाम्) ग्रहणं नैव भवति । अस्यां स्थितौ **ऊङ्**-प्रत्ययान्तशब्देभ्यः अस्मिन् अधिकारे पाठितानां प्रत्ययानां विधानम् अपि नैव सम्भवति, अतश्च ऊङ्-प्रत्ययान्तशब्दानां सुबन्तरूपाणि, तद्धितान्तरूपाणि वा नैव भवितुम् अर्हन्ति । अयं दोषः भाष्यकारेण अन्तादिवद्भावेन परिभाषया परिहारितः दृश्यते — अथ ङ्याब्ग्रहणं किमर्थम्, न प्रातिपदिकादित्येव सिद्धम् ? न सिध्यति। अप्रत्यय इति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्राप्नोति । यद्येष ङ्याब्ग्रहणे हेतुः, ति-ऊङ्-ग्रहणम् अपि कर्तव्यम्; तौ अपि हि प्रत्ययौ । तिग्रहणे तावद् वार्तम् — तद्धितः प्रातिपदिकम् इति प्रातिपदिकसंज्ञा भविष्यति । ऊङ्ग्रहणे च अपि वार्तम् — वर्णान्ताद् ऊङ् विधीयते, तत्र एकादेशः। एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसंज्ञा भविष्यति । — महाभाष्यम् । "कुरु + ऊङ् → कुरू" इत्यादिषु स्थलेषु पुंलिङ्गप्रातिपदिकस्य अन्ते विद्यमानस्य ह्रस्व-उकारस्य ऊ-प्रत्ययेन सह एकादेशं कृत्वा निर्मितः 'ऊ' इति वर्णः **अन्तादिवच्च** (6.1.85) इति सूत्रेण पूर्वस्य अन्तवत् स्वीक्रियते, येन "कुरु"-शब्देन दीर्घघटितस्य "कुरू"-शब्दस्य अपि ग्रहणं भवति, अतः "कुरु"-शब्दस्य प्रातिपदिकसंज्ञा "कुरू"-शब्दे अपि अतिदिश्यते, अतश्च अस्मात् शब्दात् प्रकृते अधिकारे निर्दिष्टाः प्रत्ययाः अवश्यमेव विधीयन्ते — इति अत्र भाष्यकारस्य आशयः वर्तते । परन्तु, अनेनैव तर्केण आबन्तानाम्, ङ्यन्तानाम् अपि प्रातिपदिकसंज्ञा अवश्यं भवति, अतः प्रकृतसूत्रे 'ङ्याप्' इति निर्देशः अपि अनावश्यकः वर्तते — इति अत्र कश्चन संशयः उत्पद्यते । तस्यापि निराकरणं भाष्ये कृतम् अस्ति — यदि एषः ऊङोऽग्रहणे हेतुः; आब्ग्रहणमपि न कर्तव्यम् । आबपि हि अकारान्ताद् विधीयते। तत्र एकादेशः। एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसंज्ञा भविष्यति । यः तर्हि अनकारान्तात् — क्रुञ्चा, उष्णिहा, देवविशा इति । ... पादोऽन्यतरस्याम् टाबृचि इति । ... डाबुभाभ्यामन्यतरस्यामिति — बहुराजा, बहुराजे, बहुराजाः — महाभाष्यम् । "बहुराजन् + डाप् → बहुराजा", "राजन् + ङीप् → राज्ञी", "कर्तृ + ङीप् → कर्त्री" इत्यादिषु उदाहरणेषु टाबादीनां विधाने कृते अपि सवर्णदीर्घः न सम्भवति, अतः अत्र अन्तादिवद्भावः अपि नैव भवितुम् अर्हति । एतादृशानां शब्दानां प्रातिपदिकसंज्ञायाम् अविद्यमानायाम् अपि तेभ्यः अस्मिन् अधिकारे पाठिताः प्रत्ययाः अवश्यं भवेयुः — इति हेतुना अस्मिन् सूत्रे 'ङ्याप्' इति निर्देशः कृतः अस्ति — इति अत्र भाष्यकारस्य आशयः विद्यते । **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** **अष्टाध्याय्याम् "प्रातिपदिकम्" इति शब्देन, अथ वा प्रातिपदिकस्य विशिष्टनिर्देशेन यः कोऽपि विधिः उच्यते, सः विधिः तस्मात् प्रातिपदिकात् स्त्रीप्रत्यये कृते निर्मितस्य शब्दस्य विषये अपि प्रवर्तते** इति निर्णयः अस्य सूत्रस्य भाष्ये भाष्यकारेण दत्तः अस्ति । तदर्थम् सः **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषाम् पाठयति — प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति इति एषा परिभाषा कर्तव्या । ... बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि? सर्वनाम-स्वर-समास-तद्धितविधि-लुग्-अलुगर्थम् । ... मानिनि च विप्रतिषेधार्थम् । ...प्रत्ययग्रहणोपचारेषु च । — महाभाष्यम् । अस्याः परिभाषायाः आहत्य नव प्रयोजनानि अत्र भाष्यकारेण निर्दिष्टानि सन्ति — 1.**सर्वनामविधिः** — सर्वनामसंज्ञकशब्देन सह "हेतु" इति शब्दः यदा प्रयुज्यते तदा उभयोः अपि **सर्वनाम्नस्तृतीया च** (2.3.27) इति सूत्रेण तृतीया विभक्तिः भवति । यथा, "केन हेतुना" इति । अस्मिन् सूत्रे स्थापितेन "सर्वनाम" इति शब्देन स्त्रीलिङ्गवाचिनः शब्दस्य अपि ग्रहणम् इष्यते, यतः "भवती" इति स्त्रीलिङ्गवाची शब्दस्य विषये अपि इदं सूत्रम् उपयुज्य "भवत्या हेतुना" इति प्रयोगः भवितुम् अर्हति । एतादृशं ग्रहणं कर्तुम् **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा उपयुज्यते । 2. **स्वरविधिः** — "कुसूलबिल" इति शब्दे विद्यमानः "कुसूल" शब्दः **कुसूलकूपकुम्भशालं बिले** (6.2.102) इति सूत्रेण अन्तोदात्तः भवति । एतादृशं स्वरविधानम् "कुसूलीबिल" इति शब्दे विद्यमानस्य "कुसूली" शब्दस्य विषये अपि भवेत् इति हेतुना **कुसूलकूपकुम्भशालं बिले** (6.2.102) इति सूत्रस्य विषये **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा उपयुज्यते । 3. **समासविधिः** — **पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः** (2.1.31) इति सूत्रेण "सदृश" शब्देन सह जायमानः तृतीयातत्पुरुषसमासः "सदृशी" इति शब्देन सह अपि इष्यते, येन "पुत्रसदृशी" इति शब्दः सिद्ध्यति । तदर्थम् अत्र **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा प्रयुज्यते । 4. **तद्धितविधिः** — **प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इति सूत्रेण "हस्ती"-शब्दात् यथा मात्रच्-प्रत्ययः भवति, तथैव **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषां स्वीकृत्य "हस्तिनी"शब्दात् अपि अयं प्रत्ययः भवितुम् अर्हति, येन "हस्तिनीमात्रम्" इति शब्दः सिद्ध्यति । 5. ** लुग्विधिः ** — "राज्ञ्याः पुरुषः" इत्यत्र षष्ठीसमासे कर्तव्ये राज्ञी-शब्दात् विहितस्य सुप्-प्रत्ययस्य **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन लुग्विधानं कर्तुम् अस्मिन् सूत्रे विद्यमानेन प्रातिपदिकग्रहणेन स्त्रीप्रत्ययविशिष्टस्य "राज्ञी"-शब्दस्य ग्रहणम् अपि इष्यते । तदर्थम् **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा प्रयुज्यते । 6. **अलुग्विधिः** — **शयवासवासिष्वकालात्** (6.3.18) इति सूत्रे "वासि" शब्दग्रहणसामर्थ्यात् "ग्रामेवासी" इत्यत्र समासविधौ पूर्वपदस्य सप्तमीविभक्तेः अलुक् विधीयते । अयम् अलुग्विधिः "ग्रामेवासिनी" इत्यत्रापि कर्तुम् **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषायाः प्रयोगः क्रियते । 7. **मानिन्-प्रत्यये पुंवद्भावः ** — "दर्शनीयां स्त्रियं मन्यते सः" अस्मिन् अर्थे "दर्शनीय" शब्दस्य **क्यङ्मानिनोश्च** (6.3.36) इत्यनेन पुंवद्भावे कृते "दर्शनीयमानी" इति शब्दः यथा सिद्ध्यति, तथैव "दर्शनीयां स्त्रियं मन्यते सा" इत्यर्थे "दर्शनीयमानिनी" इति शब्दे अपि पुंवद्भावविधानार्थम् **क्यङ्मानिनोश्च** (6.3.36) इति सूत्रे मानिन्-शब्देन मानिनी-शब्दस्य ग्रहणम् अपि आवश्यकं वर्तते, तदर्थम् **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा प्रयुज्यते । 8. **प्रत्ययग्रहणे** — **तृजकाभ्यां कर्तरि** (2.2.15) इति सूत्रेण " अपां स्रष्ट्रा" इत्यत्र षष्ठीसमासः न सम्भवति । अत्र **तृजकाभ्यां कर्तरि** (2.2.15) इति सूत्रे 'तृच्' इत्यनेन यथा तृच्-प्रत्ययान्तशब्दाः स्वीक्रियन्ते, तथैव तृच्-प्रत्ययान्तशब्देभ्यः स्त्रीप्रत्ययं योजयित्वा सिद्धानां शब्दानां ग्रहणम् अपि अस्मिन् सूत्रे येन "अपां स्रष्ट्री" इत्यत्रापि समासप्रतिषेधः भवेत् । एतत् साधयितुम् **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा प्रयुज्यते । 9. **उपचारः** (आदेशादिविधानम्) — **अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य** (8.3.46) इत्यनेन सूत्रेण "अयः + कुम्भः" इत्यत्र विसर्गस्य सकारादेशे कृते "अयस्कुम्भ" इति शब्दः यथा सिद्ध्यति, तथैव "अयः + कुम्भी" इत्यत्रापि विसर्गस्य सकारादेशे कृते "अयस्कुम्भ" इति शब्दं साधयितुम् **अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य** (8.3.46) इत्यत्र कुम्भ-शब्देन कुम्भी-शब्दस्यापि ग्रहणम् आवश्यकं वर्तते, तदर्थम् च **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषा प्रयुज्यते । अस्याः परिभाषायाः विषये केचन निषेधाः अपि भाष्यकारेण अस्य सूत्रस्य भाष्ये उक्ताः वर्तन्ते । तान् ज्ञातुम् अस्य सूत्रस्य भाष्यम् एव द्रष्टव्यम् । ** सूत्रे ङ्याप्-शब्दस्य प्रयोजनम्** **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति परिभाषायाम् सत्याम् **ङ्याप्प्रातिपदिकात्** (4.1.1) इति सूत्रे विद्यमानेन "प्रातिपदिकात्" इति शब्देनैव ङ्यन्तानाम्, आबन्तानाम् अपि ग्रहणं सम्भवति, अतः अत्र "ङ्याप्" इति शब्दस्य ग्रहणम् अनावश्यकम् वर्तते, इति प्रश्नम् अस्य सूत्रस्य भाष्ये कृत्वा तत्रैव तस्य समाधानम् अपि दीयते — ङ्याब्ग्रहणमनर्थकम् । किं कारणम्? प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् । ... तद्धितविधानार्थं तु ङ्याब्ग्रहणं कर्तव्यं ; ङ्याबन्तात् तद्धितोत्पत्तिर्यथा स्यात् - कालितरा, हरणितरा, खट्वातरा, मालातरा । किं पुनः कारणं न सिध्यति? विप्रतिषेधाद्धि तद्धितोत्पत्तिः प्राप्नोति॥ — महाभाष्यम् । यत्र प्रातिपदिकात् ङ्यन्तस्य / आबन्तस्य तथा च तद्धितप्रत्ययस्य युगपत् विधानं प्राप्नोति, तत्र आदौ स्त्रीप्रत्ययविधानं कृत्वा ततः (ङ्यन्तात् / आबन्तात्) एव तद्धितविधानम् कर्तव्यम् — इति ज्ञापयितुम् अस्मिन् सूत्रे "ङ्याप्" इति शब्दः स्थापितः अस्ति, इति अत्र भाष्यकारस्य आशयः वर्तते । अस्य एकम् उदाहरणम् प्रौढमनोरमायाम् दत्तम् अस्ति । "लोहित" (red) इति शब्दात् स्त्रीलिङ्गवाचिनः मणेः निर्देशं कर्तुम् **वर्णादनुदात्तात्तोपधात्तो नः** (4.1.39) इति ङीप्-प्रत्ययः, तदुपरि **लोहितान्मणौ** (5.4.30) इत्यनेन स्वार्थे कन् प्रत्ययः सम्भवति; अथ वा आदौ **लोहितान्मणौ** (5.4.30) इत्यनेन स्वार्थे कन् ; तदुपरि च **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः अपि सम्भवति । अस्यां स्थितौ अन्तरङ्गत्वात्, परत्वात् च कन्-प्रत्यये कृते, ततः टाप्-प्रत्ययस्य योजनेन "लोहितिका" इत्येव शब्दः सिद्ध्येत् । परन्तु "लोहिनिका" इति शब्दः अपि अस्मिन् सन्दर्भे प्रयुज्यते । तस्य सि्ध्यर्थम् लोहित-शब्दात् आदौ ङीप्-प्रत्ययविधानम् एव आवश्यकम् वर्तते । एतादृशं ङीप्-प्रत्ययविधानम् शक्यम् स्यात्, इति हेतुना प्रकृतसूत्रे "ङ्याप्" इति शब्दः स्थापितः अस्ति । अतः लोहित-शब्दात् आदौ **वर्णादनुदात्तात्तोपधात्तो नः** (4.1.39) इति ङीप्-प्रत्यये कृते 'लोहिनी', तदनन्तरं **लोहितान्मणौ** (5.4.30) इत्यनेन स्वार्थे कन् ; तदुपरि च **स्वार्थिकाः प्रकृतिलिङ्गसङ्ख्ये अनुवर्तन्ते** इत्यनया परिभाषया **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययं कृत्वा "लोहिनिका" इति शब्दः सिद्ध्यति । **वर्णादनुदात्तात्तोपधात्तो नः** (4.1.39) इत्यनेन ङीप्-प्रत्ययः विकल्पेनैव विधीयते, अतः तस्य अनुपस्थितौ **लोहितान्मणौ** (5.4.30) इत्यनेन स्वार्थे कन् ; तदुपरि च **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "लोहितिका" इति शब्दः अपि सिद्ध्यति । अयमेव बिन्दुः बालमनोरमायाम् अपि स्पष्टीकृतः अस्ति — वर्णादनुदात्तात्तोपधात्तो नः इति मणौ विद्यमानात् लोहितशब्दात् स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः । लोहितान्मणौ इति स्वार्थिकः कनपि प्राप्तः । तत्र स्वार्थिकत्वात् अन्तरङ्गः परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत । ततश्च ङीपो न प्रसक्तिः; कोपधत्वेन तोपधत्व-अभावात् । ततश्च लोहितकशब्दात् अजाद्यतष्टाप् इति टापि प्रत्ययस्थाद्.. इत्यादिना इत्वे लोहितिका इत्येव स्यात्, न तु लोहिनिका इति । इष्यते तु रूपद्वयमपि ।ङ्याप्प्रातिपदिकाद् इत्यत्र ङीब्ग्रहणे तु तत्सामर्थ्याद् अन्तरङ्गं परम् अपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात् कनि, केऽणः इति ह्रस्वे, लोहिनिका इति रूपम् ।वर्णादनुदात्ताद्.. इत्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात् कनि ह्रस्वे, पुनः कान्तात् टापि, प्रत्ययस्थाद्.. इति इत्वे लोहितिका इत्यपि सिध्यति । —बालमनोरमा वस्तुतस्तु अस्मिन् सूत्रे ङ्याप्-ग्रहणम् न हि आवश्यकम्, यतः तद्धितप्रत्ययः तथा च स्त्रीप्रत्ययः इत्येतयोः युगपत् प्राप्तिः नैव कुत्रचित् शक्या । अस्य द्वे कारणे स्तः — 1. तद्धिताधिकारे पाठिताः ये प्रत्ययाः समर्थेभ्यः विधीयन्ते, ते सर्वे सुबुत्पत्तेः अनन्तरम् एव सम्भवति, सुबुत्पत्तिः तु टाबादिषु कृतेषु एव सम्भवति, तस्मात् पूर्वम् न । अतः एते तद्धितप्रत्ययाः स्त्रीप्रत्ययैः सह युगपत् नैव सम्भवन्ति । 2. तद्धिताधिकारे पाठिताः अवशिष्टाः प्रत्ययाः शब्दस्य लिङ्गनिर्धारणात् अनन्तरम् एव भवन्ति इति भाष्यकारेण **कुत्सिते** (5.3.74) इति सूत्रे स्पष्टीकृतम् अस्ति । तत्रैव **स्वार्थिकाः प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते** इति परिभाषाम् अपि भाष्यकारः पाठयति । अतः तद्धितप्रकरणे समर्थाधिकाराद् बहिः निर्दिष्टाः भिन्नाः प्रत्ययाः स्त्रीप्रत्ययानां प्रयोगाद् अनन्तरम् एव सम्भवन्ति इति स्पष्टी भवति । एतौ एव विषयौ बालमनोरमायाम् अपि उपस्थापितौ स्तः — वस्तुतस्तु ङ्यापः ग्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि - स्वार्थः = प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिः आकाङ्क्षितत्वात् च । ततः स्वमात्रापेक्षत्वात् लिङ्गस्य ज्ञानम् । ततः विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानम्, इति कुत्सित इति सूत्रभाष्ये स्थितम् । —बालमनोरमा अत्र बालमनोरमाकारः 'शब्दज्ञानं कथं भवति' इत्यस्मिन् विषये कानिचन सोपानानि स्पष्टीकरोति । तत्र — 1. प्रारम्भे शब्दस्य स्वस्य अर्थस्य प्रचीतिः भवति, 2. ततः तस्य लिङ्गम्, सङ्ख्या, कारकम् — इत्येतेषाम् ज्ञानम् उद्भवति, 3. तदनन्तरमेव **कुत्सिते** (5.3.74) आदिभिः सूत्रैः निर्दिष्टानाम् तद्धितप्रत्ययानां विधानम् सम्भवति इति क्रमः अत्र निर्दिष्टः अस्ति । अतः लिङ्गस्य द्योतकाः स्त्रीप्रत्ययाः तद्धितप्रत्ययैः सह युगपत् नैव सम्भवन्ति, इति अनेन स्पष्टी भवति । अस्मिन् सन्दर्भे अधिकं ज्ञातुम् **कुत्सिते** (5.3.74) इति सूत्रस्य भाष्यमेव द्रष्टव्यम् । Sutrartha (English) ------------------- This is an अधिकार, and all the प्रत्ययाः told in this अधिकार are to be applied to ङ्यन्त, आबन्त and प्रातिपदिक words. Vasu English Summary -------------------- (From this point forward up to the end of the Fifth Chapter, whatever we shall treat of, should be understood to come) after what ends with the feminine affixes ङी or आप् or after a प्रातिपदिक (Nominal Stem). Vasu English Translation ------------------------ (From this point forward up to the end of the Fifth Chapter, whatever we shall treat of, should be understood to come) after what ends with the feminine affixes ङी or आप् or after a प्रातिपदिक (Nominal Stem). This is an '*adhikara*' aphorism pure and simple. It simply consists of terms which other aphorisms, in order to complete their sense, are under the necessity of borrowing. In other words, this *sutra* points out the base प्रकृति to which the affixes beginning with सु treated of in the next *sutra*, and ending with कप् (5.4.151), are to be applied. The *sutra* consists of three words. The term ङी is a common name for the three affixes ङीप्, ङीष्, and ङीन् ॥ The term आप्, is the common name for the three affixes टाप्, डाप् and चाप् ॥ These are feminine affixes and are taught from *sutra* 4 to 65 of this chapter. The word प्रातिपदिक means 'a Nominal stem' and has been defined in *sutra* (1.2.45), (1.2.46), i. e. that which is possessed of a meaning, not being a root or an affix; or what ends with a *Krit* or a *Taddhita* affix. The word ङ्याप् प्रातिपदिकात् is a *Samahara*-*dvandva* or Collective aggregate of these three words. Q. All affixes are placed after the base (See *Sutra* (3.1.2)); the affixes treated of in the last Book were to be placed after the root ('*dhatu*'); the remaining affixes taught in Books Fourth and Fifth, will therefore, be placed after all such bases प्रकृति which are not roots (*dhatu*); and such bases remaining are *pratipadika* and feminine words. What is then the necessity of making this *sutra*, when these *pratipadika* &c, are the only bases left to us to apply the affixes taught herein-after ? A. To this we reply, the necessity of making this *sutra* arose from the following considerations: that the word ङ्याप् प्रतिपदिकात् should qualify the words 'वृद्ध' 'अवृद्ध,' 'the letter अ,' 'अनुदात्तादि', and 'द्व्यच्,' wherever used in the following *sutras*. So that, where a rule says: "let such an affix be applied to a *Vriddha* word," we must understand it to mean, "let such an affix be applied to a *Vriddha* word which is a *pratipadika*, or which ends with '*ni*' or '*ap*'; and not to every *Vriddha* word." The principal aphorism, besides the present, which regulates the application of *Taddhita* affixes, is (4.1.82), which declares:- "The *taddhita* affixes, on the alternative of their being employed al all, come after the word that is signified by the first of the words in construction." Thus (4.1.157) says;-- "The affix फिञ् is added, according to the opinion of Northern Grammarians, in the sense of 'descendant,' after a word which is entitled to the designation of *Vriddham*, provided it does not end with a *Gotra* affix." Thus the idea, 'the son of *Amragupta*,' may be expressed either by the phrase 'आम्रगुप्तस्यापत्यम्'; or by adding the affix '*phin*' to the first of the word in construction, viz, '*amraguptasya*,' which is a *Vriddha* word (1.1. 73). But can we apply the affix '*phin*' to the first of the word in construction in the following, ज्ञानाम् ब्राह्मणानामपत्यम्'; because the word '*jnanam*' the genitive plural of '*jna*', is a *Vriddha* word ? Certainly not, because the word '*pratipadikat*' must be read into this *sutra* (4.1.157), and the affix '*phin*' should be added after that *Vriddha* word which is in its crude-form also a *Vriddham*, and not that which becomes *Vriddham* only in construction. Now the *pratipadika* of '*jnanam*' is '*jna*', the latter is not a *vriddham*, therefore, the rule does not apply to it. So also the word '*jna*' is a *vriddham* in its *pratipadika* state; but in the following phrase, it loses its *vriddha* nature; 'ज्ञयो र्ब्राह्मनोरपत्त्यम्' meaning 'the son of two wise *Brahman* ladies'. Still the affix '*phin*' must be added to the word '*jnyor*', because its *pratipadika* is a *vriddha* word (2) Similarly the word 'अवृद्ध' (*sutra* (4.1.160); 'the affix *phin* is applied diversely to a non-*vriddha* word, according to the opinion of the Eastern Grammarians') must be qualified by the word '*pratipadika*'; otherwise it would lead to similar incongruous results as in the last aphorism. (3) Similarly the word अत् in *Sutra* (4.1.95) ('the affix इञ् is added after a word which ends in the letter अ') must be qualified by the word '*pratipadika*'; that is to say, the word in its crude-form must end in अ, and not necessarily when it is in construction. If it were not so; then the affix 'इञ्' will apply only to the word 'दक्षस्य' in 'दक्षस्यापत्त्यम्' but will not apply to the words 'दक्षयोः', or 'दक्षानाम्' in the phrases 'दक्षयोरपत्त्यम्' or 'दक्षानामपत्त्यम्' ॥ But the affix applies to all those three words. (4). Similarly the word 'अनुदात्तादेः' in (4.2.44), (the affix अञ् is added to a word which has the grave accent on its beginning), must be qualified by the word *pratipadika*. That is, the word in its crude form must have the grave accent on its initial, though in construction, it may or may not have grave accent. Otherwise, the affix 'इञ्' will apply to the words 'वाचः' and 'त्वचः' which in construction are *anudattadi* as in 'वाचो विकारः' (6.1.168); but which in their crude-forms (वाक्, त्वच्) are *udattadi*. And conversely, the affix 'अञ्,' will not apply to the word 'सर्वेषाम्' which in construction is *udattadi*, as, 'सर्वेषाम् विकारः,' but which in its crude-form is *anudattadi*. (5). Similarly the word 'द्व्यचः' in (4.4.7), (the affix 'ठन्' is employed after words consisting of two vowels, when the sense is that of crossing), must be qualified by the word *pratipadika*. That is, the word in its *pratipadika* state must consist of two vowels, though in construction it may consist of more than two syllables. Otherwise, this affix will not apply to the word घटेन in the phrase 'घटेन तरति', while it will apply to the words 'वाचा' and 'त्वचा' in the phrases, 'वाचा तरति,' 'त्वचा तरति'. But this is undesirable. Q Why have we employed the word '*ny*-*ap*' in the aphorism? Is not the word *pratipadika* wide enough to include the words ending with the feminine affixes, by virtue of the *paribhasha*:-- "A *pratipadika* denotes, whenever it is employed in grammar, also such a crude-form as is derived from it by the addition of an affix denoting gender" ? A. Not so. The *paribhasha* you quote applies to that case, where there is a rule, relating to an individual word-form, given in the *Sutra* itself. In other words, "this *paribhasha* is applicable when a word is employed in grammar which either denotes *pratipadikas* generally (as the word '*pratipadika*' does in this *sutra*) or denotes a particular *pratipadika*, (such as the words युवा, खलति, पलित, वलिन, and जरति, in (2.1.67))." That is, in (2.1.67), the masculine form *yuva*, also includes the feminine : but not so every-where. Moreover the words, ङी, आप् have been employed in the *Sutra*, in order to make the *Taddhita* affixes applicable to feminine words ending in long ई (ङी) or long आ (आप्). Thus the feminine of 'काल', and 'हरिण' is, 'काली', and 'हरिणी', the feminine of 'खट्वा' and 'माला' is 'खट्वा' and 'माला' । After these words we can apply the *Taddhita* affix तरप् : as 'कालितरा', 'हरिणितरा', 'खट्वातरा', and 'मालातरा' ॥ Now, had we not used the word '*ny*-*ap*' in the *Sutra*, and wished to express the same idea as is done, say, by the word '*kalitara*,' we could not have got this form at all. Q. The word काल takes ङीप् by (4.1.42); to which when तरप् is added, the vowel is shortened by (6.3.43); and we shall get the form कालितरा ॥ Why do you then say that the *Taddhita* affixes could not be applied, but for the words *ny*-*ap*? A. To this we answer, that by the rule of *vipratishedha*, the *Taddhita* would have debarred the feminine. Thus, when feminine alone is meant and not comparison, we shall have काली; and when comparison alone is meant and not feminine, we shall have कालतर; but when both feminine and comparison are meant, then would arise the difficulty; and according to the general maxim, the *Taddhita* would have debarred the feminine. But by using the word *ny*-*ap*, it is shown that first the feminine affixes are to be added, and then the comparison making affixes. Bhashya ------- ङ्याप्प्रातिपदिकात् (1275) (अधिकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) ङ्याप्प्रातिपदिकग्रहणं किमर्थम्। (समाधानभाष्यम्) ङ्याप्प्रातिपदिकात्स्वादयो यथा स्युः। धातोर्मा भूवन्निति॥ (प्रयोजननिरासभाष्यम्)) नैतदस्ति प्रयोजनम्। धातोस्तव्यदादयो विधीयन्ते, तेऽपवादत्वाद्बाधका भविष्यन्ति॥ (प्रयोजनपरभाष्यम्) तिङन्तात्तर्हि मा भूवन्निति॥ (प्रयोजनपरिहारभाष्यम्) एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। ते चात्र तिङोक्ता एकत्वादय इति कृत्वा, उक्तार्थत्वान्न भविष्यन्ति॥ (प्रयोजनपरभाष्यम्) टाबादयस्तर्हि तिङन्तान्मा भूवन्निति॥ (प्रयोजननिरासभाष्यम्) स्त्रियां टाबादयो विधीयन्ते। न च तिङन्तस्य स्त्रीत्वेन योगोऽस्ति॥ (प्रयोजनपरभाष्यम्) अणादयस्तर्हि तिङन्तान्मा भूवन्निति॥ (प्रयोजननिरासभाष्यम्) अपत्यादिष्वर्थेष्वणादयो विधीयन्ते। न च तिङन्तस्यापत्यादिभिर्योगोऽस्ति॥ (अभ्युपगमभाष्यम्) अथापि कथंचिद्योगः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति -न तिङन्तादणादयो भवन्तीति यदयं क्वचित्तद्धितविधौ तिङ्ग्रहणं करोति -अतिशायने तमबिष्ठनौ, तिङश्चेति॥ (वार्तिकावतरणभाष्यम्) अत उत्तरं पठति - (5094 प्रयोजनवार्तिकम्॥ 1 ॥) - ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसंज्ञार्थम् - (भाष्यम्) ङ्याप्प्रातिपदिकग्रहणं क्रियते, अङ्गभपदसंज्ञार्थम्। अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरिति॥ (वार्तिकोक्तप्रयोजननिराकरणभाष्यम्) क्व पुनरिहाङ्गभपदसंज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेनार्थः?। टाबादिषु। नैतदस्ति प्रयोजनम्। ग्रहणवद्भ्यष्टाबादयो विधीयन्ते। उगितो ङीब्भवति। अतष्टाब्भवतीति यत्तच्छब्दरूपं गृह्यते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति॥ (अभ्युपगमवादभाष्यम्) अथापि कश्चिदग्रहणः। एवमपि न दोषः। स्त्रियां टाबादयो विधीयन्ते। यत्तच्छब्दरूपं स्त्रियां वर्तते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति॥ (आशंकानिराकरणभाष्यम्) अणादिषु तर्हि। अणादयोऽपि ग्रहणवद्भ्यो विधीयन्ते -गर्गादिभ्यो यञ्ञ्, नडादिभ्यः फगिति। यत्तच्छब्दरूपं गृह्यते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति॥ (अभ्युपगमवादभाष्यम्) अथापि कश्चिदग्रहणः। एवमपि न दोषः। अपत्यादिष्वर्थेष्वणादयो विधीयन्ते। यत्तच्छब्दरूपमपत्यादिष्वर्थेषु वर्तते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति॥ (आशंकानिराकरणभाष्यम्) स्वार्थिकेषु तर्हि। स्वार्थिका अपि ग्रहणवद्भ्यो विधीयन्ते -यावादिभ्यः कन्, प्रज्ञादिभ्योऽणिति। यत्तच्छब्दरूपं गृह्यते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति॥ (अभ्युपगमवादभाष्यम्) यस्तर्ह्यग्रहणः। शुक्लतमः शुक्लतरः कृष्णतमः कृष्णतर इति। अत्रापि न यावच्छुक्लःउतावच्छुक्लतरः, प्रकृष्टः शुक्लःउशुक्लतरः। यत्तच्छब्दरूपं प्रकृष्टे वर्तते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति। (आशंकानिराकरणभाष्यम्) स्वादिषु तर्हि। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। यत्तच्छब्दरूपमेकत्वादिष्वर्थेषु वर्तते। तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति॥ (आक्षेपभाष्यम्) कथं पुनरिहोच्यमानाः स्वादय एकत्वादिष्वर्थेषु शक्या विज्ञातुम्॥ (समाधानभाष्यम्) एकवाक्यत्वात्। एकं वाक्यंतच्चेदं च। यद्येकं वाक्यं तच्चेदं च किमर्थं नानादेशस्थं क्रियते? कौशलमात्रमेतदाचार्यो दर्शयति -यदेकं वाक्यं सन्नानादेशस्थं करोति, अन्यदपि किंचित्संग्रहीष्यामीति॥ (5095 द्वितीयप्रयोजनवार्तिकम्॥ 2 ॥) - यच्छयोश्च लुगर्थम् - (भाष्यम्) यच्छयोस्तर्हि लुगर्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते। कंसीयपरशव्ययोर्यञ्ञञ्ञौ लुक्चेति ङ्याप्प्रातिपदिकात्परस्य लुग्यथा स्यात्। अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेरपि लुक् प्रसज्येत॥ (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति -प्रत्ययस्य भविष्यति॥ (अनिष्टापत्युद्भावकभाष्यम्) एवमप्युकारसकारयोः प्रसज्येत। कमेः सः कंसः। परान् शृणातीति परशुरिति॥ (समाधानभाष्यम्) उणादयोऽव्युत्पन्नानि प्रातिपदिकानि॥ (5096 सिद्धान्तवार्तिकम्॥ 3 ॥) - वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् - (भाष्यम्) वृद्धावृद्धावर्णस्वरद्वयज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते। वृद्धात्, अवृद्धात्, अवर्णान्तात्, अनुदात्तादेः, द्व्यचः, इत्येतानि ङ्याप्प्रातिपदिकविशेषणानि यथा स्युरिति॥ (एकदेश्याक्षेपभाष्यम्) अथाक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्यैतानि विशेषणानि स्युः॥ (एकदेशिसमाधानभाष्यम्) समर्थविशेषणानि॥ (दोषनिरूपकभाष्यम्) तत्र को दोषः॥ उदीचां वृद्धादगोत्रात्। इह च प्रसज्येत। ज्ञानां ब्राह्मणानामपत्यमिति। एतद्धि समर्थं वृद्धम्॥ इह च न स्यात्। ज्ञयोर्ब्राह्मण्योरपत्यमिति। एतद्धि समर्थमवृद्धम्। वृद्ध॥ (दोषप्रदर्शकभाष्यम्) ॥ अवृद्ध, प्राचामवृद्धात्फिन्बहुलम्। इह च प्रसज्येत -ज्ञयोर्ब्राह्यण्योरपत्यमिति। एतद्धि समर्थमवृद्धम्। इह च न स्यात् -ज्ञानां ब्राह्मणानामपत्यमिति। एतद्धि समर्थं वृद्धम्। अवृद्ध॥ अवर्ण, अत इञ्ञ्भवतीति -ःइहैव स्यात् -दक्षस्यापत्यं दाक्षिरिति। एतद्धि समर्थमकारान्तम्। इह च न स्यात् -दक्षयोरपत्यं दक्षाणामपत्यमिति। एतद्धि समर्थमनवर्णान्तम्। अवर्ण॥ स्वर, अनुदात्तादेरञ्ञ्भवति। इह च प्रसज्येत -वाचो विकारस्त्वचो विकार इति। एतद्धि समर्थमनुदात्तादि। इह च न स्यात् -सर्वेषां विकार इति। एतद्धि समर्थमुदात्तादि। स्वर॥ द्व्यज्लक्षण, द्व्यचष्ठन्निति। इह च प्रसज्येत -वाचा तरति त्वचा तरतीति। एतद्धि समर्थं द्व्यच्। इह च न स्यात् -घटेन तरतीति। एतद्धि समर्थमद्व्यच्॥ (समर्थाधिकारफलप्रदर्शकभाष्यम्) अस्ति पुनः समर्थविशेषणे सति किंचिदिष्टं संगृहीतं भवति। आहोस्विद्दोषान्तमेव। अस्तीत्याह। किम्? साम्ना तरति वेम्ना तरतीति। एतद्धि समर्थमपि द्व्यच् ङ्याप्प्रातिपदिकमपि॥ (आक्षेपभाष्यम्) अथ ङ्याब्ग्रहणं किमर्थम्। न प्रातिपदिकादित्येव सिद्धम्॥ (समाधानभाष्यम्) न सिध्यति। अप्रत्यय इति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्राप्नोति॥ (प्रत्याक्षेपभाष्यम्) यद्येष ङ्याब्ग्रहणे हेतुः। त्यूङ्ग्रहणमपि कर्तव्यम्। तावपि हि प्रत्ययौ॥ (प्रत्याक्षेपनिरासभाष्यम्) तिग्रहणे तावद्वार्तम्। तद्धितः प्रातिपदिकमिति प्रातिपदिकसंज्ञा भविष्यति॥ऊङ्ग्रहणे चापि वार्तम्। उवर्णान्तादूङि्वधीयते तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति॥ (आक्षेपसमर्थकभाष्यम्) यद्येषऊङोऽग्रहणे हेतुः। आब्ग्रहणमपि न कर्तव्यम्। आबपि ह्यकारान्ताद्विधीयते। तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति॥ यस्तर्ह्यनकारान्तात् -कुञ्ञ्चा, उष्णिहा, देवविशेति। अत्राप्यकारान्ताद् वृत्तिर्लक्ष्यते -क्रुञ्ञ्चानालभेत, उष्णिहककुभौ, देवविशं च मनुष्यविशं चेति॥ (आब्ग्रहणवादिभाष्यम्) इह तावदुष्णिहककुभाविति। आप एवैतदौत्तरपदिकं ह्रस्वत्वम्॥ इह खल्वपि देवविशं च मनुष्यविशं चेति। नास्ति विशेषः। अकारान्तादमुत्पत्तौ सत्यां व्यञ्ञ्जनान्ताद्वेति॥ (प्रत्याख्यानवादिभाष्यम्) यत्तावदुच्यते - इह तावदुष्णिहककुभावित्याप एवैतदौत्तरपदिकं ह्रस्वत्वमिति॥ संज्ञाछन्दसोरित्येवं तत्॥ नैषा संज्ञा, नापीदं छन्दः॥ यदप्युच्यते इह खल्वपि देवविशं च मनुष्यविशं चेति॥ नास्ति विशेषः -अकारान्तादमुत्पत्तौ सत्यां व्यञ्ञ्जनान्ताद्वेति॥ स्वरे विशेषः -यद्यत्र व्यञ्ञ्जनान्तादुत्पत्तिः स्याद् देवविशमित्येवं स्वरः प्रसज्येत। देवविशमिति चेष्यते। तस्मात्क एष एवं विषयः॥ (आब्ग्रहणवादिभाष्यम्) इदं तर्हि -पादोऽन्यतरस्याम् टाबृचि इति॥ ऋचीत्युच्यते॥ तत्र च्छान्दसत्वाद्भविष्यति॥ ऋचीति नेदं छन्दो विवक्षितम् -काठकं कालापकं मौदकं पैप्पलादकं वा। किं तर्हि -प्रत्ययार्थविशेषणमेतत्। ऋक्चेत्प्रत्ययार्थो भवतीति॥ एतदपि नास्ति प्रयोजनम्। पदशब्दः पादशब्दसमानार्थोऽकारान्तश्छन्दसि दृश्यते -तस्याः सप्ताक्षरमेकं पदम्, एकः पाद इत्यर्थः। तस्मादुत्पत्तिर्भविष्यति॥ इदं तर्हि -डाबुभाभ्यामन्यतरस्याम् इति। बहुराजा बहुराजे बहुराजा इति॥ (5097 सिद्धान्तवार्तिकम्॥ 4 ॥) - ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् - (भाष्यम्) ङ्याब्ग्रहणमनर्थकम्॥ किं कारणम्? प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्॥ प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येषा परिभाषा कर्तव्या। कः पुनरत्र विशेषः? एषा वा परिभाषा क्रियेत, ङ्याब्ग्रहणं वा? अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि॥ (जिज्ञासाभाष्यम्) कानि? (5098 प्रयोजनवार्तिकम्॥ 5 ॥) - सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् - (भाष्यम्) सर्वनामविधिः प्रयोजनम्। सर्वनाम्नः सुडिहैव स्यात् -येषाम्, तेषाम्॥ यासाम्, तासामित्यत्र न स्यात्॥ (प्रयोजनखण्डनभाष्यम्) नैतदस्ति प्रयोजनम्। अवर्णान्ताट्टाब्विधीयते। तत्रैकादेशे कृतेऽन्तादिवद्भावात्सुड् भविष्यति॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् -सर्वनाम्नस्तृतीया च इहैव स्यात् -भवता हेतुना, भवतो हेतोरिति। भवत्या हेतुना, भवत्या हेतोरित्यत्र न स्यात्। सर्वनाम॥ (व्याख्यानभाष्यम्) स्वर, कुसूलकूपकुम्भशालं बिले इहैव स्यात् -कुसूलबिलम्। कुसूलीबिलमित्यत्र च न स्यात्। स्वर॥ (व्याख्यानभाष्यम्) समास द्वितीया श्रितादिभिः सह समस्यते। इहैव स्यात् -कष्टं श्रितःउकष्टश्रितः। कष्टं श्रिताउकष्टश्रितेत्यत्र न स्यात्॥ (वार्तिकोक्तप्रयोजनखण्डनभाष्यम्) एतदपि नास्ति प्रयोजनम्। श्रितशब्दोऽकारान्तस्तत्रैकादेशे कृतेऽन्तादिवद्भावाद्भविष्यति॥ (प्रयोजनभाष्यम्) इदं तर्हि -पूर्वसदृशेति। इहैव स्यात् -पित्रा सदृशःउपितृसदृशः॥ पित्रा सदृशीउपितृसदृशीत्यत्र न स्यात्। समास॥ (व्याख्यानभाष्यम्) तद्धितविधि, अचित्तहस्तिधेनोष्ठक् इहैव स्यात्-हस्तिनां समूहो हास्तिकम्॥ हस्तिनीनां समूहो हास्तिकमित्यत्र न स्यात्॥ (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। पुंवद्भावेनैतत्सिद्धम्॥ (प्रयोजनभाष्यम्) इदं तर्हि -प्रमाणे द्वयसच्। यथेह भवति -हस्तिद्वयसम्, हस्तिमात्रम्। एवं हस्तिनीद्वयसम्, हस्तिनीमात्रमित्यपि यथा स्यात्। तद्धितविधि॥ (व्याख्यानभाष्यम्) लुक्, नेन्सिद्धबध्नातिषु च इहैव स्यात् -स्थण्डिलशायी॥ स्थण्डिलशायिनीत्यत्र न स्यात्। लुक्॥ (व्याख्यानभाष्यम्) अलुक् शयवासवासिष्वकालात् इहैव स्यात् -ग्रामेवासी॥ ग्रामेवासिनीत्यत्र न स्यात्॥ (5099 परिभाषाप्रयोजनवार्तिकम्॥ 6 ॥) - मानिनि च विधिप्रतिषेधार्थम् - (भाष्यम्) मानिनि च विधिप्रतिषेधार्थं प्रयोजनम् -विध्यर्थं तावत् क्यङ्मानिनोश्च इहैव स्यात्। दर्शनीयमानी॥ दर्शनीयमानिनीत्यत्र न स्यात्॥ प्रतिषेधार्थमपि। वक्ष्यति स्वाङ्गाच्चेतोऽमानिनि तस्मिन् क्रियमाणे इहैव स्यात् -दीर्घमुखमानी॥ दीर्घमुखमानिनीत्यत्र न स्यात्॥ (5100 परिभाषाप्रयोजनवार्तिकम्॥ 7 ॥) - प्रत्ययग्रहणोपचारेषु च - (भाष्यम्) प्रत्ययग्रहणोपचारेषु च प्रयोजनम्। तृजकाभ्यां कर्तरि इहैव स्यात् -अपां स्रष्टा॥ अपां स्रष्ट्रीत्यत्र न स्यात्। प्रत्यय॥ उपचार -अतः कृकमिकंसकुम्भ इहैव स्यात् -अयस्कुम्भः॥ अयस्कुम्भीत्यत्र न स्यात्॥ (परिभाषाफलोपसंहारभाष्यम्) एतान्येतस्याः परिभाषायाः प्रयोजनानि। यदर्थमेषा परिभाषा कर्तव्या॥ एतस्यां च सत्यां नार्थो ङ्याब्ग्रहणेन॥ (5101 परिभाषाक्षेपवार्तिकम्॥ 8 ॥) - अतिप्रसङ्ग उपपदविधौ - (भाष्यम्) उपपदविधावतिप्रसङ्गो भवति द्विषत्परयोस्तापेः यथेह भवति-द्विषन्तप इति॥ एवं द्विषतीताप इत्यत्रापि स्यात्॥ (5102 परिभाषाक्षेपे द्वितीयवार्तिकम्॥ 9 ॥) - यञ्ञिञ्ञोः फकि - (भाष्यम्) यञ्ञिञ्ञोः फक्यतिप्रसङ्गो भवति। यथेह भवति -गार्ग्यायणः, दाक्षायणः॥ एवं गार्गेयो दाक्षेय इत्यत्रापि स्यात्॥ नैष दोषः॥ ढगत्र बाधको भविष्यति॥ (5103 परिभाषाक्षेपे तृतीयवार्तिकम्॥ 10 ॥) - समासान्तेषु च - (भाष्यम्) समासान्तेषु चातिप्रसङ्गो भवति राजाहः सखिभ्यष्टच् यथेह भवति -मद्रराजः, कश्मीरराजः॥ एवं मद्रराज्ञी कश्मीरराज्ञीत्यत्रापि स्यात्॥ (आक्षेपभाष्यम्) न वा भवति मद्रराजीति॥ (उपपादकभाष्यम्) भवति, यदा समासान्तादीकारः। लिङ्गविशिष्टग्रहणे तु ईकारान्तात्समासान्तः प्रसज्येत॥ तत्र को दोषः? पुंवद्भावष्टिलोपश्च। तत्र मद्रराजीत्येवं रूपं स्यात् मद्रराज्ञीति चेष्यते॥ (5104 परिभाषाक्षेपे चतुर्थवार्तिकम्॥ 11 ॥) - महदात्वे प्रियादिषु - (भाष्यम्) महदात्वे प्रियादिष्वतिप्रसङ्गो भवति। आन्महतः समानाधिकरणजातीययोः इति यथेह भवति महान् प्रियोऽस्य महाप्रियः॥ एवं महती प्रियाऽस्य महतीप्रिय इत्यत्रापि स्यात्॥ किमुच्यते प्रियादिष्विति? यत्र पुंवद्भावः प्रतिषिध्यते॥ यत्र तु न प्रतिषिध्यते भवितव्यमेव तत्रात्वेनेति॥ (5105 परिभाषाक्षेपे पञ्ञ्चमवार्तिकम्॥ 12 ॥) - ञ्ञ्नित्स्वरे - (भाष्यम्) ञ्ञ्नित्स्वरेऽतिप्रसङ्गो भवति ञ्ञ्नित्यादिः उदात्तो भवतीति। यथेह भवति -दाक्षिः, अहिचुम्बकायनिः॥ एवं दाक्षी, अहिचुम्बकायनीत्यत्रापि स्यात्॥ (5106 परिभाषाक्षेपे षष्ठवार्तिकम्॥ 13 ॥) - राज्ञः स्वरे ब्राह्मणकुमारयोः - (भाष्यम्) राज्ञः स्वरे ब्राह्मणकुमारयोरतिप्रसङ्गो भवति राजा च ब्राह्मणकुमारयोरिति। यथेह भवति -राजब्राह्मणः, राजकुमारः॥ एवं राजब्राह्मणी, राजकुमारीत्यत्रापि स्यात्॥ (5107 परिभाषाक्षेपे सप्तमवार्तिकम्॥ 14 ॥) - समाससंघातग्रहणेषु च - (भाष्यम्) समाससंघातग्रहणेषु चातिप्रसङ्गो भवति बहोर्नञ्ञ्वदुत्तरपदभूम्नि यथेह भवति - बहुगोमान् बहुयवमान्॥ एवं बहुगोमती बहुयवमतीत्यत्रापि स्यात्। (संघातपदाक्षेपभाष्यम्) किमुच्यते समाससंघातग्रहणेष्विति?॥ (संघातपदप्रयोजनभाष्यम्) यदवयवग्रहणं प्रयोजनमेवैतस्याः परिभाषायाः कुसूलकूपकुम्भशालं बिले कुसूलीबिलमिति यथा॥ (5108 परिभाषाक्षेपेऽमष्टेवार्तिकम्॥ 15 ॥) - विभक्तौ चोक्तम् - (भाष्यम्) किमुक्तम्? न वा विभक्तौ लिङ्गविशिष्टाग्रहणादिति॥ (परिभाषोपसंहारभाष्यम्) एतेऽस्याः परिभाषाया दोषाः, एतानि च प्रयोजनानि स्युः॥ एते दोषाः समा भूयांसो वा? तस्मान्नार्थोऽनया परिभाषया॥ न हि दोषाः सन्तीति परिभाषा न कर्तव्या। लक्षणं वा न परिणेयम्॥ न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न च मृगाः सन्तीति यवा नोप्यन्ते॥ दोषाः खल्वपि साकल्येन परिगणिताः। प्रयोजनानामुदाहरणमात्रम्। कुत एतत्। न हि दोषाणां लक्षणमस्तीति॥ तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं च दोषेषु॥ (5109 ङ्याप्प्रयोजनवार्तिकम्॥ 16 ॥) - तद्धितविधानार्थं तु - (भाष्यम्) तद्धितविधानार्थं तु ङ्याब्ग्रहणं कर्तव्यं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यात् -कालितरा, हरणितरा, खट्वातरा, मालातरा॥ (आक्षेपभाष्यम्) किं पुनः कारणं न सिध्यति? (5110 आक्षेपसाधकवार्तिकम्॥ 17 ॥) - विप्रतिषेधाद्धि तद्धितबलीयस्त्वम् - (भाष्यम्) विप्रतिषेधाद्धि तद्धितोत्पत्तिः प्राप्नोति॥ (5111 ङ्याब्ग्रहणे दोषवार्तिकम्॥ 18 ॥) - तत्र समासान्तेषु दोषः - (भाष्यम्) तत्र समासान्तेषु दोषो भवति -बहुगोमत्का, बहुयवमत्का॥ समासान्ता अपि ङ्याबन्तात्स्युः॥ (5112 न्यूनतापूरकवार्तिकम्॥ 19 ॥) - त्यूङोश्च ग्रहणम् - (भाष्यम्) त्यूङोश्चापि ग्रहणं कर्तव्यं भवति। युवतिका, ब्रह्मबन्धुकेति॥ (वार्तिकाक्षेपभाष्यम्)ऊङ्ग्रहणेन तावन्नार्थः। नास्त्यत्र विशेषः। उकारान्तादुत्पत्तौ सत्यामूङन्ताद्वा॥ (प्रयोजनभाष्यम्) इदं तर्हि -युवतितरा, ब्रह्मबन्धुतरा, इति॥ (5113 दोषपरिहारवार्तिकम्॥ 20 ॥) - तदन्तस्य च प्रत्ययार्थेनायोगात्तद्धितानुत्पत्तिः - (भाष्यम्) तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेनायोगात्तद्धितोत्पत्तिर्न प्राप्नोति। कालितरा, हरिणितरा, खट्वातरा, मालातरेति॥ किं कारणम्? ङ्याबन्तमेतत् स्त्रीप्रधानम्। न च स्त्रीत्वस्य प्रकर्षाप्रकर्षौ स्तः। नैष दोषः। न हि किंचिदुच्यते -एवंजातीयकादुत्पत्तव्यमेवं जातीयकान्नेति। एतावदुच्यते -अतिशायने तमबिष्ठनौ तिङश्चेति। यस्य च प्रकर्षोऽस्ति तस्य प्रकर्षे प्रत्ययो भविष्यति। अस्ति चाप्रधानस्य गुणस्य प्रकर्षः। इह खल्वपि शुक्लतरः कृष्णतर इति। द्रव्यं प्रधानम्। गुणस्य च प्रकर्षे प्रत्यय उत्पद्यते॥ (5114 सिद्धान्तवार्तिकम्॥ 21 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात्स्वार्थे टाबादयः इति। प्रातिपदिकविशेषणं स्त्रीग्रहम्, स्वार्थिकाष्टाबादयः॥ नैवं विज्ञायते -स्त्रियामभिधेयायामिति॥ नापि स्त्रीसमानाधिकरणात्प्रातिपदिकादिति॥ कथं तर्हि -यत्प्रातिपदिकं स्त्रियां वर्तते तस्माट्टाबादयो भवन्ति॥ कस्मिन्नर्थे? स्वार्थे इति॥ (वार्तिकोक्तदोषपरिहारभाष्यम्) ननु चोक्तं तत्र समासान्तेषु दोष इति॥ समासान्ता अपि स्वार्थिकाः॥ उभयोः स्वार्थिकयोः परत्वात्समासान्ता भविष्यन्ति॥ (वार्तिकोक्तदोषपरिहारभाष्यम्) कथं कालिकेति?॥ प्रत्ययस्थात्कात्पूर्वस्येतीत्वं भविष्यति॥ (वार्तिकोक्तदोषपरिहारभाष्यम्) कथं हरिणिका इति?॥ हरिणशब्दः प्रकृत्यन्तरमस्ति। (वार्तिकोक्तदोषपरिहारभाष्यम्) कथं लोहिनिकेति? वक्ष्यत्येतल्लोहिताल्लिङ्गबाधनं वेति ॥ 1 ॥ Kashika ------- अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्याम आ पञ्चमाध्यायपरिसमाप्तेर्ङ्याप्प्रातिपदिकादित्येवं तद् वेदितव्यम्। स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रियते। ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङीति, टाप्डाप्चापामाबिति, प्रातिपदिकमुक्तम् **अर्थवद्०** (१.२.४५) **कृत्तद्धितसमासाश्च** (१.२.४६) इति। तेषां समाहारनिर्देशो ङ्याप्प्रातिपदिकादिति। यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथापि वृद्धावृद्धावर्णस्वरद्व्यज् — लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्। इतरथा हि समर्थविशेषणमेतत् स्यात्। अथ ङ्याब्ग्रहणं किम्, न **प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति** (परि० ७१) इत्येव सिद्धम्? नैदस्ति। स्वरूपविधिविषये परिभाषेयम् — प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्टग्रहणं भवतीति। तथा च **युवा खलतिपलितवलिनजरतीभिः** (२.१.६७) इति ज्ञापकमस्यास्तादृशमेव। किं च, तदन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम् — कालितरा, हरिणितरा, खट्वातरा, मालातरेति। विप्रतिषेधाद्धि तद्धितबलीय — स्त्वं स्यात् ॥ Siddhanta Kaumudi ----------------- ङ्यन्तात् आबन्तात् प्रातिपदिकात् चेति आपञ्चमपरिसमाप्तेः अधिकारः । <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इत्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ङ्याब्भ्यां प्राक् मा भूत् इत्येवमर्थम् ॥ Balamanorama ------------ **ङ्याप्प्रातिपदिकात्** - ङ्याप्प्रातिपदिकात् । चतुर्थाध्यायस्यादिमं सूत्रमिदम् । ङी च, आप् च, प्रातिपदिकं चेति समाहारद्वन्द्वः । ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम् । आबिति टाप्डाप्चापां ग्रहणम् । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदाह — ङ्यन्तादित्यादिना ।आ पञ्चमे॑त्य वधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूत्र्यताम् । ङ्याब्ग्रहणं मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण॑मिति परिभाषया ऊङप्रत्ययान्तात् आश्रूशब्दादिव दण्डिनी अजा खट्वेत्यादिभ्योऽपि ङ्याबन्तेभ्यः सुबादिप्रत्ययसम्भवादित्यत आह — प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति । स्त्रीलिङ्गबोधकङीबादिप्रत्ययविशिष्टस्येत्यर्थः । यथा स्यादिति । यथेति योग्यतायाम् । ङ्याबन्तादेव तद्धितः प्राप्तुं योग्यः । स च ङ्याब्ग्रहणे सत्येव स्यादित्यर्थः । व्यवच्छेद्यं दर्शयति-ङयाब्भ्यां प्राङ्भाभूदिति । ततश्च लोहनिका आर्यका च सिध्यति । तथाहि — लोहितशब्दस्तावत्वर्णाना तणतिनितान्तानाम् इति फिट्सूत्रेणाद्युदात्तः । ततश्च ओकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति परिशिष्टौ इकारा.ञकारावनुदात्तौ । तथाचवर्णादनुदात्तात्तोपधात्तो नः॑ इत#इ मणौ विद्यमानाल्लोहितशब्दात्स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः । 'लोहितान्मणौ' इति स्वार्थिकः कनपि प्राप्तः । तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत । ततश्च ङीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापिप्रत्ययस्था॑दित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लोहिनिकेति । इष्यते तु रूपद्वयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र ङीब्ग्रहणे तु तत्सामर्थ्यादन्तरङ्गं परमपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात्कनि, 'केऽणः' इति ह्रस्वे, लोहिनिकेति रूपम् ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात्कनि, ह्रस्वे, पुनः कान्ताट्टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति । तथा आर्यशब्दात्स्वार्थिके कनि, समुदायोत्तरटापैव स्त्रीत्वबोधनसम्भवादेकाज्द्विर्वचनन्यायेन कनन्तादेव टापि, कनः पूर्वं टाबभावात्, आत्स्थानिकस्य अतोऽभावादुदीचामातःस्थाने इति इत्वविकल्पस्याऽप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्य#आत् । इष्यते तूभयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र आब्ग्रहणे तु तत्सामर्थ्यात्स्वार्थिकं कनं बाधित्वा टापि, ततः कनि, 'केऽण' इति ह्रस्वे, पुनः कनन्ताट्टापि , 'उदीचामातः स्थाने' इतीत्वविकल्पे रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि-स्वार्थः=प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिराकाङ्क्षितत्वाच्च । ततः स्वमात्रापेक्षत्वाल्लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्ने च परिष्कृतमेतत् । Tattvabodhini ------------- **ङ्याप्प्रातिपदिकात्** - ङ्याप्प्रातिपदिकात् । समाहारद्वन्द्वादेकवचनम् ।ङी॑ति ङीप्ङीष्ङीनां सामान्यग्रहणम् ।आ॑विति च टाप्डाप्चापाम् । आपञ्चमपरिसमाप्तेरिति । ननुघकालतनेषु॑ — इति ज्ञापकात्सुबन्तात्तद्धितोत्पत्तिरित्यभ्युपगतेः किमर्थस्तद्धितेषु प्रातिपदिकाधिकार इति चेदत्राहुः — असति त्वधिकारेअत इ॑ञित्यत्राऽत इत्येतत्सुबन्तस्यैव विशेषणं स्यात्, ततश्च दक्षस्यापत्यमित्यत्रैव इञ्स्यान्न तु दक्षयोर्दक्षाणामित्यत्र । किञ्चवद्धाच्छः॑ इत्यत्रवृद्ध॑-मित्येतत्सुबन्तविशेषणं मा भूत् । अन्यथा जानन्तीति ज्ञाः,इगुपधे॑तु कः ।ज्ञानामय॑मित्यत्र सुबन्तस्य वृद्धत्वाच्छो न भवति, किन्त्वणेव भवति । शब्दकौस्तुभे त्वसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः । ततो विशिष्यस्य प्रातिपदिकतया [सकल]सुब्लोपे स्पष्टमेवानिष्टमिति स्थितम् । लिह्गविसिष्टस्येति । लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः । परिभाषायाः प्रयोजनः-आश्रूः । प्रत्ययान्तत्वेनाऽप्रातिपदिकत्वेऽपि इह स्वादयः । न चआशुरः आओ॑ति निर्देशादेव स्वादिसिद्धिरिति वाच्यम् । निर्देशस्य शब्दपरत्वात् ।विपाराभ्यां जेः॒॑ङेर्यः॑ इतिवत् । किंच कुमारीमाचष्टे कुमारयति ।णाविष्ठव॑दिति टिलोपः । एवं यामिन्य इवांचरन्ति अहानियामिनयन्ती॑त्यत्राचारे क्विबपि फलम् । ङ्याब्भ्यां प्रागिति । तेनएनिका॑आर्यका॑ च सिध्यति । तथाहिन सामिवचने॑ इति ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकः क एतार्याशब्दाभ्यां ङ्यापौ बाधेत, ततश्चएतिका॑आर्यिके॑त्येव रूपं स्यात् । ङ्याब्ग्रहणसामर्थ्यात्तु ङीबन्तात्कनिएनिके॑-त्यपि सिध्यति ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकत्वात् । आबन्तात्कनि तुउदीचामातः स्थाने॑ इतीत्त्वविकल्पादार्यका आर्यिकेति रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु,घकालतनेषु॑ — इत्यलुग्विधानसामर्थ्यात्सुबन्तात्तद्धितोत्पत्तिरिति हि निष्कर्षः । तथा च सुपः प्रागेव ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम् । Padamanjari ----------- अधिकारोऽयमिति । विधेयपरिभाष्ययोरनिर्देशाद्वक्ष्यमाणानां च स्वादीनां प्रकृत्यपेक्षत्स्वरितत्वाच्च । आ पञ्चमाध्यायपरिसमाप्तेरिति । अधिकारस्यावधिं दर्शयति । अधिकारोऽनेकप्रकारः - संज्ञाधिकारः, विशेषणाधिकारः, प्रकृत्यधिकारश्चेति, तत्र कीदृसोऽयमधिकारः ? इत्यत आह - स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रयते इति । टाब्डाप्चापामाव्रितीति । सामान्यहणमित्यनुषङ्गः । समाहारनिर्द्देश इति । समाहारद्वन्द्वेन तेषां ङ्यादीनामयं निर्देश इत्यर्थः । ततश्च समाहारस्यैकत्वादेकवचनमेव युक्तम्, न बहुवचनमिति भावः । किमर्थमिदमुच्यते ? ङ्याप्प्रातिपदिकात्परे स्वादयो यथा स्युरिति केवलानां प्रयोगो मा भूत् ।'परश्च' इति वचनात्केवलानां प्रयोगो न भविष्यति ? इदं तर्हि प्रयोजनम् - ङ्याप्प्रातिपदिकादेव यथा स्युरित प्रकृत्यन्तरान्मा भूवन् । असतिह्यस्मिन्नधिकारे धातुः, तिङ्न्तम्, वाक्यम्, सुबन्तं चेति ङ्याप्प्रातिपदिकव्यतिरिक्ताति चतुर्विधा प्रकृतिरस्ति, वक्ष्यमाणाश्च प्रत्ययाश्चतुर्विधाः - स्वादयः, टाबादयः, अणादयः, स्वार्थिकाश्चेति; तदिह चतुर्विधाभ्यः प्रकृतिभ्यश्चतुर्विधाः प्रत्यया मा भूवन्निति कर्तव्य एवायमधिकारः । न कर्तव्यः । ननु चासत्यस्मिन् धात्वधिकाराद्धातोरेव स्युः, कृदुपपदसंज्ञे च स्याताम्, वासरूपविधिश्चस्यात् ? न; निवृतत्वाद्धातुग्रहणस्य । यदि परं धातोरपि स्युः, तदपि न; कर्मादीनामभावात् । कर्मादिषु च कारकेष्वेकत्वादिकायां च संख्यायां स्वादयो विधीयन्ते, न च धात्वर्थस्य कर्मादिभिर्योगः सम्भवति । कथं तर्हि कर्मणि तत्र्यदादयो भवन्ति ? नैव धात्वर्थस्य कर्मत्वे तव्यदादयो भवन्ति, किं तर्हि ? धात्वर्थं प्रति यत्कर्म तस्मिन्वाच्ये - कर्तव्यः कट इति । स्वादयस्तु प्रकृत्यर्थस्य कर्मत्वे चरितार्था नान्यस्य कर्मत्वे भवितुमर्हन्ति, तव्यदादिभिश्च बाधितत्वाद्धातोः स्वादीनामभावः । ननु च धात्वर्थस्यैव कर्मत्वं दृष्टम् - सन्प्रकृतौ चिकीर्षतीत्यादौ ? एवमपि संख्याभावः सिद्ध एव, अव्ययेभ्यस्तु ठव्ययादाप्सुपःऽ इति ज्ञापकात्स्वादयो भवन्ति । यत्पुनः'बहुषु बहुवचनम्' इत्यत्रोक्तम् - यत्र च संख्या सम्भवतीति, तदस्यां दशायां तथा नाश्रीयते । टाबादयस्तर्हि धातोर्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च धात्वर्थस्य स्त्रीत्वेन योगोऽस्ति । कथं तर्हि स्त्रियां क्तिन्नादयो विधीयन्ते ? नैवात्र धात्वर्थस्य स्त्रीत्वे क्तिन्नादयः स्मर्यन्ते, कस्य तर्हि ? यस्तस्य सिद्धत्वं नाम धर्मस्तस्य । क्तिन्नादिभिश्च बाधितत्वाट्टाबादीनामभावः । अणादयस्तर्हि धातोर्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, न च धात्वर्थस्यापत्यादिभिर्योगोऽस्ति, समर्थविभक्त्यभावाच्चाणादीनामनुत्पत्तिः,'तस्यापत्यम्' ,'तेन रक्तम्' ,'तत्र भवः' इत्येवमादिभिः षष्ठ।लदिविभक्त्यन्तादणादयो विधीयन्ते, न च धातोर्विभक्तिः सम्भवति । स्वाथिका अपि स्वार्थकैस्तुमुन्नादिभिर्बाधितत्वादेव धातोर्न भविष्यन्ति । तिङ्न्तातर्हि स्वादयो मा भूवन्निति ? तिङ्न्तेषु क्रिया प्रधानभूता, साधनं गुणभूतम्, तत्र प्रधानभूतायाः क्रियायाः कर्मादीनामभावात्स्वादयो न भविष्यन्ति । पचति भवति, भवति वै किञ्चिदाचार्याः क्रियमाणमपि चोदयन्तीत्यादौ कर्तृत्वं दृष्टमिति चेत्, एवमपि संख्याया अभावः सिद्ध एव । यस्तु गुणभूतः कर्ताऽभीधीयते; तत्र अभिहितत्वादेव विभक्त्यभावः सिद्धः । न च गुणभूतस्य कर्तुः क्रियान्तरावेशः सम्भवति; यतः पाचकं पश्येत्यादिवद् द्वितीयादयो भवेयुः । ननु पुत्रीयवदेतत्स्यात्, तद्यथा - पुत्रीयशब्दादन्तर्भूतक्रियाकर्मवाचिनः कर्तरि लकार उत्पद्यते - पुत्रीयतीति, तथेहापि पचतिशब्दात् कर्तृविशिष्टक्रियावाचिनः क्रमादिषु द्वितीयादयः स्युरेव ? नैष दोः ; उक्तमेतत् - प्रकृत्यर्थस्य कर्मत्वे चरितार्थाः स्वादयो नान्यस्य कर्मत्वे भवितुमर्हन्तीति । न चैकक्रियापेक्षयोर्भिन्नयोः साधनयोरेकस्मिन्पदे युगपदभिधानं सम्भवति । पुत्रीयशब्दस्तु जीवत्यादिधातुवद्विशिष्टक्रियावचन इति, ततः कर्तरि लकारोत्पतिरविरुद्धा । अवश्यं चैतदेवं विज्ञेयम् - अर्थाभावादेव तिङ्न्ताद् द्वितीयादयो न भवन्तीति । यो हि मन्यते - ङ्याप्प्रातिपदिकाधिकारान्न भवन्तीति; रूपबाद्यन्तातस्य द्वितीयादयः स्युरेव, पचतिरूपं पश्य, पचतिरूपेण कृतमित्यादि, भवति ह्यएतत्प्रातिपदिकम् । कथं तर्हि रूपबाद्यन्तात्प्रथमैकवचनमपि भवति ? उक्तत्वात्सङ्ख्यायाः, न हि तत्कर्तुः सङ्ख्यायामेकवचनम् । यदि तथा स्यात् पचतेरूपं पचन्तिरूपमिति द्विवचनबहुवचने स्याताम् ।'प्रातिपदिकार्थ' इत्यत्र तु प्रातिपदिकग्रहणात्प्रातिपदिकमात्रानुबन्धिनी प्रथमा भवति । तत्राप्येकवचनमेव; ठेकवचनमुत्सर्गः करिष्यतेऽ इति वचनात् । न चैवं तिङ्न्तेऽपि प्रसङ्गः तस्याप्रातिपदिकत्वात् । टाबादयस्तर्हि तिङ्न्तान्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यार्थस्य स्त्रीत्वेन योगोऽस्ति । यदि परं साधनस्य स्त्रीत्वे टाबादयः स्युः पचेद् ब्राह्मणः, पचेरन् ब्राह्मण्य इति ? तदपि न; स्वभावतो हि तिङ्न्तानि साधनाश्रयां सङ्ख्यामेवोपाददते, न लिङ्गम् । उक्तं च - एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । शोभनं पचतीत्यादौ क्रियाविशेषणस्यैव लिङ्गेन योगः, न क्रियायाः, तत्रापि नपुंसकेन । पचति रूपमित्यादावपि रूपबाद्यन्तवाच्यायाः क्रियायाः स्वभावतो लिङ्गेन योगः, तत्रापि नपुंसकेन । विचित्रा हि शब्दानां शक्तयो यथादर्शनमभ्युपगन्तव्याः, न सामान्यतो दृष्टेनानुमानेन व्यवस्थापयितुं शक्यन्ते । अवश्यं चैतदेवं विज्ञेयम् - स्त्रीत्वाभावातिङ्न्ताट्टाबादयो न भवन्तीति, अन्यथा पचतिरूपं ब्राह्मणीत्यादौ रूपबाद्यन्ताट्टाप्स्यादेव । अणादयस्तरिहि तिङ्न्तान्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणाअदयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यापत्यादिभिर्योगोऽस्ति । अप्रधानस्य त्वप्रधानत्वादेवापत्यादिभिर्योगाभावः, समर्थविभक्त्यभावाच्चाणाद्यभावः सिद्धः । अवश्यं चैतदेवं विज्ञेयम्, अन्यथा यः पचतिरूपं तस्यापत्यमिति रूपबाद्यन्तादणादयः स्युरेव । स्वाथिका अपि ज्ञापकातिङ्न्तान्न भविष्यन्ति, यदयं क्वचितद्धितविधौ तिङ्ग्रहणं करोति - ठतिशायने तमबिष्ठनौऽ,'तिङ्श्च' इति । वाक्यादपि नैव स्वादयो भवितुमर्हन्ति; अर्मादीनामभावात् । न खलु क्रियारूपस्य संसर्गरूपस्य भेदरूपस्य वा वाक्यार्थस्य कर्मादिभि स्त्रीत्वेनापत्यादिभिर्वा योगः सम्भवति ।'पश्य मृगो धावति' इत्यादौ दृष्टमिति चेत् ? एवमपि संख्यायोगाभावः सिद्धः । स्वार्थिका अप्यभिधानाभावान्न वाक्याद्भविष्यन्ति । तथा हि -'देवदतारोहाश्वम्' इत्यस्माद्वाक्यात्प्रागिवीयेष्वर्थेषु के सुल्बुकि च कृते वाक्यार्थस्यासत्वभूतत्वाच्छक्तिलिङ्गसङ्ख्यायोगाभावात्स्वाद्यौत्पतेरभावाद् देवदतारोहाश्वकेति भवितव्यम्, न चैवम्भूतेन वाक्यार्थगताः कुत्सादयो गम्यन्त इति । सुबन्तादपि नैव स्वादयो भवितुमर्हन्ति । नहि स्वादिषु विधीयमानेषु तदन्ता प्रकृतिः सम्भवति, यथोक्तम् -'सनन्तान्न सनिष्यते' इति । किञ्च सुबन्तमपि सङ्ख्याप्रधानं कारकशक्तिप्रधानं वा, न चास्यापरैः कर्मादिभिर्योगः सम्भवति । टाबादयोऽपि स्त्रीत्वाभावान्न भविष्यन्ति । अणादिषु पुनर्नास्ति विशेषः, सुबन्ताद्वोत्पतौ सत्यां प्रातिपदिकाद्वा । यथा चैततथा'समर्थानां प्रथमाद्वा' इत्यत्र प्रतिपादयिष्यामः । सर्वथा रूपबाद्यन्तात्प्रातिपदिकादप्यनिष्टः प्रत्ययो यद्वात् तद्वद्धात्वादिकादपीति नार्थ एतेनेत्याक्षेप्ता शङ्कते तावत् - यद्यपीति । प्रत्ययपरत्वेन प्रकृतिर्लभ्यते । पारिशेष्याच्चेयमेव प्रकृतिर्लभ्यत इत्यर्थः । परिहरति - तथापीति । वृद्धादयो लक्षणं निमितं यस्य प्रत्ययविधेस्तत्र ङ्याप्प्रातिपदिकस्य विशेष्यत्वेन सम्प्रात्ययो यथा स्यादित्येवमर्थमित्यर्थः । इतरथा हीति । यदि ङ्याप्प्रातिपदिकग्रहणं न क्रियेतेत्यर्थः । समर्थविशेषणमेतत्स्यादिति ।'समर्थानां प्रथमाद्वा' इत्यधिकारात् । किं च समर्थम् ? सुबन्तम् । समर्थविशेषणे सति को दाषः ? ठुदीचां वृद्धादगोत्रात्ऽ इति फिन् । इह च प्रसज्येत - ज्ञानां ब्राह्मणानामपत्यमिति, एतद्धि समर्थंवृद्धम् । इह च न स्यात् - ज्ञानां ब्राह्मणानामपत्यमिति, न ह्यएतत्समर्थमवृद्धम् । यत्र ह्यादेशादिवशेन सङ्ख्याविशेषाभिव्यक्तिर्भवति न भवति तत्र द्विवचनबहुवचनान्तानामपि वृत्तिः - तावकः, मामक इति । यथा इह च फिञुत्पद्यमानो बहुत्वमन्तरेण वृद्धत्वानुपपतेर्बहुत्वं गमयेत्, एवं फिन्नपि द्वित्वमिति स्यादेवायं प्रसङ्गः । अवर्ण - ठत इञ्ऽ इहैव स्यात् दक्षस्यापत्यमिति, दक्षयोः दक्षाणामित्यत्र तु न स्यात् । स्वर - ठनुदातादेरञ्ऽ, इह च प्रसज्येत - वाचो विकारः, त्वचो विकारः, एतद्धि समर्थमनुदातादि,'सावेकाचः' इति विभक्तेरुदातत्वात् । नन्वत्रैकाचो नित्यं मयटमिच्छन्तीति मयटा भाव्यम् ? इदं तर्हि पञ्चानां विकार इति'षट्त्रिचतुर्भ्यो हलादिः' इति विभक्तेरुदातत्वे सति समर्थमनुदातादि, प्रातिपदिकं तु'न्रः सङ्ख्यायाः' इत्याद्यौदातम् । इह च न स्यात् - सर्वेषां विकार इति,'सर्वस्य सुपि' इत्याद्यौदातं पदम्, प्रातिपादिकं त्वन्तोदातं निपातितम् । द्व्यच् -'नौद्व्यचष्ठन्' , इह च प्रसज्येत - वाचा तरति, त्वचा तरति,एतद्धि समर्थं द्व्यच् । नौग्रहणं तु नियमार्थं स्यात् - औकारान्ताद्यदि भवति नौशब्दादेवेति । इह च न स्यात् - घटेन तरतीति । साम्ना तरतीत्यादौ पुनरुभयथापि सिद्धम् । ङ्याप्प्रातिपदिकग्रहणे तु सति तत्सामर्थ्यातस्यैव विशेषणं वृद्धादि भवति, समर्थाधिकाराच्च समर्थात्प्रत्ययः । तत्रैवमभिसम्बन्धः - वृद्धादि यद् ङ्याप्प्रातिपदिकं तस्मात् समर्थात् प्रत्ययः इति ।'यस्मात्प्रत्ययविधिः' इति प्रत्ययविधौ पञ्चमीनिर्दिष्टस्य विधीयमाना अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरित्येततु प्रयोजनंन भवति, कथम् ? दैवेन हि जानता यतः प्रत्ययो विहितस्तस्यैताः संज्ञाः पञ्चम्या निर्द्दिश्यतां मा वा निर्देशि । इह च'कंसीयपरशव्ययोर्यञञौ लुक्च' इति प्रातिपदिकात्परयोश्च्छयतोर्लुग्यथा स्यादौणादिकयोरुकारसशब्दयोर्मा भूदित्येतदपि न प्रयोजनम्, कथम् ? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ, उणाअदिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे पुनः कंसग्रहणाद्विज्ञायते, तस्माद् वृद्धाद्येव प्रयोजनमधिकारस्य । ङ्याब्ग्रहणं क्रियते; प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् ।'यूनस्तिः' युवतिरित्यस्य तु तद्धितान्तत्वात्प्रातिपदिकत्वम् । ठूणुतःऽ इत्युवर्णान्तादूङ् विधीयते, तत्रैकादेशस्यान्तवद्भावात्प्रातिपदिकत्वम् ।'श्वशुरस्योकाराकारलोपश्च' इति श्वश्रूरित्यत्र'श्वशुरः श्वश्र्वश्च' इति निपातनाद्विभक्त्यादिसिद्धिः, एवं स्थिते चोद्यम् - अथेति । न प्रातिपदिकग्रहण इति । नञः काक्वा प्रयोगात्सिद्धमेवेत्यथः । अनेकार्थत्वाद्वा निपातानाम् । ननुशब्दस्यार्थे नशब्दो द्रष्टव्यः । लिङ्गविशिष्टस्येति । लिङ्गनिमितप्रत्ययेनाधिकस्येत्यर्थः । अस्याश्च परिभाषायाः प्रयोजनम् - सर्वनामस्वरसमासोपचारेष्ठवद्भावाः । सर्वनाम - भवच्छब्दस्य विधीयमाना सर्वनामसंज्ञा भवतीशब्दस्यापि भवति,'सर्वनाम्नास्तृतीया च' , भवता हेतुना, भवतो हेतोः, भवत्या हेतुना, भवत्या हेतोरिति । स्वर -'कुशूलकूपवुम्भशालं बिले' , कुशूलबिलं कुशूलीबिलम् । समास -'पूर्वसदृश' , मातृसदशः, मातृसदृशी;'सदृशप्रतिरूपयोः' इति स्वरोऽप्यत्र भवति । तथा'कुमारः श्रमणादिभिः' । कुमारीश्रमणा, कुमारश्रमणा, एवं युवतिर्वलिना, युववलिना । उपचार - ठतः कृकमिकंसकुम्भऽ, अयस्कुम्भः, अयस्कुम्भी । इष्ठवद्भाव -'णाविष्ठवत्प्रातिपदिकस्य' , कुमारीमाचष्टे कुमारयति । इह तु ठचितहस्तिधेनोष्ठक्ऽ, हस्तिनीनां समूहो हास्तिकरमिति,'भस्याढेअ तद्धिते' इति पुंवद्भावेन ङीपि निवृते हस्तिशब्द एवायमिति ठक्सिद्धिः ।'तद्धिते' इत्येषा हि विषयसप्तमी । अवश्यं च पुंवद्भाव एवाश्रयणीयः, अन्यथा हस्तिनीशब्दाट्ठकि यस्येतिलोपग्य स्थानिवद्भावात्'नस्तद्धिते' इति टिलोपो न स्यात् । इह च'नेन्त्सिद्धबध्नातिषु च स्थण्डिलशायिनि' इति'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः' इति वचनादनुत्पन्न एव ङीपि समासे सतीन्नन्तमेवोतरपदमित्यलुक्प्रतिषेधः सिद्धः । एवं'शयवासवासिष्वकालात्' ग्रामेवासिनीत्यलुक् । तथा'क्यङ्मानिनोश्च' 'स्वाङ्गाच्चेतोमानिनि' दर्शनीयमानिनी, दीर्घमुखमानिनी - मानिन्शब्द एवोतरपदमिति पुंवद्भावः सिद्धः । इह च'तृजकाभ्यां कर्तरि' 'कर्तरि च' इति कर्तरि यौ तृजकौ ताभ्यां योगे या षष्ठी तस्या येन सह समासः प्राप्तः स सर्वो न भवतीति विज्ञानादपां स्रष्ट्रीत्यत्रापि समासनिषेदः सिद्धः । यदि'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' भवति, अतिप्रसङ्गो भवति -'द्विषत्परयोस्तापे' द्विषतीतप इत्यत्रापि स्यात्, उक्तमत्र -'द्विषत्परयोरिति द्वितकारको' यं निर्देशः तकारान्तो द्विषच्छब्दःऽ इति । इह च गार्ग्या अपत्यम्, दाक्ष्या अपत्यमिति'यञिञोश्च' इति फकं परत्वात् स्त्रीभ्यो ढग्बाधते । इह च'ञ्नित्यादिनित्यम्' दाक्षिः, ग्लुचुकायनिरित्यस्यामवस्थायामाद्यौदातत्वे कृते पश्चात् ठितो मनुष्यजातेःऽ इति ङीषि सति शिष्टः प्रत्ययस्वर एव भवति - दाक्षी, ग्लुचुकायनी । न चास्यामवस्थायामाद्यौदातत्वं पुनः प्रवर्तते; पूर्वमेव प्रवृतत्वात् । तथा बहवो गोमन्तोऽस्यां बहुगोमतीति प्रागेव बहुस्वरे प्रवृते पश्चान्ङीप्, पित्वादनुदातो भवति । न च पुनरपि'बहोर्नञ्वद्' इत्यम्य प्रवृत्तिः पूर्वमेव प्रवृतत्वात्समासाच्चात्र ङीबुत्पन्न इत्युतरपदं न लिङ्गविशिष्टम् । इह तर्हि राजाहः सखिभ्यष्टच्ऽ मद्राणां राज्ञीति टच् स्यात्, ततश्च'भस्याढेअ तद्धिते' इति पुंवद्भावेन ईकारे निवृते टिलोपे च टित्वान्ङीपि मद्रराजीति स्यात्, मद्रराज्ञीति चेष्यते । तथा महती प्रिया यस्य महतीप्रिय इति पुंवद्भावप्रतिषेधविषये ठान्महतःऽ इत्यात्वं स्यात् । तथाऽऽर्ययोर्ब्राह्मणकुमारयोः, राजा च राजब्राह्मणीत्यत्रापि स्यात् । तथा विभक्त्याश्रयं यत्कार्यं विभक्तौ परतो विभक्तेर्वा तत्रापि दोषः, यथा -'न गोश्वन्साववर्ण' इति शुना, शुन इत्यत्र'सावेकाचः' इति प्राप्तं विभक्तेरुदातत्वं न भवति । तथा गौरादिङीषन्तात् शुन्या, शुन्यै इत्यादावपि ठुदातयणो हलपूर्वात्ऽ इत्यस्यापि निषेधः स्यात् । ठुगिदचाम्ऽ इति नुम् गोमतीत्यादावपि स्यात् ।'चतुरनडुहोराम्' अनडुहीत्यत्रेकारात्परः स्याद् ।'पथिमथ्यृभुक्षामात्' शोभनः पन्था अस्यामिति'न पूजनात्' इति समासान्ते निषिद्धे ऋन्नेभ्यो ङीपि भस्य टेर्लोपे सुपथीत्यत्रापि स्यात् । अङ्गाधिकारे तदन्तस्यापि ग्रहणात्सुपन्था इतिवत्'पुंसो' सुङ्ऽ सुपंसीत्यत्रापि स्यात् । शोभनाः पुमांसोऽस्यामिति, उरः प्रभृतिषु पुमानिति विभक्त्यन्तस्य पाठादेकवचनान्तादेव नित्यं कप् भवति, बहुवचनान्तस्य तु'शेषाद्विभाषा' इति विकल्पित एवेति कबभावपक्षे पूङे ह्रस्वः, मसुश्च प्रत्ययः, आकार उच्चारणार्थः, तत्र प्रत्ययस्योगित्वात् ठुगितश्चऽ इति ङीप् ।'सख्युरसम्बुद्धौ' ठनङ् सौऽ इति णित्वानङै सखौ सख्यावित्यादावपि स्याताम् ।'सख्यशिश्वीति भाषायाम्' इति ङीष्विधानं तु सखीभ्यामित्याद्यर्थं स्यात् ।'विभाषा भवद्भगवदघवताम्' इत्यत्र त्ववशब्दः सम्बुद्धाविति विश्ष्यते, तत्र'येन नाव्यवधानम्' इत्येकेन वर्णेन व्यवाये ओत्वं प्रवर्तमानमिह न भवति - हे भगवति, हे अघवतीति, तदभावातत्सन्नियोगशिष्टस्य रुत्वस्याप्यभावः ।'श्वयुवमघोनामतद्धिते' इत्यत्रापि ठल्लोपोऽनःऽ इत्यतः ठनःऽ इत्यपकर्षाद्यौवतीः पश्येति सम्प्रसारणाभावः । तदेवं लिङ्गविशिष्टपरिभाषायाः सन्ति प्रयोजनानि, सन्ति च दोषाः । यानि प्रयोजनानि तदर्थमेषा कर्तव्या, प्रतिविधेयं दोषेषु । प्रतिविधानं च'शक्तिलाङ्गल' इत्यत्र घटग्रहणेनैव सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थमिति । तदेवं स्थितमेतत् - ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति । परहरति - नैतदस्तोति । स्वरूपविधिविषय इति । स्वरूपाश्रयो विधिः स्वरूपविधिः, स चासौ विषयश्च तत्रेत्यर्थः । किमुक्तं भवतीत्याह - प्रातिपदिकस्वरूप ग्रहणे सतोति । कुत एतदित्यत आह - तथा चेति । यथा च युवञ्च्छब्दस्य जरतीशब्देन समासवचनमत्रार्थे ज्ञापकं तथा तत्रैव प्रतिपादिकम् । तादृशमेवेति ।'प्रातिपदिकस्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' इति यदुक्तं तदनुगुणमेवेत्यर्थः । यदि स्वरूपविधिविषये परिभाषेयम्, कथमिष्ठवद्भावः - कुमारीमाचष्टे कुमारयतीति ? बाहुलकात्सिद्धिं मन्यते, चुरादौ हीदं पठ।ल्ते -'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इति । भाष्ये तु यथाकथंचित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्थितम् । तथा च'सर्वप्रातिपदिकेभ्य इत्येके' इति क्विप् ङ्यन्तादपि भवति - यामिनयन्त्यहानीति । किञ्चेत्यादिना प्रयोजनान्तरं समुच्चिनोति । कालितरेति । कालशब्दात् जानपदादिसूत्रेण ङीषि तरपि'घरूपकल्प' इत्यादिना ह्रस्वः । किं पुनः कराणं तदन्तातद्धितविधिर्न सिध्यतीत्याह - विप्रतिषेधाद्धीति । स्त्रीप्रत्ययस्यावकाशः - प्रकर्षाविवक्षायां कालीति, प्रकर्षप्रत्ययस्यावकाशः - स्त्रीत्वाविवक्षायां कालतर इति ; उभयविवक्षायामुभयप्रसङ्गे परत्वातद्धितः स्यात् । ङ्याब्ग्रहणे तु सति तरब्विधौ प्रकृतित्रयाधिकारसामर्थ्यात्पूर्वं ङ्यापौ भवतः, पश्चातरबिति सिद्धमिष्टम् । ननु च स्त्रीत्वस्यान्तरङ्गत्वातन्निमितः प्रत्ययोऽन्तरङ्गः, प्रकर्षस्तु बाह्यप्रतियोग्यपेक्षत्वाद्बहिरङ्गः, ततस्तन्निमितस्य प्रत्ययस्यापि बहिरङ्गत्वम् । योऽप्यज्ञातादिष्वर्थेषु'प्रागिवात्कः' विधीयते सोऽप्यज्ञाताद्यर्थापेक्षत्वाद्बहिरङ्ग एव, विभक्त्यन्तस्य हि सतः पश्चादज्ञातादियोगो भवति, विभक्तयश्च संख्याकर्माद्यपेक्षाः । प्रागेव संख्याकर्मादियोगाल्लिङ्गेन प्रातिपदिकं युज्यते । उक्तं च -'स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्, समवेतस्य तु वचने लिङ्गं संख्यां विभक्तिं चाभिधाय तान्विशेषानवेक्षमाणश्च पूर्णमात्मानमप्रियकुत्सनादिषु ततः विशेष्ये बुद्धिरिति पूर्वं विशेषणभूतः स्वार्थो' भिधातव्यः, पश्चातद्विशिष्ट्ंअ द्रव्यम्; तस्य धर्मित्वेन प्रधानत्वात्, ततो लिङ्गमन्तरङ्गत्वात् । संख्या हि भेदापेक्षत्वाद्बहिरङ्गा, सापि तु सजातीयापेक्षा विजातीयकर्मादिकारकशक्त्यपेक्षेभ्यः कारकेभ्योऽन्तरङ्गेति ततस्तस्या अभिधानम्, ततः कारकाणाम्, एवं परिपूर्णार्थस्य पश्चात्कुत्सनादिभिर्योगः । स्वार्थादयो हि कुत्सनादिहेतवः, द्रव्यस्य पण्डितक इत्यादौ तथावसायात् । तदेवमन्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तद्धिताः, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः ? इह तहि'वर्णे चानित्ये' , रक्तेऽ'कालाच्च' इत्यस्यावकाशः स्त्रीत्वाविवक्षायां कालक इति, स्त्रीप्रत्ययस्य कालीत्यवकाशः; कालिकेत्यत्रोभयप्रसङ्गे परत्वान्कन् स्यात् । तस्य चात्यन्तस्वाथिकत्वान्न तदपेक्षं स्त्रीप्रत्ययस्यान्तरङ्गत्वमस्ति । नास्त्यत्र विशेषः, कालशब्दादप्युत्पतौ'प्रत्ययस्थात्' इतीत्वे कालिकेति सिद्धम् ? यदा तहिं हरितशब्दात्'न सामिवचने' इति ङीब्नकारौ बाधित्वा परत्वात्कन् स्यात्, ततश्च हरिणिकेति न स्यात् । हरितशब्देन समानार्थो हरिणशब्दोऽस्ति, ततः कर्मत्वे च भविष्यति, हरितशब्दातु हरितिकेति ? अयं तहि -'लोहितान्मणो' इत्यत्यन्तस्वर्थिकः कन्'वर्णादनुदातात्' इति ङीब्नकारौ परत्वाद्बाधेत, ततश्च लोहितिकेत्येव स्यात्, न लोहिनिकेति;उभयमपीष्यते, तदर्थं ङ्याब्ग्रहणम् । ननु च'लोहिताल्लिङ्गबाधनं च' इत्यनेनैवैतत्सिद्धम्, तन्न वक्तव्यं भवति, कथम् ?'वर्णादनुदातात्' इत्यत्र वेति वर्तते, तत्र ङ्याबन्ताभ्यां लोहिनीलोहिताशब्दाभ्यां कनि विहिते यतायोगं ह्रस्वत्वेत्वयोः कृतयोर्लोहिनिका लोहितिकेति सिद्धमिष्टम् । तदेवं सति ङ्याब्ग्रहणे लिङ्गनिमितेन प्रत्ययेन विकल्पेन बाधा यथा स्यान्नित्यं मा भूदित्येवमर्थं तावन्न वक्तव्यम् - लोहिताल्लिङ्गबाधनं वेति । नापि प्रतिपदविहितत्वेन कना लिङ्गनिमितस्य प्रत्ययस्य नित्ये बाधे प्राप्ते । विकल्पेन बाधा यथा स्यादित्येवमर्थमपि वक्तव्यम्; ङ्याब्ग्रहणस्यानन्यार्थत्वात् । यदि ह्यएतश्वेतशब्दाभ्यामत्यन्तस्वार्थिकः कन्निष्यते, तदा तत्र ङ्याब्ग्रहणस्य चरितार्थत्वाल्लोहितशब्दात्प्रतिपदविहितेन कना ङीपो नित्ये बाधे प्राप्ते तद्वक्तव्यम् ? तदापि वा न वक्तव्यम्,'लोहितान्मणौ' इत्यस्यापि पुनन्नपुंसकयोश्चरितार्थत्वात् । तदेवमत्यन्तस्वार्थिकोऽपि कन् ङ्यन्ताद्यथा स्यादिति ङीब्ग्रहणं तावत्कर्तव्यम् । आब्ग्रहणं तु विस्पष्टार्थम् । तत्र समासान्तेषु दोषः - बहवो गोमन्तोऽस्यां नगर्यामिति बहुव्रीहौ कृते स्त्रिया अन्यपदार्थत्वान्ङीप् च प्राप्नोति कप् च, ङ्याब्ग्रहणान् ङीपि कृते कप् स्यात्, ततश्च बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते ? नैष दोषः समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्ति पश्चातदन्तेन समासः, एवं हि समासं प्रत्यन्तावयवत्वमुपपद्यते समासान्तानाम्, तथा च'न कपि' इत्यत्र वक्ष्यति । तत्र चोतरपदे समासार्थाया विभक्तेः पुरस्तात्समासान्ता इति केचित् । परस्तात्समासान्तेषु सुब्लुकि तद्धितान्तत्वेन ततः सुपि सुबन्तस्य समास इत्यन्ये । सर्वथा बहुचर्मिकेतीत्वं प्राप्नोति, ठसुपःऽ इति प्रतिषेधात्, यथा बहुपरिव्राजका मदुरेति ? कर्तव्योऽत्र यत्नः ।'नञस्तत्पुरुषात्' इत्यादौ तु ग्रन्थविरोधं तत्र तत्र परिहरिष्यामः । तदेवं स्थितमेतत् - तदन्तातद्धितविधानार्थं ङ्याब्ग्रहणं विप्रतिषेधाद्धि तद्धितबलीयस्त्वमिति । यद्येवम्,'यूनस्तिः' ठूणुतःऽ इति त्यूङेरपि ग्रहणं कर्तव्यं तदन्तातद्धितविधानार्थम् - युवतितरा । भाष्यकारप्रयोगात्'तसिलादिष्वाकृत्वसुचः' इति पुंवद्भावो न भवति, खिद्धादिषु पुंवद्भावाद् ह्रस्वत्वं विप्रतिषेधेनेति वा पर्जन्यवल्लक्षणप्रवृत्या ह्रस्वेन बाधितत्वात् । ब्रह्मबन्धूतरा'नद्याः शेषस्यान्यतरस्याम्' इति ह्रस्वाभावपक्षे'जातेश्च' इति पुंवद्भावप्रतिषेधः । पूर्वत्र त्वनेन प्रतिषेधो न लभ्यते; यौवनस्याजातित्वात् । यावद्द्रव्यभाविनी हि जातिः, तथा च युवजानिरित्युदाहृतम् । नन्वत्रान्तरङ्गत्वादेव त्यूङै भविष्यतः, अत्यन्तस्वार्थिके तु कनि ब्रह्मबन्धुकेत्यत्र'के' णःऽ इति ह्रस्वे सति नास्ति विशेषः - ऊङ्न्ताद्वोत्पतौ सत्याम्, उकारान्ताद्वा, युवतिशब्दादपि कनि पुंवद्भावेन भ्वायमिति नास्त्येव विशेषः । न चास्मात्कन्निष्यत इत्यत्रापि प्रमाणमस्ति । तस्मान्नार्थस्त्यूङेर्ग्रहणेन ॥ Nyaas ----- `अधिकारोऽयम्` इति। स्वरितेनासञ्जितत्वात्। `आ पञ्चमाध्यायपरिसमाप्तेः` इति। अनेनाधिकारस्यावधिं दर्शयति। ततः परं नायमनुवर्तते; अस्वरितत्वात्। `स्वादिषु कप्पर्यन्तेषु` इति। अधिकारस्य विषमाचष्टे। `ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम्` इत्यादि। `ङी` इति विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं ङीमात्रं तदिह गृह्रते। `टाब्डाप्चापामाप्` इति। सामान्येन ग्रहणमिति प्रकृतेन सम्बन्धः। ननु च ङ्यादीनां बहुत्वाद्बहुवचनेन भवितव्यम्, तत्कथं `ङ्याप्प्रातिपदिकात्` (4.1.1) इत्येकवचनेन निर्देश इत्याह -`तेषाम्` इत्यादि। समाहारद्वन्देनेह ङ्यादीनामयं निर्देशः कृत इत्यर्थः। इतरेतरयोगे हि द्वन्द्वे स्याद्बहुवचनम्। न चायमितरेतरयोगे द्वन्द्वः,किं तर्हि? समाहारे। तस्य चैकार्थत्वादेकवचनमेव युक्तम्। `समाहारनिर्देशः` इति वचनमितरेतरयोगनिवृत्त्यर्थम्,सामासन्तरनिवृत्त्यर्थञ्च, अन्यथा हि ङ्यापोः प्राप्तिपदिकं ङ्याप्प्रातिपदिकमित्यपि षष्ठीसमास आशङ्क्येत। ततो ङ्यन्तमाबन्तञ्च समासप्रातिपदिकं यत् ततः स्याद् राजकुमार्यादिभ्यः न तु केवलेभ्यः कुमार्यादिभ्यः। ङ्यापोस्तु विधानेनैव प्रातिपदिकं प्रकृतिः स्यात्। तस्मात् समाहार द्वन्द्वेनायं निर्देशः। तत्र तु त्रयं प्रकृतित्वेनाधिक्रियते, तेन सर्वतो भवति।अथ कथं पुनरत्र विग्रहः? केचिदाहुः - `ङीश्च आप्च प्रातिपदिकञ्चेति। ननु च `अप्रत्ययः` (1.2.45) इति प्रातिपदिकसंज्ञाप्रतिषेधाद् ङीश्चेति विभक्त्युत्पत्तिर्न स्यात्? उच्यते; नायं प्रत्ययः, अपि तु प्रत्ययानुकरणमिदम्। एवमपि `प्रकृतिवदनुकरणं भवति` (व्या।प।113) इति स्यादेव प्रतिषेधः? नैष दोषःच अनुकरणं द्वैधम् - अर्थस्य, शब्दमात्रस्य चेति। ज्ञापितमाचार्येणैतद् द्वेधा निर्देशात् - **परिव्यवेभ्यः क्रियः** (1.3.18) , **विपराभ्यां जेः** (1.3.19) इतीयङादेशस्य करणाकरणाभ्याम्। अतोऽत्र शब्दमात्रमनुकृतम्, न त्वर्थसहितम्। तेनात्र `अप्रत्ययः` (1.2.45) इति नास्त्येव प्रतिषेधः। प्रकृतिवदतिदेशस्त्वर्थवत्यनुकरणे। ननु चेवमपि हल्ङ्यादिलोपेन (6.1.68) भाव्यम्? उच्यते; ङ्यन्तात् सुलोपः, न ङीमात्रात्। व्यपदेशिवद्भावात् स्यादिति चेत्? न; `व्यपदेशवद्भावोऽप्रातिपदिकेन` (शाक।प।65) इत्युच्यते, प्रातिपदिकञ्चदम्। तस्मात् `ङीश्च` इति। अथ प्रत्ययविधिविषयैषा परिभाषा पूर्वादिनिः` (5.2.85) **सपूर्वाच्च** (5.2.87) इत्यत्र ज्ञापितत्वात्? न चायं प्रत्ययविधिः, कस्तर्हि? लोपविधिरिति, अतः परिभाषा न प्रवर्तत इत्यस्त्येव व्यपद#एशिवद्भाव इति ततः प्रवर्तते लोपशास्त्रम्। अतः सुलोपेन भवितव्यम् - ङी चेति। सामान्येन परिभाषाप्रवृत्तिमाश्रित्य ङीश्चेति विग्रहः।अन्यस्त्वाह - `प्रयोगस्य एव कुमारी, गौरीत्यादिषु य ईकारः सोऽत्रानुकृत एव लुप्तविभक्तिकः,तेन ङी इत्येव भवति। यद्येवम्, कुतो ङकारः सामान्यग्रहणार्थ आसज्यते? ननु चानुक्रियमाणेनार्थेनार्थवत्त्वात् पुनरपि विभक्त्युत्पत्तिः प्राप्नोति, ततश्च ङीश्चेति भवितव्यम्? नैतदस्ति; प्राक्कालभाविनी या विभक्तिस्तां प्रत्ययलक्षणेनाश्रित्याप्रत्यय (1.2.45) इति प्रतिषेधात्। अथापि स्यात् - **न ङिसम्बुद्ध्योः** (8.2.8) इति ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय (1.2.45) इति प्रातिपदिकसंज्ञा न प्रतिषिध्यते` इति। असदेतत्; नलोपविधिविषयमेवैतज्ज्ञापकम्। अतोऽत्र नास्त्येव प्रत्ययलक्षणेन प्रातिपदिकसंज्ञाप्रतिषेध इति स्थितमेतत्।ननु च प्रत्ययत्वे सति `परश्च` (3.1.2) इति वचनात् परे भवन्तः स्वादयः पूर्वां प्रकृतिमाक्षिप्य भवन्ति, न ह्रन्यथा परत्वमुपपद्यते, तस्य परत्वस्य पूर्वापेक्षत्वात्, न च ङ्यादिभ्योऽन्या प्रकृतिरुपपद्यते। तत्र ङ्याप्प्रातिपदिकग्रहणमन्तरेणापि पारिशेष्यादियमेव प्रकृतिर्लभ्यते तथा हि, प्रकृत्यन्तरं धातुरिति - तिङन्तञ्च, वाक्यञ्च। प्रत्यया अपि स्वादयः, टाबादयः अणादयश्च। तत्र धातोस्तावत् स्वादिभिर्न भवितव्यम्, ते ह्रेकत्वादिष्वर्थेषु विधीयमानास्तद्वन्तं शब्दमाक्षिपन्ति। न च धातुरेकत्वादिमान्। अथाप्यविशेषणोत्पद्यन्ते, उत्पन्नानां तु नियमः क्रियते? तथापि न #ऐव तेषां धातोरुत्पत्तिर्युक्ता; सामान्यविहितानां स्वादीनां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात्। टाबादयस्तर्हि धातोर्भवेयुरिति चेत्? स्यादेतत्। असति ङ्याप्प्रातिपदिकग्रहणेऽकारान्तेभ्यो धातुभ्यो जुगुप्सादिभ्यः `अतः` (4.1.4) इति टाप् स्यात्, अपिद्भ्यो वञ्चुप्रभृतिभ्यः **उगितश्च** (6.3.45) इति ङीप् स्यात्, नकारान्तेभ्यो मन्प्रभृतिभ्यः `ऋन्नेभ्यो ङीप्` (4.1.5) इति ङीप्प्रत्ययः इति? एतच्च नास्ति ; यतः स्त्रियां टाबादयो विधीयन्ते, क्रियावचनश्च धातु#ः। क्रियायाश्चासत्त्वभूतत्वाल्लिङ्गेन योगो नास्ति; तस्य द्रव्यधर्मत्वात्। एतेन तिङन्ताद्वाक्याच्च टाबादीनामुत्पत्तिः प्रतिक्षिप्ता; तयोरपि क्रियाप्रधानत्वात्। अणादीनामपि नैव धातोरुत्पत्तिरुपपद्यते। ते ह्रपत्यादिनार्थेन सम्बन्धे सति विधीयन्ते। धातुवाच्यस्यार्थस्यासत्त्वभूतत्वाद्यथा स्त्रीत्वेन योगो न सम्भवति, तथाप्यपत्यादिना ह्रर्थेन। एतेन तिङन्ताद्वाक्याच्चाणादीनामुत्पत्तिर्निरस्ता; तदर्थस्यापि क्रियाप्रधानस्यापत्यादिना सम्बन्धाभावात्। देवदत्तस्य पचति यस्तस्यापत्त्यमिति सत्यपि सम्बन्धे `तिङश्च` (5.3.56) इति ज्ञापकान्न भवति। येऽपत्यादिनार्थेन सम्बन्धे तद्धिता विधीयन्ते तेऽनन्तरोक्तया नीत्या मा भून्, ये तु स्वार्थे विधीयन्ते तैर्युक्तमेव भवितुमिति चेत्? वार्तमेतत्; यथैव हि स्वादीनां सामान्यविहितानां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात् तदुत्पत्तिर्नोपपद्यते तथा स्वार्थिकानामपि सामान्यविहितानां स्वार्थिकैस्तुमुन्नादिभिर्विशेषविहितैर्बाधितत्वान्नोपपद्यत एव। तिङन्तात् तर्हि के स्युरिति चेत्? ज्ञापकान्न भविष्यन्ति। यदयं क्वचित् तद्धितविधौ तिङ्गर्हणं करोति - **अतिशायने तमबिष्ठनौ** (5.3.55) `तिङश्च` (5.3.56) इति, क्वचित् तद्धितविधौ तिङ्ग्रहणं करोति - **अतिशायने तमबिष्ठनौ** (5.3.55) `तिङश्च` (5.3.56) इति, तज्ज्ञापयति - तिङन्तात् तद्धिता न भवन्तीति। वाक्यात् तर्हि भवेयरिति चेत्? अनभिधानान्न भविष्यन्ति। न हि `देवदत्तस्याआकः` इत्युक्ते वाक्यार्थगता अज्ञातादयोऽर्थाः कप्रत्ययेन द्योत्यन्ते, किं तर्हि? अआशब्दगता एव।स्वादिभिरपि नैव तिङन्ताद्भवितव्यम्, तेषां ह्रेकत्वादयोऽर्थाः,ते च तिङभिरेवोक्ताः। न चोक्तर्थानां प्रयोगे युक्तः; `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचना। ननु चोक्तार्थानामपि प्रयोगो दृश्यते, यथा - एको द्वौ बहव इति चेत्? युक्तोऽत्र प्रयोगः वचनग्रहणात्। `प्रातिपदिक` इत्यादौ हि सूत्रे वचनग्रहणस्यैतत् तेषां भवति; तत्रास्याः परिभाषाया उपस्थानात्। तेन लिङ्गविशिष्टानामपि सर्वादीनां सर्वनामकार्यमुपपद्यते। यद्येवम्, इममेव न्यायमाश्रित्य शक्यं ङ्याब्ग्रहणमकर्त्तुम्? नैतदस्ति; न हि प्रातिपदिकसंज्ञा लिङ्गविशिष्टस्यार्थवतः शब्दरूपस्य भवितुमर्हति; `अप्र्तयय` (1.2.45) इति प्रतिषेधात्। न च प्रातिपदिकसंज्ञाविधौ सर्वेऽर्थवन्तः संज्ञिनः स्वरूपेण शक्या दर्शयितुम्; तेषामानन्त्यात्। यद्येवम्, `णाविष्ठवत् प्रातिपदिकस्य` (वा।813) इत्यत्रापि तर्हीयं परिभाषा नोपतिष्ठते; स्वरूपाग्रहणात्, ततश्च लिङ्गव्शीष्टेष्वष्ठवद्भावो न स्यात्। तत्र को दोषः? कुमारीमाचष्टे कुमारीयतीत्यत्र टिलोपो न स्यात्? नैष दोषः; बहुलमिष्ठवद्भाव इष्यते, तथा च चुरादौ पठते `प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च` (चुरा।ग।सू।186) इति। तस्माद्बहुलवचनाल्लिङ्गविशिष्टस्यापीष्ठवद्भावो भविष्यति।`किञ्च` इत्यादना प्रयोजनान्तरं समुच्चिनोति। तदिति ङ्यापोः प्रत्यवर्शः। ङ्यन्तादाबन्ताच्च तद्धितविधानं यथा स्यादित्येवमर्थं च ङ्याब्ग्रहणम्। `कालितरा` इति। कालशब्दाज्जनपदादिसूत्रेण (4.1.42) ङीप्, तदन्तात् `द्विवचनविभज्योपपदे` (5.3.57) इत्यादिना तरप्, **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) इत्यादिना ह्रस्वः। `हरिणितरा` इति। हरितशब्दात् `वर्णादनुदात्तात् तोपधातो नः` (4.1.39) इति ङीप्, तकारस्य नकारः, `अट्कुप्वाङ्` (8.4.2) इत्यसति ङ्याब्ग्रहणे परत्वादातिशयिकः स्यात्। अस्मस्तु सति ङ्यापोस्तद्धितविधाने प्रकृतित्वेनाश्रयणात् पूर्वं ङ्याब्भ्यां भवितव्यमिति तदन्तात् तद्धितविधिः सिध्यति। ननु चान्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तदिताः, तथा हि - **समर्थानां प्रथमाद्वा** (4.1.82) इत्यधिकाराद्विभक्त्यन्ताते उत्पद्यन्ते, विभक्तयश्च कर्माद्यपेक्षाः, कर्मादयश्च बाह्रक्रियानिमित्तत्वाद्बहिरङ्गाः ततश्च निमित्तस्य बहिरङ्गत्वात् तद्धिता अपि बहिरङ्गाश्रया एव भवन्ति; लिङ्गस्य तु सम्बन्ध्यन्तरानपेक्षत्वादन्तरङ्गत्वञ्च, अतस्तन्निमित्ता अपि टाबादयोऽन्तरङ्गा भवन्ति, ततश्चान्तरङ्गत्वादेव टाबादिभिस्तावद्भवितव्यम्, पश्चात् तदन्तात् तद्धितैरित्यपार्थकं ङ्याब्ग्रहणम्? नैतदस्ति; तदन्तात् तद्धितविमधानार्थं ङ्याब्ग्रहणमित्यत्र हि वाक्ये तद्धितग्रहणेन स्वार्थिका ये तद्धितास्त एव विवक्षिताः। इममेवार्थं सूचयितुं कालितरा, हरिणितरेति स्त्रीप्रत्ययान्तात् स्वार्थिक एव तरप्प्रत्यय उदाहृतः।स्वार्थिकेषु च `समर्थानाम्` (4.1.82) इत्येतन्नानुवर्तते। तथा हि क्ष्यति वृत्तिकारः - `स्वार्थिकप्रत्ययावधिश्चायमधिकारः **प्राग्दिशो विभक्तिः** (5.3.1) इति यावत्। स्वार्थिकेषु ह्रस्योपयोगो नास्ति` इति। एवञ्च सति विभक्त्युत्पत्तिमनपेक्ष्य प्रातिपदिकादेव स्वार्थिकैर्भवितव्यमिति कुतस्तेषां बहिरङ्गत्वम् ! नन्वेवमपि कालितरेत्याद्यनुदाहरणम्; तरप्प्रत्ययस्य बहिरङ्गत्वात्। स हि यद्यपि विभक्त्युत्पतिंत नापेक्षते, प्रतियोगिनं तु बाह्रार्थमपेक्षत एव, स्त्रीप्रत्ययस्य तु न कश्चित् प्रतियोग्यपेक्षेति तस्यान्तरङ्गत्वम्? नैष दोषः; उदाहरणदिगियं वृत्तिकारेण दर्शिता।एतानि त्वत्रोदाहरणानि दर्शयितव्यानि - एनिका, श्येनिका, रोहिणिकेति। अत्र हि यदि पूर्वं तद्धितः स्यात् तदेतश्यतरोहितशब्देभ्योऽज्ञाताद्यर्थविवक्षायां कप्रत्यये `वर्णादनुदात्तात् तोपधात् तो नः` (4.1.39) इत्यनेन ङीब्नकारौ न स्याताम्। यदि तर्हि ङ्याबन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, समासान्ता अपि तदन्तादेव स्युः, ततश्च बहवो गोमन्तोऽस्यां नगर्यामिति स्यात्, बहुव्रीहौ कृते **उगितश्च** (6.3.45) इति ङीप्, ततश्च **नद्यृतश्च** (5.4.153) इति कपि बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते? नैष दोषः; न हि समासान्ताः समासादुत्पद्यन्ते। किं तर्हि? अकृत एव समासे तदर्थादुत्तरपदात्। तथा हि `न कपि` (7.4.14) इत्यत्र वक्ष्यति वृत्तिकारः - **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इत्ययमपि ह्रस्वः कपि न भवति, समासार्थे ह्रुत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति` इति। न च बहवो गोमन्तोऽस्यां नगर्यामित्यत्र वाक्ये समासार्थमुत्तरपदं स्त्रियां वर्तत इति प्राक्कपैव भवितव्यम्, पश्चात् समासेन, ततः स्त्रीप्रत्ययेन प्रत्ययानुपूर्व्या बहुगोमत्केति सिद्धं भवति।यिद तह्र्रकृत एव समासे तदर्थादुत्तरपदात् समासान्ता भवन्ति, तदा `नञस्तत्पुरुषात्` (5.4.71) इत्यत्र `नञढः परे वक्ष्यमाणा य ऋगादयस्तदन्तात् तत्पुरुषात् समासान्ता न भवन्ति` इत्येष वृत्तिग्रन्थो विरुध्यते, तेब्यस्तत्पुरुषसमासार्थेभ्यः समासान्ता न भवन्तीति वक्तव्यं स्यात्? नञः प्रकृतत्वात् स एव विज्ञायते। `तत्पुरुषात्` (5.4.71) इत्यत्रापि तत्पुरुषशब्दस्तादथ्र्यात् तत्पुरुषार्थ उत्तरपदे वर्तते। तत्र पुनः ऋगादेः श्रुतत्वादृगादिरेव विज्ञायते, तदन्तात् तत्पुरुषादिति च व्यधिकरणे पञ्चम्यौ। ततोऽयमर्थः नञः परे य ऋगादयस्ते समीपभूता यस्य नञस्तस्मात् परं यत्तत्पुरुषार्थमृगादिपदं ततः समासान्तो न भवतीति। अथ वा - अवयववचनोऽन्तशब्दः, समानाधिकरण एव पञ्चम्यौ; तादथ्र्यात्। ऋगाद्यन्तं तत्पुरुषार्थं युदत्तरपदं तदेव। तदन्तात् तत्पुरुषार्थादित्युक्तम्। ततश्चायमर्थः नञः परे य ऋगादयस्तदन्तात् तत्पुरुषार्थादुत्तरपदात् समासान्ता न भवन्तीति। तत् पुनस्तदन्ततत्पुरुषार्थम्। उत्तरपदं सामर्थ्यादृगाद्येव विज्ञायते। `बहुव्रीहौ संख्येये डजबहुगणात्` (5.4.73) इत्यत्र तर्हि योऽयं वृत्तिग्रन्थः - `संख्येये योऽयं बहुव्रीह#इर्वर्तते तस्मादबहुगणान्ताड्डच्प्रत्ययो भवति` इति, तस्य विरोधः? नास्ति विरोधः; अत्र हि बहुव्रीह्रर्थमुत्तरपदमेव तादथ्र्याद्बहुव्रीहिरित्युक्तं भवति। तदयमर्थः - संख्येये यद्बहुव्रीह्रर्थमुत्तरपदं वर्तते तस्माड्ड्च्प्रत्ययो भवतीति। अनया दिशाऽप्यन्य एवञ्जातीया विरोधाः परिहर्तव्याः। तदेवं स्थितमेवैतत् - तदन्तात् तद्धितविधानार्थं ह्राब्ग्रहणमिति, विप्रतिषेधात् तद्धितविधानार्थं ङ्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितवलीयस्त्वमिति।यद्येवम्, `युनस्तिः` (4.1.77) `ऊङुतः` (4.1.66) इत्येतयोरपि त्यूङोग्र्रहणं कस्मान्न विज्ञायते, तदन्तात् तद्धितोत्पत्तिर्यथा स्यात् - युवतितरा, ब्राहृबन्धूतरेति? **नद्याः शेषस्यान्यतरस्याम्** (6.3.44) इत्यूङो विकल्पेन ह्रस्वत्वं न कर्तव्यम्; ह्राब्ग्रहणस्योपलक्षणार्थत्वात्। **स्त्रियाम्** (4.1.3) इति प्रकृत्य येषां विधानं तदुपलक्षणार्थमिह ङ्याब्ग्रहमम्। अतस्त्यूङोरपि ग्रहणमिह कृतमेव वेदितव्यम्।ङ्याब्ग्रहणं यद्युपलक्षणार्थम, अन्यतरस्यैव ग्रहणं कर्तव्यम्, एकेनापि हि स्त्रीप्रत्यया उपलक्ष्यन्त एव? सत्यमेतत् ; वैचित्र्यार्थं तु द्वयोग्र्रहणम्। **यावादिभ्यः कन्** (5.4.29) , **लोहितान्मणौ** (5.4.30) , **वर्णे चानित्ये** (5.4.31) इत्यनेन तु विकल्पेन स्वार्थिकेन स्त्रीप्रत्ययस्य बाधनमिष्यते। तत्र यदा बाधा तदा लोहितशब्दात् कनि टापि कृते चेत्वे लोहितिकेति भवितव्यम्; यदा तु न बाधा तदा ` वर्णादनुदात्तात्तोपधात् तो नः` (4.1.39) इति ङीब्नकारयोः कनि च `केऽणः` (7.4.13) इति ह्रस्वत्वे कृते लोहिनिकेति भवितव्यम्। तस्माद्वक्तव्यमेवैतत् - लोहिताल्लिङ्गबाधनं वेति॥ Praudhamanorama --------------- **लिङ्गविशिष्टस्येति।** लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः। परिभाषायाः प्रयोजनं तु— अयस्कुम्भी 'अतः कृकमि—'इति सत्वम्। तद्धि कंसादिषूत्तरपदेषु विधीयते। किं च, कुमारीमाचष्टे कुमारयति। 'णाविष्टवत्'इति टिलोपः। एवं यामिनयन्त्यहानि इत्यत्र आचारे क्विबपि फलम्। **ङ्याभ्यां प्रागिति।** तेन लोहिनिका, आर्यका च सिध्यति। तथा हि, स्वार्थिकत्वेनान्तरङ्गः परश्च 'लोहितान्मणौ ' इति कन् ङीपं बाधेत। ततो लोहितिकेत्येव स्यात्; इष्यते तूभयम्। ङीब्ग्रहणसामर्थ्यात्तु ङ्यन्तात्कनि रूपद्वयं सिध्दम्, 'वर्णादनुदात्तात्—' इत्यस्य वैकल्पिकत्वात्। आर्यशब्दात्तु 'न सामिवचने' इत्यत्र ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकोऽपि कन् आब्ग्रहणसामर्थ्यात् पूर्वं न प्रवर्तते। तेन 'उदीचामातः स्थाने यकपूर्वायाः' इति इत्वविकल्पः सिध्यति। स्यादेतत् । एवं सति बहुगोमत्केति न सिध्येत् कपः प्रागुगिल्लक्षणङीप्प्रसङ्गात्; इति चेत्? मैवम्। अकृत एव समासेऽलौकिकप्रक्रियावक्ये एव उत्तरपदस्यावयवीभूय समासान्तः प्रवर्तते इति वक्ष्यमाणत्वात्। स च विभक्तेः पुरस्तादित्येके। परस्तादिति पक्षे तु तद्धितान्तत्वात् सुब्लुकि पुनः सुपि चाकृते समास इति सिद्धान्तः। तस्मादन्तरभङ्गादपि तद्धितात्प्राङ्ङ्यापोः प्रवृत्त्यर्थं ङ्याब्ग्रहणमिति स्थितम्। यत्त्वाहुः—आब्ग्रहणं स्पष्टार्थमिति, तदनेन प्रत्युक्तम्। वस्तुतस्तु ङ्यापोग्रहणं मास्तु। सुबन्तात्तद्धितोत्पत्तिरिति निष्कर्षः। सुपः प्रागेव च ङ्यापौ प्रवर्तेते, स्वार्थादिप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम्। Prakriyasarvasvam ----------------- इतः परं ङयन्तादाबन्तात् प्रातिपदिकाच्च परे प्रत्यया उच्यन्ते । Sudha ----- **ङ्याप् प्रातिपदिकादिति ।** ङी च आप् च प्रातिपदिकञ्चेति समाहारद्वन्द्वः । ङीइत्यनेन ङीप्-ङीप्-ङीनां सामान्येन ग्रहणम् । आप् इत्यनेन टाप् डाप् चापां च सामान्येन ग्रहणम् । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदेतदाह - **ड्यन्तादित्यादिना ।**