34097: इतश्च लोपः परस्मैपदेषु ============================= **Padacheda:** इतः | S | 6 | 1 | च | S | 0 | 0 | लोपः | S | 1 | 1 | परस्मैपदेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In the परस्मैपद affixes the इ is optionally elided in the लेट् (Vedic Subjunctive). Vasu English Translation ------------------------ In the परस्मैपद affixes the इ is optionally elided in the लेट् (Vedic Subjunctive). The वा of the last *sutra* is understood here also. Thus जोषिषत् (*Rig*. II.35. I). तारिषत् (*Rig*. I.25.12. मन्दिषत् । In the alternative, it is not elided as पताति विद्युत् (*Rig*. VII.25.1). उदधिं च्यावयाति । The इ of इट्, वहि and महि of the *Atmanepada* are not elided. Kashika ------- लेट इत्येव। लेट्संबन्धिन इकारस्य परस्मैपदविषयस्य लोपो भवति। वानुवृत्तेः पक्षे श्रवणमपि भवति। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। न च भवति — पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वयाति (तै०सं० ३.५.५.२)। परस्मैपदग्रहणमिड्वहिमहिङां मा भूत्॥ Siddhanta Kaumudi ----------------- लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥ Padamanjari ----------- परस्मैपदग्रहणमित्यादि । अन्यथा टेरेत्वस्यावकाशः - अन्ये लकाराः, लेट।ल्पीकारादन्यत्र इतो लोपस्य - परस्मैपदानि; इडादिषूभयप्रसङ्गे परत्वादितो लोपः स्यात् ॥ Nyaas ----- `परस्मैपदग्रहणम्` इत्यादि। ननु च टेरेत्वमिडादिषु बाधकं भविष्यति, तत् किं परस्मैपदग्रहणेन? नैतदस्ति; टेरेत्वस्यावकाश अन्येषु लकारादिषु, इतो लोपस्य च परस्मैपदेषु; उभयप्रसङ्गे परत्वादितो लोपः स्यात्॥