34077: लस्य =========== **Padacheda:** लस्य | S | 6 | 1 | Sutrartha --------- **अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तमुक्तानि कार्याणि लकाराणाम् स्थाने भवन्ति ।** अस्मिन् सूत्रे 'लस्य' इति 'ल' इत्यस्य षष्ठी-एकवचनमस्ति । अत्र 'ल' इत्यनेन दशलकाराः गृह्यन्ते - लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लृङ् । एते दश लकारप्रत्ययाः धातुभ्यः परः आगच्छन्ति । एतेषां स्थाने ये आदेशाः भवन्ति ते सर्वे अस्मिन् अधिकारे पाठिताः सन्ति । अस्मिन् अधिकारे उक्तानामादेशानाम् 'कृत्' संज्ञा न भवतीति स्मर्तव्यम्, यतः **कृदतिङ्** (3.1.93) इत्यनेन केवलं तिङ्-भिन्न-प्रत्ययानामेव कृत्-संज्ञा भवति । अस्मिन् अधिकारे उक्तः प्रथमः आदेशः 'तिङ्'-अस्ति, तथा अन्ये सर्वे आदेशाः तिङ्-प्रत्ययानामादेशरूपेणैव आगच्छन्ति । अतः एतेषु कस्यापि 'कृत्'संज्ञा न भवति । Sutrartha (English) ------------------- All the आदेशs mentioned in this अधिकार happen in place of लकारs. Vasu English Summary -------------------- In the place of ल will be substituted the affixes we shall announce hereafter. Vasu English Translation ------------------------ In the place of ल will be substituted the affixes we shall announce hereafter. This *sutra* consists of one word लस्य meaning 'of ल'. It is an *adhikara* *sutra*. The word लस्य is the genitive singular of ल, the अ in ल being for the sake of pronunciation. The ल means the ten affixes: लट् present, लिट् perfect, लुट् first future, लृट् second future, लोट् imperative लेट् Vedic subjunctive, लङ् imperfect, लिङ् potential and benedictive, लुङ् aorist, लृङ् conditional. Six of these tenses have indicatory ट्, and four have indicatory ङ् । Professor Bohtlingk translates this *sutra* thus:- In the following *sutras*, the word लस्य should be supplied to complete the sense, i.e. the phrase 'in the place of all those endings which are known as the Personal endings of various tenses and moods, and are known in their totality as ल' । Bhashya ------- लस्य (1238) (607 अधिकारसूत्रम्॥ 3 । 4 । 1 आ.19) (5061 आक्षेपवार्तिकम्॥ 1 ॥) - लादेशे सर्वप्रसङ्गोऽविशेषात्- (भाष्यम्) लादेशे सर्वस्य प्रसङ्गः। सर्वस्य लकारस्यादेशः प्राप्नोति। अस्यापि प्राप्नोति। लुनाति लभते। किं कारणम्?। अविशेषात्। न हि कश्चिद्विशेष उपादीयते - एवं जातीयस्य लकारस्यादेशो भवतीति। अनुपादीयमाने विशेषे सर्वप्रसङ्गः॥ (5062 अक्षेपपरिहारवार्तिकम्॥ 2 ॥) - अर्थवद्ग्रहणात्सिद्धम्- (भाष्यम्) अर्थवतो लकारस्य ग्रहणम्। न चैषोर्थवान्॥ (5063 आक्षेपपरिहारानुपपत्तिवार्तिकम्॥ 3 ॥) - अर्थवद्ग्रहणात्सिद्धमिति चेन्न वर्णग्रहणेषु- (भाष्यम्) अर्थवद्ग्रहणात्सिद्धमिति चेत्॥ तन्न। किं कारणम्?। वर्णग्रहणमिदम्। न चैतद्वर्णग्रहणेषु भवति अर्थवद्ग्रहणे नानर्थकस्य इति॥ (5064 आक्षेपोपसंहारवार्तिकम्॥ 4 ॥) - तस्माद्विशिष्टग्रहणम्- (भाष्यम्) तस्माद्विशिष्टस्य लकारस्य ग्रहणं कर्तव्यम्॥ (आक्षेपपरिहारभाष्यम्) न कर्तव्यम्। धातोरिति वर्तते। (आक्षेपभाष्यम्) एवमपि शाला माला मल्ल इत्यत्रापि प्राप्नोति। (आक्षेपपरिहारभाष्यम्) उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। (आक्षेपभाष्यम्) एवमपि नन्दन इत्यत्रापि प्राप्नोति। (परिहारभाष्यम्) इत्संज्ञात्र बाधिका भविष्यति। (आक्षेपभाष्यम्) इहापि तर्हि बाधेत - पचति पठतीति। (समाधानभाष्यम्) इत्कार्याभावादत्रेत्संज्ञा न भविष्यति। (समाधानबाधकभाष्यम्) इदमस्तीत्कार्यम्। लिति प्रत्ययात्पूर्वमुदात्तं भवति इत्येष स्वरो यथा स्यात्। (समाधानसाधकभाष्यम्) लितीत्युच्यते। न चात्र लितं पश्यामः॥ अथापि कथंचिद्वचनादनुवर्तनाद्वा इत्संज्ञकानामादेशः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति न लादेशेषु लित्कृतं भवतीति। यदयं णलं लितं करोति॥ (पूर्वोक्ताक्षेपपरिहारभाष्यम्) अथाप्युणादयो व्युत्पाद्यन्ते। एवमपि न दोषः। क्रियते विशिष्टग्रहणं लस्येति॥ (5065 वार्तिकम्॥ 5 ॥) - लादेशो वर्णविधेः पूर्वविप्रतिषिद्धम्- (भाष्यम्) लादेशो वर्णाविधेर्भवति पूर्वविप्रतिषेधेन। लादेशस्यावकाशः - पचतु पठतु। वर्णविधेरवकाशः - -दध्यत्र मध्वत्र। इहोभयं प्राप्नोति - पचत्वत्र पठत्वत्रेति। लादेशो भवति पूर्वविप्रतिषेधेन॥ (प्रश्नभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। (डत्तरभाष्यम्) न वक्तव्यः। उक्तं वा । किमुक्तम्?। लादेशो वर्णविधेरन्तरङ्ग इति॥ लस्य॥ 77 ॥ Kashika ------- लस्येत्ययमधिकारः। अकार उच्चारणार्थः। लकारमात्रं स्थानित्वेनाधिक्रियते। यदित ऊर्ध्वमनुक्रमिष्यामः, लस्येत्येवं तद् वेदितव्यम्। किं चेदं लस्येति? दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च, तेषां विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं तद् गृह्यते। षट् टितः, चत्वारो ङितः। अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते। लट्। लिट्। लुट्। लृट्। लेट्। लोट्। लङ्। लिङ्। लुङ्। लृङ् इति। अथ लकारमात्रस्य ग्रहणं कस्माद् न भवति — लुनाति चूडाल इति? धात्वधिकारोऽनुवर्तते, कर्त्रादयश्च विशेषकाः॥ Siddhanta Kaumudi ----------------- अधिकारोऽयम् ॥ Balamanorama ------------ **लस्य** - लस्य ।धातो॑रित्यधिकृतम् । अकारो न विवक्षितः । तेन लिडादीनामपि सङ्ग्रहः । 'चूडाल' इत्यादौ च नातिप्रसङ्गः । Tattvabodhini ------------- **लस्य** - वणग्रहणे प्रत्ययग्रहमपरिभाषा, अर्थवद्ग्रहणपरिभाषा च न प्रवर्तते इति लुनाति, चूडाल इत्यादौ तिबाद्यादेशः कुतो न भवतीति चेत् । अत्राहुः -लः कर्मणी॑ति सूत्रे निर्दिष्टानां कत्र्राद्यर्थानामनुवृत्तेः कत्र्राद्यर्थे विहितस्य लकारस्य ग्रहणमिति । अतोऽपि तिबाद्यादेशानुवादेन कत्र्राद्यर्थ विधिरिति कल्पना निरस्ता । लस्थानिकतिबादीनां कत्र्राद्यर्थर्थे विहितस्य लस्य तिबादिविधानमित्यन्योन्याश्रयापत्तेः । द्वा धातोरित्यधिकाराद्धातोर्विहितस्यैव लस्येह ग्रहणमिति नोक्ताऽतिप्रसङ्गः । लस्येत्संज्ञा तु न भवति, फलाऽभावात् । न च लित्स्वरः फलं, णलो लित्त्वेन तदभावस्य ज्ञापनात् । नाप्यश्रवणमेव फलं, तदुच्चारणस्यानर्थक्यापत्तेः, आदेशविधिनैवाऽश्रवणलाभाच्च । लसय् तिबादिस्थानित्वाभ्युपगमे तुलः परस्मैपद॑मित्यादि स्वरसतः सङ्गच्छत इति दिक् । Padamanjari ----------- अकार उच्चारणार्थ इति । नानुबन्धः, अन्यथा लङ्लंटोरेव ग्रहणं स्यात् ; ततश्च परस्मैपदानां णलादयः,'लोटो लङ्वत्' , ठेरुःऽ इत्यादिकार्यविधानमनुपपन्नं स्यात् ; लिङ्लोटोस्तिबादीनामभावात् । लकारमात्रं स्थानित्वेनाधिक्रियत इति । ननु चेत्संज्ञायां लोपः प्राप्नोति ? वचनसामर्थ्यात्सत्यामपीत्संज्ञायां लोपो न भविष्यति । एवमपि लित्स्वरः प्राप्नोति ? णलो लित्करणं ज्ञापकम् - न लादेशेषु लित्स्वरो भवतीति । किञ्चेदमिति । लकारमात्रस्य ग्रहणं प्राप्नोतीति मन्यमानस्य प्रश्नः ।'धात्वधिकारो' नुवर्ततेऽ इति वक्ष्यमाणाभिप्रायेणाह - दश लकारा इति । अक्षरसमाम्नाये ययानुपूर्व्याऽकारादयःष तदानुपूर्वोविशिष्टैरकारादिभिरनुबन्धैः कथ्यन्ते; न तु विधानक्रमेणेत्यर्थः । लकारमात्रस्य ग्रहणं कस्मान्न प्राप्नोतीति । विशेषानुपादानात्प्राप्नोत्येवेति भावः । वर्णग्रहणेषु चार्थवद्ग्रहणपरिभाषा न प्रवर्तते, तथा च यस्येति लोपोऽनर्थकस्यापि भवति - दैवदतिरिति, अकुर्वह्यत्रेति यणादेशः । धात्वधिकारोऽनुवर्तत इति । धातुग्रहणमनुवर्तत इत्यर्थः । एवमप्यग्निचिल्लुनाति - अत्रापि प्राप्नोति ? विहितविशेषणं धातुग्रहणम् । एवमपि'शामामलिभ्यो लः' औणादिकः - शाला, माला, मल्लः, अत्रापि प्राप्नोति ? उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तथापि परिहारान्तरमाह - कर्त्रादय इति ।'लः कर्मणि च' इत्यत्र निर्दिष्टा अर्थाः कर्तृकर्मभावा इहानुवर्तन्ते, तैश्च लकारो विशिष्यते - कर्त्रादिषु विहितस्य लस्येति, तेन विशिष्टविषयस्यैव लस्य ग्रहणम्, न सर्वस्य ॥