34028: यथातथयोरसूयाप्रतिवचने ============================ **Padacheda:** यथा-तथयोः | S | 7 | 2 | असूयाप्रतिवचने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णमुल् is added to the root कृ 'to make', the words 1. यथा 2. तथा being compounded with it when an angry reply is made (if the omission of कृञ् is unobjectionable). Vasu English Translation ------------------------ The affix णमुल् is added to the root कृ 'to make', the words 1. यथा 2. तथा being compounded with it when an angry reply is made (if the omission of कृञ् is unobjectionable). When one questions or replies in indignation, displeasure or anger, then is this construction valid. Thus तथाकारं भोक्ष्ये, किं तवानेन 'l will eat in that way; what is that to you'? Similarly यथाकारं भोक्ष्ये, किं तवानेन । Why do we say 'when an angry reply is made'? Observe यथाकृत्वाऽहं भोक्ष्ये तथा त्वं द्रक्ष्यसि 'in what way I will eat, that thou wilt see'. Why do we say 'when the omission of कृञ् would be valid'? Witness यथाकृत्वाऽहं शिरो भोक्ष्ये किं तवानेन 'what is that to you, in what way turning my head I will eat'? Kashika ------- कृञः सिद्धाप्रयोग इति वर्तते। यथातथाशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवत्यसूयाप्रतिवचने गम्यमाने। यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम्। यथाकारमहं भोक्ष्ये तथाकारमहम्, किं तवानेन? असूयाप्रतिवचन इति किम्? यथा कृत्वाहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोग इत्येव — यथा कृत्वाहं शिरो भोक्ष्ये, किं तवानेन॥ Siddhanta Kaumudi ----------------- कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥ Tattvabodhini ------------- **यथातथयोरसूयाप्रतिवचने** - यथाकारमिति । प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम् । अत्रापि वाऽसरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः । Padamanjari ----------- यद्यसूयन् पृच्छति प्रतिवक्तीति । पृच्छति सति यद्यसूयन्प्रतिवक्तीत्यर्थः । ठसु मानसोपतापेऽ कण्ड्वादिः । तत्रेति । एवम्भूते विषये यत्प्रतिवचनं तदसूयाप्रतिवचनमित्यर्थः । यथाकारमिति । प्रष्टुअमनर्हः सन्यदि पृच्छति तदेदमुतरम् । यथा कृत्वाहं भोक्ष्य इति । तत्वकथनमेतत् । कथं पुनरत्र क्त्वाप्रत्ययः, यावता'सिद्धाप्रयोगे' इति वचनादनर्थकोऽत्र करोतिः, ततश्च भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावान्नात्र प्राप्नोति, णमुल् पुनरुभयाभावेऽपि वचनसामर्थ्याद्भवति ? उच्यते; क्रियासामान्यवचनः करोतिस्तद्विषयप्रकारो यथातथाशब्दाभ्यामुच्यते, तत्र सामान्यस्य सन्निहिते विशेषे पर्यवसानातद्विषय एव प्रकार उक्तो भवदि, ततश्च यथा भोक्ष्यते इति यावानर्थस्तावानेन सत्यपि करोतावित्येतावता सिद्धाप्रयोगत्वमुच्यते, न पुनरत्यन्तमबिदेयाभावात्, ततश्च क्रियाभेदनिबन्धन उपपन्न एव क्त्वाप्रत्ययः । एवं च कृत्वा पूर्वसूत्रेऽपि वासरूपेण क्त्वा भवति । भाष्येऽपि तत्र तत्र प्रयुज्यते - ठन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार उक्तःऽ,'कथं कृत्वा बाधकम्' इत्यादि ॥ Nyaas ----- `असूयाप्रतिवचने` इति। असूयाप्रभवं प्रतिवचनमसूयाप्रतिवचनम्। `यद्यसूयन्` इत्यादि। असूयन्निति शत्रन्तमेतत्। कण्ड्वादियगन्तः। अस्य प्रतिवक्तीत्यनेन सम्बन्धः। प्रतिवक्ति = प्रतिभणति, प्रतिवचनं वदातीत्यर्थः। `पृच्छति` इति। सप्तम्यन्तमेतत्। पृच्छति सति यद्यसूयन् = असूयां कुर्वन् प्रतिवक्ति तदा तत्र पृच्छति यत् प्रतिवचनं तदसूयाप्रतिवचनम्। `यथाकारम्` इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनम्। `यथाकारम्` इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनमेतत्। `यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि` इति। नैतदसूयाप्रतिवचनम्। किं तर्हि? तद्व्याख्यानम्॥ Prakriyasarvasvam ----------------- अक्षमया प्रतिवचनार्थे वाक्ये यथातथयोः पूर्वयोर्निरर्थकस्य कृञो णमुल् स्यात् । किं त्वमेवं ब्रवीषीति पृष्टेऽन्यो वक्त्यमर्षितः । यथाकारमहं जाने तथाकारं वदाम्यहम् ॥ १७५ ॥