34024: विभाषाऽग्रेप्रथमपूर्वेषु =============================== **Padacheda:** विभाषा | S | 1 | 1 | अग्रे-प्रथम-पूर्वेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes णमुल् and क्त्वा come optionally after that verb which denotes the prior action, when both verbs have the same agent, provided that the following words are in composition - 1. अग्रे 2. प्रथम 3. पूर्व। Vasu English Translation ------------------------ The affixes णमुल् and क्त्वा come optionally after that verb which denotes the prior action, when both verbs have the same agent, provided that the following words are in composition - 1. अग्रे 2. प्रथम 3. पूर्व। This is an *Aprapta*-*vibhasha*. The word 're-iteration' is not understood here. Thus अग्रे, प्रथमं, पूर्वं वा भोजं भुक्त्वा व्रजति 'having first eaten he goes'. By using the word 'optionally' it is indicated, that the regular Tenses, such as the Present &c, may be employed also. Thus अग्रे भुङ्क्ते ततः व्रजति 'he eats first and then goes'. Q-- The affixes of *Lat* (Present tense) &c. would have been applied by the rule of वाऽसरूप (3.1.94); why then use the word 'optionally'? Ans.-- The very use of the word 'optionally' in this *sutra* indicates the existence of this *Paribhasha* :- "The rule (3.1.94) has no concern with the affixes *ktva* and *namul*, when both these affixes are enjoined at one and the same time by a single rule." Therefore, we cannot apply (3.1.94) and use the affixes *Lat* &c, when 're-iteration' is meant That is the exclusive province of क्त्वा and णमुल् । Why is not here the *Upapada* compounding by rule (2.2.20)? For an answer to this, see the commentary on (2.2.20). Had only णमुल् been enjoined by this *sutra*, and not क्त्वा also, then we could have formed the उपपद समास, for such is the force of the word एव in that *sutra*. Bhashya ------- विभाषाग्रे प्रथमपूर्वेषु (1185) (597 क्त्वाणमुल्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आ.9) (आक्षेपभाष्यम्) किमयं प्राप्ते विभाषा आहोस्विदप्राप्ते॥ (प्रत्याक्षेपभाष्यम्) कथं च प्राप्ते, कथं चाप्राप्ते। (प्रत्याक्षेपसमाधानभाष्यम्) आभीक्ष्ण्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते॥ किं चातः?। (प्राप्तविभाषायां दूषणम्) यदि प्राप्ते।आधीक्ष्ण्येऽनिष्टा विभाषा प्राप्नोति। अन्यत्र चेष्टा न सिध्यति। (अप्राप्तविभाषायां दूषणभाष्यम्) अथाप्राप्ते - - (5039 अप्राप्तविभाषायां दूषणवार्तिकम्॥ 1 ॥) - अग्रादिष्वप्राप्तविधेः समासप्रतिषेधः- अग्रादिषु अप्राप्तविधेः समासस्य प्रतिषेधो वक्तव्यः॥ (प्रश्नभाष्यम्) स तर्हि प्रतिषेधो वक्तव्यः। (समाधानभाष्यम्) न वक्तव्यः। (5040 भाष्यवार्तिकम्॥ 2 ॥) - उक्तं च- (भाष्यम्) उक्तमेतत्। अमैवाव्ययेनेत्यत्र एवकारकरणस्य प्रयोजनम् - -अमैवाव्ययेन यत्तुल्यविधानमुपपदं तत्र समासो यथा स्याद्, अमा चान्येन च यत्तुल्यविधानमुपपदं तत्र मा भूदिति॥ विभाषाग्रे॥ 24 ॥ Kashika ------- अप्राप्तविभाषेयम्। आभीक्ष्ण्य इति नानुवर्तते। अग्रे प्रथम पूर्व इत्येतेषूपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययौ विभाषा भवतः। अग्रे भोजं व्रजति। अग्रे भुक्त्वा व्रजति। प्रथमं भोजं व्रजति। प्रथमं भुक्त्वा व्रजति। पूर्वं भोजं व्रजति। पूर्वं भुक्त्वा व्रजति । विभाषाग्रहणमेताभ्यां मुक्ते लडादयोऽपि यथा स्युः। अग्रे भुङ्क्ते ततो व्रजति। ननु च वासरूप इति भविष्यति? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्नास्तीत्येतदनेन ज्ञाप्यते। तेनाभीक्ष्ण्ये लडादयो न भवन्ति। उपपदसमासः कस्माद् न भवति? उक्तं तत्रैवकारस्य प्रयोजनम् — अमैव यत्तुल्यविधानमुपपदं तत् समस्यते, नान्यदिति॥ Siddhanta Kaumudi ----------------- आभीक्ष्णे इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः । अग्रेभोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्वं भोजम् । पूर्वं भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा ॥ Tattvabodhini ------------- **विभाषाऽग्रेप्रथमपूर्वेषु** - विभाषाऽग्रे । यद्यप्यग्रेशब्दो देशविशेषवचनोऽप्यस्ति,प्रभोरग्रेभुङ्क्ते॑ इत्यादिप्रयोगात्, तथापीह कालविशेषवाच्येव गृह्रते, प्रथमशब्दसाहचर्यात् ।प्रथमं भुङ्क्ते॑ इत्यादौ तु काल एव हि प्रतीयते ।अग्रे॑ इति सप्तम्यन्तस्यानुक्रणम् ।प्रकृतिवदनुकरण॑मित्यस्य वैकल्पिकत्वाद्विभक्तेर्लुङ्न कृतोऽस्यवामीय॑मिति वत् । अग्रेभोजमिति ।अग्रेभोजमिति ।अमैवाव्ययेने॑ति नियमाद्व्यस्तमेवेदं, न त्वत्रोपपदसमासः । नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकालत्वमुच्यत इति कथमिह क्त्वाणमुलौ स्यातामिति चेदत्राहुः — अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीति हि वाक्यार्थः । तत्राग्रेप्रभृतिभिर्भोक्रपेक्षया पूर्वत्वमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति व्रजनपेक्षया पूर्वत्वं तु क्त्वाणमुल्भ्यां द्योत्यत इत्याशङ्कैवात्र नास्तीति । नित्यमेव विधिरिति । अग्रे भुङ्क्ते इत्येव लडादिर्न प्रयुज्यत इतिभावः । Padamanjari ----------- अग्रशब्दो देशविशेषवचनोऽप्यस्ति - प्रभोरग्रे भुङ्क्ते इति, इह तु प्रथमशब्दसाहचर्यात्कालविशेषवाचिनो ग्रहणम् । अनुकरणत्वाच्चाग्रे इति विभक्तेर्लुगभावः - अस्यवामीयमिति यथा । आमीक्ष्ण्य इति नानुवर्तत इति । अप्राप्तविभाषेयमित्यत्रेयंयुक्तिः । तदनुवृतौ हि पूर्वसूत्रेण प्राप्ते विभाषा स्याद्, एवं च ब्रुवता साधनपोर्वकाल्यविषया अग्र्यादय इत्युक्तं भवति । क्रियापौर्वकाल्ये हि अग्र्यादिभिरेव तस्योक्तत्वादाभीक्ष्ण्येऽपि क्त्वाणमुलोरप्राप्तिरिति ठाभीक्ष्ण्येऽ इत्यनुवृतावप्यप्राप्तविभाषैव स्यात् । न च द्विर्वचनमन्तरेणाभीक्ष्ण्यं द्योतयितुं शक्यमिति न तद्द्योतनायापि क्त्वाणमुलोर्विधानमुपपद्यते । नन्वननुवर्तमानेऽप्याभीक्ष्ण्यग्रहणे पूर्वसूत्रस्यावकाशो यत्राग्र्यादयो न सन्ति, अस्य तु यत्राभीक्ष्ण्यं नास्ति सोऽवकाशः; आभीक्ष्ण्ये चाग्र्यादिषु च सत्सूभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोतीत्युभयत्र विभाषेयं युक्ता ? एवं मन्यते - पूर्वविप्रतिषेधेनाभीक्ष्ण्ये नित्य एव विधिर्भवतीति - अग्रेभोजंभोजं व्रजति, अग्रेभुक्त्वाभुक्त्वा व्रजति । एवं पूर्वप्रथमयोरपि द्रष्टव्यम् । नन्वेवं णमुल्यप्राप्ते क्त्वाप्रत्यये तु'समानकर्तृकयोः' इत्यादिना प्राप्ते सत्ययमारम्भ इति पुनरप्युभयत्रविभाषैव युक्ता ? नैतदस्ति; सह विहितौ यौ क्त्वाणमुलौ यद्विषये वासरूपविधेरभावो ज्ञापयितुमिष्टः, तावनन्तरसूत्रविहितौ क्त्वाणमुलावभिप्रेत्याप्राप्तविभाषेयमुच्यते, न तु क्त्वाणमुल्मात्रपेक्षया । क्त्वाणमुलौ प्रत्ययौ भवत इति । किमर्थं पुनः क्त्वा विधीयते, यावता नाभीक्ष्म्येऽपि समानकर्तृकयोरित्येवासौ सिद्धः ? सत्यम् ; विभाषाग्रहणेन वासरूपविधेरभावो ज्ञाप्यत इति वक्ष्यति । न च केवलं णमुल्विधौ तदभावो ज्ञापयितुमिष्यते, किं तर्हि ? क्त्वासहितणमुल्विधौ । तस्माण्णमुलः क्त्वासहितस्य विधिर्यथा स्यादिति णमुल् चेत्यनुवृत्या क्त्वोऽप्यनुवादः क्रियते । एवं हि द्वयोः सह विधातुमुपादीयमानं विभाषाग्रहणं तादृश एव विषये वासरूपविधेरभावं ज्ञापयतीति सिद्धमिष्टम् । अग्रेभोजं व्रजतीति । अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीत्यर्थः । आभीक्ष्ण्ये लडादयो न भवन्तीति । अग्रे भुङ्क्ते भुङ्क्ते ततो व्रजतीत्येवं न भवतीत्यर्थः । उपपदसमासः कस्मान्न भवतीति । प्राप्तविभाषायामस्यामग्र्यादीनां पक्षे प्रत्ययनिवृतौ निमितत्वम्, न तु प्रत्ययोत्पतौ, तयोः ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेनाविशेषेण विहितत्वादित्यनुपपदत्वम् । अप्राप्तविभाषायां त्वग्र्यादीनां प्रत्ययोत्पतिं प्रति निमितत्वान्निमितस्य चोपपदसंज्ञाविधानादुपपदसमासः प्राप्नोतीति भावः । अमैव यतुल्यविधानमिति । एतच्च तत्रैव व्याख्यातम् ॥ Nyaas ----- `आभीक्षण्ये` इति नानुवर्तते` इति। `अप्राप्तविभाषेयम्` इत्यत्रेयं युक्तिः। ननु च प्रताप्तविभाषेयं युक्ता,णमुल्यप्राप्ते क्त्वाप्रत्यये `समानकर्त्तृकयोः` (3.4.21) इत्यादिना प्राप्ते सत्यारम्भात्? नैतदस्ति; अनन्तरसूत्रविहितौ हि क्त्वाण्मुलावित्यधिकृत्याप्राप्तविभाषेयमित्युच्यते। यस्तु `समानकर्त्तृकयोः` (3.4.21) इत्यादिना केवलः क्त्वा विहितस्तं प्रति विभाषाग्रहणं न कर्तव्यमेव; वासरूपविधिना तत्प्रतिपादितस्यार्थस्य सिद्धत्वात्। `ननु च` इत्यादिनाऽनन्तरोक्तविभाषाग्रहणस्य प्रयोजनं विघटयति। `क्त्वाणमुली यत्र` इत्यादि। वासरूपविधिनैव पक्षे लडादिषु। सिद्धेषु यत् तदर्थं विभाषाग्रहणं क्रियते तेन यत्र क्त्वाणमुलौ युगपद्विधीयेते तत्र वासरूपविधिर्नास्तीत्येषोऽर्थो ज्ञाप्यते। किमेतस्य प्रयोजनं ज्ञापनस्य? इत्याह - `तेन` इत्यादि।`उपपदसमासः` इत्यादि। **अमैवाव्ययेन** (2.2.20) इत्युपपदसमासः प्राप्नोति, स कस्मान्न भवतीत्याह - `उक्तम्` इत्यादि। `अमैव यत् तुल्यविधानमुपपदं तत् समस्यते` (का।व।2.2.20) इत्युक्तं प्राक्। अग्ने भृतीन्युपपदान्यमा चान्येन क्त्वाप्रत्ययेन तुल्यविधानम्, अतो न समस्यन्ते॥ Prakriyasarvasvam ----------------- एषूपपदेषु पूर्वकाले वा क्त्वाणमुलौ स्तः । अग्रे भोजं व्रजति । अग्रे भुक्त्वा व्रजतिः । सर्वेभ्यः प्राग् भुङ्क्तेत्यर्थः । एवं प्रथमं पूर्वमिति योज्यम् ॥ अत्र क्त्वाणमुलोः सार्धभुक्तेषूपपदेष्वपि । अमन्तमात्रसम्बन्धस्याभावादसमासता ॥ १७४ ॥ तेन सुल्लुङ् न स्यात् । अग्रे च भोजं भोजं पूर्वमिति च स्यात् । वेत्युक्ते- र्लडायपि । अग्रे भुङ्क्ते ततो व्रजति ॥