34023: न यद्यनाकाङ्क्षे ======================= **Padacheda:** न | S | 0 | 0 | यदि | S | 7 | 1 | अनाकाङ्क्षे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes णमुल् and क्त्वा are not added to a root when the word यद् is used in a simple sentence which does not depend upon another to complete the sense. Vasu English Translation ------------------------ The affixes णमुल् and क्त्वा are not added to a root when the word यद् is used in a simple sentence which does not depend upon another to complete the sense. The word आकाङ्क्षा means 'inter-dependence' or the inability of a word, phrase or sentence, to indicate the intended sense in the absence of another word, phrase, or sentence. In other words, when there are two actions one prior and another subsequent, and they complete the sense of the sentence, without standing in need of any other verb; in such a case, *ktva* and *namul* are not used, when the word *yad* is in composition. This *sutra* prohibits the affix *ktva* also, though the affix *namul* is in immediate context. Thus यदयं भुङ्क्ते ततः पचति, यदयमधीते ततः शेते, 'having eaten, he cooks ; having read, he sleeps'. But when there is inter-dependence or आकाङ्क्षा, we have यदयं भुक्त्वा व्रजति, अधीत एव ततः परम् । Professor Bohtlingk translates it thus : "In connection with यद् the above-mentioned Absolutives will not be applied, unless the two verbs required one more as complement." Kashika ------- यच्छब्द उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये। यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद् वाक्यं न परं किञ्चिदाकाङ्क्षति इति। णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितोऽपि प्रतिषिध्यते। यदयं भुङ्क्ते ततः पठित। यदयमधीते ततः शेते। अनाकाङ्क्ष इति किम्? यदयं भुक्त्वा व्रजति अधीत एव ततः परम्॥ Siddhanta Kaumudi ----------------- यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्क्षे किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥ Tattvabodhini ------------- **न यद्यनाकाङ्क्षे** - न यदि । अनाकाङ्क्ष इति पचाद्यजन्तेन नञ्समासः । तद्दर्शयति — नाकाङक्षते चेदिति । चेदत्राहुः — पूर्वकाले यत्प्राप्नोति तन्ने॑ति व्याख्यानात् क्त्वाप्रत्ययोऽपि न भवतीति । Padamanjari ----------- अनाकाङ्क्ष इति । पचाद्यजन्तेन नञ्समासः, तद्दर्शितम् । नापरं किञ्चिदाकाङ्क्षते इति । क्त्वा तु पूर्वसूत्रविहितोऽपीति । णमुल् चेत्युक्तम्, तदपेक्षं पूर्वत्वमपिशब्दादनन्तरसूत्रविहितोऽपि आभीक्ष्ण्येनाभीक्ष्ण्ये च क्त्वामात्रस्य प्रतिषेध इत्यर्थः । एतच्च पूर्वकाले यत्प्राप्नोति तन्न भवतीत्येवं प्रकरणापेक्षया प्रतिषेधविज्ञानाल्लभ्यते ॥ Nyaas ----- `अनाकाङ्क्षे` इति। न विद्यत आकाङ्क्षा = अपेक्षा यस्य स तथोक्तः। `क्त्वा तु पूर्वसूत्रविहितोऽपि` इति। अपिशब्दादनन्तरविहितोऽपि युक्तं यदनन्तरसूत्रविहितः प्रतिषिध्यते - `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।99) इति कृत्वा। पूर्वसूत्रेण विहितस्य तु कथं प्रतिषेधः? प्रकरणापेक्षया प्रतिषेधविधानात्। पूर्वकालप्रकरणे यत् प्राप्नोति तन्न भवतीत्येवमयं पूर्वकालप्रकरणापेक्षया प्रतिषेधः क्रियते। तस्माद्युक्तः पूर्वसूत्रविहितस्यापि प्रतिषेधः॥ Prakriyasarvasvam ----------------- यच्छब्दयोगे तु क्त्वाणमुलौ न स्तः । यद् भुङ्क्ते ततो व्रजति । अनाकाङ्क्ष इत्युक्तेरत्रैव पुनः क्रियान्तराकाङ्क्षायां स्यादेव । यद् भुक्त्वा व्रजति ततोऽधीते । तत्राधीतिक्रियाकाङ्क्ष्यते ॥