34016: भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ==================================================== **Padacheda:** भावलक्षणे | S | 7 | 1 | स्था-इण्-कृञ्-वदि-चरि-हु-तमि-जनिभ्यः | S | 5 | 3 | तोसुन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix तोसुन् comes in the छन्दस् (Vedas) after the following verbs, when mere name of the action is indicated viz. 1. स्था 'to stand' 2. इण् 'to go' 3. कृञ् 'to make' 4. वद् 'to speak' 5. चर् 'to go, to walk' 6. हु 'to sacrifice' 7. तम् 'to grow tired' 8. जन् 'to produce' । Vasu English Translation ------------------------ The affix तोसुन् comes in the छन्दस् (Vedas) after the following verbs, when mere name of the action is indicated viz. 1. स्था 'to stand' 2. इण् 'to go' 3. कृञ् 'to make' 4. वद् 'to speak' 5. चर् 'to go, to walk' 6. हु 'to sacrifice' 7. तम् 'to grow tired' 8. जन् 'to produce' । These are also Infinitives. The phrase कृत्यार्था is not to be read into this *sutra*. The word भावलक्षण qualifies the sense of the root (भावो लक्ष्यते येन). Thus, स्था--आ संस्थातोर्वेद्यां सीदन्ति = आसमादेः सीदन्ति । इण्--पुरा सूर्यस्योदेतोराधेयः । कृञ्-- पुरा वत्सानामपाकर्तोः । वद्--पुरा प्रवदितोरग्नौ प्रहोतव्यम् । चर्--पुरा प्रचरितोराग्नीध्रीये होतव्याः । (*Gopatha* *Brahmana* II.2.10)। हु--आ होतोरप्रमत्तस्तिष्ठति । तम्--आ तमितोरासोत (*Taitt*. *Br*. I.4.4. 2) । जन्--आ विजनितोः सम्भवाम (*Taitt*. S. II.5. I.5). Kashika ------- कृत्यार्थ इति निवृत्तम्। तुमर्थ इति वर्तते। प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम्। भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यश्छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति। आ संस्थातोर्वेद्यां शेरते (काठ०सं० ११.६)। आ समाप्तेः सीदन्तीत्यर्थः। इण् — पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३)। कृञ् — पुरा वत्सानामपाकर्तोः (काठ०सं० ३१.१५)। वदि — पुरा प्रवदितोरग्नौ प्रहोतव्यम्। चरि — पुरा प्रचरितोराग्नीध्रीये होतव्यम् (गो०ब्रा० २.२.१०)। हु — आ होतोरप्रमत्तस्तिष्ठति। तमि — आ तमितोरासीत (तै०ब्रा० १.४.४.५)। जनि — आ विज॑नितोः॒ संभ॑वा॒मेति॒ (तै०सं०२.५.१.५)॥ Siddhanta Kaumudi ----------------- आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥ Padamanjari ----------- संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति ।'तमु ग्लानौ' ॥ Nyaas ----- `आसंस्थातोः` इत्यादि। आसंस्थातोः शब्देन समाप्तिरुच्यते, वेद्यां सदनं लक्ष्यते। `पुरा सूर्यस्योदेतोराधेयः` इति। अत्राप्याधानक्रिया सूर्यस्योदयेन। `पुरा वत्सानाम्` त्यादौ वत्सानामपाकरणेनासनम्। `पुरा प्रवदितोः` इत्यादौ प्रवदनेन हवनम्। `पुरा प्रचरितोः` इत्यादौ प्रचरणेन हवनमेव। उत्तरयोरुदाहरणयोराहवनेनासम्भवनम्॥ Sutra Prayogas -------------- * **नाऽपचिकीर्षया** (भट्टिकाव्यम्): `अज्झनगमां सनि` इति दीर्घः ।