34001: धातुसम्बन्धे प्रत्ययाः ============================= **Padacheda:** धातुसम्बन्धे | S | 7 | 1 | प्रत्ययाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- When there is a syntactical relation between the senses of the verbs, the affixes are valid, even in denoting time other than that for which they have been specifically enjoined. Vasu English Translation ------------------------ When there is a syntactical relation between the senses of the verbs, the affixes are valid, even in denoting time other than that for which they have been specifically enjoined. The above *sutra* is thus translated by Professor Bohtlingk:- "Words formed with affixes stand, (in reference to the time) in closer relation to the verb (with which they are allied)". Thus (3.2.85) has taught that words like अग्निष्टोमयाजिन् have a past significance, i.e. they denote a person who has already performed the ceremony of *Agnishtoma*. According to the present *sutra*, in spite of this past significance, inherent in the word, one may use this word with a future tense, whereby it is reduced to a future-denoting word. Thus अग्निष्टोमयाज्यस्य पुत्रो जनिता means 'to him a son will be born who will perform the said *Agnishtoma* sacrifice'. The above is not a literal translation but rather an adaptation. The literal translation will be something like this. "Affixes are employed in denoting relation (सम्बन्ध) between the senses of verbs". The word धातुसम्बन्ध is a Genitive Compound meaning 'relation of root'. The word धातु 'root' is figuratively used for धात्वर्थ 'sense of root'; so that the above compound means 'relation of the senses of roots'. In other words, the relation between the roots should be that of qualifier and the qualified. When there exists such a relation between the senses of two verbs, namely, that of qualifier and the thing qualified, then the affixes may be employed in denoting other times than that specifically ordained for them. In other words, to quote from the Guide to *Panini*: "It is to be observed, that when primitive words are joined with verbs so as to qualify them, the time of the verbs being mainly the time that controls the sentence, any time denoted by the primitive affixes, by which the former words have been formed will be subordinate to and regulated by, but need not correspond to, the time of the verbs, so far as the form of those words is concerned." Thus तत्र वसन् ददर्श 'living there, he saw'; अग्निष्टोमयाज्यस्य पुत्रो जनिता 'to him a son will be born, a performer of the *Agnishtoma* sacrifice'; कृतः कटः श्वो भविता 'he will be to-morrow maker of the mat'; भाविकृत्यमासीत् । Here, though the time of the action of living denoted by वसन् is present, (3.2.124), this action is present only in relation to the action of seeing, and though because the latter action is past, the former action also is past with reference to the speaker or writer, this circumstance does not affect the form of वसन्, which therefore may remain as it is. In other words, 'affixes are related directly to the root, and not to the whole sentence'. Similarly the word अग्निष्टोमयाजी is formed by an affix (3.2.85) denoting past time, while the word जनिता is in the Future tense. Now, this linking together of a word in the Past tense with a word in the future is a valid usage. Here the time of the qualified verb भविता does not affect the special time of the qualifier *Agnishtomayaji*. Q.-- Why has the word प्रत्यय been repeated in this *sutra*, when it was understood in this from (3.1.1) ? Ans.-- The repetition is for the sake of indicating that affixes which are not ordained to come after roots (धातु), but which are enjoined to come after nouns &c. such as *Taddhita* affixes, are even valid in other tenses than those in which they have been specifically enjoined when related to a verb. Thus गोमानासीत् 'he was possessed of a cow'; गोमान् भविता 'he will be possessed of a cow'. Here the *Taddhita* affix मतुप् is added to the noun गो 'cow', with a present signification (5.2.94), the word गोमत् meaning 'who has cows' or 'in which there are cows.' This word, गोमत्, however, is related and validly so, to the words आसीत् and भविता—one in the Past tense and the other in the Future. Bhashya ------- धातुसंबन्धे प्रत्ययाः (1162) तृतीयाध्यायस्य चतुर्थपादे प्रथममाह्निकम्॥ (590 कालान्तरे प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आ.1) (आक्षेपभाष्यम्) प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किमर्थम्। (समाधानभाष्यम्) अधातुप्रत्ययानामपि धातुसंबन्धे साधुत्वं यथा स्यात्। गोमानासीत्। गोमान्भवितेति॥ (प्रश्नभाष्यम्) इह पश्यामः भूतकालो भविष्यत्कालेनाभिसंबध्यमानो भविष्यत्कालः संपद्यते। कस्मान्न भविष्यत्कालो भूतकालेनाभिसंबध्यमानो भूतकालः संपद्यते। (5024 समाधानवार्तिकम्॥ 1 ॥) - धातुसंबन्धे प्रत्ययस्य यथाकालविधानात्सिद्धम्- (भाष्यम्) धातुसंबन्धे यथाकालविहिता एवैते प्रत्ययाः। स्वेषु स्वेषु कालेषु प्रयुज्यन्ते॥ (आक्षेपभाष्यम्) कथं तर्हि कालान्यत्वं गम्यते॥ (5025 समाधानवार्तिकम्॥ 2 ॥) - उपपदस्य तु कालान्यत्वम्- (भाष्यम्) उपपदस्यैतत्कालान्यत्वम्॥ (आक्षेपभाष्यम्) कुतो नु खल्वेतत् - अग्निष्टोमयाजीत्येतदुपपदं भवति, न पुनर्जनितेति?। (समाधानभाष्यम्) एवं तर्ह्यस्त्यादिभिर्योगे। अस्त्यादिविषयाः प्रत्ययाः साधव इति वक्ष्यामि। (प्रश्नभाष्यम्) के पुनरस्त्यादयः?। (समाधानभाष्यम्) अस्तिभूजनयः॥ (आक्षेपभाष्यम्) एवमपि यदास्त्यादीनामेवास्त्यादिभिर्योगस्तदा न ज्ञायते कः कस्य कालमनुवर्तते इति। भाविकृत्यमासीत्। पुत्रो जनिष्यमाण आसीत्॥ (समाधानभाष्यम्) एवं तर्हि वाक्यमेवैतदेवं विषयं प्रयुज्यते। अग्निष्टोमयाजीत्येतत्तस्मिन्भविता। कस्मिन्योस्य पुत्रोजनिता। कदा। यदानेनाग्निष्टोमेनेष्टं भवति॥ धातुसंबन्धे॥ 1 ॥ Kashika ------- धात्वर्थे धातुशब्दः। धात्वर्थानां संबन्धो धातुसंबन्धः, विशेषणविशेष्यभावः। तस्मिन् सत्ययथाकालोक्त ा अपि प्रत्ययाः साधवो भवन्ति। अग्निष्टोमयाज्यस्य पुत्रो जनिता। कृतः कटः श्वो भविता। भावि कृत्यमासीत्। अग्निष्टोमयाजीति भूतकालः, जनितेति भविष्यत्कालः। तत्र भूतः कालो भविष्यत्कालेनाभिसंबध्यमानः साधुर्भवति। विशेषणं गुणत्वाद् विशेष्यकालमनुरुध्यते, तेन विपर्ययो न भवति। प्रत्ययाधिकारे पुनः प्रत्ययग्रहणमधात्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसंबन्धे सति कालभेदे साधवो यथा स्युरिति। गोमान् आसीत्। गोमान् भविता। गावो विद्यन्तेऽस्येति वर्तमानविहितो मतुबासीद् भवितेति संबन्धादतीते भविष्यति च साधुर्भवति॥ Siddhanta Kaumudi ----------------- धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥ Balamanorama ------------ **धातुसम्बन्धे प्रत्ययाः** - धातुसम्बन्धे । धातुशब्देन धात्वर्थो लक्ष्यते । धात्वोः संबन्ध इति विग्रहः, संबन्धस्य द्विनिष्ठत्वात् । तथा च धात्वर्थयोः संबन्धे सति परत्ययाः स्युरिति लब्धम् । कस्मिन्नर्थे इत्याकाङ्क्षायां काले इति गम्यते, 'वर्तमाने ल' डित्यारभ्य तत्तत्कालविशेषेष्वेव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते । तदाह — धात्वर्थानामित्यादिना । धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वाभिप्रायं बहुवचनम् ।वर्तमानसामीप्ये वर्तमानवद्वे॑त्यादिसूत्रे यत्र काले ये प्रत्यया उक्तास्ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यमिन्नपि काले स्युरिति यावत् । तथा च 'वसन् ददर्शे' इत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इतिसिद्धं भवति । ननुवसन् ददर्शे॑त्यत्र भूते लडिव वर्तमाने लिडितय्पि स्यादित्यत आह — तिङन्तेति । 'वसन् ददर्शे' त्यादौ तङन्तवाच्या दर्शनादिक्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिक्रियार्थत्वाद्गुणभूता । अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः । भूते लडिति । एवं च उषित्वा ददर्शेत्यर्थ- । तदाह — अतीतेति । अत#ईति वासे कर्ता यस्येति विग्रहः ।सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकाद्व्यधिकणपदो बहुव्रीहिः । उदाहरणान्तरमाह — सोमयाजीति । सोमेन इष्टवान्यः स सोमयाजी । करणे यजः॑ इति भूते विहितो णिनिः, इह भवितेत्यनद्यतनभविष्यल्लहन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः । तदाह — सोमेन यक्ष्यमाण इति । भवनमिति । उत्पत्तरित्यर्थः ।गोमानासी॑दित्यप्युदाहार्यम् । अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां वर्तमानायांतदस्यास्ती॑ति विहितो मतुप् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात् । एतेन अर्थद्वारके धात्वोः संबन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसंबन्धार्थबोधकधातुद्वयप्रोगे प्रत्यया इत्यर्थलाभाद्गोमानासीदित्यत्र मतुबनापत्तेः । नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्व्यस्य सत्त्वादासीदित्यर्थे मतुब्निर्बाध इत्यन्यत्र विस्तरः । Tattvabodhini ------------- **धातुसम्बन्धे प्रत्ययाः** - धातुसंबन्धे । इह धात्वोर्विशेषणविशेष्यभावादिसंबन्धोऽनुपपन्नः , स्वार्थस्मारणेनोपक्षीणत्वात्, पदार्थसंसर्गो वाक्यार्थः, कारकविशिष्टा क्रिया चेति स्वीकारात् ।शब्दानुगमादृते न शाब्दोऽस्ति प्रत्यय॑ इत्यवष्टभ्य शाब्दबोधे शब्दोऽपि भासत इत्यभ्युपगमेऽपि शब्दस्य स्वर्थं प्रत्येव प्रकारत्वं न तु शब्दान्तरं प्रति । तथा च धातुसंबन्धो वाक्येन न बुध्यते इति तस्य वाक्यार्थत्वाऽसंभवाद्धातुशब्देन धात्वर्थो लक्ष्यते । ननुधातोः कर्मणः समानकर्तृका॑दिति सन्विधौ कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमाश्रितं तथेहापि धात्वोरर्थद्वारकः संबन्धोऽस्त्विति रकचेत् । मैवम् । तथा हि सति परस्परसंबन्धाऽर्थबोधकाऽनेकधातुप्रयोग एव प्रत्ययाः स्युस्ततश्च गोमानासीत् गोमान् भवितेत्यादि न सिध्येत् । न ह्यत्रवसन् ददर्शे॑ त्यत्र वर्तमानकालो वसिरिव वर्तमानकालोऽस्तिः प्रयुज्यते । न चाऽप्रयुज्यमानस्य दात्वन्तरेण संबन्धोऽस्ति । अर्थयोः संबन्धाभ्युपगमे धातुद्वयाऽभावेऽपि धात्वर्थद्वयस्य सत्त्वाद्गोमानासीदित्यादौ नाऽनुपपत्तिः । तदेतदभिप्रेत्याह - धात्वर्थानामिति । विषयबहुत्वापेक्षं बहुवचनम् । एकैकविषयापेक्षायां त#उ धात्वर्थयोरिति बोध्यम् । एतच्च मनोरमानुसारेण व्याख्यातम् । केचित्तु — धात्वोरर्थ्दवारकसंबन्धेऽभ्युपगतेगोमानासीद्भविते॑त्यादि न सिध्येदिति मनोरमोक्तं चिन्त्यमेव ।तत्करोति तदाचष्टे॑ इत्यकत्रेवतदस्यास्त्यस्मि॑ न्नितक्यत्राप्येकत्ववर्तमानत्वयोरविवक्षितत्वात्प्रकृतसूत्रानपेक्षयैव तत्सिद्धेः । न ह्यत्र मतुब्बिधौवर्तमाने ल॑डित्यादाविव कालविशेषपरिग्रहोऽस्तीत्याहुः । तद्भाष्यकैयटाद्यननुगुणम् । तधा हि भाष्ये — प्रत्यय इत्यनुवर्तमाने पुनरत्र प्रत्ययग्रहणं किमर्थमित्याक्षिप्य अधातुप्रत्ययानामपि संबन्धे साधुत्वं यथा स्यात्, गोमानासीत् भविता वेति समाहितम् । कैयटेन तु — तदस्यास्त्यस्मिन्निति मतुप् प्रत्ययोवर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तो विहित॑ इत्युक्तम् । तथा च मतुब्विधावस्तीत्यत्र एकत्वस्याऽविवक्षतत्वेऽपि वर्तमानत्वं विवक्षितमिति तद्ग्रन्थबलादवगम्यते । किं चदण्डिनमानये॑ त्युक्ते वर्तमानसत्ताविशिष्टदण्डयुक्त एवानीयते नाऽन्यः । तथा चआसीत्भविते॑ ति तिङन्तपदानुरोदेनगोमा॑नित्यत्र गावोऽस्यासन् गावोऽस्य भवितार इत्यतीतानागतसत्ताविशिष्टप्रकृत्यर्थयुक्तो मतुप्प्रत्ययः प्रकृतसूत्रेणैव व#इधीयते न तु तदुक्तरीत्या लभ्यत इति दिक् । ननु तत्तद्विधिवाक्यैरेव स्वविषये प्रत्ययाः सिद्धाः किमनेन सूत्रेणेत्यत आह — अत्र काल इति ।वर्तमानसामीप्ये॑ इत्यारभ्य कालाऽन्यत्वं प्रायेण प्रतिपाद्यते तदेव चेह गृह्रत इति भावः ।वनानि पश्यन् यया॑ वित्यादौ वर्तमानभूतकालादिप्रत्ययेषु को वा स्वकालात्प्रच्युतो भवतीत्याकङ्क्षायामाह — तिङन्तवाच्येति । प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीतमिति भावः । प्रत्यया इति । कालान्तरभाजो भवनन्तीत्यर्थः । भूते लडिति । एवं चोषित्वा ददर्शेत्र्थः । अतीतेति । अतीतवासकर्ता कर्ता यस्य दर्शनस्येति बहुव्रीहिः । सोमयाजीति ।करणे यजः॑ इति भविष्यति णिनिः । अत एवाह — सोमेन यक्ष्यमाण इति । एवं चपश्यन् यया॑ वित्यत्र दृशेर्भूते लट् । दृष्ट्वा ययावित्यर्थः ।निवेदयिष्यतो मनो न विव्यथे॑ इत्यत्र तु वेदतेर्भूते लृट् । तस्यलृटः सद्वाट इति शतृप्रत्ययः । निवेदनं कृतवत इत्यर्थ इत्याद्यूह्रम् ।स्यादेतत्भावि कृत्यमासी॑दित्यत्र सूत्ररीत्याभावि॑शब्दस्य भूतकालत्वे स्वीकृते सत्यतीतं भवनमित्यर्थादासीच्छब्दस्याप्येकर्तृकमतीतं भवनमितयर्थाद्भाव्यासीच्छब्दयोर्युगपत्प्रयोगो न स्यात्, भाविशब्दार्थस्य आसीच्छब्देनैव लाभात् । ततश्चैतावन्तं कालं भावितया व्यवह्मतं तदिदानीमासीदित्यर्थोऽत्रावश्यं स्वीकर्तव्यः । स्वीकृते तुगोमानासी॑दित्यत्रापि गोमानिति व्यवहारविषय आसीदित्यर्थोऽस्तु ।वसन् ददर्शे॑ इत्यादौ भूते लक्षणया यथायथं लडादिः स्वीकर्तव्यः ।सोमयाजी॑ त्यत्र तु भूत एव णिनिप्रत्यये जातेऽपि भवितेति लुडन्तसमभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण,णिनेर्भविष्यदर्थे लक्षमया वा प्रयोगो भवेदिति किमनेन सूत्रेणेति चेत् । अत्राहुः — अध्याहारलक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः । न हिभावि कृत्यमासी॑दित्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति । Padamanjari ----------- प्रयोगे स्वार्थाभिधानव्यग्रयोर्धात्वोः परस्परेण सम्बन्धाभावादुपचरितवृत्तिरत्र दातुशब्द इत्याह - धात्वर्थे धातुशब्द इति । धात्वर्थानां सम्बन्धो धातुसम्बन्ध इति । सम्बन्धस्यानेकाधिष्ठानत्वात् वृतावपि संख्याविशेषोऽवगम्यत इति भावः । सकलविषयापेक्षया च बहुवचनम् । एकैकं विवक्षायां तु धात्वर्थयोः सम्बन्ध इति द्रष्टव्यम् । यदि तु कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमितिवद्धात्वोरेवार्थद्वारकः सम्बन्ध आश्रीयेत, इह तु न स्यात् - गोमानासीत्, गोमान् भवितेति, द्वयोर्हि प्रयुज्यमानयोः सम्बन्धो भवति, न चात्र वर्तमानकालेऽस्तिः प्रयुज्यते । कीदृशः पुनरयं धातुसम्बन्धः ? इत्याह - विशेषणविशेष्यभाव इति । तत्र तिङ्न्तवाच्योऽर्थो विशेष्यं तत्प्रधानत्वाद्वाक्यस्य; सुबन्तवाच्यस्तु विशेषणम्, कारकस्य क्रियां प्रति गुणभावात् । अयथाकालोक्ता अपीति । यस्मिन्काले विहितास्ततोऽन्यत्रापि प्रयुक्ता इत्यर्थः । एतेन कालमात्रस्यात्र बाधः, न तूपपदोपाधिप्रकृतिप्रत्ययार्थानामिति दर्शयति । एतच्च'वर्तमानसामीप्ये' इत्यारभ्य प्रायेण कालान्यत्वप्रतिपादनाल्लभ्यते । अग्निष्टोमयाजीति भूतकाल इति । भूतः कालो यस्येति बहुव्रीहिः, एतेन भविष्यत्काल इति व्याख्यातम् । तत्रेति । तयोर्मध्ये । भूतकालोऽग्निष्टोमयाजीत्येवशब्दो भविष्यत्कालेन जनितेत्यनेन सम्बद्ध्यमानः साधुर्भवति । अयमपि भविष्यत्कालः सन्साधुर्भवतीत्यर्थः । अथ वा - स्वयमपि भविष्यत्कालेना भिसम्बद्ध्यमानः, स्वकालपरित्यागेन भविष्यत्कालः सन्नित्यर्थः । अयं ह्यत्रार्थः - पुत्त्रोऽस्य जनिता स चाग्निष्टोमेन यष्टेति, तत्र यदि भूतकाल एव णिनिरवतिष्ठेन तदा यागस्य भविष्यतावगमो न प्राप्नोतीत्ययमारम्भः । एवमितरयोरप्युदाहरणयोर्द्रष्टव्यम् । अथ विपर्ययः कस्मान्न भवति, भविष्यत्कालो भूतकालेनाभिसम्बद्ध्यमानः स्वकालपरित्यागेन भूते साधुर्भवति, ततश्चाग्निष्टोमयाज्यस्य पुत्त्रो जात इत्ययं वाक्यार्थ इति ? तत्राहौविशेषणं गुणत्वादिति । प्रधानानुवर्ता गुणः, न गुणानुवतिं प्रधानम्, उभयोश्च स्वकालनिष्ठयोः स्म्बन्धानुपपतिरिति प्रधानानुरोधेन गुणस्य कालपरित्याग इत्यर्थः । प्रत्ययाधिकार इति । यद्यपि प्रकृतः प्रत्ययशब्दः स्वरूपपदार्थकः, तथापीह संज्ञेनामनिर्देशात्संज्ञिपदार्थको विज्ञास्यत इति भावः । अधात्वधिकारविहिता अपीति । अन्यथा प्रकृतानां धातुप्रत्ययानामेव ग्रहणं स्यात् । प्रत्ययग्रहणातु सर्वपरिग्रहार्थातद्धितानामपि कालान्तरेऽपि साधुत्वं भवति । गोमानासीत्, गोमान्भवितेति ।'तदस्यास्त्यस्मिन्' इति मतुप्प्रत्ययो वर्तमानसताविशिष्टेन प्रकृत्यर्थेन विशिष्टेऽर्थे विहितः । धातुसम्बन्धे तु प्रकृत्यर्थस्य भूतभविष्यत्वेऽपि साधुर्भवति । ततश्चायमत्रार्थः - गावोऽस्यासन् गोमानासीत्, गावोऽस्य भवितारः गोमान् भवितेति । धात्वधिकारादेव धातुग्रहणे सिद्धे पुनर्धातुग्रहणं धातुविशेषपरिग्रहार्थम्, तेनास्तिभूजनिसम्बन्धे तद्विशेषणानामेव कालान्यत्वेन साधुत्वं भवतीति केचित् । न चायं पक्षो भाष्ये सिद्धान्तत्वेन स्थापितः, तस्मादविशेषेण भवतीत्यन्ये । दृश्यते चान्यत्रापि कालान्यत्वलम् -'साटोपमुर्वीमनिशं नदन्तो ये प्लावयिष्यन्ति समन्ततो' मीऽ इत्यत्र । नदन्त इति वर्तमानकालः प्लावयिष्यन्तीति अवर्तमानेनाभिसम्बद्ध्यमानो भविष्यत्कालः सम्पद्यते । सूत्रप्रत्यख्यानं तु - अग्निष्टोमयाजीति भूत एव णिनिः, जनितेत्येतत्सम्बन्धातु केवलं व्यपदेशस्य भावित्वप्रतीतिः, अस्य सूत्रस्य शाटकं वयेतिवत् । ततश्च भाविव्यपदेशविज्ञानाद्विशेषणस्य कालान्यत्वं वाक्यार्थवशादसत्यपि सूत्रारम्भे प्रत्येष्यते । अवश्यं च स्वकाल एव प्रत्ययविधिरेष्टव्यः, अन्यथा भाविकृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्यौगपत्प्रयोगो न स्यात् । तस्मादिदानीमासीदित्येवं तत्रार्थः । गोमानासीदित्यत्रापि देवदतस्य विधमानत्वेऽपि गोमद्रूपस्यातीतत्वाद् भूतप्रत्ययः । तत्रार्थाद् गवामप्यतीतत्वं प्रतीयते, गोमच्छब्दस्तु स्वमहिम्ना वर्तमानसताविशिष्टमेव प्रकृत्यर्थमाह ॥ Nyaas ----- `धात्वर्थे धातुशब्दः` इति। अभिधेयेऽभिधानोपचारं कृत्वा धात्वर्थोऽत्र धातुशब्देन निर्द्दिष्ट इति दर्शयति। भ्वादिष्वेवायं धातुशब्दो वर्तते, स्वार्थे गुणीभूतस्य धातुशब्दस्य शब्दान्तरेण सम्बन्धो न स्यात्; तस्माद्धात्वर्थ एवायं धातुशब्दो वर्तते, न भ्वादिषु। ततश्च धातुसम्बन्ध इत्यस्य धात्वर्थसम्बन्ध इत्येषोऽर्थो विज्ञायत इत्याह - `धात्वर्थानां सम्बन्धो धातुसम्बन्धः` इति। कथं पुनः सम्बन्ध इत्याह - `विशेषणविशेष्यभावः` इति। `अयथाकालोक्ता अपि` इत्यादि। यो यस्यात्मीयः कालो यथाकालम्। `यथाऽसादृश्ये` (2.1.7) इति वीप्सायामव्ययीभावः, यथाकाले उक्ता यथाकालोक्ताः, `सप्तमी` (2.1.39) इति योगविभागात् समासः,न यथाकालोक्ताः = अयथाकालोक्ताः। एतदुक्तं भवति - स्वैः स्वैर्विधायकैर्वाक्यैर्यत्र यस्मिन् यस्मिन् काले ये ये विहितास्ततोऽन्यत्रकालेऽपि प्रयुक्ताः प्रत्ययाः साधवो भवन्तीति। `अग्निष्टोमयाजी` इत्यादीन्युदाहरणानि दर्शयति। सर्वत्र तिङन्तदाच्योऽर्थो विशेष्यः, सुबन्तवाच्यस्तु विशेषणम्। `अग्निष्टोमयाजीति भूतकालः` इति। भूतः कालोऽस्येति बहुव्रीहिः। भूतकालत्वंतु भूताधिकारे **करणे यजः** (3.2.85) इति णिनेर्विध#आनात्। `जनितेति भविष्यत्कालः` इति। भविष्यन् कालोऽस्येति बहुव्रीहिरेव। भविष्यत्कालत्वं तु भविष्यदनद्यतने लृटो विधानात्। `तत्र`इति। निर्धारणे सप्तमी। तयोर्भूतकालभविष्यत्कालयोर्मध्ये यो भूतकालः स भविष्यत्कालेन सम्बध्यमानः साधुर्भवति। अग्निष्टोमयाजीति भूतकालो जनितेति भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्काल एव सम्पद्यते। द्वितीयेऽप्युदाहरणे `कृतः` इति भूतकालः; भूते निष्ठाविधानात्। `भविता` इति भविष्यत्कालः पूर्ववदेव। तत्र भूतकाल इतरेणापि सम्बध्यमानः साधुर्भवति। तृतीयेऽपि `भावी`इति भविष्यत्कालः; **भविष्यति गम्यादयः** (3.3.3) इति वचनात्। `आसीत्` इति भूतकालः; भूतानद्यतने लङो विधानात्। तत्र भविष्यत्कालो भूतकालेनापि सम्बध्यमानः साधुर्भवति।इहाग्निष्टोमयाज्यस्य पुत्रो जनितेति भूतकालो भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्कालः सम्पद्यते। तथा ह्रयमत्रार्थः प्रतीयते - सोऽस्यपुत्रो जनिता योऽग्निष्टोमेन यष्टेति। न च भविष्यत्कालो भूतकालेनाभिसम्बध्यमानो भूतकालतां प्रतिपद्यते, न ह्यत्रायमर्थः प्रतीयते - सोऽस्य पुत्रो जातो योऽग्निष्टोमेनेष्टवानिति। इतरयोरप्युदाहरणयोर्विशेषणं विशेष्यकालतामापद्यते, यतस्तत्रायमर्थोऽवगम्यते - स आओ भविता कटो यः करिष्यते, तत् कृत्यमासीद् यदभूतमिति। तदेतत्कथं भवति? विपर्ययः कस्मान्न भवति? इत्याह - `विशेषणम्ित्यादि। विशेषणं हि परार्थत्वाद्गुणोऽप्रधानमित्यर्थः। तेन च प्रधानकालस्य विशेष्यस्योपकारः कर्तव्यः। न च तत् प्रधानमपरित्यज्य स्वकालं प्रधानकालमप्रतिपद्यमानं प्रधानोपकारक्रियां कर्त्तुं समर्थ भवतीति प्रधानस्य यः कालस्तमुरुध्यते। विशेष्यं तूपकार्यत्वात्प्रधानम्।न च प्रधानस्य गुणकालापत्तिर्युक्ता, अन्यथा यदिगुणकालं प्रधानकालः प्रतिपद्येत तदा तस्य प्रधानत्वं हीयेत। तेन न भवति विपर्ययः।अथ प्रत्ययग्रहणं किमर्थम्, यावता प्रत्यय इत्यनुवर्तत इत्यत आह - `प्रत्ययाधिकारे`इत्यादि। पूर्वकं प्रत्ययग्रहणं धातुसम्बद्धम्, अतस्तदिहाश्रीयमाणं धात्वधिकारविहितानां प्रत्ययानां साधुत्वे सम्पद्यते। अत्र पुनः प्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, तदर्थं पुनः प्रत्ययग्रहणम्। `कालभेदे` इति। कालविशेषे,अस्मात्कालादन्यस्मिन् काल इत्यर्थः। `गोमानासीत्िति। गोमानिति वर्तमानकालः, `तदस्य` (5.2.93) इत्यादिना वर्तमानकालमस्तीत्युपादाय मतुपो विधानात्। स भूतभविष्यत्कालाभ्यां सम्बध्यमानः साधुर्भवति॥ Prakriyasarvasvam ----------------- धात्वन्तरस्य विशेषणत्वे भूतादिप्रत्यया भविष्यदादिधात्वर्थेऽपि स्युः । कंसो हतो भविष्यति । अत्र हत इति भविष्यतीत्यस्य विशेषणम् । अत्र हननस्य भावित्वेऽपि भूतप्रत्ययः क्तो जातः । एवं गमिष्यन्नभूदित्यादि ॥ Sutra Prayogas -------------- * **आकर्णयन्नुत्सुक** (भट्टिकाव्यम्): `धातु-सम्बन्धे प्रत्ययाः` इति च। * **भवितेति** (भट्टिकाव्यम्): `धातु-सम्बन्धे प्रत्ययाः` इति। * **भवन्तं विरहं** (भट्टिकाव्यम्): `धातुसम्बन्धे प्रत्ययाः` इति वर्तमानकालः भविष्यत्कालेन सम्बध्यमानः साधुर्भवति।