33170: आवश्यकाधमर्ण्ययोर्णिनिः ============================== **Padacheda:** आवश्यक-आधमर्ण्ययोः | S | 7 | 2 | णिनिः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णिनि is added to the root in denoting agent, showing that there is some 'necessity' or 'indebtedness' or 'obligation' on the part of the agent in connection with the action denoted by the verb. Vasu English Translation ------------------------ The affix णिनि is added to the root in denoting agent, showing that there is some 'necessity' or 'indebtedness' or 'obligation' on the part of the agent in connection with the action denoted by the verb. Thus अवश्यं कारी 'must be done'. The compounding here takes place by (2.1.72). So also शतं दायी 'ought to be given a hundred'; सहस्रं दायी; निष्कं दायी &c. Kashika ------- अवश्यंभाव आवश्यकम्। उपाधिरयम्, नोपपदम्। अवश्यंभावविशिष्ट आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति। अवश्यंकारी। मयूरव्यंसकादित्वात् समासः। आधमर्ण्ये खल्वपि — शतं दायी। सहस्रं दायी। निष्कं दायी॥ Siddhanta Kaumudi ----------------- अवश्यङ्कारि । शतंदायी ॥ Padamanjari ----------- अवश्यं भाव आवश्यकमिति । मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः । उपाधिरिति । प्रत्ययार्थविशेषणमित्यर्थः । नोपपदमिति ।'शीतोष्णाभ्यां कारिणि' ,'सेनान्तलक्षणकारिभ्यस्च' इति निर्देशात् । उपपदत्वे हि केवलाण्णिनिर्न स्यात्, तत्साहचर्यादाधमर्ण्यमप्युपाधिरेव, नोपपदम् । शतं दायीति । ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्टीप्रतिषेधाद् द्वितीयैव भवति ॥ Nyaas ----- `आवश्यकम्िति। मनोज्ञादित्वाद्वुञ्। `उपाधिरयम्िति। प्रत्ययार्थविशेषणमित्यर्थः। `नोपपपदम्` इति। उपपदत्वे तु कारी, हारीति रूपं नस्यादित्यभिप्रायः।**ओरावश्यके** (3.1.125) इत्यत्र प्रतिपादितमेवावश्यमुपाधिः, नोपपदमिति;तदिहापि तद्वदेवोपाधिकत्वमावश्यकस्य वदितव्यम्। तेन सह निर्द्देशादाधमण्र्यमप्युपाधिरेव, नोपपदमिति। यद्यावश्यकमपाधिर्नोपपदम्, **उपपदमतिङ्** (2.2.19) इति समासो न स्यात्, न चान्यल्लक्षणमस्ति येनेह समासः स्यादिति यो मन्येत्, तं प्रत्याह - `मयूरव्यंसकादित्वात् समासः` इति `सहरुआं दायी`इति।`अकेनोर्भविष्यदाधमण्र्ययोः` (2.3.70) इति षष्ठआं प्रतिषिद्धायां द्वितीयैव भवति॥ Prakriyasarvasvam ----------------- अवश्यंभाव आधमर्ण्ये च द्योत्ये धातोर्णिनिः स्यात् । कारी । अवश्यंकारी । आधमर्ण्ये, शतन्दायी । वण शब्दे । अवश्यं वणतीति वाणिनी विदग्धस्त्री । एवं निरुपपदेभ्यः स्याच्चेदावश्यके णिनिर्ज्ञेयः ॥ केचिद् धिनुणि भवेयुः केऽपि घञन्तादिनौ च निर्वाह्याः ॥ ९५ ॥