33162: लोट् च ============= **Padacheda:** लोट् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लोट् -प्रत्ययः भवति ।** अनेन सूत्रेण लोट्लकारस्य विधानम् क्रियते । लोट्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः - 1. विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालय'। 2. निमन्त्रणम् इत्युक्ते, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् । यथा - 'इह श्राद्धे भवान् भुङ्क्ताम्' । निमन्त्रणस्य स्वीकारः एव कर्तव्यः, तस्य अस्वीकारं न कर्तुं शक्यते । 3. आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुङ्क्ताम्' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति । 4. अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयतु भवान्!' । 5. सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठतु?' 6. प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं ददातु' । एतेषु षट्सु अर्थेषु लोट्लकारस्य प्रयोगः अनेन सूत्रेण दीयते । ज्ञातव्यम् - **विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्** (3.3.161) इत्यनेन लिङ्लकारस्य प्रयोगः अपि एतेषु सर्वेषु अर्थेषु एव क्रियते । अतः एतेषु अर्थेषु लोट्-लकारः तथा विधिलिङ्-लकारः समानार्थिनौ स्तः । Sutrartha (English) ------------------- लोट्लकार can be used to indicate विधि (= order) , निमन्त्रण ( = an invitation that cannot be rejected), आमन्त्रण (= an invitation that can be rejected), अधीष्ट (= Ask something with respect, often in exchange of money or something else), सम्प्रश्न (= A question about doing or not doing something) and प्रार्थना (= request). Vasu English Summary -------------------- The affix लोट् (Imperative) is used after a root in the sense of commanding etc. Vasu English Translation ------------------------ The affix लोट् (Imperative) is used after a root in the sense of commanding etc. The Imperative Mood is employed also under the circumstances mentioned in the last aphorism. The division of this aphorism from the last, is for the sake of subsequent *sutras* in which the *anuvritti* of लोट् only runs and not those of others. Thus :-- (1) कटं तावद् भवान् करोतु 'make the mat'; ग्रामं भवान् आगच्छतु । (2 and 3) अमुत्र भवान् आस्ताम् 'there you are invited to, or you may, sit'. (4) पुत्रम्भवान् अध्यापयतु 'you will teach, I hope, the son'. (5) किं भो वेदमध्ययै उत तर्कं 'Sir what shall I learn, the Veda or the Logic'? (6) भवति मे प्रार्थना व्याकरणमध्ययै छन्दोऽध्ययै 'this is my prayer that I may learn the Grammar, or that I may learn the Prosody'. Kashika ------- लोट् प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु। योगविभाग उत्तरार्थः। विधौ तावत् — कटं तावद् भवान् करोतु। ग्रामं भवानागच्छतु। निमन्त्रणे — अमुत्र भवानास्ताम्। अमुत्र भवान् भुङ्क्ताम्। आमन्त्रणे — इह भवान् भुङ्क्ताम्। अधीष्टे — अधीच्छामो भवन्तम्, माणवकं भवानध्यापयतु, माणवकं भवानुपनयताम्। संप्रश्ने — किं नु खलु भो व्याकरणमध्ययै। प्रार्थने — भवति मे प्रार्थना व्याकरणमध्ययै। छन्दोऽध्ययै॥ Siddhanta Kaumudi ----------------- विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- विध्याद्यर्थेषु धातोर्लोट् ॥ Tattvabodhini ------------- `विधिनिमन्त्रणे`त्याद्यनुवर्तते। तदाह - विध्यादिष्विति॥ Padamanjari ----------- योगविभाग उतरार्थ इति । उतरत्र लोट एवानुवृत्तिर्यथा स्याल्लिङे मा भूदिति । अध्ययै इति । इट्, उतमैकवचनम्, टेरेत्वम्, ठेत ऐऽ, ठाहुतमस्य पिच्चऽ इत्याडागमः, ठाटश्चऽ इति वृद्धिः, प्रकृतेर्गुणायादेशौ ॥ Nyaas ----- यदि विध्यादिष्वेव लोड्भवत्येवं योगविभागः किमर्थं क्रियते? इत्याह - `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे लोट एवानुवृत्तिर्यथा स्यात्, लिङो मा भूदिति। `करोतु` इति। `एरुः` (3.4.86) इत्युक्तम्। `अध्ययै` इति। **आडुत्तमस्य पिच्च** (3.4.92) इत्याट्, टेरेत्वे कृते `एत ऐ` (3.4.93) , `आटश्च` (6.1.87) इति वृद्धिः, प्रकृतेर्गुणायादेशौ॥ Prakriyasarvasvam ----------------- विध्याद्यर्थेषु धातोर्लोट् स्यात् । Sutra Prayogas -------------- * **वादीयताम्** (किरातार्जुनीयम्): `लोट् च` (तथा `विधिनिमन्त्रण...` ३.३.१६१) इति सूत्रानुसारेण संप्रश्ने लोट्। * **यात** (किरातार्जुनीयम्): `लोट् च` (तथा `विधेर्निमन्त्रणा...` 3.3.161) इति संप्रश्ने लोट्।