33149: गर्हायां च ================= **Padacheda:** गर्हायाम् | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix लिङ् (Benedictive) comes in all tenses when the words यच्च and यत्र are in composition with it, provided that censure is implied. Vasu English Translation ------------------------ The affix लिङ् (Benedictive) comes in all tenses when the words यच्च and यत्र are in composition with it, provided that censure is implied. The governing force of the words *anavaklipti* and *amarsha* ceases. This debars all other tense-affixes. Thus यच्च or यत्र तत्र भवान् वृषलं याजयेत् ॠद्धौ वृद्धः सन् ब्राह्मणः, गर्हामहे, अहो अन्याय्यमेतत् 'we blame you who being an opulent, old *Brahmana* (who ought to know better) officiate as a sacrificial priest for a *Sudra*, O! It is improper'! When the non-completion of the action is indicated, the Conditional tense must be employed under the rules given in (3.3.139)- (3.3.140)- (3.3.141). As यच्च or यत्र त्वं हरिं निन्देः or अनिन्दिष्यः, गर्हामहे 'we censure that you should (have attempted to) blaspheme *Hari*', &c. Kashika ------- अनवक्ऌप्त्यमर्षयोरिति निवृत्तम्। गर्हा निन्दा कुत्सेत्यनर्थान्तरम्। यच्च यत्रेत्येतयोरुपपदयोर्धातोर्लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्। सर्वलकाराणामपवादः। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेद् ऋद्धो वृद्धः सन् ब्राह्मणः। गर्हामहे, अहोऽन्याय्यमेतत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥ Siddhanta Kaumudi ----------------- अनवकॢप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥ Balamanorama ------------ **गर्हायां च** - गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः ।यच्चत्रयोरिति, लिहिति चानुवर्तते । तदाह -यच्चयत्रयोर्योगे इति.लिङेवेति । नतु लकारान्तरमित्यर्थः । उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम् । 'त्वं शूद्रं याजये' रितियत्तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् । Tattvabodhini ------------- **गर्हायां च** - गर्हायां च । कालत्रयेऽयं भवतीति सर्वलकारापवादः । लिङेव स्यादिति.गर्हायांविभाषा कथमी॑ति लट् प्राप्तस्तत्रैवकिंवृत्ते॑ इति लृट् प्राप्तस्तयोरपवादो यच्चत्रयोर्योगे विहितोऽयं लिङिति भावः । लृङ् प्राग्वत् ।यच्च यत्र वा त्वं शूद्रमयाजयिष्यस्तदन्याय्य॑मित्यादि । Padamanjari ----------- दरिद्रश्चेद्वृषलयाजनमपि युक्तं स्यात्, तत उक्तम् - ऋद्धैति । ऋद्धस्याप्युपभोगबाहुल्येन सम्भाव्येत, अत उक्तम् - वृद्ध इति । वृद्धस्यापि जातिमात्रब्राह्मणस्य युक्तं स्यात्, अत उक्तम् - सद्ब्राह्मण इति । सद्वंशजः सदाचारश्चेत्यर्थतो गर्हामर्ह इति ॥ Prakriyasarvasvam ----------------- अनवक्लृप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोगे गर्हायां द्योत्यायां लिङेव । यच्च, यत्र, वा त्वं शूद्रं याजयेः । कष्टमेतदित्यर्थः । अत्रापि लृङ् प्राग्वत् ।