33148: यच्चयत्रयोः ================== **Padacheda:** यच्च-यत्रयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix लिङ् (Benedictive) comes after a root in all tenses when the words यच्च and यत्र are in composition with it, provided that censure is implied. Vasu English Translation ------------------------ The affix लिङ् (Benedictive) comes after a root in all tenses when the words यच्च and यत्र are in composition with it, provided that censure is implied. This supersedes the First Future. The separation of this aphorism from the previous one, is for the sake of the rules that follow. The rule (1.3. 10) does not also apply here. Thus यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे, न मर्षयामि 'I do not think, nor can I tolerate that thou wilt do so'. The Conditional (लृङ्) will also be employed under its own proper conditions as shown in the last aphorism. Kashika ------- अनवक्ऌप्त्यमर्षयोरित्येव। यच्च यत्र इत्येतयोरुपपदयोरनवक्ऌप्त्यमर्षयो — र्गम्यमानयोर्धातोर्लिङ् प्रत्ययो भवति। लृटोऽपवादः। योगविभाग उत्तरार्थः। यथासंख्यं नेष्यते। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति॥ Siddhanta Kaumudi ----------------- यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥ Balamanorama ------------ **यच्चयत्रयोः** - यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवकॢप्त्यमर्षयोर्लिङ् स्यादित्यर्थः । लृटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवकॢप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः । अत्रापिभविष्यति नित्यं लृङ्, भूते वे॑त्युक्तमनुसंधेयम् । लिङ्निमित्तस्य सत्त्वात् । Tattvabodhini ------------- **यच्चयत्रयोः** - यच्चयत्रयोः ।अनवक्लप्त्यमर्षयो॑रिति वर्तते ।यथासङ्ख्यमिह नेष्यते । अयमपि लिङ्लृटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवाऽनुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लृङ् प्राग्वत् । यच्च यत्र वा त्वमेवमकरिष्योन श्रद्दधे न मर्षयामीत्यादि । Padamanjari ----------- लृट एवापवाद इति । पूर्ववत्प्राप्तस्य । एवकारः पौनर्वचनिकः । योगविभाग उतरार्थ इति । उतरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्माभूदिति । इहानवकॢप्त्यमर्षौ द्वौ, यच्चयत्रयोरित्युपपदे अपि द्वे एव, ततश्च यथासङ्ख्यं प्राप्नोति ? तत्राह - यथासङ्ख्यमिह नेष्यते इति । पूर्ववल्लक्षणव्यभिचारचिह्नात् बह्वचः पूर्वनिपातात् ॥ Nyaas ----- `लृटोऽपवादः` इति। अनवकॢप्त्यादिसूत्रेण (3.3.145) प्राप्तस्य। अथ पूर्वसूत्र एव यच्चयत्रयोग्र्रहणं कस्मान्न कृतम्, किं योगविभागेन? इत्यत आह - `योगविभाग उत्तरार्थः` इति। उत्तरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्मा भूत्। `यथासंख्यमिह नेष्यते` इति। पूर्वोक्तादेव लक्षणव्यभिचारचिह्नात्। स च बह्वचः पूर्वनिपातः सर्वत्रैव चात्र प्रकरणे लक्षणव्यभिचारचिह्नम्, न तु तत्रैव सूत्रे। अथ वा - यथासंख्यार्थस्य स्वरितत्वस्याभावादिह न भवति यथासंख्यम्। उक्तं हि प्राक् - `स्वरितेन चिह्नेन यथासंख्यं भवति` इति॥ Prakriyasarvasvam ----------------- आभ्यां योगेऽप्युक्तार्थयोर्लिङेव । यद्यदियदायच्चयत्राणां यदित्येवार्थ इत्येके । प्रागुक्तगर्हार्थता वा । न विश्वसिमि, न सहे यच्च त्वमेवं कुर्याः, यत्र त्वमेवं कुर्याः । क्रियातिपत्तौ तु, यच्च त्वमेवमकरिष्यः । Sutra Prayogas -------------- * **तिष्ठेत्** (भट्टिकाव्यम्): `यच्चयन्त्रयोः` इत्यनवक्लृप्तौ भविष्यति लिङ्। * **प्रब्रूयाम** (भट्टिकाव्यम्): `यच्चयन्त्रयोः` इति वर्तते। * **यच्च यत्र** (भट्टिकाव्यम्): `यच्चयत्रयोः` इति चित्रीकरणे लृङ्निमित्तम्।