33136: भविष्यति मर्यादावचनेऽवरस्मिन् ==================================== **Padacheda:** भविष्यति | S | 7 | 1 | मर्यादावचने | S | 7 | 1 | अ-वरस्मिन् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Futurity is not expressed, as taught in अनद्यतने लुट् (3.3.15) through the II Future, but through the I Future, when a statement is made of a limit on this (अवर) side of another place. Vasu English Translation ------------------------ The Futurity is not expressed, as taught in अनद्यतने लुट् (3.3.15) through the II Future, but through the I Future, when a statement is made of a limit on this (अवर) side of another place. The phrase नानद्यतनवत् is valid in this *sutra* also. The two conditions of the last aphorism, namely, 'continuity of action' and 'immediateness', however, do not apply here. Thus योऽयमध्वागन्तव्य आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्रोदनं भोक्ष्यामहे, तत्र सक्तून्पास्यामः 'on this side of the road from the city of *Kosambi* to the city of *Pataliputra*, there we will eat rice, and there we will drink *saktu*'. Why do we say 'in denoting future time'? Observe योऽयमध्वागत आपाटलिपुत्रात् तस्य कौशाम्ब्यास्तत्र युक्ता अध्यैमहि 'on this side of the road that leads from the city of *Kosambi* to the city of *Pataliputra*, we read together &c. Why do we say 'when signifying limit'? Observe योऽयमध्वानिरवधिकगन्तव्यस्तस्य यदवरं कौशाम्ब्यास्तत्रोदनं भोक्तास्महे, सक्तून् पातास्मः । Here the First Future is employed. Why do we say 'when the word अवर is in construction'? Observe योऽयमध्वागन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्रोदनं भोक्तास्महे &c. The examples of limit given in this aphorism, refer to local limit; in the subsequent *sutras* examples will be given as to the limit of time and some difference will be observed therein. Bhashya ------- भविष्यति मर्यादावचनेऽवरस्मिन् (1120) (575 लुटो निषेधसूत्रम्॥ 3 । 3 । 2 । आ.5) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। न नानद्यतनवद् इत्येव सिद्धम्? (4099 वार्तिकम्॥ 1 ॥) - भविष्यति मर्यादावचनेवरस्मिन्नित्यक्रियाप्रबन्धार्थम्- (भाष्यम्) अक्रियाप्रबन्धार्थोयमारम्भः॥ (आक्षेपभाष्यम्) किमुच्यते अक्रियाप्रबन्धार्थ इति, न पुनः क्रियाप्रबन्धार्थोऽपि स्यात्? (5000 वार्तिकम्॥ 2 ॥) - क्रियाप्रबन्धार्थमिति चेद् वचनानर्थक्यम्- (भाष्यम्) क्रियाप्रबन्धार्थमिति चेद वचनमनर्थकं भवति। सिद्धं क्रियाप्रबन्धे पूर्वेणैव। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - अनहोरात्राणाम् इति वक्ष्यामि इति। इह मा भूद् - योयं त्रिंशद्रात्र आगामी तस्य योवरः पञ्ञ्चदशरात्र इति। (5001 वार्तिकम्॥ 3 ॥) ॥ अहोरात्रप्रतिषेधार्थमिति चेन्नानिष्टत्वात्- (भाष्यम्) अहोरात्रप्रतिषेधार्थमिति चेत्॥ तन्न। किं कारणम्? अनिष्टत्वात्। अत्रपि नानद्यतनवत् इत्येवेष्यते॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनं भविष्यतीति वक्ष्यामीति। इह मा भूत् - योयमध्वा गत आपाटालिपुत्रात्तस्य यदवरं साकेतादिति। (समाधानभाष्यम्) नानिष्टत्वात्। अत्रापि नानद्यतनवदित्येवेष्यते॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनं मर्यादावचन इति वक्ष्यामीति। इह मा भूत - योयमध्वा अपरिमाणो गन्तव्यः तस्ययदवरं साकेतादिति। नानिष्टत्वात्। अत्रापि नानद्यतनवदित्येवेष्यते। Kashika ------- नानद्यतनवदिति वर्तते। अक्रियाप्रबन्धार्थम्, असामीप्यार्थं च वचनम्। भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागेऽनद्यतनवत् प्रत्ययविधिर्न भवति। योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः। भविष्यतीति किम्? योऽयमध्वा गत आ पाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनमभुञ्ज्महि, तत्र सक्तूनपिबाम। मर्यादावचन इति किम्? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पातास्मः। अवरस्मिन्निति किम्? योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः। इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता। तत्र न विशेषं वक्ष्यति॥ Siddhanta Kaumudi ----------------- भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥ Tattvabodhini ------------- **भविष्यति मर्यादावचनेऽवरस्मिन्** - भविष्यति मर्यादा । अक्रियाप्रबन्धार्थमसामीप्यार्थं चेदं वचनम् ।नाऽनद्यतनव॑दित्यनुवर्तते इत्याह - अनद्यतनवन्नेति । लुडत्र नेत्यर्थः । इह सूत्रे देशकृत मर्यादा, उत्तरत्र कालकृता । तत्र विशेषं वक्ष्यति — तस्य यदवरमिति । पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्ब्याः सकाशादित्यर्थः । कौशाम्ब्याः पूर्वमिति यावत् । भविष्यति किम् । योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम । मर्यादावचने इति किम । योऽध्वा गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । अवरस्मिन्निति किम् । योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशाम्ब्यास्तत्र सक्तून्पाता स्मः । Padamanjari ----------- अक्रियाप्रबन्धार्थमसामीप्यार्थं च वचनमिति ।'क्रियाप्रबन्धसामीप्ययोः' इति नानुवर्तते, तदनुवृतौ हि नियमार्थमेतत् स्याद् - भविष्यत्येव मर्यादावचन एवावरस्मिन्नेवेति वा । विधिनियमसम्भवे च विधिरेव ज्यायानिति भावः । मर्यादावचने सतीति । मर्यादोक्तौ सत्यामित्यर्थः । वचनग्रहणमभिविध्यर्थम्, वचनग्रहणे हि सति मर्यादामात्रवचने मर्यादावचन इत्यर्थो भवति । सैव हि मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदा ठभिविधिःऽ इत्युच्यते । अवरस्मिन्प्रविभाग इति । अपरभागविषयश्चेद्धात्वर्थो भवतीत्यर्थः, अपरस्मिन्निति वचनाद्यस्य मर्यादा तस्य द्वौ भागौ कल्पयितव्याविति गम्यते । गन्तव्य इति । अध्वगमनस्य भविष्यत्वं दर्शयÄस्तत्र कर्तव्यस्य भोजनादेर्भविष्यत्वं दर्शयति । तस्य यदपरमिति । अनेनाध्वनो विभागो द्विरित्यनेनापि क्रियाप्रबन्धाभावो द्विरेव, नानवरतमिति । योऽयमध्वागत इति । भूतकालतां दर्शयति । अध्यैमहीति । इङे लङ्, शपो लुक्, ठाडजादीनाम्ऽ, ठाटश्चऽ। अभुञ्ज्महीति ।'भुजो' नवनेऽ इत्यात्मनेपदम्,'श्नसोरल्लोपः' , चुत्वम् । तत्र उतरसूत्रे विशेषं वक्ष्यतीति । अनहोरात्राणामित्यनेन ॥ Nyaas ----- `मर्यादावचने सति` इति। वचनग्रहणमभिविधावपि यथा स्यात्। मर्यादाविशेष एवाभिविधिश्च। सैव मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदाऽभिविधिरित्युच्यते, यदा तु न सम्बद्ध्यते तदा मर्यादेति। तत्रेह वचनग्रहणाद्विशेषो नाश्रीयते, तेन मर्यादाया उक्तिमात्रे भवति। विनापि वचनग्रहणेनाभिविधौ प्रतिषेधो न भवेत्; यस्माद्यत्राभिविधौ कार्यमिच्छति तत्राभिविधिग्रहणं वा करोति, यथा - **आङ् मर्यादाभिविध्योः** (2.1.13) इति#इ; वचनग्रहणं वा, यथा - **आङ् मर्यादावचने** (1.4.89) इति। तदभिविधावपि यथा स्यादित्येवमर्थं वचनग्रहणं क्रियते। `अवरस्मिन्` इति। अर्वागित्यर्थः। `गन्तव्यः`इति। भविष्यत्कातामध्वनो दर्शयति। `तस्य यदवरम्` इति। अनेनाध्वनो विभागं `द्विः` इति। एतेनापि क्रियाप्रतिबन्धाभावम्। `भोक्ष्यमहे` इति। **भुजोऽनवने** (1.3.66) इत्यात्मनेपदम्, **चोः कुः** (8.2.30) इति गकारः, `खरि च` (8.4.54) इति गकारस्य ककारः।`अध्यैमहि` इति। महिङ, **आडजादीनाम्** (6.4.72) इत्याट्, `आटश्च` (6.1.87) इति वृद्धिः, उपसर्गस्य (6.1.74) यणादेशः। `अपिबाम` इति। पाघ्रादिसूत्रेण (7.3.78) पिबादेशः, **नित्यं ङितः** (3.4.99) इति सकारलोपः। `भोक्तास्महे` इति। लुट्। `तत्रच विशेषं वक्ष्यति` इति। अनहोरात्राणामित्यनेन (3.3.137) ॥ Prakriyasarvasvam ----------------- मर्यादावचने सत्यव*रविभागसम्बद्धे वृत्तान्ते भविष्यदनद्यतनोक्तौ लुण्न स्यात् । योऽध्वा गङ्गावधिस्तत्र गोकर्णादव*रं तु यत् । तस्मिन् वयं श्व आरभ्य तरिष्यामोऽसकृन्नदीः ॥ ७७३ ॥