33133: क्षिप्रवचने लृट् ======================= **Padacheda:** क्षिप्रवचने | S | 7 | 1 | लृट् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the word क्षिप्र 'quickly' or its synonym is in construction with the verb, the future affix लृट् (2nd Future) is used after the root when 'hope' is expressed in a conditional form. Vasu English Translation ------------------------ When the word क्षिप्र 'quickly' or its synonym is in construction with the verb, the future affix लृट् (2nd Future) is used after the root when 'hope' is expressed in a conditional form. This supersedes the last rule by which Aorist could also have been employed. By the present rule the Second Future can only be employed. Thus उपाध्यायश्चेत्क्षिप्रमागमिष्यति (or उपाध्यायश्चेदागतः--*Apte*.) क्षिप्रं व्याकरणमध्येष्यामहे 'if the teacher were to come soon, we shall soon learn grammar'. By force of the word वचन in the aphorism, we take the synonyms of क्षिप्र also, such as शीघ्रं, आशु, त्वरितम्, &c. An objector might say, "the use of the word लृट् in the *sutra* is redundant; for Future tense is the natural tense to be used, whenever hope is indicated. *Sutra* (3.3.132) was merely an exception to this rule; so that the present *sutra* re-enacting the general rule, ought to have been worded thus;-- न क्षिप्रवचने 'not so when a word expressing quickness is employed'; for such a rule debarring the past tenses given by (3.3.132), would have, of necessity, given scope to the Future tense which is the natural tense to express hope". To them we say, that there are two future tenses, लृट् and लुट् । By specifying लृट् we mean that लुट् should not be employed even where it would otherwise have come, such as in the following:- श्वः क्षिप्रमध्येष्यामहे 'to-morrow we shall learn soon'. Bhashya ------- क्षिप्रवचने लृट् (1118) (476 लृड्विधिसूत्रम्॥ 3 । 3 । 2 आ.3) (4087 वार्तिकम्॥ 1 ॥) - क्षिप्रवचने लृट आशंसावचने लिङि्वप्रतिषेधेन- (भाष्यम्) क्षिप्रवचने लृट आशंसावचने लिङ्भवति विप्रतिषेधेन। क्षिप्रवचने लृड् भवतीत्यस्य अवकाशः - उपाध्यायश्चेदागतः क्षिप्रमध्येष्यामहे। आशंसावचने लिङ् भवतीत्यस्यावकाशः। उपाध्याश्चेदागतः आशंसे युक्तोधीयीय। इहोभयं प्राप्नोति - उपाध्यायश्चेदागतः आशंसे क्षिप्रमधीयीय। लिङ् भवति विप्रतिषेधेन॥ (4088 वार्तिकम्॥ 2 ॥) - अनिष्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पन्नत्वात्- (भाष्यम्) अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः। किं कारणम्? अनिष्पन्नत्वात्। देवश्चेद् वृष्टो निष्पन्नाः शालयः। तत्र भवितव्यं संपत्स्यन्ते शालय इति॥ (4089 वार्तिकम्॥ 3 ॥) - सिद्धं तु भविष्यत्प्रतिषेधात्- (भाष्यम्) सिद्धमेतत्। कथम्? भविष्यत्प्रतिषेधात्। यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति॥ कश्चिदाह - देवश्चेद् वृष्टः संपत्स्यन्ते शालय इति। स उच्यते - मैवं वोचः, संपन्नाः शालयः इत्येवं ब्रूहि॥ (4090 वार्तिकम्॥ 4 ॥) - हेतुभूतकालसंप्रेक्षितत्वाद्वा- (भाष्यम्) हेतुभूतकालसंप्रेक्षितत्वाद्वा पुनः सिद्धमेतत्। हेतुभूतकालं वर्षम्। वर्षकाला च क्रिया। (आक्षेपभाष्यम्) यदि तर्हि निष्पन्नोर्थः, किं निष्पन्नकार्याणि न क्रियन्ते? कानि? भोजनादीनि॥ (समाधानभाष्यम्) अन्यदिदानीमेतदुच्यते - किं निष्पन्नकार्याणि न क्रियन्ते इति। यत्तु तन्निष्पन्नोर्थो न निष्पन्न इति। स निष्पन्नोर्थः, अवश्यं खल्वपि कोष्ठगतेष्वपि शालिषु अवहननादीनि प्रतीक्ष्याणि॥ एवमिहापि निष्पन्नोर्थः। अवश्यं तु जननादीनि प्रतीक्ष्याणि॥ (4091 वार्तिकम्॥ 5 ॥) - अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुर्विद्यमानत्वात्- (भाष्यम्) अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः शासितव्याः। कूपोस्ति कूपो भविष्यति कूपो भविता कूपोभूत् कूप आसीत् कूपो बभूवेति। (प्रश्नभाष्यम्) कथं पुनर्ज्ञायते भवन्त्या एषोर्थ इति? कर्तुर्विद्यमानत्वात् । कर्तात्र विद्यते। कथं पुन हि कथं पुनर्ज्ञायते कर्तात्र विद्यत इति । कूपोनेन कादचिद् दृष्टः । न चास्य कंचिदप्यपायं पश्यति। स तु तत्र बुद्ध्या नित्यां सत्तामध्यवस्यति कूपोत्रास्तीति। (4-92 समाधानवार्तिकम्) सिद्धं तु यथास्वकालं समुच्चारणात्॥ सिद्धमेतत् । कथम्। यथास्वकालमेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति । (आक्षेपभाष्यम्) कथं पुनर्ज्ञायते यथास्वकालमेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति। (4093 वार्तिकम् ॥7॥) अवात्वात्॥ यन्न वा भाष्यन्ते। असिद्धविपर्यासश्च ॥ असिद्ध विपर्यासः। न हीह कश्चित् कूपोस्तीति प्रयोक्तव्ये कूपोभूदिति प्रयुङ्क्ते। किं पुनः कारणं न वा भाष्यन्ते असिद्ध विपर्यासः। इह हि किंचिदिन्द्रियकर्म किंचिद् बुद्धिकर्म । इन्द्रियकर्म समासादनम्, बुद्धिकर्म व्यवसायः। एहं हि कश्चित्पाटलिपुत्रं जिगमिषुराह -योयमध्वा गन्तव्यः आपाटलिपुत्रात्। एतस्मिन्कूपो भविष्यति। अनद्यतने कूपो भवेतिति। समासाद्य कूपोस्ततीति समासाद्यातिक्रम्य कूपोभूदिति। समासाद्यातिक्रम्योषित्वा विस्मृत्य कूपो बभूवेति। तद्यदेन्द्रियकर्म तदैता विभक्तयः । यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ॥ क्षिप्रवचने॥133॥ Kashika ------- आशंसायामित्येव। क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति। भूतवच्चेत्यस्यायमपवादः। उपाध्यायश्चेत् क्षिप्रमागमिष्यति, क्षिप्रं व्याकरणमध्येष्यामहे। वचनग्रहणं पर्यायार्थम्। क्षिप्रं शीघ्रमाशु त्वरितमध्येष्यामहे। नेति वक्तव्ये लृड्ग्रहणं लुटोऽपि विषये यथा स्यात्। श्वः क्षिप्रमध्येष्यामहे॥ Siddhanta Kaumudi ----------------- क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥ Balamanorama ------------ **क्षिप्रवचने लृट्** - क्षिप्रवचने लृट् । वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते । तदाह — क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः ।आशंसायां भूतवच्चे॑त्यस्यापवादः । ननुक्षिप्रवचनेने॑त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह — नेति वक्तव्ये इति ।क्षिप्रवचने ने॑त्युक्तेसामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात् । शीघ्रं वप्स्याम इति । अनद्यतनत्वद्योताय आश्शब्दः । अत्र न लुडिति भावः । Tattvabodhini ------------- **क्षिप्रवचने लृट्** - क्षिप्रवचने । वचनग्रहणं स्वरूपग्रहमनिरासार्थम् । तदाह — क्षिप्रपर्याय इति । पूर्वविषय इति.आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम् । Padamanjari ----------- वचनग्रहणं पर्यायार्थमिति । असति तस्मिन्'स्वं रूपं शब्दस्य' इति वचनात्क्षिप्रशब्द एवोपपदे स्यात्, सति तु पर्यायेष्वपि भवति । ननु भूतवच्चेत्यस्यायमपवादः, स च भविष्यत्कालविषयस्तत्र नेत्येव वक्तव्यम्, तस्मिन्प्रतिषिद्धे'लृट् शेषे च' इत्यनेनैव लृट् सिद्धः, तत्किं लृड्ग्रहणेन ? तत्राह - नेति वक्तव्ये इत्यादि । नेत्युच्यमाने'लृट् शेषे च' इत्यनेन लृड् भवन्ननद्यतने न स्यात्; लुटा बाधितत्वाद् । अतो लुड्विषयोऽपि यथा स्यादिति लृड्ग्रहणं क्रियत इत्यर्थः ॥ Nyaas ----- `भूतवच्चेत्यचस्यायमपवादः`इति। न प्राप्ते भूतवच्चेत्यस्मिन्नस्यारम्भात्। अथ वचनग्रहणं किमर्थम्? यावता क्षिप्रे लृडित्येनेनैव सर्वं सिद्धमित्यत आह - `वचनग्रहणं पर्यायार्थम्िति। असति हि वचनग्रहणे क्षिप्रशब्द एवोपपदे लृट् स्यात्, तस्मस्तु सति यावन्तः क्षिप्रवचनास्तेषु सर्वेषु भवति। अथ लृड्ग्रहणंकिमर्थम्, न क्षिप्रवचन इत्येवोच्येत, भूतवच्चेत्यस्यातिदेशस्य भविष्यत्कालविषयत्वात् तस्मिन् प्रतिषिदोधे `लट् शेषे च` (3.3.13) इत्येनेनैव सिद्धः? इत्याह -`नेति वक्तव्ये`इत्यादि। नेति वक्तव्ये यल्लृड्ग्रहणं क्रियते तस्यैतत् प्रयोजनम् - लुटोऽपि विषये भविष्यदनद्यतने काले `लृड्? यथा स्यात्, अन्यथा, हि लृडपवादो लुडेव स्यात्॥ Prakriyasarvasvam ----------------- क्षिप्रार्थ उपपदे आशंसायां भविष्यति लृडेव । क्षिप्रमाशु त्वरितं वा कृष्णं द्रक्ष्यामि । Sutra Prayogas -------------- * **एष्यन्ति** (भट्टिकाव्यम्): `क्षिप्रवचने ऌट्` इत्युभयत्रापि क्षिप्रवचने ऌट्।