33108: रोगाख्यायां ण्वुल् बहुलम् ================================ **Padacheda:** रोगाख्यायाम् | S | 7 | 1 | ण्वुल् | S | 1 | 1 | बहुलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ण्वुल् comes diversely after verbs when the word to be formed is feminine noun, being the name of 'diseases'. Vasu English Translation ------------------------ The affix ण्वुल् comes diversely after verbs when the word to be formed is feminine noun, being the name of 'diseases'. This debars क्तिन् and all the rest. By using the word आख्या in the *sutra* it is meant that the word so formed by this affix should be the appellation of the disease. The word 'diversely' shows the usual licence in the application of all the rules of grammar. Thus प्रच्छर्द्दिका (7.1.1) 'vomiting'; प्रवाहिका 'diarrhea'; विवर्चिका 'itch, scab'. Sometimes this affix does not apply; as शिरोर्त्तिः 'head-ache'. Vart:- The affix *nvul* is employed also in simply pointing out the meaning of the roots; thus, आशिका 'to enjoy', शायिका 'lie down' &c. Vart:- The affixes इक् and श्तिप् (that is शप् and तिप्) are also employed in merely pointing out the roots; as भिदिः, छिदिः, पचतिः &c. The constant use of these affixes is to be found in these very *sutras*. In the aphorisms the roots are exhibited in various ways; thus in *sutra* 49 of this chapter we have the root श्रि and यु exhibited as श्रयतिः and यौतिः । These latter forms indicating nothing more than the simple roots. So also, see (8.4.17); (6.4.49). Vart:- The affix कार is employed in merely pointing out letters; as ककारः means 'the letter क'; so also अकारः 'the letter अ'; इकारः 'the letter इ'. Vart:- The affix इफ is employed in pointing out the letter र; as रेफ । Vart:- The affix छ् comes after the word नत्वर्थ in merely pointing it out, and there is elision of the final अ; as मत्वर्थीयः । Vart:- The affix इञ् comes after the verbs अज् & c; as आजिः, आतिः, आदिः । Vart:- The affix इक् comes after the verbs कृष् & c; as, कृषिः, किरिः, &c. Bhashya ------- रोगाख्यायां ण्वुल्बहुलम् (1093) (562 ण्वुल्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.31) (4031 वार्तिकम्॥ 1 ॥) - धात्वर्थनिर्देशे ण्वुल्- (भाष्यम्) धात्वर्थनिर्देशे ण्वुल् वक्तव्यः। का नामासिका अन्येष्वीहमानेषु। का नाम शायिका अन्येष्वधीयानेषु। (4062 वार्तिकम्॥ 2 ॥) - इक्श्तिपौ धातुनिर्देशे- (भाष्यम्) इक्श्तिपावित्येतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ। पचेर्ब्रूहि पचतेर्ब्रूहि। (4063 वार्तिकम्॥ 3 ॥) - वर्णात्कारः- (भाष्यम्) वर्णात्कारप्रत्ययो वक्तव्यः। अकारः॥ (4064 वार्तिकम्॥ 4 ॥) - रादिफः- (भाष्यम्) रादिफो वक्तव्यः। रेफः॥ (4065 वार्तिकम्॥ 5 ॥) - मत्वर्थाच्छः- (भाष्यम्) मत्वर्थाच्छो वक्तव्यः। एवं मत्वर्थीयः॥ (4066 वार्तिकम्॥ 6 ॥) - इञ्ञ् वपादिभ्यः- (भाष्यम्) इञ्ञ् वपादिभ्यो वक्तव्यः। वापिः। आजिः। आतिः। आदिः॥ (4067 वार्तिकम्॥ 7 ॥) - इक् वपादिभ्यः- (भाष्यम्) इञ्ञ् वपादिभ्यो वक्तव्यः। वापिः। वासिः। वादिः॥ (4068 वार्तिकम्॥ 8 ॥) - इक् कृष्यादिभ्यः- (भाष्यम्) इक् कृष्यादिभ्यो वक्तव्यः। कृषिः। किरिः। गिरिः॥ (4069 वार्तिकम्॥ 9 ॥) - संपदादिभ्यः क्विप्- (भाष्यम्) संपदादिभ्यः क्विब् वक्तव्यः। सम्पत् । विपत्। प्रतिपत्। आपत्। परिषत्। रोगाख्या॥ 108 ॥ Kashika ------- रोगाख्यायां गम्यमानायां धातोर्बहुलं ण्वुल् प्रत्ययो भवति। क्तिन्नादीनामपवादः। आख्याग्रहणं रोगास्य चेत् प्रत्ययान्तेन संज्ञा भवति। बहुलग्रहणं व्यभिचारार्थम्। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। न च भवति — शिरोऽर्तिः॥ धात्वर्थनिर्देशे ण्वुल् वक्तव्यः॥ आशिका। शायिका वर्तते॥ इक्श्तिपौ धातुनिर्देशे॥ भिदिः। छिदिः। पचतिः। पठतिः॥ वर्णात् कारः॥ निर्देश इति प्रकृतम्। अकारः। इकारः॥ रादिफः॥ रेफः ॥ मत्वर्थाच्छः॥ अकारलोपश्च। मत्वर्थीयः। इणजादिभ्यः॥ आजिः। आतिः। आदिः॥ इक् कृष्यादिभ्यः॥ कृषिः। किरिः॥ Siddhanta Kaumudi ----------------- प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः ॥ (वार्तिकम्) ॥ आसिका । शायिका ॥ (वार्तिकम्) ॥ पचिः । पचतिः ॥ (वार्तिकम्) ॥ निर्देशे इत्येव । अकारः । ककारः ॥ (वार्तिकम्) ॥ रेफः । मत्वर्थाच्छः ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥ (वार्तिकम्) ॥ आजिः । आतिः ॥ (वार्तिकम्) ॥ वापिः । वासिः । स्वरे भेदः ॥ (वार्तिकम्) ॥ कृषिः । गिरिः ॥ Tattvabodhini ------------- **रोगाख्यायां ण्वुल् बहुलम्** - रोगाख्या । धातोर्बहुलं ण्वुल् स्यात्प्रत्ययान्तं चेद्रोगस्यसंज्ञा । क्तिन्नादीनामपवादः । प्रच्छर्दिकेति । छर्द वमने । प्रवाहिकेति । प्रवाहयति = मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका = ग्रहणी । विचर्चिकेति । चर्च अध्ययने । प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः ।पाम पामा विचर्चिका॑ इत्यमरः । शिरोर्तिरिति । शिरःपीडा । अर्द हिंसायात् ।तितुत्रे॑ति नेट् । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । आसिका । शायिकेति । आसनं, शयनमित्यर्थः । इक्श्तिपौ । धातोर्निर्देशः-अनुकरणम् । बहुलमित्यनुवृत्तेः क्वचिन्न ।गुप्तिज्किद्भ्यः सन्भुवो वुग्लुङ्लिटोः॑ । पचतिरिति ।उपसर्गात्सुनोति सुवतिस्यति॑ध्यायतेः संप्रसारमं चे॑त्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शबादयः । एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्,विभषा लीयतेः॑ इति यथा । तत्र हिलीलीङोर्यका निर्देशो, न तु श्यने॑त्युक्तम् । यत्तु प्राचाश्तिपः शित्करणसामर्थ्याच्छबादय॑ इत्युक्तम् । तन्न । पिबतिर्ग्लायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या , आत्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात् । वर्णादिति । वर्णानुकरणादित्यर्थः । न तु वर्णादुच्चार्यमाणादिति । तथा हि सत्यकार इत्यादावेव स्यान् तु ककार इत्यादौ । अत्र हि सङ्घातस्योच्चारणात् । अनुकार्यं त्विह वर्णमात्रम्, अकारत्सङ्घातादपि भवति,उच्चैस्तरां वा वषट्कारः॑ इति सूत्रनिर्देशात् ।सर्वे चकाराः प्रत्याख्यायन्ते॑ भाष्यप्रयोगाद्बहुलवचनाच्चेति । इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वदिकारस्थत्वात्कृत्संज्ञा । तेन कृदन्तत्वात्प्राप्तिपदिकत्वम् । प्रयोजनाऽभावन्न ककारस्येत्संज्ञा । आर्धधातुकत्वाऽभावादिडागमो न ।अस्य च्वौ॑ इत्यादौ तु कारप्रत्ययाऽभावो बाहुलकादेव । रादिफः । वाऽसरूपविधिना कारोऽपि । तेनरकारादीनि नामानि शृण्वतो मम पार्वति॑ इत्यादि प्रयोगः साधुरेव । अकारलोप इति । अतद्धतपरत्वादभत्वाच्चयस्ये॑ति लोपस्याऽप्राप्तिरिति भावः । कृदन्तत्वात्प्राप्तपदिकत्वमिह पूर्ववद्बोध्यम् ।तसौ मत्वर्थे॑ इत्यत्र बाहुलकाच्छो न ।शैषकान्मतुबर्थीया॑दित्यत्र तु बाहुलकादेव मतुबर्थशब्दाच्छः । अन्ये तु नैतत्कृदन्तं, मत्वर्थे भव इति विगृह्र गहादित्वाच्छप्रत्यये तद्धितान्तमेवेत्याहुः । इणजा । धात्वर्थनिर्देशे प्राप्तस्य ण्वुलऽपवादोऽयम् ।एवमग्नेऽपि । आजिरिति । बाहुलकादजेर्वीभावो न । Padamanjari ----------- आख्याग्रहणमित्यादि । यदि प्रत्ययान्तं रोगस्य नाम भवति, एवं प्रत्ययो भवति, नान्यथेत्येवमर्थमाख्याग्रहणमित्यर्थः । तेन पदान्तरद्योत्ये रोगे न भवति - बुभुक्षा भस्मकेनेति । भस्मको नाम रोगविशेषस्तत्राशितपीतादिकं शरीरस्य व्यापकं न भवति, सर्वदा च बुभुक्षा भवति । बहुलग्रहणं व्यभिचारार्थमिति ।'क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव' इत्ययं व्यभिचारः । प्रच्छदिकेति । विचचिकेति ।'चर्च अध्ययने' प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः, पामा विचचिका । शिरोतिःउशिरस्तोदः । ठर्द हिंसायाम्ऽ,'तितुत्र' इतीडभावः, पूर्वपदस्य रुत्वम्, ठतोरोरप्लुतात्ऽ इत्युत्वम्, आद्गुणःऽ, ठेङः पदान्तादतिऽ । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । इक्शतपौ धातुनिर्देश इति । धात्वनुकरण इत्यर्थः । बहुलवचनाच्च क्वचिन्न भवति -'गुप्तिज्किद्भ्यः सन्' ,'मान्वधदान्शान्भ्यः' इति । श्तिपः शित्करणसामर्थ्यादकर्तृवाचिन्यप्येतस्मिन् शबादयो भवन्ति । एवमभावकर्मवाचिन्यपि । क्वचिद्यगपि भवति, यथा -'विभाषा लीयतेः' , अत्र लीलीङेर्यका निर्देशः कृतः, श्यनि तु लीङ् एव ग्रहणं स्यात्, न तु लीनातेः । कथं पुनः शित्करणस्य सामर्थ्यम्, यावता पिबतिजिघ्रतिरित्यादौ श्तिपि पिबाद्यादेशार्थं ग्लायत्यदावात्वप्रतिषेधार्थं च शित्करणं स्यात् ? एवं तर्हि ठुपसर्गात्सुनोतिसुवतिस्यतिऽ,'विभाषा लीयतेः' ,'भवतेर्ण उपसंख्यानम्' ,'ध्यायतेः सम्प्रसारणं च' इत्येवमादिनिर्देशाच्छबादयो भविष्यन्ति । वर्णादिति । वर्णवाचिनो वर्णानुकरणादित्यर्थः, न तु वर्णादुच्चार्यमाणादिति । किं सिद्धं भवति ? ककार इत्यादौ साच्कादपि संघातात्कारः सिद्धो भवति; अकारस्योच्चारणाथत्वेन वर्णमात्रस्यानुकार्यत्वात् । ककारस्येत्संज्ञा प्रत्योजनाभावान्न भवति । बहुलग्रहणाद् ठस्य च्वौऽ'यस्येति च' इत्यादौ कारप्रत्ययो न भवति । बहुलवचनादेव क्वचिद्वर्णसङ्घातादनुकरणादपि भवति - एककार इति । अधातु विहितत्वेऽपि कारप्रत्ययस्य कृत्संज्ञाधिकारसामर्थ्याद्भवति । तेन कृदन्तत्वात्प्रातिपदिकसंज्ञा भवति, इडागमस्त्वनार्द्धधातुकत्वान्न भवति । किमर्थं पुनः कारप्रत्ययो विधीयते, यावता करणं कारः, अस्य कारोऽकार इत्येवमस्तु ? नैवं शक्यम्; एवं हि विज्ञायमाने ककारकरणमिति न स्यात्, करोतेः पौनरुक्त्यात् । रादिफ इति । कारस्यायमपवादः । कथं तर्हि रकारादानि नामानिऽ? वासरूपविधिना कारोऽपि भविष्यति, पूर्ववत्कृत्संज्ञायां प्रातिपदिकत्वम् । मत्वार्थाच्छ इति । मतुना समानार्थो मत्वर्थस्ततः स्वार्थे च्छः । बहुलवचनादभत्वेऽपि यस्येति लोपः, पूर्ववत्प्रतिपदिकत्वम् । बहुलवचनात्क्वचिन्न भवति, यथा -'तसौ मत्वर्थे' इति । बहुलवचनादेव च मतुबर्थशब्दादपि भवति - शैषिकान्मतुबर्थीयादिति । आजिरिति । बहुलवचनाद्वीभावाभावः । इक्कृष्यादिभ्य इति । धात्वर्थनिर्देशे ण्वुलोऽपवादः ॥ Nyaas ----- `क्तिन्नादीनामपवादः` इति। आदिशब्देनाङादीनाम्।`आख्याग्रहणम्` इत्यादि। यदि प्रत्ययान्तं रोगस्य नाम भवत्येवं प्रत्ययो भवति। नान्यथेत्यस्यास्य संवाद्नायाख्याग्रहणम्। ते पदान्तरवाच्ये रोगे न भवति - बुभुक्षा भस्मकेनेति। `बहुलग्रहणम्` इत्यादि। रोगाख्याया रोगाख्याया अन्यत्रापि ण्वुलो विधानं व्यभिचारः; तदर्थं बहुलग्रहणम्। तेन धात्वर्थनिर्देशेऽपि सिद्धो भवति।अपरोऽर्थः रोगाख्याया विषयाण्ण्वुलो विधेर्योऽन्यत्राप्यस्य लक्षणस्य विषये वृत्तिव्र्यभिचारः सः, तदर्थं बहुलग्रहणम्। तेन `इक्श्तिपौ धातुनिर्दशे`(वा।319) इत्येवमादि सर्वं संगृहीतं भवति। `प्रच्छर्दिका` इति। `छर्द वमने`(धा।1589) चुरादिः। `प्रवाहिका`इति। `वह प्रापणे`(धातुपाठः-1004)। `प्रचर्चिका` इति। `चर्च अध्ययने` (धातुपाठः-1712) चुरादिः। अत्र वहेः क्तिनि प्राप्ते ण्वुल्ितरयोस्तु युचि। `शिरोऽस्तिः` इति। `अर्द हिंसायाम्` (धातुपाठः-1828), `अर्द {गतौ याचने च` -धातुपाठः-} गतौ` (धातुपाठः-55) इति वा। `खरि च` (8.4.54) इति चर्त्वम्। शिरसा सह षष्ठीसमासः, **ससजुषो रुः** (8.2.66) , **अतो रोरप्लुतादप्लुते** (6.1.113) इत्युत्त्वम्, **आद्गुणः** (6.1.87) , **एङः पदान्तादति** (6.1.109) इत्येते विधयः कर्तव्याः। `इक्श्तिपौ`इति। ककारः कित्कार्यार्थः, तेन पचतिरिति सार्वधातुकनिबन्धनः शब्भवति। ननु च कर्त्तृवाचिनि सार्वधातुके शब्विधीयते; न चात्र कर्ता प्रत्ययार्थः;तत्कुतः शपः सम्भवः? सार्वधातुकसंज्ञार्थशित्करणसामाथ्र्यादकर्त्तृवाचिन्यपि सार्वधातुके शब्भविष्यति;अन्यथा हि शित्करणमनर्थकं स्यात्। यद्येवम्, यगपि स्यात्? अनभिधानान्न भविष्यति।`वर्णात्कारः` इति। वर्णादित्युच्यते, तत्रैवकार इति न सिध्यति? बहुलग्रहणसन्निधौ वचनात् क्वचिदवर्णादपि भविष्यतीत्यदोषः। अथ वा करणं कारः, एवस्य कारैति षष्ठीसमासोऽयम्। `मत्वर्थाच्छः` इति। अत्राकारलोपश्च वक्तव्यः। अभसंज्ञत्वद्धि न प्राप्नोति। बहुलग्रहणाद्वाकारलोपो भविष्यति। `इणजादिभ्यः` (इति)। `इक् कृष्यादिभ्यः` इति। अधातुनिर्देशार्थमेतत्। आज्यादयः शब्दाः संज्ञाशब्दा द्रष्टव्याः॥ Prakriyasarvasvam ----------------- रोगनाम्नि स्त्रियां भावे बहुलं ण्वुल् स्यात् । वोरकः । टाप् : प्रच्छर्दिका ॥ Vartika ------- धात्वर्थनिर्देशे ण्वुल् वक्तव्यः । Sutra Prayogas -------------- * **मधुमन्मधुमन्मथसंनिभः** (रघुवंशम्): `संपदादिभ्यः क्विप्` (वार्त्तिक/गणसूत्र) इति क्विप् प्रत्ययः। * **प्रस्कन्दिकामिव** (भट्टिकाव्यम्): `रोगाख्यायां ण्वुल् बहुलम्` इति ण्वुल् ।