33107: ण्यासश्रन्थो युच् ======================== **Padacheda:** णि-आस-श्रन्थः | S | 5 | 1 | युच् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After verbs ending in णि and after आस् 'to sit' and श्रन्थ् 'to loose', there is the affix युच् when the word to be formed is feminine. Vasu English Translation ------------------------ After verbs ending in णि and after आस् 'to sit' and श्रन्थ् 'to loose', there is the affix युच् when the word to be formed is feminine. This excludes the affix अ (3.1.102). Thus कृ + णिच् = कारि; कारि + युच् = कारणा (the इ is elided by (6.4.51)) 'the causing to do'; हारणा 'the causing to take'; आसना 'the sitting'; श्रन्थना 'the loosening'. How do we get the form आस्या ? It is the feminine of आस्य formed by adding ण्यत् to the root आस् by (3.1.124). Is not that rule made non-applicable by rule (3.1.94), which declares that वाऽसरूप rule does not apply to Feminine affixes? Yes, that is, however, not total exclusion. The phrase अस्त्रियाम् in (2.1.9) is to be interpreted thus:- "Non-uniform affixes prohibit each other, when they belong to the class of affixes especially ordained for the feminine nouns; such as the affix क्तिन् (3.3.9), क्यप् (3.3.98), अ (3.3.102): That is to say, an *utsarga*-feminine affix will be always superseded by an *apavada*-feminine affix; but a feminine affix in general will not supersede another affix which is not enjoined in the feminine gender especially. In other words, feminine affixes inter se supersede each other totally, but not so with regard to general कृत् affixes". Now by the present *sutra* the root आस् takes युच्; this totally excludes other feminine affixes like अ (3.1.102); but it does not exclude the non-feminine affix ण्यत् । The root श्रन्थि taken here belongs to the *Kryadi* class, meaning 'to loosen' and is not the श्रन्थ of *Churadi* class, for the latter would be included, as a matter of course, by belonging to the *Churadi* class which class of verbs take the affix णिच् । Vart:- The verbs घट्ट 'to move', वन्द 'to praise', and विद 'to feel', should also be enumerated, as taking युच्. Thus घट्टना 'shaking', वन्दना 'praising', वेदना 'knowledge, feeling, pain'. The verb घट्ट here belongs to the *Tudadi* class, and means 'to move' and not घट्ट of the *Churadi* class, for that is already included by being णिजन्त । Vart:- The affix युच् comes after इष् when it does not mean 'to desire'. Thus अध्येषणा 'solicitation'; अन्वेषणा 'the searching after'. Vart:— So also optionally when इष् takes the *upasarga* परि; as, पर्येषणा or परीष्टिः 'investigation by reasoning'. Bhashya ------- ण्यासश्रन्थो युच् (1092) (561 युच्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आदृ 30) (आक्षेपभाष्यम्) किमर्थश्चकारः॥ (समाधानभाष्यम्) स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्। (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। उदात्त इति वर्तते भुवीरा उदात्तः इति॥ (आक्षेपभाष्यम्) यद्युदात्त इति वर्तते - व्रजयजोर्भावे क्यप् किमर्थः। पकारः॥ (समाधानभाष्यम्) तुगर्थः। ह्रस्वस्य पिति कृतीति॥ (आक्षेपभाष्यम्) उदात्त इत्येव हि वर्तते॥ एवमपि कुत एतत्तदन्तस्योदात्तत्वं भविष्यति,न पुनरादेरिति। (समाधानभाष्यम्) उदात्त इत्यनुवर्तनसार्मथ्यात् यस्य अप्राप्तः स्वरस्तस्य भवति। कस्य चाप्राप्तः। अन्तस्य॥ (प्रयोजनान्तरभाष्यम्) सामान्यग्रहणाविघातार्थस्तर्हि। क्व समामान्यग्रहणाविघातार्थेनार्थः? युवोरनाकाविति। (प्रयोजनान्तरनिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् - सिद्धं तु युवोरनुनासिकवचनादिदि॥ (4058 वार्तिकम्॥ 1 ॥) - युच्प्रकरणे घटि्टवन्दिविदिभ्य उपसंख्यानम्- (भाष्यम्) युच्प्रकरणे घटि्ट्वन्दिविदिभ्य उपसंख्यानं कर्तव्यम्। घट्टना। वन्दना। वेदना॥ (4059 वार्तिकम्॥ 2 ॥) - इषेरनिच्छार्थस्य - (भाष्यम्) इषेरनिच्छार्थस्येति वक्तव्यम्। अन्विष्यते अन्वेषणा॥ (4060 वार्तिकम्॥ 3 ॥) - परेर्वा- (भाष्यम्) परेर्वेति वक्तव्यम्। अन्यां परीष्टिं चर। अन्यां पर्येषणां चर॥ ण्यासश्रन्थो॥ 107 ॥ Kashika ------- ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्यां च स्त्रियां युच् प्रत्ययो भवति। अकारस्यापवादः। कारणा। हारणा। आसना। श्रन्थना। कथमास्या? **ऋहलोर्ण्यत्** (३.१.१२४) भविष्यति। वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्यैवोत्सर्गापवादस्य। श्रन्थिः क्र्यादिर्गृह्यते — **श्रन्थ विमोचनप्रतिहर्षयोः** इति, न चुरादिः — **श्रन्थ ग्रन्थ संदर्भे** इति, ण्यन्तत्वेनैव सिद्धत्वात्॥ घट्टिवन्दिविदिभ्य उपसंख्यानम्॥ घट्टना। वन्दना। वेदना। घट्टेर्भौवादिकस्य ग्रहणं **घट्ट चलने** इति, न चौरादिकस्य **घट्ट संवरणे** इत्यस्य ग्रहणम्, तस्य णेरित्येव सिद्धत्वात्॥ इषेरनिच्छार्थस्य युज्वक्तव्यः॥ अध्येषणा। अन्वेषणा ॥ परेर्वा ॥ पर्येषणा। परीष्टिः॥ Siddhanta Kaumudi ----------------- अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥ (वार्तिकम्) ॥ घट्टना । वन्दना । वेदना ॥ (वार्तिकम्) ॥ अन्वेषणा ॥ (वार्तिकम्) ॥ पर्येषणा । परीष्टिः ॥ Laghu Siddhanta Kaumudi ----------------------- अकारस्यापवादः। कारणा। हारणा॥ Tattvabodhini ------------- **ण्यासश्रन्थो युच्** - आसनेति । आस्यतेऽस्यामिति विग्रहः ।ऋहलोण्र्य॑दिति ण्यत्प्रत्यये त्वास्या । न च स्त्रीप्रत्यये वाऽसरूपविधिर्नेति शङ्क्यम्, अपवादस्य युचः स्त्रीप्करणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात् । घट्टिवन्दि । विदिर्लाभार्थो गृह्रते । ज्ञानार्थस्य तु संवित्तिः । इषेरिति । अनिच्छार्थस्य युच् । इच्छार्थस्य् त्विषेरिच्छेत्येव । Padamanjari ----------- ण्यद्भविष्यतीति । ननु वासरूपविधिना ण्यत्स्यात् स चास्त्रियामिति प्रतिषिद्धः ? तत्राह - वासरूपप्रतिषेधश्चेति । उत्सर्गापवादस्येति । समाहारद्वन्द्वः । द्वयोरप्युत्सर्गापवादयोः स्त्र्यधिकारावस्थितयोरित्यर्थः । घट्टिवन्दिविदिभ्यश्चेति । विदिर्लाभार्थो गृह्यते, न ज्ञानार्थः;'विद चेतनाख्याननिवासेषु' इत्यस्यैव चुरादेर्वेदनेति ज्ञाने सिद्धत्वात् । न च वेतेः क्तिनो निवृत्यर्थं वचनम्; संवितिरिति दर्शनात् । अन्वेषणेति । ठिष आभीक्ष्ण्येऽ ठिषगतौऽ इति वा । युचश्चकारश्चिन्त्यप्रयोजनः, ठुदातःऽ इति हि वर्तते तत्सामर्थ्यादन्तोदातत्वं भविष्यति; प्रत्ययस्वरैणैवाद्यौदातत्वसिद्धेः ॥ Nyaas ----- `अकारस्यापवादः` इति। `अ प्रत्ययात्` (3.3.102) , **गुरोश्च हलः** (3.3.103) इति द्वाभ्यां यथायोगं प्राप्तस्य। `कथमास्या` इति। न कथञ्चित्। अः स्यादासेः, अनेन सूत्रेण युज्वा भविष्यति, नान्य इति भावः। `ऋहलोण्र्यत्` (3.1.124) इत्यादि परिहारः। ननु च वासरूपविधिना ण्यत्प्रत्ययः स्यात्, स च वासरूपविधिः स्त्रियां न भवति, `अस्त्रियाम्` (3.1.94) इति प्रतिषेधात्, तत् किमुच्यते - `ऋहलोण्र्यत्` (3.1.124) इति ण्यद्भविष्य(ती)ति? इत्यत आह - `वासरूप` इत्यादि। एध चार्थस्तत्रैव प्रतिपादितः।`उपसंख्यानम्` इति। प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम् - वक्ष्यमाणं बहुलग्रहणमुभयोरपि योगयोः शेषः, तेन घट्टिप्रभृतिभ्यो भविष्यीति। `वक्तव्यः`इति। व्याख्येय इत्यर्थः। व्याख्यानं तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `अन्वेषणा` इति। `इष गतौ` (धातुपाठः-1127), `इष आभीक्ष्ण्ये` (? ) इति वा॥ Prakriyasarvasvam ----------------- ण्यन्तादासश्रन्थिभ्यां च भावादौ स्त्रियां युच् स्यात् । योरनः । कारि अन । णिलोपः । णत्वम् । कारणा । हारणा । पीडना । पीडा भिदादिः । शासना । पाचना । याजना । बाहुलकाच्छास्यादेः क्तिनपीति माधवः । णेरनिटि शास्तिः । पाक्तिः । व्रश्चादिषः । याष्टिः । चिन्त्यादेर्युजपीष्टः । चिन्तना पूजनेत्यादि । आसश्रन्थ्योः आसना श्रन्थना । बाहुलकादुपास्तिः । आस्येति ण्यदप्यस्ति । (वा० ३-३-१०७) । घट्टना । घटना । वन्दना । वेत्तेर्वेदना । (वा० ३-३-१०७) अन्वेषणा । एषणा । द्वौ समार्थौ । (वा० ३-३-१०७) पर्येषणा । परीष्टिः । अधिपर्योर्वेति भोजः । अध्येषणा । अधीष्टिः ॥ Vartika ------- घट्टिवन्दिविदिभ्यश्चेति वाच्यम् । Sutra Prayogas -------------- * **गुणनिकैव** (शिशुपालवधम्): `ण्यासश्रन्थो युच्` इति युच् प्रत्ययः। * **वाहना** (शिशुपालवधम्): `ण्यासश्रन्थो युच्` इति युच्-प्रत्ययः। * **शोभा** (भट्टिकाव्यम्): `ण्यासश्रन्थो युच्` इति युच् न भवति। * **प्रायोपासनया** (भट्टिकाव्यम्): `ण्यासश्रन्थो युच्` इति युच् ।