33104: षिद्भिदादिभ्योऽङ् ======================== **Padacheda:** षिद्-भिदादिभ्यः | S | 5 | 3 | अङ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes after those verbs that have an indicatory षि and after भिद् when the word to be formed is feminine. Vasu English Translation ------------------------ The affix अण् comes after those verbs that have an indicatory षि and after भिद् when the word to be formed is feminine. Thus जॄष् has an indicatory ष्, the real root being जॄः । From it we have जरा 'old age' (7.4.16); त्रपुष्--त्रपा 'bashfulness'. So also from verbs of *Bhidadi* class we have भिदा 'breaking'; in the alternative we have भित्तिः । So also छिदा 'cutting'; छित्तिः 'cutting'; आरा 'a knife, an iron instrument'; आर्तिः 'distress'; धारा 'a stream'; धृतिः । The list of *Bhidadi* verbs will not be found given in one place in the *Dhatupatha*. They have been collected from different *Ganas*, and are the following:- भिदा, छिदा, विदा, क्षिपा, गुहा (गिर्योषध्योः), श्रद्धा, मेधा, गोधा, आरा, हारा, कारा, क्षिया, भारा, धारा, लेखा, रेखा, चूडा, पीडा, वपा, वसा, मृजा, सृजा, कृपा, (क्रपेः सम्प्रसारणं च)॥ Bhashya ------- षिदि्भदादिभ्योऽङ् (1089) (560 अङ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.29) (4053 वार्तिकम्॥ 1 ॥) - भिदा विदारणे- (भाष्यम्) भिदा विदारण इति वक्तव्यम्। भित्तिरन्या॥ (4054 वार्तिकम्॥ 3 ॥) (- छिदा द्वैधीकरणे- ) (भाष्यम्) छिदा द्वैधीकरणे इति वक्तव्यम्। छित्तिरन्या। (4055 वार्तिकम्॥ 3 ॥) - आरा शस्त्र्याम्- (भाष्यम्) आरा शस्त्र्यामिति वक्तव्यम्। आर्तिरन्या। (4056 वार्तिकम्॥ 4 ॥) - धारा प्रपाते- (भाष्यम्) धारा प्रपात इति वक्तव्यम्। धृतिरन्या। (4057 वार्तिकम्॥ 5 ॥) - गुहा गिर्योषध्योः- (भाष्यम्) गुहा गिर्योषध्येरिति वक्तव्यम्। गूढिरन्या। षिदि्भदा॥ 104 Kashika ------- षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति। गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते? जृष् — जरा। त्रपूष् — त्रपा। भिदादिभ्यः खल्वपि — भिदा। छिदा। विदा। क्षिपा। गुहा गिर्योषध्योः (ग०सू० २९)। श्रद्धा। मेधा। गोधा। आरा। हारा। कारा। क्षिया। तारा। धारा। लेखा। रेखा। चूडा। पीडा। वपा। वसा। मृजा। क्रपेः संप्रसारणं च (ग०सू० ३०)। कृपा। भिदा विदारणे (ग०सू० ३१)। भित्तिरन्या। छिदा द्वैधीकरणे (ग०सू० ३२)। छित्तिरन्या। आरा शस्त्र्याम् (ग०सू० ३३)। आर्तिरन्या। धारा प्रपाते (ग०सू०३४)। धृतिरन्या॥ Siddhanta Kaumudi ----------------- षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः (SK2406) । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (गणसूत्रम् -) क्रपेः सम्प्रसारणं च । कृपा ॥ Tattvabodhini ------------- **षिद्भिदादिभ्योऽङ्** - षिद्भिदा । कथं तर्हिमुखाब्जगन्धलब्धे॑ रिति माघः ।प्रेक्षोपलब्धि॑रित्यमरश्च । षित्त्वादङिलभे॑त्येव ह्रुचितम् । सत्यम् ।अनर्थकास्तु प्रतिवर्णमनुपलब्धे॑ रिति भाष्यप्रयोगाद्बाहुलकाद्वा क्तिन्नपि बोध्यः । विस्तरस्त्विह मनोरमायां बोध्यः । भिदेति । एवमादयोऽदन्ताः समुदाया एव गणे पठन्ते तत्र ये प्रकृतिभागा भिद-छिद इत्यादयस्ते आदिशब्देन सूत्रे निर्दिष्टाः । गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य कवचिदलाक्षणिककार्यस्य सङ्ग्रहार्थः । भित्तिरन्येति । भिद्यत इति भित्तिः = कुडम् । छिदेति । द्वैधीकरण एवायम् । अन्यत्र तु छित्तिश्छिद्रम् । मृजेति । भृजू शुद्धौ, अस्याऽषित्त्वाद्भिदादौ पाठः । Padamanjari ----------- गणपरिपठितेष्विति । गणे तावद्भिदा च्छिदेत्यङ्न्ता एव समुदायाः पठ।ल्न्ते, तेषु भिदिच्छिदिप्रभृतयोऽङ्ः प्रकृतयो यास्ता इह भिदादिशब्देन निर्दिश्यन्त इत्यर्थः । कुत एतत् ? धात्वधिकारात् । भिदादिभ्यो धातुभ्य इति ।'भिदिर्विदारणे' ,'च्छिदिर्द्वैधीकरणे' ,'विद ज्ञाने' ,'क्षिप प्रेरणे' ,'गुहू संवरणे' ,'डुधाञ् धारणपोषणयोः' ,'मिधृ मेधृ हिसासंक्लेशनयोः' , 'ऋ गतौ' ,'हृञ् हरणे' ,'क्षि क्षये' , अथ वा'क्षि निवासगत्योः' ,'तृप्लवनतरणयोः' ,'धृञ् धारणे' ,'लिख अक्षरविन्यासे' ,'चुद प्रेरणे' ,'पीड अवगाहने' ,'डुवप् बीजतन्तुसन्ताने' ,'वस निवासे' ,'मृजूष् शुद्धौ' ,'क्रप कृपायाम्' इत्येते वेदितव्याः । जरेति । ठृदृशोऽङ् गुणिःऽ । गुहा गिर्योषध्योरिति । गिरिशब्देन तदेकदेश उच्यते, अन्यत्र गूढिः, क्तिन्नेव भवति । आरा॥ढारेति । गुणे कृते दीर्घत्वं च निपात्यते । रेखा, लेखेति । लिखेः पक्षे लकारस्य रेफो निपात्यते, गुणश्च । चूडेति । चुदेर्डत्वं दीर्घत्वं च निपात्यते । मितिरन्येति । भिद्यत इति भितिःउकुड।ल्म्, च्छितिःउच्छिद्रम् । आरा शस्त्र्यामिति । शस्त्री शस्त्रजातिः, स्वभावाच्च विशेषः परिगृह्यते । आराउप्रतोदः, अर्यन्ते प्रेर्यन्तेऽनयाश्वा इति कृत्वा । आतिंरन्येति । आङेऽर्तेश्च ठुपसर्गादृति धातौऽ इति वृद्धिः । धार्यते प्रपात्यते इति धारा । धृतिरन्येति । प्रीतिर्धैर्यं च ॥ Nyaas ----- `गणपरिपठितेषु`इत्यादि। भिदादयोऽङन्ता एव गणे पठन्ते, तेभ्योयदि पुनरिहाङ विहितः प्रातिपदिकेभ्यो विहितः स्यात्, तच्चायुक्तें स्यात्, धात्वधिकारात्,तस्माते तेषु याः प्रकृतयोऽवयवभूतास्ता निष्कृष्य पृथक्कृत्वा `षिद्भिदादिभ्योऽङ्` इति भिदादिग्रहणेन निर्दिश्यन्ते। ताः पुनः `भिदिर्विदारणे` (धातुपाठः-1439), `छिदिर्द्वैधीकरणे` (धातुपाठः-1440), `विद ज्ञाने` (धातुपाठः-1064), `क्षिप प्रेरणे` (धातुपाठः-1285), `गुहू संवरणे` (धातुपाठः-896), `डुधाञ् धारणपोषणयोः` (धातुपाठः-1092), `{मिदृ मेधाहिंसनयोः`-धातुपाठः-}{मेदृ सङ्गमे च।धातुपाठः-} मेधृ हिंसासंक्लेशनयोः`(धातुपाठः-868,869), `ऋ गतौ` (धातुपाठः-1098), `ह्मञ् हरणे` (धातुपाठः-899) `हुकृञ् करणे` (धातुपाठः-1472), `क्षि क्षये`(धातुपाठः-236), अथवा `क्षि निवासगत्योः` (धातुपाठः-1407), `तृ प्लवनतरणयोः` (धातुपाठः-969), `घृञ् धारणे` (900), `लिख अक्षरविन्यासे` (धातुपाठः-1365), `चुद {सञ्चोदने-धातुपाठः-}समुच्छ्रये(धातुपाठः-1592), `पीड अवगाहने` (धातुपाठः-1544), `डुवप {बीजतन्तुसन्ताने, छेदनेऽपि#ऋधातुपाठः-} बीजतन्तुसन्ताने` (धातुपाठः-1003), `वस निवासे` (धातुपाठः-1942), `{मृजू-धातुपाठः-}मृजूष् शुद्धौ` (धातुपाठः-1066),`क्रप {कृपायां गत#औ च-धातुपाठः-} (धातुपाठः-771) इत्येते वेदितव्याः। यदि तर्हि प्रकृतयो निर्दिश्यन्ते भिदादीनां गणे पाठोऽनर्थकः? अथ पाठः क्रियते प्रत्ययविधानमनर्थकम्? गणे पाठस्तावन्नानर्थकः; प्रसिद्ध्युपसंग्रहार्थत्वात्। प्रसिद्ध्युसंग्रहस्तु यत्र भिदादयः समुदायाः प्रसिद्धास्तत्रैवैषां साधुत्वं यथा स्यात्, अन्यत्र मा भूदित्येवमर्थः। तेन यदुक्तं भाष्ये `भिदा विदारणे` (ग।सू।29) इत्येवमादि, तदुपपन्नं भवति। न च प्रत्ययविधानमनर्थकम्; असन्देहार्थत्वात्। असति हि तस्मिन् सन्देहः स्यात -किमेषु **इगुपधज्ञाप्रीकिरः कः** (3.1.135) इत्येवमादिना लक्षणान्तरेण कप्रभृतादयः प्रत्यया विहिताः? उताङ्प्रत्यय एव? इति। ततर्पूर्वस्मिन् पक्षे स्त्रीत्वविवक्षायां क्तिन् प्रसज्यते, कस्मात्? असन्देहार्थत्वात्। अतः प्रत्ययविधानं नानर्थकम्।`आरा` इति। **ऋदृशोऽङि गुणः** (7.4.16) । `गुहा गिर्य्योषध्योः`इति। गुहाशब्दो गिर्य्योषध्योरेव साधुर्भवति, नान्यत्र। गिरिशब्दश्चात्र `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते` (व्या।पा।सू।85) इत्येकदेशे वर्तते। गुहेति गिरेः कश्चिदेवैकदेश उच्यते। गुहा नामौषधिः। अन्यत्र गुहेः क्तिन् भवति - गूढिरिति। `हो ढः` (8.2.31) , `झतस्तथोर्घोऽघः` (8.2.40) , **ष्टुना ष्टुः** (8.4.41) **ढो ढे लोपः** (8.3.13) , **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) । `हारा, कारा, धारा`इति। गुणे कृते दीर्घत्वं निपात्यते। `लेखा, रेखा` इति। लिखेर्गुणो निपात्यते। पक्षे लकारसय् रेफश्चादेशः। `चूडा` इति। चोदयतेर्डत्वादेशो निपात्यते, उपधाया दीर्घश्च। `आरा शस्त्र्याम्िति। आराशब्दः शस्त्र्यां साधुर्भवति, अत्रापि गुणे कृते दीर्घत्वं निपात्यते। `आर्त्तिरन्या` इति। अर्तेराङपूर्वस्य क्तिन्। **उपसर्गादृति धातौ** (6.1.91) इत्येकादेशः, रपरत्वम्। `धारा प्रपाते` इति। यत्र प्रपातनं तत्र धारेति, यथा - जलधारा, क्षीरधारेति॥ Prakriyasarvasvam ----------------- षिद्भ्यो धातुभ्यो भिदादिभ्यश्चाङ् स्यात् । त्रपूष् त्रपा । लभष्, लभा । ज् प् ।। Vartika ------- क्रपेः सम्प्रसारणं च । Sutra Prayogas -------------- * **जरसा** (रघुवंशम्): `षिद्भिदादिभ्योऽङ्` इत्यङ्प्रत्ययः। * **भिदां** (किरातार्जुनीयम्): `षिद्भिदादिभ्योऽङ्` इत्यङ्प्रत्ययः। * **भिदाम्** (किरातार्जुनीयम्): `षिद्भिदादिभ्योऽङ्` इत्यङ्प्रत्ययः। * **भिदाम्** (किरातार्जुनीयम्): `षिद्भिदादिभ्योऽङ्` इति अङ्-प्रत्ययः। * **भिद** (शिशुपालवधम्): `षिद्भिदादिभ्योऽङ्` इति अङ्प्रत्ययः। * **भिदाभृतः** (शिशुपालवधम्): `षिद्भिदादिभ्योऽङ्` इति अङ्प्रत्ययः। * **अवतमसभिदायै** (शिशुपालवधम्): `षिद्भिदादिभ्योऽङ्` इति अङ्प्रत्ययः। * **खड्गलेखाः** (शिशुपालवधम्): `षिद्भिदादिभ्योऽङ्` इति अङ्प्रत्ययः। * **मृजा** (भट्टिकाव्यम्): `पिद्भिदादिभ्योऽङ्` इति अङ् प्रत्ययः।