33094: स्त्रियां क्तिन् ======================= **Padacheda:** स्त्रियाम् | S | 7 | 1 | क्तिन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- To express an action etc. by a word in the feminine gender, the affix क्तिन् is added to the root. Vasu English Translation ------------------------ To express an action etc. by a word in the feminine gender, the affix क्तिन् is added to the root. The conditions of rules (3.3.18) and (3.3.19) are understood here also. This supersedes घञ्, अच् and अप् affixes. Thus कृतिः 'action'; चितिः 'a gathering'; मतिः 'understanding'. Vart:- The affix *ktin* should be declared to come after the verbs आप् 'to get' &c. There is no list of these words given anywhere, but by seeing the form, we can infer the affix. Thus आप्तिः 'getting'; राद्धिः 'accomplishment'; दीप्तिः 'shining'; स्रस्तिः 'a slip'; ध्वस्तिः 'destruction'; लब्धिः 'gain'. Vart:- So also after the verbs श्रु 'to hear', यज् 'to worship' and स्तु 'to praise', when instrument is meant; as श्रुतिः 'ear' (that by which we hear); so इष्टिः 'a sacrifice'; स्तुतिः 'a praise. Vart:- The affix नि comes after the verbs ग्लौ 'to be exhausted', म्लै 'to fade', ज्या 'to grow old' and हा 'to leave'; as ग्लानिः 'exhaustion'; म्लानिः 'fading', ज्यानिः 'old age'; हानिः 'loss'. Vart:- The affix क्तिन् coming after verbs ending in long ॠ and the verbs लू &c. is like a *Nishtha*. Thus कीर्णिः 'scattering': This form is thus evolved: कॄ + क्तिन् = कि + ति (7.1.100) = किर् + ति (1.1.51) = कीर् + ति (8.2.77). At this stage, त is changed into न by the affix being treated as a *Nishtha* (8.2.42), and this न is changed into ण by the ordinary rules of *sandhi*; so also गीर्णिः 'praise'; जीर्णिः 'old age'; शीर्णिः 'drying'; लूनिः (8.2.44) 'cutting'; यूनिः 'joining'; धूनिः 'agitation'; पूनिः 'destruction'. Vart:- The affix क्विप् comes after the verbs सम्पत् & c; as सम्पत् 'prosperity'; विपत् 'a calamity'; प्रतिपत् 'access'. The affix क्तिन् is also employed after these verbs:-- as, सम्पत्तिः, विपत्तिः । The verbs लू &c. are 21 verbs of *kryadi* class. Bhashya ------- स्त्रियां क्तिन् (1079) (555 क्तिन्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.24) (4043 वार्तिकम्॥ 1 ॥) - स्त्रिया क्तिन्नाबादिभ्यश्च- (भाष्यम्) स्त्रियां क्तिनित्यत्र आबादिभ्यश्चेति वक्तव्यम्। आप्तिः। राद्धिः। दीप्तिः॥ (4044 वार्तिकम्॥ 2 ॥) - निष्ठायां वा सेटोऽकारवचनात्सिद्धम्- (भाष्यम्) अथ वा निष्ठायां सेटः अकारो भवतीति वक्तव्यम्॥ (आक्षेपभाष्यम्) यदि निष्ठायां सेटोऽकारो भवतीत्युच्यते। स्रंसाध्वंसेति न सिध्यति। स्रस्तिः ध्वस्तिरिति प्राप्नोति। (प्रत्याक्षेपभाष्यम्) किं पुनरिदं परिगणनं त्रय एवाबादयः। आहो स्विदुदाहरणमात्रम्। किं चातः। (प्रत्याक्षेपसमाधानभाष्यम्) यदि परिगणनम्, भेदो भवति। अथोदाहरणमात्रम्, नास्ति भेदः। (समाधानभाष्यम्) स्रस्तिः ध्वस्तिरित्येव भवितव्यम्॥ स्त्रियां क्तिन् ॥ 94 ॥ Kashika ------- भावेऽकर्तरि च कारक इति वर्तते। स्त्रीलिङ्गे भावादौ धातोः क्तिन् प्रत्ययो भवति। घञजपामपवादः। कृतिः। चितिः। मतिः॥ क्तिन्नाबादिभ्यश्च वक्तव्यः॥ आबादयः प्रयोगतोऽनुसर्तव्याः। आप्तिः। राद्धिः। दीप्तिः। स्रस्तिः। ध्वस्तिः। लब्धिः ॥ श्रुयजिस्तुभ्यः करणे॥ श्रूयतेऽनयेति श्रुतिः। इष्टिः स्तुतिः॥ ग्लाम्लाज्याहाभ्यो निः॥ ग्लानिः। म्लानिः। ज्यानिः। हानिः॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद् भवतीति वक्तव्यम्॥ कीर्णिः। गीर्णिः। जीर्णिः। शीर्णिः। लूनिः। धूनिः॥ संपदादिभ्यः क्विप्॥ संपत्। विपत्। प्रतिपत्॥ क्तिन्नपीष्यते॥ संपत्तिः। विपत्तिः॥ Siddhanta Kaumudi ----------------- स्त्रीलिङ्गे भावादौ क्तिन् स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधते । कृतिः । चितिः । स्तुतिः । स्फायी । स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥ (वार्तिकम्) ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च । इष्टिः । स्तुतिः । (वार्तिकम्) ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लादः (SK3073) इति योगविभागात् क्तिनि ह्रस्वः । प्रह्लन्निः । ति च (SK3037) चूर्तिः । फुलति ॥ (वार्तिकम्) ॥ अपचितिः ॥ (वार्तिकम्) ॥ सम्पत् । विपत् ॥ क्तिन्नपीष्यते ॥ सम्पत्तिः । विपत्तिः ॥ Laghu Siddhanta Kaumudi ----------------------- स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञोऽपवादः। कृतिः। स्तुतिः। **ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः** (वार्त्तिकम्)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। **संपदादिभ्यः क्विप्** (वार्त्तिकम्) । संपत्। विपत्। आपत्। **क्तिन्नपीष्यते** (वार्त्तिकम्)। संपत्तिः। विपत्तिः। आपत्तिः॥ Tattvabodhini ------------- **स्त्रियां क्तिन्** - स्त्रियां क्तिन् । घञोऽपवाद इति । यत्तु प्रक्रियाग्रन्थं व्याचक्षाणा आहुः — ॒भाष्ये त्वधिकः कारोऽधिकार॑ इति घञप्युदाहृत॑ इति, तद्रभसात् । न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः, किंतु पुंस्त्वविशिष्ट इति ध्येयम् । अजपौ त्विति । तयोरवकाशः — चयः । लवः । क्तिनोऽकाशः — कृतिः । ह्मतिः । चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः । [प्रामादिकम् ।स्फायः स्फी निष्ठायाटमिति निष्ठायामेव स्फीभावविधानादिति भावः] । श्रुयजीति । परत्वात्करणाधिकरणयोश्चे॑ति ल्युटि प्राप्ते वचनम् । श्रुतिः -श्रोत्रम् । यजेरिति । यजेः क्तिनिवचिस्वपी॑ति संप्रसारणेव्रश्चभ्रस्जे॑ति षत्वे इष्टिरिति रूपम् । इज्यतेऽनयेति विग्रहःओ । एवमिष्यतेऽनया इष्टिः । स्तूयतेऽनया स्तुतिः । तेन नत्वमिति । कीर्णिरित्यादौरदाभ्या॑मित्यनेन नत्वम् । लूनिरित्यादौ तुल्वादिभ्यः॑ इत्यनेनेति विवेकः । ह्लाद इति ।ह्लादो निष्ठाया॑मित्यत्रेत्यर्थः । चूर्तिरिति ।ति चे॑ति चरफलोरुत्वेर्वोरुपधाया दीर्घः॑ इति दीर्घः । चायतेः । चायृ पूजानिशामनयोः] । क्तिन्नपीति । अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरबाधादिदमुक्तम् । Padamanjari ----------- घञजपामपवाद इति । येन नाप्राप्तिन्यायेन घञोपवादः, अजपोस्तु परत्वादपवादो बाधक इत्यर्थः । उक्तं च ठजव्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनेऽ इति । अजपोरवकाशः -चयः, जयः, लव इति, क्तिनोऽवकाशः - कृतिः, दृतिः, चितिः, स्तुतिरित्यत्रोभयप्राप्तौ क्तिन् भवति विप्रनिपेधेन । लब्धिः । षित्वादङपि भवति - लभेति । ननु निष्ठायां वा सेटोऽकारवचनात्सिद्धमिति ब्रुवतो वातिककारस्य'गुरोश्च हलः' इत्यकारप्राप्तावेवाबादिभ्यश्चेति क्तिन्नभिमत इति गम्यते, तत्कथमङ्विषये क्तिन्नुदाहृतः ? सत्यम् ; प्रयोगबाहुल्यादिदमपि भवतीति मन्यते । एवं च युज्विपयेऽपि क्तिन्प्रयुज्यते - आस्तिरिति । अत एवाबादयः प्रयोगतोऽनुसर्तव्या इत्युक्तम् । श्रुयजिस्तुभ्यः करण इति । ल्युटि प्राप्ते वचनम्, श्रुतिः श्रोत्रम्, इज्यतेऽनया देवता इष्टिः । ऋकारल्वादिभ्य इति । ऋकारान्तेभ्यो ल्वादिभ्यश्च परः क्तिन्निष्ठाकार्यं लभते - रदाभ्यां निष्ठातो नःऽ,'ल्वादिभ्यः' इति च; निष्टायां विधीयमानं नत्वं क्तिनोऽपि भवतीत्यर्थः । क्तिन्नपीष्यते इति । ठस्त्रियाम्ऽ इति प्रतिपेधाद्वासरूपविधेरभावादिदमुक्तम् ॥ Nyaas ----- `भावादौ` इति। आदिशब्देनाकर्त्तुः कारकस्योपादानम्। `घञजपामपवादः` इति। य इकारान्तास्तेभ्योऽचोऽपवादः, य ऋकारान्ता उवर्णान्ताश्च, तेभ्योऽपः, शेषेभ्यो घञः।वक्तव्य इति। व्याख्येय इत्यर्थः। व्याख्यानं तु **कृत्यल्युटो बहुलम्** (3.3.113) इत्येतदाश्रित्य कर्तव्यम्। `आप्तिः` इत्यादि। `आप्लृ व्याप्तौ` (धातुपाठः-1260), `राध साध संसिद्धौ` (धातुपाठः-1262), `दीपी दीप्तौ` (धातुपाठः-1150), `रुआन्सु ध्वन्सु अवरुआंसने` (धातुपाठः- 754,755) `डुलभष् प्राप्तौ` (धातुपाठः-975)। लभेति षित्त्वात् `षिद्भिदादिभ्योऽङ` (3.3.104) इत्यङि प्राप्ते शेषेभ्यस्तु गुरुत्वात् **गुरोश्च हलः** (3.3.103) इत्यकारे क्तिन विधीयते। `इष्टिः` इति। वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्।`कीर्णिः,गीर्णिः, शीर्णिः` इति। `ऋत इद्धातोः` (7.1.100) इतीत्त्वम्, रषादिसूत्रेण (8.4.1) णत्वम्। यथा `रदाभ्याम्` (8.2.42) इत्यादिना कीर्ण इति निष्टायास्तकारस्य नत्वं भवति, तथेहापि क्तिनः। यथा **ल्वादिभ्यः** (8.2.44) इति लून इत्यत्र निष्ठातकारस्य नत्वं तथा `लूनिः, यूनिः`इत्यात्रापि क्तिनः॥ Prakriyasarvasvam ----------------- धातोर्भावाद्यर्थेषु स्त्रीलिङ्गे क्तिन् स्यात् । कित्त्वादगुणः । कृतिः । हृत्तिः । सेटामपि ‘तितुत्र—’(७-२-९) इत्यनिट्त्वम् । भूतिः वृष्टिः । ‘ग्रहस्निहकुचपठवदभण- दीधीमेधादिभ्यः क्तेरिडि’ति भोजः । ‘ग्रहोऽलिटि—’ (७-२-३७) इति दीर्घः । प्रसारणम् । गृहीतिः । स्निहितिः । निकुञ्चनं निकुचितिः । पठितिः । यजादित्वादुट्वम् । उदितिः । भणितिः । दीधी दीप्त्यर्थः । दीधी इ ति ॥ Vartika ------- निष्ठायां सेट इति वक्तव्यम् । Sutra Prayogas -------------- * **धृतेः** (रघुवंशम्): `स्त्रियां क्तिन्` इति धातोः स्त्रियां क्तिन्। * **सुकृतिभिः** (किरातार्जुनीयम्): `स्त्रियां क्तिन्` इति क्तिन्-प्रत्ययः। * **निरुद्यतिः** (भट्टिकाव्यम्): `स्त्रियां क्तिन्` इत्युत्पूर्वाद्यमेः क्तिन् अनुनासिकलोपः। * **सृष्टिर्विश्वकर्मणः** (भट्टिकाव्यम्): `कर्मणि स्त्रियां क्तिन्` इति क्तिन्। * **उद्यतिः** (भट्टिकाव्यम्): `यमेः स्त्रियां क्तिन्` इति क्तिन् प्रत्ययः।