33041: निवासचितिशरीरोपसमाधानेष्वादेश्च कः ========================================= **Padacheda:** निवास-चिति-शरीर-उपसमाधानेषु | S | 7 | 3 | आदेः | S | 6 | 1 | च | S | 0 | 0 | कः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix घञ् comes after the roots चि 'to collect' and क is the substitute of the initial च in these senses viz. - 1. 'a dwelling' 2. 'a fire on the funeral pile' 3. 'the body' 4. 'collection'. Vasu English Translation ------------------------ The affix घञ् comes after the roots चि 'to collect' and क is the substitute of the initial च in these senses viz. - 1. 'a dwelling' 2. 'a fire on the funeral pile' 3. 'the body' 4. 'collection'. That in which people dwell (निवसति) is called निवासः or 'dwelling'. That which is gathered together (चीयते) is called चिति or 'funeral pile'. शरीर means the body of all living beings; and उपसमाधान means making a heap. Thus निकाय 'a dwelling'; as in काशीनिकायः '*Kasi*-dwelling'; आकायमग्निं चिन्वीत 'let him arrange the *akaya* fire i.e. the funeral fire'; कायः 'body', as अनित्यः कायः 'a perishable body'; महान् गोमयनिकायः 'a heap of cow-dung'. Why do we say 'when having these senses'? Observe चयः 'gathering'. Why is not this rule applied in महान् काष्ठनिचयः 'a large heap of wood'? Here multiplicity is expressed and not collection or aggregation. Kashika ------- चेरित्येव। निवसन्त्यस्मिन्निति निवासः। चीयतेऽसौ चितिः। पाण्यादिसमुदायः शरीरम्। राशीकरणमुपसमाधानम्। एतेष्वर्थेषु चिनोतेर्घञ् प्रत्ययो भवति, धातोरादेश्च ककार आदेशः। निवासे तावत् — चिखल्लिनिकायः। चितौ — आकायमग्निं चिन्वीत। शरीरे — अनित्यकायः। उपसमाधाने — महान् गोमयनिकायः। एतेष्विति किम्? चयः। इह कस्माद् न भवति — महान् काष्ठनिचयः? बहुत्वमत्र विवक्षितं नोपसमाधानम्॥ Siddhanta Kaumudi ----------------- एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥ Tattvabodhini ------------- **निवासचितिशरीरोपसमाधानेष्वादेश्च कः** - आकायमिति । आचीयन्तेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अग्निम् = अग्निस्थानविशेषं, चिन्वीत = चयनेन निष्पादयेदिति श्रुत्यर्थः । Padamanjari ----------- एतेष्वर्थेष्विति । अत्रोपसमाधानं धात्वर्थः, अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । चिखल्लिनिकाय इति । चिखल्लिः - जनपदविशेषः, तत्सम्बन्धी ग्रामादिर्निवासदेश इत्यर्थः । आकायमिति । आचीयतेऽस्मिन्नष्टका इत्यधिकरणे घञ् । काय इति । चीयन्तेऽस्मिन्नस्थ्यादीनि, अधिकरण एव घञ् । गोमयनिकाय इति । प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थः । बहुत्वमत्र गम्यते इति । तत्र तत्र विक्षिप्तानामेव काष्ठानामित्यर्थः ।'चः कः' इति वक्तव्ये आदेरिति वचनं यङ्लुगन्तेऽप्यादेरेक्यथा स्याद्, अनन्त्यस्याभ्यासस्य चोभयोर्मा भूदिति - गोमयानां निकेचायः, गोमयानां पुनः पुना राशीकरणमित्यर्थः ॥ Nyaas ----- `राशीकरणम्` इति। प्रकीर्णस्यैकत्रकरणमित्यर्थः। `चिखल्लिनिकायः` इति। चिखल्लिर्जनपदः, तस्य निकायः = निवासः। अथादिग्रहणं किम्? अर्थस्य मा भूत्। यद्येवम्, `चः कः` इति वक्तव्यम्? एवं तर्हि यदा यङ्लुगन्तादुत्पद्यते तदा `{अन्त्याभावे अन्त्यसदेशस्य` शाक।प।}अन्त्यविकारेऽन्त्यसदेशस्य` (शाक।प।56) इति द्वितीयस्य चकारस्य मा भूदित्यवमर्थमादिग्रहणम्॥ Prakriyasarvasvam ----------------- एषु वाच्येषु चेर्घञ् आदेः कत्वं च । निकायो गृहम् । आकायोऽग्निचिदिति भेदः । आर्ज्यतेऽनेन कर्मेति कायो देहः । उपसमाधानं राशिः । तृणनिकायः । 'राशौ वे'ति भोजः । तेन तृणनिचयोऽपि ॥ Sutra Prayogas -------------- * **रक्षो-निकायेषु** (भट्टिकाव्यम्): `निवास - चिति` इति अधिकरणे घञ्।