32180: विप्रसम्भ्यो ड्वसंज्ञायाम् ================================= **Padacheda:** वि-प्र-सम्-भ्यः | S | 5 | 3 | डु | S | 1 | 1 | असंज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix डु comes after the verb भू 'to be' when it is preceded by the उपसर्ग वि , प्र and सम् provided that the word to be formed does not mean an appellative. Vasu English Translation ------------------------ The affix डु comes after the verb भू 'to be' when it is preceded by the उपसर्ग वि , प्र and सम् provided that the word to be formed does not mean an appellative. As विभुः 'all pervading'; प्रभुः 'lord'; सम्भुः 'Creator'. Why do we say 'when it is not a proper name'? Observe विभूः 'a person called *Vibhu*'. Vart:- The words मितद्रु &c, also are formed by this affix. As मितद्रु 'the sea'; शम्भुः 'causing happiness'. Why have we applied डु and not क्विप् to this root, as the forms would have been the same in either case? We have done so for two purposes: (1) To prevent the rules relating to *dhatus* from applying to this. (2) To prevent the insertion of तुक् augment. Thus the Ist. dual of मितद्रु is मितद्रू, Ist. pl. is मितद्रवः । Here there is no substitution of उकङ् which the rule (6.4.77) required, if द्रु had retained its *dhatu* characteristic; so also this rule of accent in (6.1.175) does not apply to Instrumental sing. मितद्र्वा &c, (2.) We have no त् which rule (6.1.71) required. मितं द्रवति = मितद्रुः । Bhashya ------- विप्रसंभ्यो ड्वसंज्ञायाम् (957) (532 डुप्रत्ययविधिसूत्रम् ॥ 3 । 2 । 3 आ.13) (3085 वार्तिकम् ॥ 1 ॥) - डुप्रकरणे मितद्रावादिभ्य उपसंख्यानं धातुविधितुक्प्रतिषेधार्थम्- (भाष्यम्) डुप्रकरणे मितद्रावादिभ्य उपसंख्यानं कर्तव्यम्। किं प्रयोजनम्?। धातुविधितुक्प्रतिषेधार्थम्। धातुविधेस्तुकश्च प्रतिषेधो यथा स्यात्। मितद्रुः मितद्रू मितद्रवः। अचिश्नुधातुभ्रुवाम् इत्युवङादेशो भा भूत्। इह च मितद्रूवा। मितद्रवे - नोङ्धात्वोः इति प्रतिषेधो मा भूत् ॥ तुग्विधि - मितद्रुः। हस्वस्य पिति कृति तुग् इति तुङ् मा भूदिति ॥ विप्रसंभ्योदृ ॥ 180 ॥ Kashika ------- भुव इति वर्तते। वि प्र सम् इत्येवंपूर्वाद् भवतेर्धातोर्डुप्रत्ययो भवति, न चेत् संज्ञा गम्यते। विभुः सर्वगतः। प्रभुः स्वामी। संभुर्जनिता। असंज्ञायामिति किम्? विभूर्नाम कश्चित्॥ डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम्॥ मितं द्रवति मितद्रुः। शंभुः॥ Siddhanta Kaumudi ----------------- एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभूर्व्यापकः । प्रभुः स्वामी । संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् । (वार्तिकम्) ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥ Balamanorama ------------ **विप्रसम्भ्यो ड्वसंज्ञायाम्** - विप्रसंभ्यः ।डु- अ- संज्ञाया॑मिति छेदः । विभुरिति । डित्तवसमाथ्र्यादभस्यापि टेर्लोपः । सप्भुरिति । संभवति उत्पादयतीति सम्भुः । तदाह — जनितेति । मितद्व्रादिसिद्द्ध्यर्थं डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः । शम्भुरिति । शं = सुखं , भवति = उत्पादयतीत्यर्थः । तदेवोपपादयति - अन्तर्भावितेति । Padamanjari ----------- विप्रसंभ्यो ङ्वसंज्ञायाम्॥ मितद्रवादिभ्य इति। मितादिपूर्वेभ्यो धातुभ्य इत्यर्थः। शम्भुरिति। अन्तर्भावितण्यर्थोऽत्र भवतिः॥ Nyaas ----- `विभुः` इति। पूर्वेण क्विबेव भवति।`मितद्रवादिभ्य उपसंख्यानम्` इति। आविशेषेण - संज्ञायाम्, असंज्ञायाञ्च। `मितद्रवादिभ्यः`इति तादर्थ्ये चतुर्थी। मितद्रवादयो डुप्रत्ययान्ताः साधवो यथा स्युरित्येवमर्थः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तच्व प्रतिपादनं प्रकृतत्वाड्डुशब्दस्य। तत्रेदं प्रतिपादनम् - **अन्येभ्योऽपि दृश्यते** (3.3.130) इत्यतोऽपि शब्दोऽत्रानुवर्तते, तेन मितद्रवादिब्यो डुप्रत्ययो धात्वन्तरादपि भवति, पदान्तरे चेति॥ Prakriyasarvasvam ----------------- एभ्यः परस्य भुवोऽसंज्ञायां डुः स्यात् । डित्त्वाट्टिलोपः । विभुः प्रभुः । सम्भूः उद्भविता । संज्ञायां तु विभुः कश्चिन्मित्रद्रुवादिरिहेष्यते । मित्रानुगामी मित्रद्रुः शम्भुः शंरूपको भवन् ॥ १३२ ॥ मण्डूकार्थस्तु वर्षाभूरुदन्तश्चेदनेन डुः । ऊदन्तत्वे तु संज्ञोक्तः क्विब् द्वेधाप्याह माधवः ॥ १३३ ॥ एवं कृपां लात्यादत्ते कृपालुरिति दुर्भवेत् । स्पर्धालुश्चैवमुन्नेयः स्वयंभूश्चेति कौमुदी ॥ १३४ ॥ Vartika ------- डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् । Sutra Prayogas -------------- * **उपसेदुषस्** (भट्टिकाव्यम्): `भाषायां सद-वस-` इत्यादिना वसुः।