32179: भुवः संज्ञाऽन्तरयोः ========================== **Padacheda:** भुवः | S | 5 | 1 | संज्ञा-अन्तरयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्विप् comes after the verb भू 'to be' when the word so formed denotes a name or surety. Vasu English Translation ------------------------ The affix क्विप् comes after the verb भू 'to be' when the word so formed denotes a name or surety. As, विभूः 'a person called *Vibhu*'; प्रतिभूः 'a surety i. e. he who stands intermediate between the debtor and the creditor'. Kashika ------- भवतेर्धातोः संज्ञायामन्तरे च गम्यमाने क्विप् प्रत्ययो भवति। विभूर्नाम कश्चित्। अन्तरे — प्रतिभूः। धनिकाधमर्णयोरन्तरे यस्तिष्ठति, स प्रतिभूरुच्यते॥ Siddhanta Kaumudi ----------------- मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥ Balamanorama ------------ **भुवः संज्ञाऽन्तरयोः** - भुवः संज्ञान्तरयोः ।क्वि॑बिति शेषः ।संज्ञान्तरयोरेवेति॑ नियमार्थं सूत्रम् । संज्ञायामुदाहरति — मित्रभूर्नामेति । अन्तरे उदाहरति — धनिकेत्यादि । यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः । Tattvabodhini ------------- **भुवः संज्ञाऽन्तरयोः** - भुवः संज्ञा । धनिकेत्यादि । तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः । एतच्च दृशिग्रहमाऽनुवृत्त्या लभ्यते । नन्वेवं प्रतिभूशब्द संज्ञेति फलितं, तत्रसंज्ञाया॑मित्येव सिद्धं किमन्तरग्रहणेन । अत्राहुः- यावद्द्रव्यभाविन्यः संज्ञाः । प्रतिभूशब्दस्तु सत्येव तस्मिन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति । शं सुखं भावयतीति शम्भुरित्यर्थाभ्युपगमेनाह — अन्तर्भावितेति । शं भवति= सुखस्वरूपो भवतीति शम्भुरित्यन्ये । सं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाऽभावाच्चिन्त्येति माधवः । Padamanjari ----------- भुवः संज्ञान्तरसोः॥ धनिकाधमर्णयोरिति। यस्मै ऋणं धार्यते स धनिकः, यो धारयति सोऽधमर्णः, तयोरन्तरे मध्ये यस्तिष्ठति विश्वासार्थ स प्रतिभूरित्युच्यते। ग्रामयोरन्तरे यस्तिष्ठति तत्र न भवति। एतच्च द्दशिग्रहणानुवृतेर्लभ्यते। यद्येबम्, संज्ञेयं भवति, तत्र'संज्ञायाम्' इत्येव सिद्धम्? अत्राहुः - -यावद्भव्यभाविन्यः संज्ञा भवन्ति, प्रतिभूशब्दस्तु सत्येव तस्मिन्नृणप्रतिदाने निवर्तते॥ Prakriyasarvasvam ----------------- नाम्नि मध्यस्थे च वाच्ये भुवः क्विप् । अग्निभूः स्कन्दः । वर्षाभूः पुनर्नवाः नामौषधिः । ऋणदाने मध्यस्थः प्रतिभूः ॥ Sutra Prayogas -------------- * **स्वयंभुवा** (कुमारसम्भवम्): `भुवः संज्ञान्तरयोः` इति क्विप्।