32178: अन्येभ्योऽपि दृश्यते =========================== **Padacheda:** अन्येभ्यः | S | 5 | 3 | अपि | S | 0 | 0 | दृश्यते | T | | | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्विप् comes in the sense of 'agent having such a habit etc.' after the verbs other than those seen above. Vasu English Translation ------------------------ The affix क्विप् comes in the sense of 'agent having such a habit etc.' after the verbs other than those seen above. As युज्, Ist. sing. युक् 'joining'; छित् 'piercing'; भित् 'dividing'. By using the words 'is seen' in the aphorism, it is implied that other rules also apply concurrently with क्विप्. Thus in some cases we find lengthening of the vowel; in some, there is reduplication of the root; in some instances there is *samprasarana* of the semivowel; and in other cases there is not. Vart:- When क्विप् follows, the long vowel is the substitute of वच् 'to speak', प्रच्छ् 'to ask', आयतस्तु 'to praise long', कटप्रु 'to move through a mat', जु 'to move rapidly', and श्री 'to serve', and there is no substitution of a vowel for the semivowel (6.1.16). As, वाक् 'the voice'; प्रच्छ् + क्विप् = प्रश् + क्विप् (6.1.10) = प्रष् + क्विप् (8.2.36) = प्राट् (8.4.56) 'who asks'; आयतस्तूः 'who praises long'; कटप्रूः 'a worm'; जूः 'swift'; श्रीः 'the goddess *Lakshmi*'. The word जु which was mentioned in the last *sutra* is redundant here. Vart:- There is reduplication of the verbs द्युत् 'to shine', गम् 'to go' and हु 'to invoke', when क्विप् follows. As, विद्युत् 'shining'; जगत् 'going, the world'. Vart:- There is lengthening also of the vowel of जुहुः as जुहूः 'a crescent-shaped wooden ladle used for pouring the sacrificial ghee into the fire'. Vart:- The root टृ 'to tear' is shortened also; as दटृत् 'tearing'. Vart:- The verb ध्या 'to think' has *samprasarana*; as धीः 'thinking'. Bhashya ------- अन्येभ्योऽपि दृश्यते (955) (531 क्विप्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 3 आदृ 12) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। न क्विप् चान्येभ्योपि दृश्यते इत्येव सिद्धम्। (3080 वार्तिकम्॥ 1 ॥) - क्विब्विधिरनुपपदार्थः- (भाष्यम्) अनुपपदार्थोयमारम्भः। पचेः पक्। भिदेः भित्। छिदेः छित्। (आक्षेपभाष्यम्) अथ योत्र सोपपदस्तस्य ग्रहणं किमर्थम्। न तेनैव सिद्धम्। (समाधानभाष्यम्) न सिध्यति। इह केचिद् आ क्वेः इति सूत्रं पठन्ति। केचित् प्राक् क्वेः इति । तत्र ये आक्वेः इति पठन्ति तैः क्विबप्याक्षिप्तो भवति। तत्र तच्छीलादिष्वर्थेषु क्विब् यथा स्यात्। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। य एवासाविशेषविहितः स तच्छीलादिषु भविष्यति। अन्यत्र च॥ (समाधानसाधकभाष्यम्) न सिध्यति। अयं तच्छीलादिष्वर्थेषु तृन्विधीयते स विशेषविहितः सामान्यविहितं क्विपं बाधेत॥ (बाधकभाष्यम्) वासरूपेण क्विबपि भविष्यति॥ (समाधानसाधकभाष्यम्) न सिध्यति। इदानीमेवह्युक्तम् - तच्छीलादिष्वर्थेषु वासरूपेण तृजादयो न भवन्तीति। क्विप्चापि तृजादिः॥ (3081 वार्तिकम्॥ 2 ॥) - वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घश्च- (भाष्यम्) वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घत्वं च वक्तव्यम्। क्विप्च॥ वचि - वाक्॥ प्रच्छि शब्दप्राट्। आयतस्तु - आयतस्तूः। कटप्रु - कटप्रूः। जु - जूः। श्रि - श्रीः॥ (मुन्यन्तरवाक्यम्) अपर आह - वचिप्रच्छ्योरसम्प्रसारणं चेति वक्तव्यम्। (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यम्। (समाधानभाष्यम्) न वक्तव्यम्। दीर्घवचनसार्मथ्यात्सम्प्रसारणं न भविष्यति। इदमिह सम्प्रधार्यम्। दीर्घत्वं क्रियतां सम्प्रसारणमिति। किमत्र कर्तव्यम्?। परत्वात्सम्प्रसारणम्। अन्तरङ्गं दीर्घत्वम्। का अन्तरङ्गता?। प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वमुच्यते। उत्पन्ने प्रत्यये सम्प्रसारणम्। तत्रान्तरङ्गत्वाद्दीर्घत्वे कृते सम्प्रसारणम्। सम्प्रसारणपूर्वत्वे कृते कार्यकृतत्वात्पुनर्दीर्घत्वं न स्यात्। तस्मात् सुष्ठूच्यते। दीर्घवचनसार्मथ्यात् सम्प्रसारणं न भवतीति। (3082 वार्तिकम्॥ 3 ॥) - द्युतिगमिजुहोतीनां द्वे च- (भाष्यम्) द्युतिगमिजुहोतीनां द्वे चेति वक्तव्यम्। दिद्युत्। गमि। जगत्॥ जुहोतेर्दीर्घश्च॥ जुहूः॥ (3083 वार्तिकम्॥ 4 ॥) (- दृणातेर्हूस्वश्च द्वे च क्विप् च-) (भाष्यम्) दृणातेर्ह्रस्वश्च द्वे च क्विप्चेति वक्तव्यम्। ददृत्॥ (धात्वन्तरसाधनभाष्यम्) जुहूर्जुहोतेर्हूयतेर्वा। ददृत् दृणातेर्दीर्यतेर्वा॥ जूः ज्वरतेर्जीर्यतेर्वा। (3084 वार्तिकम्॥ 5 ॥) - ध्यायतेः सम्परसारणं च- (भाष्यम्) ध्यायतेः सम्पसारणं च क्विप्च वक्तव्यः॥ धीः॥ (धात्वन्तरसाधनभाष्यम्) धीर्ध्यायतेर्दधातेर्वा॥ अन्येभ्यो॥ 178 ॥ Kashika ------- अन्येभ्योऽपि धातुभ्यस्ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते। युक् । छित्। भित्। दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद् दीर्घः। क्वचिद् द्विर्वचनम्। क्वचित् संप्रसारणम्। क्वचिद् असंप्रसारणम्। तथा चाह॥ क्विब् वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च॥ वचि — वाक् । प्रच्छि — शब्दप्राट्। आयतस्तूः। कटप्रूः। जूः। श्रीः। जुग्रहणेनात्र नार्थः, भ्राजादिसूत्र एवं गृहीतत्वात्॥ द्युतिगमिजुहोतीनां द्वे च॥ दिद्युत्। जगत्॥ जुहोतेर्दीर्घश्च॥ जुहूः॥ **दृ भये** इत्यस्य ह्रस्वश्च द्वे च॥ ददृत्॥ ध्यायतेः सम्प्रसारणं च॥ धीः॥ Siddhanta Kaumudi ----------------- क्विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् । (वार्तिकम्) ॥ किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं सा श्रीः । (वार्तिकम्) ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् । (वार्तिकम्) ॥ जुहूः । दॄ भये । अस्य ह्रस्वश्च । दीर्यति ददृत् । (वार्तिकम्) ॥ धीः ॥ Balamanorama ------------ **अन्येभ्योऽपि दृश्यते** - अन्येभ्योऽपि । क्विबिति । शेषपूरणमिदम् ।भ्राजभासे॑त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः । विध्यन्तरेति । विधीयते इति विधिः = कार्यं । कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः । तदेव दर्शयति — क्वचिद्दीर्घ इत्यादि । कक्विब्वचीत्यादिनेति ।क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे॑त्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति । वचधातोः क्विप्, वचनादुपधाया दीर्घः,वचिस्वपी॑ति संप्रसारणाऽभावश्च । एवं कटप्रूरित्यत्र दीर्घः । प्राडिति । वचनान्न संप्रसारणम् । जुरुक्त इति ।भ्राजभासेत्यत्रे॑ति शेषः । अतोऽत्र तद्ग्रहमं मासत्विति भावः । श्रीरिति । श्रिञः क्विपि दीर्घः । द्युतीति ।द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे॑ति वाच्यमित्यर्थः । 'पूर्वोऽभ्यासः' इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह — दृशिग्रहणादिति ।अन्येब्योऽपि दृश्यते॑ इत्यत्रेत्यर्थः । ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः । दिद्युदिति ।द्युतिस्वाप्यो॑रिति संप्रसारणम् । जगदिति । गमेः क्विप् 'गमः क्वौ' इत#इ मलोपे तुक् । जुहोतेर्दीर्घश्चेति । वार्तिकमिदम् । चात्क्विब्द्वित्वे । ह्रस्वश्चेति । वार्तिकमिदम् । ददृदिति । ह्रस्वे कृते तुक् । ध्यायते । वार्तिकमिदम् । चात्क्विप् । धीरिति । ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्रध्यायतेः संप्रसारमं चे॑त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः । वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का । Padamanjari ----------- अन्येभ्योऽपि द्दश्यते॥ विध्यन्तरोपसंग्रहार्थमिति। द्दशिग्रहणे सति यथा क्विबन्ता धातवो द्दश्यन्ते, तथैव तेऽनुगन्तव्या इत्यर्थो भवति। एवं च ते तथानुगता भवन्ति यदि यथायोगं द्विर्वचनादयो - भवन्ति। विध्यन्तरमेव दर्शयतिक्वचिदिति। तथा चाहेति। वार्तिककारः। आयतं स्तौत्यायतस्तूः। कट्ंअ प्रवते कटप्रूः। दिद्युदिति।'द्यौतिस्वाप्योः सम्प्रसारणम्' इत्यभ्यास्य सम्पसारणम्। कथं पुनरभ्याससंज्ञा, यावता प्रत्यासतेः षाष्ठिक एव द्विर्वचने सा विधीयते, अत एवाष्टमिके न भवति? एवं तर्हि द्दशिग्रहणादेव सम्प्रसारणम्, अभ्याससंज्ञा च द्रष्टव्या। जगदिति।'गमः क्वौ' इति मलोपः। अत्रापि पूर्ववदेन्न्न्न्न्न्सकार्यम्। द्वे चेति चकारेण दीर्घः समुच्चीयमानो दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादचा च तदन्तविध्याश्रयणाज्जुहोतेरेवाजन्तस्य विज्ञायते, न द्यौतिगम्योरित्याह - जुहोतेर्दीर्घित्वं चेति। जुहूरिति। करणस्यात्र कर्तृत्वविवक्षा। धीरित्यत्रापि करणस्यैव कर्तृत्वविवक्षा, पुरुषो हि ध्यायति, न धीः॥ Nyaas ----- ननु चान्यभ्योऽपीत्येतावतैव सिद्धम्, तत्किमर्थं दृशिग्रहणमित्यादि? क्वचिदित्यादिना येषामुपसंग्रहार्थं दृशिग्रहणं तानि विध्यन्तराणि दर्शयति। यस्मात् विध्यन्तराणामुपसंग्रहार्थं दृशिग्रहणम्ेवञ्च कृत्वा वृत्तिकारः `क्विब्वचिपृच्छि`(वा।288) इत्यादिकं वाक्यं पठति। दृशिग्रहणोपात्तानि तान्येव विध्यन्तराणि दर्शयितुमित्यभिप्राय-। कथं पुनर्दृशिग्रहणेन विध्यन्तरोपसंग्रहः? दृशिग्रहणे हि सति `यथा दृश्यन्ते क्विबन्ता धातवस्तथैव तेऽनुगन्तव्याः` इत्येषोऽर्थो लभ्यते। तस्मश्चार्थे लभ्यमाने द्विर्वचनादिविधयः संगृहीता भवन्ति। एवं हिते यथा दृश्यन्ते तथानुगता भवन्ति। यदि यथायोगं द्विर्वचनादयो विधीयन्ते, तदा क्विबन्तेषु क्वचिद्द्विर्वचनं दृश्यते, क्वचिदपि संप्रसारणमिति युक्तमुक्तम् - `दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्` इति।`वाक्` इति। वचेर्वच्यादिसूत्रेण (6.1.15) प्राप्तस्य सम्प्रसारणस्याभावः क्रियते। `शब्दप्राट्` इति। पृच्छेरपि ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणस्य। व्रश्चादिसूत्रेण (8.2.36) षत्वम्, पूर्ववज्जश्त्वं चर्त्वञ्च। आयतं स्तौतीति `आयतस्तूः`। `ष्टुञ् स्तुतौ` (धातुपाठः-1043)। कटं प्रवत इति `कटप्रूः`। `प्रुङ गतौ` (धातुपाठः-957)। `श्रीः` इति। `श्रिञ् सेवायाम्` (धातुपाठः-897)। `दिद्युत्` इति। `जगत्` इति। **गमः क्वौ** (6.4.40) इत्यनुनासिकलोपः। `ददृत्` इति। `उरत्` (7.4.66) इत्यत्त्वम्, रपरत्वम्, हलादिशेषः (7.4.60) ।`धीः`इति। `ध्यै चिन्तायाम्` (धातुपाठः-908) `हलः` (6.4.2) इति दीर्घः॥`धनिकाधमर्णयोः` इत्यादि। धनिको यस्मै ऋणं धार्यते। अधमर्णो यो धारयति। तदन्तरे मध्ये यस्तिष्ठत्यात्मपक्षपतितः सम्प्रत्ययहेतुः सप्रतिभूशब्देनोच्यते, न सर्वः। तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र प्रत्ययो न वति। एतच्च शब्दशक्तिस्वाभाव्याल्लभ्यते, `दृश्यते` (3.2.178) इत्यस्यानुवर्तेर्वा। अस्य ह्रनुवृत्तौ प्रतिभूरिति संज्ञेयम्, तत् किमन्तरग्रहणेन, संज्ञायामित्येव वक्तव्यम्? नैतदस्ति; द्रव्यताविघाता हि संज्ञाशब्दा भवन्ति, न चैवं प्रतिभूशब्दः। तथापि सत्यपि देवदत्ते कदाचिदसौ न प्रवर्तत एव॥ Prakriyasarvasvam ----------------- उक्तान्येभ्योऽपि तच्छीलादिषु क्विब् दृश्यते । भित् । छित् । दृश्यत इत्युक्तेर्यथादर्शनं क्वचिद् दीर्घाद्यपि । आयतं स्तौतीत्यायतस्तूगौः । आयतस्तूरिति स्तौतेराह माधवः । 'ध्याप्योः प्रसरणमि'ति भाष्यम् । धि आ । पूर्वरूपम् । धि । 'हलः' (६-४-२) इति दीर्घः । सुष्ठु ध्यानशीलः सुधीः । एवमाप्यायतेः 'लोपो व्योः—' (६-१-६६) इति यलोपे कृते प्रसारणम् । आपीः । श्रीवागाद्युणादौ वक्ष्यते ॥ Vartika ------- क्विब्वचिप्रच्छपायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च । Sutra Prayogas -------------- * **तनुत्यजाम्** (रघुवंशम्): `अन्येभ्योऽपि दृश्यते` इति क्विप्। * **लघुतुषारतुषारजलश्च्युतं** (किरातार्जुनीयम्): `अन्येभ्योऽपि दृश्यते` इति क्विप्। * **निस्वभव्यव्यभस्वनि** (किरातार्जुनीयम्): `अन्येभ्योऽपि दृश्यते` इति क्वनिप्। * **पक्षिराजाम्** (शिशुपालवधम्): `अन्येभ्योऽपि दृश्यते` इति क्विप्। * **अभियाता** (भट्टिकाव्यम्): `अन्येभ्योऽपि दृश्यते` इति अभियातीति क्विप्प्रत्ययः। * **अभियाऽताऽऽवरं** (भट्टिकाव्यम्): `अन्येभ्योऽपि दृश्यते` इति क्विप्प्रत्ययः।