32171: आदृगमहनजनः किकिनौ लिट् च =============================== **Padacheda:** आदृ-गम-हन-जनः | S | 5 | 1 | कि-किनौ | S | 1 | 2 | लिट् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas), the affixes कि and किन् in the sense of 'agent having such a habit etc.' come after the verbs that end in long आ or long or short ऋ and after the verbs 1. गम् 'to go' 2. हन् 'to kill' 3. जन् 'to be produced' and these affixes operate like लिट् (Perfect Tense) causing reduplication of the root. Vasu English Translation ------------------------ In the छन्दस् (Vedas), the affixes कि and किन् in the sense of 'agent having such a habit etc.' come after the verbs that end in long आ or long or short ऋ and after the verbs 1. गम् 'to go' 2. हन् 'to kill' 3. जन् 'to be produced' and these affixes operate like लिट् (Perfect Tense) causing reduplication of the root. The द् after आ is either for the sake of euphony, or for the sake of precision. Had it been त्, then by the rule of तपर (1.1.70) short ऋ would only be included and not long ॠ. But the present rule is applicable to long ॠ as well. Thus पा + कि = पपिः 'drinking'; as पपिः सोमं 'drinking the *soma*-juice'; ददिर्गाः 'giving cows' (*Rig*. *Ved*. VI.23.4). मित्रावरुणौ ततुरिः (*Rig*. *Ved*. IV. 39.2, VI.68.7). दूरे अध्वाजगुरिः (*Rig*. *Ved*. X. 108. I). गम् + किन् = जग्मिः 'being in constant motion, wind'; जग्मियुवा (*Rig*. *Ved*. II.23.11); हन् + किन् = जघ्निः 'killing, a weapon offensive'; जघ्निवृत्रम् (*Rig*. *Ved*. IX. 61.2); जन् + किन् = जघ्निः as जज्ञिबीजम् (T.S. VII.5.20. I). The letter क् in these affixes is indicatory. It might be said 'it is superfluous to make these affixes कित्, because these being treated like लिट् will be कित् by rule (1.2. 5)'. True, they would be कित् by the rule (1.2.5), but then the rule (7.4.11). (when *lit* follows, *guna* is the substitute of the verb ॠच्छ and of those that end in the long ॠ) would also have applied to these affixes, and would have caused *guna*. It is to prevent this *guna* of the letter ॠ that we have annexed an indicatory क to these affixes. Vart:- The affixes कि and किन् are of universal application in the *Chhandas*, and not confined to the verbs enumerated in the *sutra*, as we see them in सद् &c.; as सेदिः (*Yaj*. *Ved*. XII.105); नेमिः (*Rig*. *Ved*. II.5.3). Vart:- The affixes कि and किन् come after the roots धाञ्, कृञ्, सृ, जमि, गमि, and नमि in the secular literature also; as, दधिः, चक्रिः, सस्रिः, जज्ञिः, जग्मिः ,नेमिः । Vart:- The affixes कि and किन् come after the Intensive (यङन्त) roots of सह्, यह्, चल् and यत्. As, सासहिः, वावहिः, चाचलिः, यायतिः (7.4.83). Bhashya ------- आदृगमहनजनः किकिनौ लिट् च (948) (529 किकिन्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 3 आ.10) (आक्षेपभाष्यम्) किमर्थं किकिनोः कित्त्वं क्रियते। न असंयोगाल्लिट् कित् इत्येव सिद्धम्। (3074 आक्षेपबाधकवार्तिकम्॥ 1 ॥) - किकिनोः कित्त्वमॄकारगुणप्रतिषेधार्थम्- (भाष्यम्) किकिनोः कित्करणं क्रियते। (किमर्थम्?।) ॠकारस्य गुणप्रतिषेधार्थम्। अयमॄकारान्तानां लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यॄताम् इति। स यथेह भवति आतस्तरतुरातस्तरुरिति। एवमिहापि प्रसज्येत - मित्रावरुणौ ततुरिः, दूरे अध्वा जगुरिरिति। स पुनः कित्त्वेन बाध्यते। (6075 वार्तिकम्॥ 2 ॥) ॥ 8 ॥ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्- (भाष्यम्) उत्सर्गश्छन्दसि किकिनौ वक्तव्यौ। किं प्रयोजनम्?। सदादिभ्यो दर्शनात्। सदादिभ्य हि किकिनौ दृश्येते। सदिरमिनमिमनिविचीनां सेदिः, रेमिः, मेनिः, नेमिश्चक्रमिवाभवत्। विविचिं रत्नधातमम्॥ (6076 वार्तिकम्॥ 3 ॥) - भाषायां धाञ्ञूकृसृजनिनमिभ्यः- (भाष्यम्) भाषायां दाञ्ञ्कृसृजनिनमिभ्यः किकिनौ वक्तव्यौ। धाञ्ञ् - दधिः। कृ - चक्रिः। सृ - सस्रिः। जनि - जज्ञिः। नज्ञिः। नमि - नेमिः। (3077 वार्तिकम्॥ 4 ॥) - सासहिवावहिचाचलिपापतीनां निपातनम्- (भाष्यम्) सासहिवावहिचाचलिपापतीनां निपातनं कर्तव्यम्। वृषा सहमानं सासहिः। वावहिः चाचलिः पापतिः॥ अपर आह - (3078 वार्तिकम्॥ 5 ॥) - सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ- (भाष्यम्) तान्येवोदाहरणानि॥ आदृगम॥ 171 ॥ Kashika ------- आकारान्तेभ्य ऋवर्णान्तेभ्यो गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु किकिनौ प्रत्ययौ भवतः। लिड्वच्च तौ भवतः। आदिति तकारो मुखसुखार्थः, न त्वयं तपरः, मा भूत् तादपि परस्तपर इति ऋकारे तत्कालग्रहणम्। प॒पिः सोमं॑ द॒दिर्गाः (ऋ० ६.२३.४)। मित्रावरुणा॒ ततु॑रिम् (ऋ० ४.३९.२)। दू॒रे ह्यध्वा॒ जगु॑रिः (ऋ० १०.१०८.१)। जग्मि॒र्युवा॑ (ऋ० ७.२०.१)। जघ्नि॑र्वृ॒त्रम् (ऋ० ९.६१.२०)। जज्ञि॒ बीज॒म् (तै० सं० ७.५.२०.१)। अथ किमर्थं कित्त्वम्, यावता **असंयोगाल्लिट् कित्**(१.२.५) इति कित्त्वं सिद्धमेव? **ऋच्छत्यृताम्** (७.४.११) इति लिटि गुणः प्रतिषेधविषय आरभ्यते, तस्यापि बाधनार्थं कित्त्वम्॥ किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्॥ सेदिः॒ (श०ब्रा० ७.३.१.२३)। ने॒मिः (ऋ० २.५.३)॥ भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ॥ दधिः। चक्रिः। सस्रिः। जज्ञिः। जग्मिः। नेमिः॥ सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ॥ **दीर्घोऽकितः** (७.४.८३)। सासहिः। वावहिः। चाचलिः। पापतिः॥ Siddhanta Kaumudi ----------------- आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमं ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जज्ञिः । (वार्तिकम्) ॥ दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः । (वार्तिकम्) ॥ यङ्न्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ॥ Balamanorama ------------ **आदृगमहनजनः किकिनौ लिट् च** - आदृगम । आत्, ऋ, गम, हन, जन्, एषां द्वन्द्वात्पञ्चमी ।कि किन् अनयोद्र्वन्द्वः । लिट् चेति व्याचष्टे — तौ च लिड्वदिति । तच्छीलादिष्वित्येव । पपिरिति । पाधातोः किः । द्वित्वादि, आल्लोपः । ददिरिति । दाधातोः किः । द्वित्वादि । बभ्रिर्वज्रमिति । भृञः किः, द्वित्वादि । जघ्निरित । हनः किः । द्वित्वादि ।गमहने॑त्युपधालोपः ।हो हन्ते॑रिति कुत्वम् । जज्ञिरिति । जनेः किः । द्वित्वादि । एवं किन्यपि बोध्यम् । स्वरे विशेषः । छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवक्ष्यमाणवरातिकविवेचनाय इहोपन्यस्तम् । भाषायामिति । वार्तिकमिदम् । धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षड्भ्यः किकिनौ , तौ च लिड्वदिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनोः कृतयोर्द्वित्वादि यथासंभवं ज्ञेयम् । नेमिरिति । नमेः किः । द्वित्वम् । एत्त्वाभ्यासलोपौ । सासहीति । सहेर्यङि द्वित्वादौ 'दीर्गोऽकितः' इति दीर्घे, किकिनोः कृतयोः 'यस्य हलः' इति यकारलोपे , अतो लोपेसासही॑ति निर्देशः । एवं वहेः चलेः पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः । एषां निपातनस्य उपसङ्ख्यानमित्यर्थः । तदाह — यङन्तेभ्यः सहत्यादिभ्य इति । नीगभाव इति । 'नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याऽभावन इत्यर्थः । Tattvabodhini ------------- **आदृगमहनजनः किकिनौ लिट् च** - आदृग ।ऋदोर॑बितिवदादिति दकारो मुखसुखार्थो, न त्वयं तकारः । तेन तत्परत्वाऽभावादृ इत्येनेन दीर्घोऽपि गृह्रते ।ततुरिः । जगुरिः । तृ प्लवनतरणयोरित्यस्य, गृ निगरण इत्यस्य चबहुलं छन्दसी॑ त्युत्वे रूपमिति प्राञ्चः । वस्तुतस्तु आदित्यादि प्रकृतिविशेषणम् । उदाहरणं प्रपञ्चमात्रम् । किकिनौ लिट्चेत्येतावन्मात्रमेव विवक्षितम् । तथा च वार्तिकं — किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शना॑दिति । उदाहृतं च भाष्ये — सेहिर्नेमिरित्यादि । एवं स्थिते आदिति तपरकरणेऽपि न क्षतिरिति ध्वनयन्नाह — आदन्तादृदन्तादिति । बभ्रिर्वज्रमिति ।न लोके॑ ति षष्ठीनिषेधाद्द्वितीया । किकिनोः स्थाने तिबादयो न,लिड्व॑दित्यतिदेशेन स्वरूपाऽबाधेनैव कार्यातिदेशात् । छान्दससूत्रद्वयोपन्यसनं भाषायां धाञित्यादिवार्तिकविषयविवेचनार्थम् । इह च वार्तिके गमिर्यद्यपि न दृश्यते तथापि धातुवृत्तौ, क्वचिद्वृत्तिपुस्तके च दर्शनादुपन्यस्तः । जग्मिरिति ।गमहनजने॑त्युपधालोपः । जघ्निरिति ।अभ्यासाच्चे॑ति कुत्वम् । * भाषायां धाञ्कृसृगमिजनिनमिभ्यः । दधिरिति । आतो लोपः । नेमिरिति । एत्वाभ्यासलोपौ । * सासहिवावहिचाचलिपापतीनामुपसङ्ख्यानम् । सासहीत्यादि । यङोऽतोलोपेयलोपः । अभ्यासदीर्घः । नीगभावश्चेति ।नीग्वञ्चु॑ इत्यादिना प्राप्तस्य नीगागमस्याऽभाव इत्यर्थः । तृष्णगिति । डित्त्वान्न गुणः । नजिङ इकार उच्चारणार्थः । Padamanjari ----------- आद्दगमहनजनः किकिनौ लिट् च॥ किकिनौ लिट् चापरार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थ गमयन्ति, गौर्वाहीक इतिवदित्याह - लिड्वच्च तौ भवतीति। किकिनौ भवतः, लिट् च प्रत्ययो भवतीत्ययं त्वर्थो न भवति; तथा हि सति'लिट् किकिनः' इत्येव ब्रूयात्। कार्यातिदेशश्चायम्। यद्येवम्,'लः परस्मैपदसंज्ञा किकिनोः स्यात्, ततश्च देङ्द्दङदिभ्य आत्मनेपदिभ्यो न स्याताम्। न लकारस्य परस्मैपदसंज्ञा, किं तर्हि? तदादेशानाम्, न चैतावादेशौ। एवमपि भावकर्मकर्तृषु त्रिष्वपि लिड्वद्भावात्किकिनौ प्राप्नुतः? नैषः;उत्पन्नयोर्लिट्कार्यमतिदेश्यम्। उत्पत्तिश्च तयोः कर्तर्येव भवति;'कर्तरि कृत्' इत्यनेनास्यैकवाक्यत्वात्। अनभिधानाद्वा भावकर्मणोर्न भविष्यतः। वर्तमानाधिकाराच्च वर्तमाने किकिनोर्विधानमिति भूतकालतापि विरोधान्नातिदिश्यते। स्वरूपाबाधेन च कार्यादिदेशः प्रवर्तत इति तिबादीनां कानच्क्वस्वोश्चाभावः। आदिति दकारो मुखसुखार्थ इति। आदित्ययं दकारः, स च मुखसुखार्थ इत्यर्थः। न त्वयं तपर इति। तश्चासौ परश्च तपरो नायमकारात्परस्तकारो जश्त्वेन निर्द्दिष्ट इत्यर्थः। किं कारणमित्याह - मा भूदिति। तकारो मुखसुखार्थ इति पाठे तु आदित्ययं तकारः स मुखसुखार्थः, न तु तपरकार्यसम्पादनार्थ इत्यर्थः। पपिः सोममिति।'न लोकाव्यय' इति षष्ठीप्रतिषेधो लिटः कार्यमिति सोमशब्दाद् द्वितीया। ततुरिरिति।'बहुलं च्छन्दसि' इत्युत्वम्।'द्विर्वचने' चि' इति स्थानिवद्भावात्'तृ' इत्येतद् द्विरुच्यते। जज्ञिरिति।'गमहन' इत्युपधालोपः, चुत्वम्। तद्वाघनार्थ कित्वमिति। अर्तेरृकारान्तानां च किकिनोर्गुणो मा भूदित्येवमर्थमित्यर्थः। उत्सर्ग इति। धातुमात्राद्विधानं कर्तव्यमित्यर्थः। कस्मादित्यत्राह - सदादिभ्यो दशनादिति। सेदिः नेमिरिति। सदेर्नमेश्चैत्वाभ्यासलोपौ। सहिवहित्यादि। अत्र भाषायामित्यपेक्ष्यते। पापतिरिति।'नीग्वञ्चु' इत्यादिना नीगागमः प्राप्तः सासहिवावहिचाचलिपापतीनां निपातनम्ऽ इति वार्तिककारवचनान्न भवति। इदं तु वृतौ पठितं वाक्यम्। अपर आहेति भाष्ये पठितम्, तत्रापि भाष्यकारवचनान्नीगभावः। उक्तं हि तेन - तान्येवोदाहरणानीति॥ Nyaas ----- परपदार्थेषु प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थं गमयन्ति, यथा - गौर्वाहीकः, सिंहो माणवक इति। गौर्वाहीक इत्युक्ते गो शब्दोऽर्थान्तरे प्रयुक्तो विनापि वतिना गौरिवायमिति तुल्यशब्दरूपे वाहीके प्रतीयते। इह लिडिति स्वार्थादन्यत्र किकिनोः प्रयुक्तः। तस्मादसत्यपि वतिना योगेऽतिदेशो गम्यत इत्याह - `लिड्वच्च तौ भवतः`इति। लिटा तुल्यौ = तुल्यधर्माणौ भवत इत्यर्थः। द्विर्वचनादिकं यल्लिटः कार्यं तत् किकिनोर्भवतीति भावः। कार्यातिदेशोऽयम्, न शास्त्रातिदेशः; कार्यातिदेशापेक्षया शास्त्रातिदेशस्याप्राधान्यात्। अप्राधान्यं तु शास्त्रातिदेशस्य कार्यत्वात्। यदि तर्हि कार्यातिदेशोऽयम् **लः परस्मैपदम्** (1.4.99) इति परस्मैपदसंज्ञाऽपि किकिनोः प्राप्नोति, ततश्चात्मनेपदिभ्यस्तौ न स्याताम्? नैष दोषः; लादेशस्य हि परस्मैपदसंज्ञा, न लकारस्य। `ल` इति ह्रादेशापेक्षया तत्र षष्ठी, लादेशः परस्मैपदसंज्ञको भवतीति यावत्। न च किकिनौ लादेशौ,तत्कुतः परस्मैपदसंज्ञायाः प्रसङ्गः। तिबादयस्तर्हि कस्मान्न भवन्ति? तयोर्विधानसामर्थ्यात्। यदि तर्हि तिबादयः स्युः, किकिनोर्विधानमनर्थकं स्यात् - लिटमेव विदध्यादिति, न च तिबादिभिस्तच्छीलादयो विधीयन्ते? अनभिधानान्न भविष्यन्ति। क्वसुकानचौ कस्मान्न भवतः, न च तयोर्भाव आनर्थक्यं किकिनोरुपपद्यते; **लिटः कानज्वा** (3.2.106) **क्वसुश्च** (3.2.107) इति विकल्पेन क्वसुकानचोर्विधानात्? अनभिधानादेव तावपि न भविष्यतः; न हि ताभ्यां तच्छीलादयो विधीयन्ते;अत एवानभिधानात्। **लः कर्मणि च भावे चाकर्मकेभ्यः** (3.4.69) इतिभावकर्मणोरपि किकिनौ न भवतः। यथैव हि **भञ्जभासमिदो घुरच्** (3.2.161) इति भञ्जेरुत्पन्नेन च घुरचा स्वभावात् कर्मकर्त्तैवाभिधीयते न कर्त्तृमात्रम्, तथा किकिन्भ्यामपि धातोरुत्पन्नाभ्यां स्वभावादेव कर्त्तैवाभिधीयते, न भावकर्मणी। `आदिति दकारो मुखसुखार्थः`इति। तपरत्वनिरासार्थमेतत्। अत एवाह - ` न त्वयं तपरः` इति। किं पुनः कारणं तपरो नेष्यत इत्याह - `मा भूत्` इत्यादि। **तपरस्तत्कालस्य** (1.1.70) इति तादपि पर इति पञ्चमीसमासोऽप्याश्रितः। **वृद्धिरादैच्** (1.1.1) इत्यत्र त्रिमात्रचतुर्मात्रयोरैचां वृद्धिसंज्ञा मा भूदित्येवमर्थम्। ततश्च यद्येवं तपरः स्यात् तदा ऋकारेऽपि तपर एव स्यात्, ततश्च ऋकारेण तत्कालानां मात्रिकाणामेतद्ग्रहणं स्यात्, न पुनर्दीर्घाणाम्। तत्र को दोषः? दधिश्चक्रिरित्येवमादावेव स्याताम्; ततुरिः, जगुरिरित्येवमादौ च न स्याताम्। तस्मात् मा भूदित्येव दोष इति तपरत्वमत्र नेष्यते। `पपिः सोमम्` इति। **आतो लोप इटि च** (6.4.64) इत्याकारलोपः, द्विर्वचनम्, अभ्यासस्य ह्रस्वः। `न लोकाव्ययनिष्ठा` (2.3.69) इत्यादिना षष्ठीप्रतिषेधः कार्यं इति सोमशब्दात् कर्मणि द्वितीयैकवचनं भवति। `ददिः` इति। `डुदाञ् दाने` (धातुपाठः-1091)। `ततुः` इति। **बहुलं छन्दसि** (7.4.78) इत्युक्तम्, रपरत्वञ्च। **द्विर्वचनेऽचि** (1.1.59) इति स्थानिवद्भावात् तृशब्दो द्विरुच्यते। (धातुपाठः-7.4.66) इत्यत्त्वम्,रपरत्वम्, हलादिशेषः (7.4.60) । `जगुरिः` इति। `गृ निगरणे` (धातुपाठः-1410) `जन्मिः, जघ्निः` इति। `गमहन` (6.4.98) इत्यादिनोपधालोपः। जनेर्नकारस्य **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वं ञकारः।`अथ` इत्यादि चोद्यम्। `ऋच्छत्यृताम्` इत्यादिना परीहारः।`उत्सर्गश्छन्दसि` इत्यादि। सामान्येन विधानम् = उत्सर्गः। एतदुक्तं भवति - प्रकृतिविशेषमनुपादाय धातुमात्रात् किकिनोरुत्पादौ द्रष्टव्याविति। धातुमात्राद्विधातव्याविति यावत्। कुतो हेतोरित्याह - `सदादिभ्योऽपि दर्शनात्` इति। सदादिभ्योऽपि सूत्रानुपात्तेभ्यः किकिनौ यस्मादुत्सर्गः कर्तव्यः। `सेदिः,नेमिः`इति। पूर्वदेत्त्वाभ्यासलोपौ। `षद्लृ विशरणगत्यवसादनेषु` (धातुपाठः-854), `णम प्रह्वत्वे शब्दे` (धातुपाठः-981), **अत एकहल्मध्येऽनादेशादेर्लिटि** (6.4.120) इत्येत्त्वाभ्यासलोपौ।`दधिः, चक्रिः` इति। घाञः पूर्ववदाकारलोपः। `चक्रिः, सस्रिः` इति। करोतेः सर्तेश्च यणादेशः। `जज्ञिः` इति। जनेः पूर्वच्चुत्वोपधालोपौ। `नेमिः`इति। पूर्ववदत्त्वाभ्यासलोपौ।`सहिवहि` इत्यादि। भाषायामपि वर्तते। `सासहिः` इत्यादि। सहादिभ्यो यङ, द्विर्वचनम्, पूर्ववदकारयलोपौ॥ Prakriyasarvasvam ----------------- आदन्तेभ्य ऋवर्णान्तेभ्यो गमादिभ्यश्च किकिनौ स्तः, लिद्वत्कार्यं च स्यात् । तेन द्वित्वम् । आल्लोपः । पपिः सोमम् । ददिर्गाः । अत्र किप्रत्यययेऽन्तोदात्तत्वम् । महार्क⁴र्माणि चक्रिः । मित्रावरुणा ततुरिः । 'बहुलं छन्दसि' (७-१-१०३) इति ऋत उत्त्वम् । किनो नित्त्वादाद्युदात्तत्वम् । गमादेः क्तित्युपधालोपः । जग्मिर्युवा । जघ्निर्वृत्रम् । जज्ञिः । एषां लिड्वत्त्वात् 'न लोक'— (२-३-६९) इति कर्मणि षष्ठी न । पपिः सोममित्यादि । (वा.) सेदिः । 'उदिः ग्रहः' (३-३-३५) इति घञि⁵? (घञ्) (वा.) । उदग्राहं च निग्राहं च । 'हृग्रहोः'— (वा.) इति भः । जघसपी (?जघसपी⁶) छन्दस्यप्प्रत्य- यान्तौ वाच्यौ । (वा. ३-३-५६) । स्वरे भेदः । लोके तु 'ऋदोरप्' (३-३-५७) । Vartika ------- भाषायां धाञ्कृसृगमिजनिनमिभ्यः ।