32166: यजजपदशां यङः =================== **Padacheda:** यज-जप-दशाम् | S | 6 | 3 | यङः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ऊक comes in the sense of 'agent having such a habit etc.' after the verbs 1. यज् 2. जप् 3. दश् when they end in the affix य्। Vasu English Translation ------------------------ The affix ऊक comes in the sense of 'agent having such a habit etc.' after the verbs 1. यज् 2. जप् 3. दश् when they end in the affix य्। The intensives of these verbs take ऊक. As यायजूकः 'a performer of frequent sacrifices'; जञ्जपूकः 'a mutterer of prayers repeatedly'; दन्दशूकः 'a snake (what bites frequently)'. Kashika ------- यजादीनां यङन्तानामूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। यायजूकः। जञ्जपूकः। दन्दशूकः॥ Siddhanta Kaumudi ----------------- एभ्यो यङ्न्तेभ्यः ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥ Balamanorama ------------ **यजजपदशां यङः** - यजजपदशां यङः । यज, जप,दश एषां त्रयाणां द्वन्द्वः । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । तच्छीलादिष्वित्येव । ननु दंशेर्नोपधत्वनात्कथं दशामिति निर्देश इत्यत आह — भाविनेति । ऊके कृतेसति भविष्यतो नलोपस्याऽत्र निर्देश इति यावत् । यायजूक इति । 'यस्य हलः' इति यलोपः । 'अतो लोपः' 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । जञ्जपूक इति ।जपजभदहदशभञ्जपशां चे॑त्यभ्यासस्य नुक् । एवं दन्दशूकः । Tattvabodhini ------------- **यजजपदशां यङः** - यजजप । यायजूक इति । यजेर्यङि द्वित्वादि ।दीर्घोऽकितः॑ इत्यभ्यासदीर्घः । अतो लोपेयस्य हलः॑ इति यलोपः । जञ्जपूक इत्यादि ।जपजभदहदशे॑ त्यादिना नुक् । वावदूकशब्दस्तुउलूकादयश्चे॑त्यत्र वक्ष्यते । माधवस्त्वाह — कुर्वादिगणे वावदूक इति पाठादेव यङन्ताद्वदेरूकप्रत्यय इति । Nyaas ----- दंशेर्यदि `अनिदिताम्` (6.4.24) इत्यादिनाऽनुनासिकलोपो लुप्तेऽपि यङि प्रत्ययलक्षणेन सिध्यति, तथापि लाघवार्थं कृतानुनासिकलोपो द्रष्टव्यो निर्दिष्टः। `यायजूकः` इति। यजेर्यङ, **दीर्घोऽकितः** (7.4.83) इति दीर्घः, **अतो लोपः** (6.4.48) इत्यकारलोपः। `जञ्जपूकः, दन्दशूकः` इति। `लुपसद` (3.1.24) इत्यादिना यङ, `जपजभ` (7.4.86) इत्यादिनाऽभ्यासस्य नुक्॥ Prakriyasarvasvam ----------------- यङन्तानामेषामूकः स्यात् । जपदर्शोः कुत्सने यङ् । यायज्य जञ्जप्य, दन्दश्य इति स्थिते 'यस्य हलः' (६-४-४९) इति यलोपः । अतो लोपः । यायजूकः । अञ्जपूकः । दन्दशूकः सर्पः । हिंस्त्रमात्रेऽप्याह भट्टिः । वदेश्च भोजः । वावदूकः ॥ Sutra Prayogas -------------- * **दन्दशूकैः** (शिशुपालवधम्): `यजजपदशां यङः` इति दशेर्यङन्तादुकन्प्रत्ययः। * **दन्दशूकाञ्जिघांसौ** (भट्टिकाव्यम्): `यज-जप` इत्यादिना ऊकः । * **यायजूकाः** (भट्टिकाव्यम्): `यज-जप- दशां यङः` इत्यूकः। * **दन्दशूकाऽरिर्वनेश्वानभ्र** (भट्टिकाव्यम्): `तदन्तात् यज-जप` इत्यादिना ऊकः। * **जञ्जपूको** (भट्टिकाव्यम्): `यज-जप- दशां यङः` इत्यूकः। * **दन्दशूक-रिपुं** (भट्टिकाव्यम्): `यज-जप` इति दंशेर्यङन्तादूकः।