32153: सूददीपदीक्षश्च ===================== **Padacheda:** सूद-दीप-दीक्षः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix युच् does not come after the verbs सूद् 'to strike', दीप् 'to shine' and दीक्ष् 'to initiate'. Vasu English Translation ------------------------ The affix युच् does not come after the verbs सूद् 'to strike', दीप् 'to shine' and दीक्ष् 'to initiate'. These three verbs are *anudattet*, and by *sutra* (3.2.149), would have taken युच्. The present *sutra* prohibits that. Therefore they take तृन्. As, सूदितृ Ist. sing सूदिता 'one who strikes'; दीपितृ 'one who shines'; दीक्षितृ 'one who initiates'. Now, it might be objected-- "We find that *sutra* (3.2.167) specifically enjoins the affix र after दीप्; this *apavada* rule will therefore, supersede the general rule; where is then the necessity of the present rule? If you say that the affix युच् is also obtained by the rule of non-uniformity (3.1.94), we reply that the *Paribhasha* given under *sutra* 146 and 150 will prevent that." This objection is answered by saying that the above-mentioned *Paribhasha* is not of universal application; there are exceptions to it, as कम्रा युवतिः and क्रमना युवतिः 'a young girl' which are both valid forms derived by adding र and युच् to the verb कम्. So also कम्प्रा and कम्पना शाखा 'a shaking branch'. If we prohibit युच् after the root सूद, how do we get the forms मधुसूदन and रिपुसूदन ? This objection may be answered in three ways: (1) the present is an *anitya* rule, not of universal application, which can be inferred from finding this *sutra* separated from the last (*yogavibhaga*), when it was easier to make them one, (2) the words मधुसूदन &c belong to the मन्दादि class (3.1.134) taking the affix ल्यु or (3) they are formed by (3.3.113) by the affix ल्युट्. Kashika ------- सूद दीप दीक्ष इत्येतेभ्यश्च युच् प्रत्ययो न भवति। अनुदात्तेत्त्वात् प्राप्तः प्रतिषिध्यते। सूदिता। दीपिता। दीक्षिता। ननु च दीपेर्विशेषविहितो रप्रत्ययो दृश्यते, **नमिकम्पिस्म्य — जसकमहिंसदीपो रः**(३.२.१६७) इति। स एव बाधको भविष्यति, किं प्रतिषेधेन? वासरूपेण युजपि प्राप्नोति। ताच्छीलिकेषु च वासरूपविधिर्नास्तीति प्रायिकमेतद् इत्युक्तम्। तथा च समावेशो दृश्यते — कम्रा युवतिः, कमना युवतिः। कम्प्रा शाखा, कम्पना शाखेति। सूदेर्युचि प्रतिषिद्धे कथं मधुसूदनो रिपुसूदन इति? अनित्योऽयं प्रतिषेध इति योगविभागाद् विज्ञायते। अथ वा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते। **कृत्यल्युटो बहुलम्** (३.३.११३) इति ल्युडन्ता वा॥ Siddhanta Kaumudi ----------------- युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पि - (SK3147) इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥ Balamanorama ------------ **सूददीपदीक्षश्च** - सूददीप । सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी । युज्नेति । शेषपूरणमिदम् ।अनुदात्तेतश्चे॑ति प्राप्तो युच् प्रतिषिध्यते । नन्विह दीपग्रहणं व्यर्थं,नमिकम्पिस्म्यजसकमहिंसदीपोरः॑ इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः । नच वाऽसरूपविधिना तद्बाधः शङ्क्यः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह — नमिकम्पीति । रेणेति । रप्रत्ययेनेत्यर्थः । प्रायिकमिति । तथा चाऽत्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवादिह दीपेर्युचो निषेधोऽर्थवानिति भावः । तेनेति । ताच्छीलिकेऽपि क्वचिद्वासरूपविदेः सत्त्वादित्यर्थः । कम्ना कमनेति । इच्छाशीलेत्यर्थः । अत्रापिनमिकम्पी॑ति रेण युचः पक्षे बाध इति भावः । आक्षिपति — यदीति.यदिसूददीपदीक्षश्चे॑तिसूदेर्युच्प्रतिषिध्यते तदा 'मधुशूदन' इति कथमित्यन्वयः । समाधत्ते — नन्द्यादिरिति ।सूदि॑रिति सेषः । तथा चनन्दिग्रही॑ति ल्युप्रत्यय इति भावः । Tattvabodhini ------------- **सूददीपदीक्षश्च** - सूददीप । सूद क्षरणे, दीपी दीप्तौ, दीक्ष मौण्डएज्यादौ । ताच्छीलिकेष्विति ।परस्पर॑ मिति शेषः । प्रायिकमिति । न केवलं यथाश्रुत [ म् ] भाष्यमवलम्ब्य युज्रयोरेव समावेश इति मन्तव्यं,किंतु प्रायिकत्वं एव भाष्यस्य तात्पर्यम् । तेन गमेःलषपतपदे॑ त्युकञ्विषये तृन्नपि । गन्ता । गामुकः । तथावौ कषलसे॑ति घिनुण्विषये युजपि — विकत्थी विकत्थन इत्यादि सिध्यतीति भावः । Padamanjari ----------- सूददीपदीक्षश्च॥'षूद क्षरणे' 'दीपी दीप्तौ' 'दीक्ष मौण्ड।ले' । ननुताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापितम्, तत्कथं वाऽसरूपेण युजिह प्राप्नोति? तत्राह - ताच्छीलिकेष्विति। प्रायिकत्वस्य चायमेव प्रतिषेधो लिङ्गम्, सर्वत्र वाऽसरूपविधेरभावे विशेषविहितेन रप्रत्ययेन बाधितत्वादेव युज् न भविष्यतीति प्रतिषेधोऽयमनर्थकस्स्यात्। तथा चेत्यादिना प्रायिकत्वस्य प्रयोजनं दर्शयति। नानेन प्रतिषेधेन युज्रयोरेव समावेशो ज्ञाप्यते, यथा भाष्ये प्रतिभासः, किं तर्हि? ज्ञापकस्यैव प्रायिकत्वम्। तेन'गन्ता खेट्ंअ विकत्थनः' इत्यपि भवति। एतच्च पूर्वमेवोक्तम्। अथ वा नन्द्यदिष्विति। योगविभागस्त्विदानीं वैचित्र्यार्थः॥ Nyaas ----- `षूद क्षरणे` (धातुपाठः-25), `दीपौ दीप्तौ` (धातुपाठः-1150), `दीक्ष {मौण्डएज्योपनयननियमव्रतादेशेषु-धा।पा} मौण्डए` (धातुपाठः-609)। `ननु च` इत्यादि देश्यम्। `वाऽसरूपेण` इत्यादि परिहारः। स्यादेतत् - वाऽसरूपविधिर्नास्तीति ज्ञापितमेतत्। ततो नास्ति युच्प्राप्तिरित्यत आह - `ताच्छीलिक`इत्यादि। प्रायिकस्य चायमेव लिङ्गम्। यदि हि सर्वत्र वाऽसरूपविधेरभावः स्यात्, ततो विशेषविहितेनैव प्रत्ययेन बाधितत्वादेव युज्न भविष्यीति प्रतिषेधोऽनर्थकः स्यात्। `तथा च` इत्यादिना ताच्छीलिकप्रत्ययेन समावेशं दर्शयन् प्रायिकत्वमेव ज्ञापकस्य द्रढयति। `कम्रा`इति। `नमिकम्पि` (3.2.167) इत्यादिना रप्रत्ययः। `कमना` इति। अनुदात्तेतश्च हलादेः` (3.2.149) इति युच्प्रत्ययः। `कम्प्रा`इति। `कपि चलने`(धातुपाठः-275)।`सूदेः` इत्यादि चोद्यम्। `अनित्यम्` इत्यादि परिहारः। `योगविभागादविज्ञायते` इति। अनित्यत्वे साधनं `नयसूददीपदीक्ष` इत्येकयोगे कर्तव्ये यद्योगविभागं करोति तज्ज्ञापयति - पूर्वस्मात् प्रतिषेधादस्य कश्चिद्विशेषोऽस्तीति। स पुवनर्विशेषोऽनित्यत्वमेव। यद्यपि दीपदीक्षतिम्यामपि युच् प्राप्नोति, अनभिधान्न भवति॥ Prakriyasarvasvam ----------------- यज् न । सूदिता । दीपिता । दीक्षिता । मधुसूदनस्तु नन्द्यादिः ।।