32130: इङ्धार्योः शत्रकृच्छ्रिणि ================================ **Padacheda:** इङ्-धार्य्योः | S | 6 | 2 | शतृ | S | | | 1 अकृच्छ्रिणि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix शतृ comes after the verb इङ् 'to go' and धारि 'to hold' in denoting that the agent does the action without trouble. Vasu English Translation ------------------------ The affix शतृ comes after the verb इङ् 'to go' and धारि 'to hold' in denoting that the agent does the action without trouble. The word अकृच्छ्र means that which is accomplished by the agent with ease and facility. As अधीयन् पारायणम् 'the facile reading of the *Purana*'; धारयन्नुपनिषदम् 'easily mastering the *Upanishad*'. The root धारि is causative of धृ and means here 'to master'. Why do we say 'when facility is indicated'? Otherwise कृच्छ्रेणाधीते 'he reads with difficulty'; कृच्छ्रेण धारयति 'he remembers with difficulty'. Kashika ------- इङो धारेश्च धात्वोः शतृप्रत्ययो भवत्यकृच्छ्रिणि कर्तरि। अकृच्छ्रः सुखसाध्यो यस्य कर्तुर्धात्वर्थः सोऽकृच्छ्री। अधीयन् पारायणम्। धारयन्नुपनिषदम्। अकृच्छ्रिणीति किम्? कृच्छ्रेणाधीते। कृच्छ्रेण धारयति॥ Siddhanta Kaumudi ----------------- आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥ Balamanorama ------------ **इङ्धार्योः शत्रकृच्छ्रिणि** - इङ्धार्योः । शतृ- अकृच्छ्रिणीति छेदः । अकृच्छ्रम् = अदुःखम्, तदास्यास्तीति अकृच्छ्री । इङ्, धारि अनयोद्र्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति । सुखमध्येतेत्यर्थः । धारयन्निति । सुखेन धारयितेत्यर्थः । Tattvabodhini ------------- **इङ्धार्योः शत्रकृच्छ्रिणि** - इङ्घार्योः । इङ आत्मनेपदित्वात् शता न सिध्यति, धारयतेरपि कर्तृगामिनि क्रियाफले न सिध्यति, लसार्वधातुकानुदात्तत्वं च प्राप्नोतीत्ययमारम्भः । Padamanjari ----------- इङ्धार्योः शत्रकृच्छ्रिणि॥ अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थ इति। अस्तीति शेषः। ठत इनिठनौऽ इतीनिः, अपुत्रा भार्यादिवद् बहुव्रीहिणैव सिद्धे तत्पुरुषान्मत्वर्थीयः कृतः; लघुत्वम्प्रति सर्वत्रानादरात्। इङ् आत्मनेपदित्वाद्धारयतेश्च कर्त्रभिप्राये शता न सिद्ध्यति, लसार्वधातुकानुदातत्वं च प्राप्नोतीत्ययमारम्भः॥ Nyaas ----- `अकृच्छ्रिणि कर्तरि`इति। एतेनाकृच्छ्रिणीति प्रत्ययार्थस्य कर्त्तुरेतद्विशेषणमिति दर्शयति। `अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थः सोऽकृच्छ्री` इति। **अत इनिठनौ** (5.2.115) इतीनिः। `अधीयन्` इति। पूर्ववदियङ। `धारयन्` इति। `धृङ अवस्थाने` (धातुपाठः-1412) चुरादिणिच्॥ Prakriyasarvasvam ----------------- अनयोरकृच्छ्रवति कर्तरि शतृ स्यात् । इङोऽदादित्वाच्छब्लुकि शतुर्डित्त्वाद-- गुणे इयङ् । इयन् । इङो नित्यमधिपूर्वत्वादधीयन् । कृच्छ्रेण चेद्, अधीयानः । धारेर्ण्यन्तस्य शब्गुणायादेशाः । धारयन् ॥