32122: पुरि लुङ् चास्मे ======================= **Padacheda:** पुरि | S | 7 | 1 | लुङ् | S | 1 | 1 | च | S | 0 | 0 | अस्मे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Optionally the affixes लुङ् (Aorist) and लट् (Present Tense) come after a verb in denoting past time not belonging to the current day, when the word पुरा is used in the sentence, provided that the word स्म is not used. Vasu English Translation ------------------------ Optionally the affixes लुङ् (Aorist) and लट् (Present Tense) come after a verb in denoting past time not belonging to the current day, when the word पुरा is used in the sentence, provided that the word स्म is not used. The *anuvritti* of the word *anadyatana* which had come to a stop with (3.2.120) manifests itself again in this *sutra* by a process of jumping over the two intermediate aphorisms. This sort of *anuvritti* is technically called *manduka*-*pluti* 'the leap of a frog' i. e. skipping of several *sutras* and supplying a word from a previous *sutra*. This is an optional rule, so that when *lat* and *lun* are not used, the proper tenses, as the case may be, must be employed. As वसन्तीह पुरा छात्राः 'the pupils lived here formerly'. So also, Aorist, अवात्सुः पुरा छात्राः; Imperfect, अवसन्निह पुरा छात्राः; Perfect, ऊषुरिह पुरा छात्राः । Why do we say 'when the word स्म is not used'? Observe यजति स्म पुरा युधिष्टिरः '*Yudhishthira* did perform a sacrifice formerly'. Here rule 118 *ante* exerts its influence. Bhashya ------- पुरि लुङ् चास्मे (889) (598 लुङ्लड्विधिसूत्रम् ॥ 3 । 2 । 2 आदृ 16) (3017 वार्तिकम् ॥ 1 ॥) - हशश्वद्भ्यां पुरा- (भाष्यम्) हशश्वल्लक्षणात्पुरालक्षणो भवति विप्रतिषेधेन। हशश्वल्लक्षणस्यावकाशः - इति हाकरोत् इति ह चकार, - शश्वदकरोत् शश्वच्चकार पुरालक्षणस्यावकाशो - रथेनायं पुरा याति रथेनायं पुरायासीत्। इहोभयं प्राप्नोति - -रथेन हशस्वत्पुरा याति रथेन हशश्वत्पुरायासीत्। पुरालक्षणो भवति विप्रतिषेधेन ॥ (3018 वार्तिकम् ॥ 2 ॥) - स्मः सर्वेभ्यो विप्रतिषेधेन- (भाष्यम्) स्मलक्षणः सर्वेभ्यो भवति विप्रतिषेधेन। हशस्वल्लक्षणात्पुरालक्षणाच्च। हशश्वल्लक्षणस्यावकाशः - इति हाकरोत्उइति ह चकार। शश्वदकरोत्शश्वच्चकार। पुरालक्षणस्यावकाशः - णस्यावकाशः - धर्मेण स्म कुरवो युध्यन्ते। इह सर्वे प्राप्नोति - न ह स्म वै पुरा शश्वदग्निरपरशुवृक्णं दहति। स्मलक्षणो लड् भवति विप्रति षेधेन ॥ पुरि लुङ् ॥ 122 ॥ (इति भूताधिकारः) Kashika ------- अनद्यतनग्रहणमिह मण्डूकप्लुत्यानुवर्तते। पुराशब्द उपपदे स्मशब्दवर्जिते भूतानद्यतनेऽर्थे विभाषा लुङ् प्रत्ययो भवति, लट् च। ताभ्यां मुक्ते पक्षे यथाविषयमन्येऽपि प्रत्यया भवन्ति। वसन्तीह पुरा छात्राः। अवात्सुरिह पुरा छात्राः। अवसन्निह पुरा छात्राः। ऊषुरिह पुरा छात्राः। अस्म इति किम्? नडेन स्म पुराधीयते॥ Siddhanta Kaumudi ----------------- अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥ Balamanorama ------------ **पुरि लुङ् चास्मे** - पुरि लुङ् चास्मे ।अस्मे इति च्छेदः । पुरेत्याकारान्तमव्यम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभाघादाल्लोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चाल्लडिति । तथा च लुङ् लट् च वेति फलितम् । पक्षे इति । एतदुपभयाऽभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाऽविवक्षायां तु लङित्यर्थः । 'अभिज्ञावचने ' इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । 'भविष्यति गम्यादयः' इति सूत्रादिति भावः । Padamanjari ----------- पुरि लङ् चास्मे॥ अनद्यतनग्रहममित्यादि। लुङ्ग्रहणं चात्र लिङ्गम्। यदि हि भूतमात्रेऽयं विधिः स्यात् विभाषा लटो विधानातेन मुक्ते लुङपि भविष्यति, कि लुङ्ग्रहणेन! अनद्यतनग्रहणानुवृतौ तु लटा मुक्ते लणेóव स्यादिति कर्तव्यं लुङ्ग्रहणम्। अन्येऽपीति। लङ्लिटौ, अभिज्ञावचने लृट् - अभिजानासि देवदत वत्स्यन्तीह पुरा छात्रा इति॥ Nyaas ----- `पुराशब्दे` इति। एतेन पुराशब्द इहोपपदत्वेनोपात्तो न पुरिति दर्शयति। यद्येतदेव, अस्याकारान्तत्वात् पुरीति सप्तम्यन्तो निर्देशो नोपपद्यते? **आतो धातोः** (6.4.140) इति योगविभागादाकारलोपाददोषः। अथ `पृ पालनपूरणयोः`(धातुपाठः-1086) इत्येतस्माद्भ्राजादिसूत्रेण (3.2.177) क्विपि विहितः `उदोष्ठपूर्वस्य` (7.1.102) इत्युत्त्वे रपरत्वे च कृते यः पूःशब्द सम्पद्यते तस्येहाप्युपपदत्वेनोपादानमिति कस्मान्न विज्ञायते? तस्यानद्यतनवृत्त्यसम्भवात्। पुराशब्दस्तु तत्रैव वर्तत इति तस्यैव ग्रहणं युक्तम्। `लुङ च` इति चकारेण लडनुकृष्यत इति दर्शयति। `यथाविषयम्` इति। `यथाऽसादृश्ये` (2.1.7) इति वीप्सायामव्ययीभावः। `अन्येऽपि`इति। लङादयः। `वसन्ति` इति। लट्। `अवात्सुः` इति। लुङ, `सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुसादेशः, `वदव्रज` (7.2.3) इत्यादिना वृद्धिः, पूर्ववत् सकारस्य तत्वम्। `अवसन्` इति। लङ। `ऊषुः` इति। लिट्, `परस्मैपदानाम्` (3.4.82) इत्यादिना झेर्जुस्, द्विर्वचनम्, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, `लिटभ्यासस्योभयेषाम्` (6.1.17) इत्यभ्यासस्य च; `शासिवसिघसीनाञ्च` (8.3.60) इति षत्वम्॥ Prakriyasarvasvam ----------------- पुराशब्दयोगे भूतानद्यतने लुङ्लटौ वा स्तः । कृष्णः पुरा भवति, अभूत् । विकल्पादभवत्, बभूव वा । तदाशब्दादियोगे चाह भोजः । कृष्णस्तदा भवति अभूदित्यादि3। स्मयोगे तु न लुङादि । भवति स्म पुरा कृष्णः । 'वसेर्जागरणसन्ततौ रात्रिशेषे लुङ् वाच्यः' (वा) ॥ कश्चिन्निशि जागरितो निशान्त्ययामे वसिं प्रयुङ्क्ते चेत् । तस्यानद्यतनेऽर्थे लङ् न, लुङेव त्ववात्समत्रेति ॥ ७६८ ॥ 'वर्तमाने लट्' (३-२-१२३) नित्यप्रवृत्तस्यापि वर्तमानत्वमिष्टम् । जगत् सृजति हरिः । अथ भविष्यदर्थाः । Sutra Prayogas -------------- * **विबोध्यसे** (किरातार्जुनीयम्): `पुरि लुङ् चास्मे` इति भूतार्थे लट् ।