32108: भाषायां सदवसश्रुवः ========================= **Padacheda:** भाषायाम् | S | 7 | 1 | सद-वस-श्रुवः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In modern Sanskrit the affix क्वसु optionally replaces लिट् (Perfect Tense) after the verbs सद् , वस् and श्रु with a past signification. Vasu English Translation ------------------------ In modern Sanskrit the affix क्वसु optionally replaces लिट् (Perfect Tense) after the verbs सद् , वस् and श्रु with a past signification. This being a substitute only, the original affix लिट् also comes after these verbs. As, उपसेदिवान् कौत्सः पाणिनिम् '*Kautsa* served *Panini*'. In the alternative, the proper affixes of the past tense will be employed. As उपासदत् 'he served'; उपासीदत् and उपससाद्. So also अनूषिवान् कौत्सः पाणिनिम्. In the alternative we have अन्ववासीत्, अन्ववसत् and अनूवास. So also उपशुश्रुवान् कौत्सः पाणिनिम्. In the alternative we have उपाश्रौषीत्, उपाश्रुणोत् and उपशुश्राव. The affix क्वसु is employed with the force of लुङ्, and लङ् also. Bhashya ------- भाषायां सदवसश्रुवः (895) (590 क्वसुः विधिसूत्रम्॥ 3। 2 । 2 आ.8) (2083 लिड्विकल्पवार्तिकम्॥ 1 ॥) - भाषायां सदादिभ्यो वा लिट्- (भाष्यम्) भाषायां सदादिभ्यो वा लिड्वक्तव्यः। किं प्रयोजनम्?॥ (2084 लिड्विकल्पवार्तिकशेषवार्तिकम्॥ 2 ॥) - तद्विषये लुङोऽनिवृत्त्यर्थम्- (भाष्यम्) तस्य लिटो विषये लुङोऽनिवृत्तिर्यथा स्यात्। उपसेदिवान् कौत्सः पाणिनिम्। उपासदत्॥ (2085 लङ्समावेशवार्तिकम्॥ 3 ॥) - अनद्यतनपरोक्षयोश्च- (भाष्यम्) अनद्यतनपरोक्षयोश्च वा लिड्वक्तव्यः। उपसेदिवान् कौत्सः पाणिनिम्। उपासीदत्। उपससाद॥ (2086 हेतुवार्तिकम्॥ 4 ॥) - अपवादविप्रतिषेधाद्धि तयोर्भावः- (भाष्यम्) अपवादविप्रतिषेधाद्धि तौ स्याताम्। कौ?। लङ्लिटौ॥ (2087 वार्तिकम्॥ 5 ॥) - तस्य क्वसुरपरोक्षे नित्यम्- (भाष्यम्) तस्य लिटो भाषायां क्वसुरपरोक्षे नित्यमिति वक्तव्यम्॥ (अपरोक्षग्रहणप्रत्याख्यानभाष्यम्) अपरोक्षग्रहणेन नार्थः। तस्य क्वसुर्नित्यमित्येव॥ केनेदानीं लिटः परोक्षे श्रवणं भविष्यति?॥ परोक्षे लिडित्यनेन॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। अनुवृत्तिः करिष्यते। भाषायां सदादिभ्यो वा लिङ् भवति। लिटश्च क्वसुर्भवति॥ ततो लुङ् लुङ् भूते काले भवति। भाषायां सदादिभ्यो वा लिड् भवति,लिटश्च क्वसुर्भवति॥ ततः - अनद्यतने लङ् । अनद्यतने भूतकाले लङ् भवति। भाषायां सदादिभ्यो वा लिड् भवति, लिटश्च क्वसुर्भवति॥ (ततः - ) परोक्षे लिट्। परोक्षे लिड् भवति। भाषायां सदादिभ्यो वा लिड्भवति लिटश्च क्वसुर्भवति। तत्रायमप्यर्थः - तस्य क्वसुरपरोक्षे नित्यम् इत्येतन्न वक्तव्यं भवति॥ भाषायां सद॥ 108 ॥ Kashika ------- सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति। आदेशविधानादेव लिडपि तद्विषयोऽनुमीयते । उपसेदिवान् कौत्सः पाणिनिम्। तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति। उपासदत्। उपासीदत्। उपससाद। अनूषिवान् कौत्सः पाणिनिम्। अन्ववात्सीत्। अन्ववसत्। अनूवास। उपशुश्रुवान् कौत्सःपाणिनिम्। उपाश्रौषीत्। उपाशृणोत्। उपशुश्राव। लुङ्लङ्विषये परस्तादनुवृत्तेः क्वसुर्भवति॥ Siddhanta Kaumudi ----------------- सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवञ्जनस्य । शुश्रुवान् ॥ Balamanorama ------------ **भाषायां सदवसश्रुवः** - भाषायाम् । सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी । पुंस्त्वमेकवचनं चार्षम् । तस्य च नित्यं क्वसुरिति । वाग्रहणं लिटैव संबध्यते, तस्य क्वसुस्तु नित्य इति भाष्ये स्पष्टम् । पक्षे लुङ्, तस्य भूतसामान्ये विहितत्वात् । वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात् । सरूपत्वात् । अस्य च भूतसामान्ये लिटो न तिङ् । अस्य क्वसोस्तदपवादत्वात् । वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानेज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः । निषेदुषीमिति । निपूर्वात्सदेर्लिटः क्वसुः, द्वित्वम्, 'अत एकहल्मध्ये' इत्येत्त्वाभ्यासलोपौ,वसास्सम्प्रसारणं, पूर्वरूपं, षत्वम् । अध्यूषुष इति । अधिपूर्वाद्वसधातोर्लिटः क्वसुः, याजित्वाद्धातोर्वस्य संप्रसारणम् । पूर्वरूपम् । उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः । शसि वसोः संप्रसारणं, पूर्वरूपम् । शुश्रुवानिति । श्रुधातोर्लिटः क्वसुः । द्वित्वम् ॥ Tattvabodhini ------------- **भाषायां सदवसश्रुवः** - निषेदुपीमिति । षद्लृ विशरणादौ ।लिटि धतो॑रिति द्वित्वेअत एकहल्मध्ये॑ इत्येत्त्वाभ्यासलोपौ ।उगितश्चे॑ति ङीपिवसो॑रिति सम्प्रसारमए वलादित्वाऽभावान्नेट् ।सदिरप्रते॑रिति षत्वम् । पुंसि तु निषेदिवान् । अध्यूषुष इति । वस निवासे अधिपूर्वः ।वचिस्वपी॑ति संप्रसारणं । द्वित्वहलादिशेषसवर्णदीर्घाः । ङसि भत्वात्संप्रसारणम् । प्रथमैकवचने तु अध्यूषिवान् । Padamanjari ----------- भाषायां सदवसश्रुवः॥ आदेशविधानादेवेत्यादि। यदि भाषायां सदादिभ्यो भूतसामान्ये लिण्न स्यात्, ततस्ताद्दशस्य लिट आदेशविधानमनुपपन्नं स्यादिति मन्यते। ननु च'लिटः कानज्वा' इत्यत्र पुनर्लिड्गहणस्य प्रयोजनमुक्तम् - योऽपि परोक्षे लिड्विहितस्तस्याप्ययमादेशो भवतीति, तच्चेत्सत्यम्, इहापि यः परोक्षे लिट् स भाषायामपि सदादिभ्यः सम्भवतीति तस्येवेदमादेशविधानं स्यात्? उच्यते - लिङ्लिड्विषयेऽपि परस्तादनुवृतेर्भवतीति वक्ष्यति, ततो नानेन परोक्षे लिट आदेशाभिधानम्, किं तर्हि? भूतसामान्ये, ततश्चादेशविधानादेव लिडपि तद्विषयोऽनुमातव्यः। यद्येवम्, तस्य पक्षे क्वस्वादेशः पक्षान्तरे तिङं श्रवणं प्राप्नोति? न वावचनेन क्वसुरभिसम्बद्ध्यते क्वसुर्वा भवतीति, किं तर्हि? लिडभिसम्बद्ध्यते, भाषायां सदादिभ्यो वा लिट्; तस्य नित्यं स्वसुरादेशो भवतीति। वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थ योजनीयः। उपासददिति। लृदित्वादङ्। उपासीददिति पाघ्रादिसूत्रेण सीदादेशः। अनूषिवानिति। यजादित्वात्सम्प्रसारणम्ठ्शासिवसिघसीनां चऽ इति षत्वम्। अन्ववात्सीदिति।'सस्यार्द्धधातुके' इति तत्वम्। अनूवासेति।'लिट।ल्भ्यासस्योभयेषाम्' इत्यभ्यासस्य सम्प्रसारणम्। लुङ्लङ् विषयेऽपि परस्तादनुवृतेर्भवतीति। अन्यथा भूतसामान्ये लुङ् विहितस्त्रैव धातुविशेषेऽनेनादेशविधानेनानुमितो लिडपवादः। तथा भूतविशेषे लङ्लिटौ लुङ् एवापवादौ। सदादिभ्यस्तु भूतविशेषे एतत्सूत्रविहितं च कार्य प्राप्नोति, लङ्लिटौ च; अपवादविप्रतिषेधाल्लङ्लिटावेव स्याताम्॥ Nyaas ----- ननु चेह प्रकरणे भूतसामान्ये लिड् विहितः, तेनासौ भाषायां नास्त्येव, तदसतस्तस्य कथं क्तसुरादेशः शक्यते विज्ञातुमित्याह - `आदेशविधानादेव` इत्यादि। यदेतद्भाषायां लिटः क्वसोरादेशविधानमत एव विज्ञानाद् भूतसामान्ये भाषायां लिडित्वनुमीयते; अन्यथा ह्रादेशविधानमनर्थकं स्यात्। न ह्रविद्यमानस्य स्थानिन आदेश उपपद्यते। यदि तह्र्रादेशविधानाल्लिड्? भाषायामनुमीयते, ततश्च सदादिभ्यो भाषायां नित्यं लिट् प्राप्नोति, तस्य `विभाषा क्वसुः` इति पक्षे तिङः श्रवणं प्रसज्येत, लुङादेशश्च स्वविषये पाक्षिको न स्यात्, नित्यत्वाल्लिटः? नैष दोषः;आदेशेन हि लिङ्गेन लिडनुमीयते, तेन यदादेशो नास्ति तदा तदनुमानमपि नास्त्येव। तदसत्त्वे लिटः कुत आदेशा येषां श्रवणं प्रसज्येत ! यत्र पक्षे लिट् नास्ति तत्र स्वविषये लुङादयो भवन्तः केन निवार्यन्ते ! `उपसेदिवान्` इति। `षद्लृ विशरणे` (धातुपाठः-854)। `अत एकहल्मध्ये` (6.4.120) इत्यादिनैत्वाभ्यासलोपौ, `वस्वेकाजाद्धसाम्` (7.2.67) इतीट्, नुम्, **सान्तमहतः संयोगस्य** (6.4.10) इति दीर्घः, हल्ङ्यादि (6.1.66) संयोगान्तलोपौ (8.2.23) । `उपासदत्` इति। वाग्रहणाद्यस्मिन् पक्षे लिड् नास्ति तस्मिन् पक्षे भूतसामान्ये लुङ्, तिप्, `इतश्च` (3.4.100) इतीकारलोपः, पुषादिना (3.1.55) च्लेरङ्। `उपासीदत्` इति। **अनद्यतने लङ्** (3.2.111) , प्राघ्रादिसूत्रेण (7.3.78) सीदादेशः। `उपससाद` इति। **परोक्षे लिट्** (3.2.115) , तिप्, णल्, **अत उपधायाः** (7.2.116) इति वृद्धिः। `अनूविषान्` इति। `वस निवासे` (धातुपाठः-1005), लिटः क्वसूर्द्विर्वचनम्, वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। `लिटभ्यासस्योभयेषाम्` (6.1.17) इत्यभ्यासस्य सम्प्रसारणम्, `शासिवसिघसीनाञ्च` (8.3.60) इति षत्वम्, **अकः सवर्णे दीर्घः** (6.1.101) अनुशब्देन सह पुनर्दीर्घः। `अन्ववात्सीत्िति। लुङ्, **अस्तिसिचोऽपृक्ते** (7.3.96) इतीट्, `एकाचः` (7.2.10) इतीट्प्रतिषेधः, `सः स्यार्धधातुके` (7.4.49) इति तत्वम्, `वदव्रज` (7.2.3) इत्यादिना वृद्धिः। `अन्ववसत्` इति। लङ्। `अनूवास` इति। लिट, पूर्ववत् सम्प्रसारणादिकार्यम्। `उपशुश्रुवान्` इति। `श्रु श्रवणे` (धातुपाठः-942), लिटः क्वसुः, द्विर्वचनम्। `उपाश्रौषीत्` इति। लुङ् **सिचि वृद्धिः परस्मैपदेषु** (7.2.1) इति वृद्धिः, पूर्ववदिट्प्रतिषेधः, **अस्तिसिचोऽपृक्ते** (7.3.96) इतीट्, उपसर्गेण **अकः सवर्णे दीर्घः** (6.1.101) । `उपाशृणोत्` इति। लङ्, **श्रुवः शृ च** (3.1.74) इति श्नुप्रत्ययः, शृभावश्च, `सार्वधातुकार्थधातुकयोः` (7.3.84) इति गुणः। `उपशुश्राव` इति। लिट्, तिप्, णल्, **अचो ञ्णिति** (7.2.115) इति वृद्धिः, आवादेशः। इहानेन सूत्रेण यत्कार्यं विधीयते तद्भूतसामान्ये। `{इयं पंक्तिर्मुद्रिते नास्ति} लुङ्` (3.2.110) इत्यनेन लुङ्। `अनद्यतने लुङ्` (3.2.111) इत्यनेन लङ्, **परोक्षे लिट्** (3.2.115) इत्यनेन लिट्, भूतानद्यतनपरोक्षे परौ च लङिलिटौ भवतः। विशेषविहितत्वाच्च लङलिटोरस्य सदादिकार्यस्य बाधकौ प्राप्नुतः। तस्य कार्यस्य भूतसामान्यमवकाशः; लङलिटोः सदादिभ्योऽन्येभ्यो धातुभ्यः, सदादिभ्यो भूतविशेषे भूतानद्यतनपरोक्षे; भूतानद्यतने चोभयप्राप्तौ यथोक्तकारणद्वयात् लङलिटौ स्याताम्।न चैतत् सूत्रविहितं कार्यमपीति यश्चोदयेत्, तं प्रत्याह - `लुङलङविषयेऽपि` इत्यादि। लिड्ग्रहणस्य वाग्रहणस्य चास्य सूत्रस्य पुरस्तात् `अनद्यतने लङ` (3.2.111) , **परोक्षे लिट्** (3.2.115) इत्यत्र चानुवृत्तिः क्रियते। तत्र चानुवृत्तिसामर्थ्यात् लङ्यप्येतत् भवति। अत्रैवं सम्बन्धः कर्तव्यः - अनद्यतने लङ भवति, सदादिभ्यो वा लिट्, लिटश्च क्वसुरादेशो नित्यमिति। परोक्षे लिड्? भवति, सदादिभ्यो वा, लिटः क्वसुरिष्यते, सूत्रान्तरविहितश्चायम्॥ Prakriyasarvasvam ----------------- एषां लोके भूतार्थमात्रे लिट् । तस्य च नित्यं क्वसुः स्यात् । सद्‌सद् वस् । पचिवद् 'अत एकहल्मध्ये--' (६-४-१२०) इत्येत्वाभ्यासलोपौ । 'वस्वे--' (७-२-६७) इतीट् च । सेदिवान् । वसेर्यजादित्वात् किति संप्रसारणम् । पूर्वरूपम् । उस् वस् । द्वित्वं, हलादिः शेषः । उ उस् वस् । सवर्णदीर्घः । ऊस् वस् । इदानीमेकाच्त्वादिट् । 'शासिवसि--' (८-३-६०) इति षः । ऊषिवान् । शुश्रुवान् । द्व्यच्त्वादिट्भावः ॥ Sutra Prayogas -------------- * **निषेदुषीम्** (रघुवंशम्): `भाषायां सदवसश्रुवः` इति क्वसुप्रत्ययः। * **प्रतिशुश्रुवान्** (रघुवंशम्): `भाषायां सदवसश्रुवः` इति क्वसुप्रत्ययः। * **शुश्रुवान्** (रघुवंशम्): `भाषायां सदवसश्रुवः` इति क्वसुप्रत्ययः। * **प्रसेदिवांसं** (किरातार्जुनीयम्): `भाषायां सदवसश्रुवः` इति क्वसुः। * **निषेदिवान्** (शिशुपालवधम्): `भाषायां सदवसश्रुवः` इति क्वसुः। * **निषेदिवान्** (शिशुपालवधम्): `भाषायां सदवसश्रुवः` इति क्वसुप्रत्ययः। * **शुश्रुवान्** (शिशुपालवधम्): `भाषायां सदवसश्रुवः` इति क्कसुप्रत्ययः। * **उपसेदिवद्भिः** (शिशुपालवधम्): `भाषायां सदवसश्रुवः` इति सदेर्लिटः क्वसुरादेशः। * **दासेदुषः** (भट्टिकाव्यम्): `भाषायां सद-वस-` इत्यादिना वसुः। * **शुश्रुवांस्तद्** (भट्टिकाव्यम्): `भाषायां सद-त्रस-श्रुवः` इत्यनेन वसुः । * **प्रोषिवानेत्य** (भट्टिकाव्यम्): `भाषायां` इत्यादिना क्वसुः। * **निषेदिवान्** (भट्टिकाव्यम्): `भाषायां सद-वस` इत्यादिना वसुः।