32107: क्वसुश्च =============== **Padacheda:** क्वसुः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) the affix क्वसु is optionally the substitute for लिट् । Vasu English Translation ------------------------ In the छन्दस् (Vedas) the affix क्वसु is optionally the substitute for लिट् । As जक्षिवस् 1st. sing. जक्षिवान् 'eaten' (*Yaj*. (VIII.19)); पपिवस् 1st. sing. पपिवान् 'drunk'. Sometimes it does not come, as in the example under *sutra* (3.2.105); अहं सूर्यमुभयतो ददर्श. The division of this *sutra* from the last, in which it could well have been included, is for the sake of the subsequent *sutras*, into which the *anuvritti* of क्वसु only runs. Bhashya ------- क्वसुश्च (874) (509 लिटः क्वसुविधिसूत्रम्॥ 3 । 2 । 2 आ.7) (वाग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं कानच्क्वस्वोर्वावचनं क्रियते। - कानच्क्वस्वोर्वावचनं छन्दसि तिङो दर्शनात्- (भाष्यम्) कानच्क्वस्वोर्वावचनं क्रियते। छन्दसि तिङो दर्शनात्। छन्दसि तिङपि दृश्यते - अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततानेति॥ (2080 समाधानासंगतिवार्तिकम्॥ 2 ॥) - न वानेन विहितस्यादेशवचनात्- (भाष्यम्) न वा एतत्प्रयोजनमस्ति। किं कारणम्?। अनेन विहितस्यादेशवचनात्॥ (आक्षेपभाष्यम्) अस्त्वनेन विहितस्यादेशः। केनेदानीं छन्दसिविहितस्य लिटः तिङः श्रवणं भविष्यति॥ (समाधानभाष्यम्) छन्दसि लुङ्लङ्लिटः इत्यनेन। तदेतद्वावचनं तिष्ठतु तावत् सांन्यासिकम्॥ (कित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ कित्करणं किमर्थम्। न असंयोगाल्लिट्कित् इत्येव सिद्धम्। (2081 प्रयोजनवार्तिकम्॥ 3 ॥) - कित्करणं संयोगान्तार्थम्- (भाष्यम्) कित्करणं क्रियते। संयोगान्तार्थम्। संयोगान्ताः प्रयोजयन्ति। बन्धे वृत्रस्य यद्बद्धधानस्य रोदसी। त्वमर्णवान् बद्बधानाँ अरम्णाः। अञ्ञ्चेः आजिवानिति॥ (प्रयोजननिराकरणभाष्यम्) छान्दसौ कानच्क्वसू। लिट् च छन्दसि सार्वधातुकमपि भवति। तत्र सार्वधातुकमपिद् ङिद्वद्भवति। ङित्त्वादुपधालोपे भविष्यति॥ (2082 प्रयोजनान्तरवार्तिकम्॥ 4 ॥) - ऋकारान्तगुणप्रतिषेधार्थं वा- (भाष्यम्) ऋकारान्तानां गुणप्रतिषेधार्थं तर्हि कित्त्वं वक्तव्यम्। अयं हि लिटि ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते। स यथैवेह प्रतिषेधं बाधित्वा गुणो भवति - तेरतुः तेरुरिति। एवमिहापि स्यात् - तितीर्वान्, तितिराण इति। पुनः कित्करणात् प्रतिषिध्यते। तस्मात्कित्त्वं कर्तव्यम्॥ लिटः कानञ्ञ्वा॥ 107 ॥ Kashika ------- छन्दसि लिटः क्वसुरादेशो भवति। जक्षि॒वान् (शौ०सं० ४.७.३)। प॑पि॒वान् (ऋ० १.६१.७)। न च भवति — अ॒हं सूर्य॑मुभ॒यतो॑ ददर्श॒ (मा०सं० ८.९.)। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- लिटः कानच् क्वसुश्च वा स्तः । तङानावात्मनेपदम् । चक्राणः ॥ Balamanorama ------------ **क्वसुश्च** - क्वसुश्च । त्रीणीमानि सूत्राणि । अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे — भूतसामान्ये छन्दसि लिडिति । अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः ।लिटः कानज्वे॑ति द्वितीयं सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः । लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् । तेन 'परोक्षे लि' डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः । अन्यथाअनन्तरस्ये॑ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम् । वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा । तत्प्रयोजनं तुभाषायां सदवसे॑त्यत्र क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छान्दसाविति — अत्रैव भाष्यकैटयोः स्पष्टम् । तदाह — तस्येत्यादि, त्रिमुनिमतमित्यन्तम् ।विभाषा पूर्वाह्णाऽपराह्णे॑ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम् । तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम् । तदाह - कवयस्त्विति । तस्थिवांसमिति । स्थाधातोर्लिटः क्वसुः । द्वितीयैकवचनेअत्वसन्तस्ये॑ति दीर्घः । उगित्त्वान्नुम् । अधिजग्मुष इति । अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने॑त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम् । Padamanjari ----------- क्वसुश्च॥ क्वसोरुकार उगित्कार्यार्थः, जक्षिवानित्यादौ ठुगिदचाम्ऽ इति नुम्, उपसेदुषीत्यादौ ठुगितश्चऽ इति ङीप्,'वसोः संप्रसारणम्' इत्यत्र सामान्यग्रहणमप्युकारस्य प्रयोजनम्। कित्करणं किमर्थ न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्? संयोगान्तार्थम्।अञ्जेः आजिवान् - उपधालोपो भवति, छान्दसः क्वसुः लिट्। च्छन्दसि सार्वधातुकमपि तत्र'सार्वधातुकमपित्' इति। तत्वङ्तीत्युपिधालोपो भविष्यति। ऋकारान्तगुणप्रतिषेधार्थन्तुऽ, ठृच्छत्यृताम्ऽ इत्ययं गुणः प्रतिषेध आरभ्यते स यथेह भवति - तेरतुस्तेरुरिति, तथा तितीर्वानित्यत्रांपि स्यात्। कित्करणसामर्थ्याद्भाषायामपि क्वसुर्भवतीत्येतु भाष्यविरोधादुपेक्ष्यम्। उतरसूत्रानर्थक्यं च, यदि भाषायामपि क्वसुर्भवति॥ Nyaas ----- क्वसोरुगित्करणं नुमर्थम्। कित्करणं कानच इव द्रष्टव्यम्। असति हि तस्मिन् `ऋच्छत्यृनाम्` (7.4.11) इति यथेह गुणो न भवति - तेरतुः, तेरुरिति; तथेहापि ततीर्वानिति। `तृ प्लवनतरणयोः` (धातुपाठः-969), **ॠत इद्धातोः** (7.1.100) इतीत्त्वम्, `हलि च` (8.2.77) इति दीर्घः, द्विरवचनमभ्यासकार्यम्। `जक्षिवान्` इति। `लिटन्यतरस्याम्` (2.4.40) इत्यदेर्घस्लादेशः। `वस्वेकाजाद्धसाम्` (7.2.67) इतीट्, **घसिभसोर्हलि च** (6.4.100) इत्युपधालोपः, `खरि च` (8.4.54) इति घकारस्य ककारः, `शासिवसिघसीनाञ्च` (8.3.60) इति षत्वम्, **कुहोश्चुः** (7.4.62) इत्यभ्यासस्य चुत्वम् - झकारः, **अभ्यासे चर्च** (8.4.54) इति झकारस्य जकारः। `पपिवान्` इति। `पा पाने` (धातुपाठः-925)। पूर्ववदिट्। **आतो लोप इटि च** (6.4.64) इत्यकारलोपः। `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे क्वसोरेवानुवृत्तिर्यथा स्यात्, कानचो मा भूत्॥ Prakriyasarvasvam ----------------- लिटः क्वसुर्वा स्यात् । उकार उगित्त्वार्थः । कित्त्वमगुणाद्यर्थम् । 'तङानावा- त्मनेपदम्' (१-४-१००) इत्यात्मनेपदिनां कानज्विषयत्वात् परस्मैपदिनामेव क्वसुः । पच् वस्, Sutra Prayogas -------------- * **तस्थिवांसं** (रघुवंशम्): `क्वसुश्च` इति क्वसुप्रत्ययः। * **विजज्ञिवान्** (रघुवंशम्): `क्वसुश्च` इति क्वसुप्रत्ययः। * **पेतुषी** (रघुवंशम्): `क्वसुश्च` इति क्वसुप्रत्ययः। * **निपेतुषी** (रघुवंशम्): `क्कसुश्च` इति क्वसुप्रत्ययः। * **निषेदुषी** (कुमारसम्भवम्): `क्वसुश्च` इति क्वसुः।