32091: अग्नौ चेः ================ **Padacheda:** अग्नौ | S | 7 | 1 | चेः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्विप्comes after the verb चि 'to collect' with the sense of past time, when the word अग्नि , in the Accusative -2nd case, is in composition. Vasu English Translation ------------------------ The affix क्विप्comes after the verb चि 'to collect' with the sense of past time, when the word अग्नि , in the Accusative -2nd case, is in composition. As, अग्निचित् 'one who has kept the sacred fire'; 1st. dual अग्निचितौ; 1st. plural अग्निचितः । Here also, as in the last aphorism, four-fold restriction is intended. Kashika ------- कर्मणीत्येव। अग्नौ कर्मण्युपपदे चिनोतेर्धातोः क्विप् प्रत्ययो भवति। अग्निचित्, अग्निचितौ, अग्निचितः। अत्रापि पूर्ववच्चतुर्विधो नियम इष्यते॥ Siddhanta Kaumudi ----------------- अग्निचित् ॥ Balamanorama ------------ **अग्नौ चेः** - अग्नौ चेः । ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ- । अग्निचिदिति । अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः । Padamanjari ----------- अग्नौ चेः॥ अत्रापीत्यादि। तत्र भूतकालस्य क्विपि नियतत्वादग्निं चितवानग्निचाय इत्यण् न भवति। धातोश्चाग्नावुपपदे नियतत्वादिष्टकाचिदिति न भवति। अग्नेश्चिनोतावेव नियतत्वादग्निभृदिति न भवति। क्विपश्च भूत एव नियतत्वादग्निं चिनोति चेष्यति वेत्यत्राभावः॥ Nyaas ----- `अत्रापि पूर्ववत्ित्यादि। तत्र कालनियमः - अग्नौ चिनोतेर्भूते क्विबव, नान्य इति; तेनाग्न चितवानित्यर्थविवक्षायामग्निचाय इति न भवति। धातुनियमः - अग्नावेव चिनोतेर्नान्यस्मिन्नुपपद इति; तेनेष्टकाचिदितति न भवति। उपपदनियमः - अग्नौ चिनोतेरेव नान्यस्माद्धातोरिति; तेनाग्निकृदिति न भवति। प्रत्ययनियमः - अग्नौ चिनोतेर्भूत एव क्विप्, नान्यस्मिन् काले; तेन वर्तमानभविष्यतोरग्निचिदिति न भवति॥ Prakriyasarvasvam ----------------- अग्निचित् ॥ Sutra Prayogas -------------- * **अग्नि-चित्** (भट्टिकाव्यम्): `अग्नौ चेः` इति क्विप्।