32085: करणे यजः =============== **Padacheda:** करणे | S | 7 | 1 | यजः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णिनि comes after the verb यज् 'to sacrifice' with the sense of past time, when the word in composition is the Instrumental -3rd case. Vasu English Translation ------------------------ The affix णिनि comes after the verb यज् 'to sacrifice' with the sense of past time, when the word in composition is the Instrumental -3rd case. The *anuvritti* of णिनि and not of खश् is to be read into this *sutra*. As अग्निष्टोमयाजिन् 'who has sacrificed with *Agnishtoma*. Here *Agnishtoma* is the instrument for the attainment of the desired fruit. Kashika ------- णिनिरनुवर्तते, न खश्। यजतेर्धातोःकरण उपपदे णिनिप्रत्ययो भवति भूते। अग्निष्टोमयाजी। अग्निष्टोमः फलभावनायां करणं भवति॥ Siddhanta Kaumudi ----------------- करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥ Laghu Siddhanta Kaumudi ----------------------- करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥ Balamanorama ------------ **करणे यजः** - करणे यजः । सोमेनेति । सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः । एतच्च द्वितीयस्य द्वितीयेद्रव्यसंयोगाच्चोदना पशुसोमयो॑रित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । अग्निष्टोमयाजीति । अग्निष्टोमाख्ययागेन अपूर्वं भावितवानित्यर्थः । Tattvabodhini ------------- **करणे यजः** - करणे । स्वरितत्वाण्णिनिरेवानुवर्तते, न तु खशित्याह — णिनिः स्यादिति । सोमेन लताविशेषेण यागं कृतवानित्यर्थः । अग्निष्टोमेति । अग्निष्टोमस्तोत्रेण समाप्यमानो यो यागः स लक्षणयाऽग्निष्टोमस्तेनाऽपूर्वं भावितवानित्यर्थः । उक्तं च काशिकायाम् — अग्निष्टोमः फलभावनायां करण॑मिति । Padamanjari ----------- करणे यजः॥ णिनिरनुवर्तते न खशिति। अत्रोक्तो हेतुः। अग्निष्टोमयाजीति। ननु चाग्निष्टोमशब्दः कर्मनामधेयम्, तत्कथमग्निष्टोमस्य यजिं प्रति करणत्वम्, न हि तदेव तत्र करणं भवति; इदं तु युक्तमुदाहरणम् - सोमेनेष्टवान् सोमयाजी, सान्नाय्येनेष्टवान् सान्नाय्ययाजीति? तत्राह - अग्निष्टोमः फलभावनायां करणं भवतीति। सत्यं याग एवाग्निष्टोमः; यागोऽपि फलभावनायां करणम्, फलस्य स्वर्गादेर्भवतो या भावना उत्पादना तस्यामित्यर्थः। ननु दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गभावना न तदतिरिक्तः कश्चिद्व्यापारो यजनस्यास्ति यत्रः यागः कारण्यमश्नुते? उच्यते, द्विविधो यजमानव्यापारः - सामान्यरूपः, विशेषरूपश्चेति। तत्र समान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाभिलप्यः; बाह्मस्तु दीक्षणीयादिरुदवसानीयान्तः प्रसिद्ध एव। एवमोदनं पचनीत्यादिष्वप्यात्मगुणः प्रयत्नः बाह्यश्चादिश्रयणादिर्द्रष्टव्यः। फलं हि प्रेप्सन् तदर्थ प्रयतते, नोदास्ते; यतोऽयमुपायं जिज्ञासते, जानीते च, ज्ञात्वा चोपायमनुतिष्ठति। सैषा स्वर्गादिफलोद्देशेन प्रवृता कृतिर्भावनेत्युच्यते। सा च भाव्यम्, करणम्, इतिकर्तव्यतां चेति त्रितयमपेक्षते - इदमनेनेत्थं भावयेदिति। यथाह - भावनापेक्ष्यमाणा हि साधनं कि फलस्य मे। साधनानुग्रहः को वेत्यनृस्यूतमपेक्षते॥ इति॥ सैषा सामान्यरूपा वृत्तिर्न शास्त्रकटाक्षमपेक्षते। विशेषरूपा त्वपेक्षते, तथा हि - फलार्थी तदुपायं जिज्ञासते, तदुपायं जिज्ञासमानः शृणोति - ज्योतिष्टोमेनस्वर्गकामो यजेतेति। तत्र च पुरुषप्रवर्तनारूपो विधिः श्रूयते, न चापुरुषार्थे पुरुषः प्रवर्तत इति विध्यवरूद्धा भावना भाव्यापेक्षायां समानपदोपातमपि दुःखरूपं धात्वर्तमपहाय पदान्तरोपातमपि पुरुषोपसर्जनमपि सुखरूपं स्वर्गमेवावलम्बते। ततः करणापेक्षायां समानपदोपातो धात्वर्थः करणं भवति, पश्चात्सन्निधिसमाम्नातं दीक्षणीयादीतिकर्तव्यतयान्वेतीत्येषा मीमांसकमर्यादा। यत्र तु न विध्यवरोधो भावनायास्तत्र धात्वर्थ एव भाव्यो भवति, यथा - पचति पाकं करोति, गच्छति गमनं करोतीत्यादि निर्दिश्यते। ननु भावनया सम्पद्यमानस्य ब्राह्यव्यापारस्य कथं तत्र करणत्वम्? को दोषः? करणं खलु सर्वत्र कर्तृव्यापारगोचरः, कुठारेण च्छिनतीत्यत्रापि उद्यमननिपातनरूपेण कर्तृव्यापारेणाप्यमानस्यैव कुठारस्य तत्र करणत्वम्, तदेव कथं द्विधाभवनरुपेण फलेनावच्छिन्नयोस्तयोश्छेदनरूपत्वं न स्वरूपत्वम्, न स्वरूपेण रजके दर्शनात्, सोऽपि हि वस्त्रमुद्यच्छते निपातयति च। अथ द्विधाभवनाभावान्न च्छिनतीत्युच्यते, तदेवमुद्यमननिपातयोश्छेदरूपत्वं कुठारगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्, तथेहापि भावनायां स्वर्गभावनारूपत्वमग्निग्टोमाख्ययागगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्। तदिदमुक्तम् - फल्भावनायां करणमिति। इयं हि फलं धात्वर्थं च सम्पादयति, तत्र फलभावनारूपत्वे ब्राह्यए व्यापारः करणमित्यर्थः। नन्वेवमपि यज्यर्थ प्रति अग्निष्टोमः करणं न भवति? मा भूतत्र करणत्वम्, करणं तावत् सम्बन्धि च यजिना सामानाधिकरण्येन । अथ वा - भावनापि धातोरेव वाच्या, न प्रत्ययस्य; तत्र धात्वर्थैकदेश एकदेशान्तरस्य करणम्, अग्निष्टोमशब्दश्च तत्रैकदेशान्तरे वर्तत इति न किञ्चिदनुपपन्नम्॥ Nyaas ----- `णिनिरनुवर्तते, न खश्िति। णिनेरेव स्वरितत्वात्। क्व पुनर्यागः करणमित्याह - `अग्निष्टोमः फलभावनायाम्` इत्यादि। फलं स्वर्गः, तस्य या भावनोत्पादना = यजमानसम्बन्धी व्यापारः, तत्राग्निष्टोमयागः करणं भवति। ननु चाग्निष्टोमव्यतिरेकेण यजमानसय् व्यापारो भावनाख्यो नास्त्येव, यत्र यागः करणमिष्यते, तथाह्रग्निष्टोमाख्येनैव ह्रसौ यागेन स्वर्गाख्यं फलमुत्पादयति? नैतदेवम्; विशेषव्यापारे हि सामान्यव्यापारोऽस्ति, विक्षेषस्य सामान्यव्यभिचारात्। सामान्यव्यापार एव ह्रादौ फलार्थिनो बुद्धौ सन्निविशते। तथा हि - प्रतिपत्ता फळं समीहमानः स्वयमेव फलकामः सन् `स्वर्गो मनसि कर्तव्यः`इति सामान्यव्यापारं बुद्धावारोपयति, ततः ` अग्निष्टोमेन स्वर्गकामो यजेत`इति शास्त्रस्याग्निष्टोमेन करणेन स्वर्ग भावयेदितीममर्थ प्रतिपाद्य, स्वर्गभावनां प्रति करणत्वेनाग्निष्टोममाश्रयति। तस्मात् सामान्यव्यापारे स्वर्गस्योत्पादो विशेषव्यापारोऽग्निष्टोमाख्यो यागः स्वर्गाभावनायां करणं भवति। ननु चानुष्ठीयमानः कर्मत्वमनुभवति, तथापि तस्य शक्तिभेदात् करणत्वं न विरुध्यते, यथा - `निपीयमानेन मधुना मत्तः` इत्यत्र कर्मभावमनुभवतोऽपि मधुनः करणभावो भवति। तदेवमग्निष्टोमयाजीत्यस्यायमर्थः - अग्निष्टोमेन करणेन स्वर्ग भावितवानिति। स्वर्गशब्दस्तु वृत्तादन्तर्हितत्वान्न प्रयुज्यते॥ Prakriyasarvasvam ----------------- करणपूर्वात् यजेर्भूतेऽर्थे णिनिः स्यात् । अग्निष्टोमेनेष्टवानग्निष्टोमयाजी । Sutra Prayogas -------------- * **राजसूययाजीव** (भट्टिकाव्यम्): `करणे यजः` इति णिनिः।