32083: आत्ममाने खश्च ==================== **Padacheda:** आत्ममाने | S | 7 | 1 | खः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And the affix णिनि comes after the verb मन् 'to think' when the word in composition with it is a word with a case-affix and when it is used to signify thought, whereof the object is self (the sense of the affix being 'thinking himself as such'). Vasu English Translation ------------------------ And the affix णिनि comes after the verb मन् 'to think' when the word in composition with it is a word with a case-affix and when it is used to signify thought, whereof the object is self (the sense of the affix being 'thinking himself as such'). The word आत्ममान means thinking of one's own self. By the word 'and' it is meant that the affix णिनि may be employed in the same sense. This rule applies where the agent, indicated by the sense of the affix, thinks himself possessed of the qualities of 'handsomeness' &c., denoted by the *upapada*. As दर्शनीयम्मन्यः or दर्शनीयमानी 'who thinks himself handsome'; पण्डितम्मन्यः or पण्डितमानी 'who thinks himself learned'. Why do we say 'when employed to signify thought whereof the object is self'? Witness दर्शनीयमानी देवदत्तस्य यज्ञदत्तः ' *Yajnadatta* is thought handsome by *Devadatta*'. Of the affix खश् the letter ख् causes मुम् augment by (6.3.66); and श् makes it a *sarvadhatuka* affix, which brings in the proper *vikaranas*. The affixes so far treated of are applicable in all tenses. The others that follow denote some particular time. Bhashya ------- आत्ममाने खश्च (850) (502 खश्णिनिप्रत्ययविधिसूत्रम् ॥ 3 । 2 । 1 आ.30) (आक्षेपभाष्यम्) आत्मग्रहणं किमर्थम्?। (समाधानभाष्यम्) परमाने मा भूदिति ॥ (समाधानानुपपत्तिभाष्यम्) क्रियमाणेपि वै आत्मग्रहणे परमाने प्राप्नोति ॥ किं कारणम्?। आत्मन इतीयं कर्तरि षष्ठी। मान इत्यकारो भावे । स यद्येवात्मानं मन्यतेऽथापि परम्। आत्मन एवासौ मानो भवति। (समाधानसाधकभाष्यम्) नैष दोषः। आत्मन इतीयं कर्मणि षष्ठी। कथम्?। कर्तृकर्मणोः कृतीति ॥ (समाधानबाधकाक्षेपभाष्यम्) ननु च कर्तर्यपि वै तेनैव विधीयते। तत्र कुत एतत् - कर्मणि भविष्यति, न पुनः कर्तरीति ॥ (समाधानान्तरभाष्यम्) एवं तर्हि, (2064 वार्तिकम् ॥ 1 ॥) (- कर्मकर्तरि च-) (भाष्यम्) कर्मकर्तरि खश् चेति वक्तव्यम् ॥ (प्रश्नभाष्यम्) तत्तर्हि वक्तव्यम् ॥ (समाधानभाष्यम्) न वक्तव्यम्। आत्मन इतीयं कर्मणि षष्ठी। कथम्?। कर्तृकर्मणोः कृतीति ॥ (समाधानबाधकस्मारणभाष्यम्) ननु चोक्तं कर्तर्यपि वै तेनैव विधीयते। तत्र कुत एतत्। कर्मणि भविष्यति न पुनः कर्तरीति? ॥ (प्रत्याख्यानसाधकभाष्यम्) एवं तर्हि आत्मग्रहणसार्मथ्यात्कर्मणि विज्ञास्यते ॥ (प्रत्याख्यानबाधकभाष्यम्) एवमपि कर्मकर्तृग्रहणं कर्तव्यम्। कर्मापदिष्टो यग्यथा स्यात्, श्यन्माभूदिति ॥ (प्रत्याक्षेपभाष्यम्) कश्चात्र विशेषः यको वा श्यनो वा ॥ (प्रत्याक्षेपसमाधानभाष्यम्) यति सत्यन्तोदात्तत्वेन भवितव्यम्। श्यनि सपाद्युदात्तत्वेन ॥ (विशेषाभावभाष्यम्) श्यन्यपि सत्यन्तोदात्तत्वेनैव भवितव्यम्। कथम्?। खश्स्वरः श्यन्स्वरं बाधिष्यते ॥ (विशेषबाधकभाष्यम्) सतिशिष्टत्वात् श्यन्स्वरः प्राप्नोति ॥ (विशेषबाधकभाष्यम्) आचार्यप्रवृत्तिर्ज्ञापयति सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधत इति यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति ॥ (ज्ञपनस्यविशेषविषयत्वभाष्यम्) लसार्वधातुक एवैतज्ज्ञापकं स्यात् ॥ (ज्ञपकस्यसामान्यविषयत्वभाष्यम्) नेत्याह। अविशेषेण ज्ञापकम्। आत्ममाने ॥ 83 ॥ इति श्रीमद्भगवत्पतञ्ञ्चलिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥ Kashika ------- आत्मनो मननमात्ममानः। आत्ममाने वर्तमानाद् मन्यतेः सुप्युपपदे खश् प्रत्ययो भवति। चकाराद् णिनिश्च । यदा प्रत्ययार्थः कर्तात्मानमेव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदायं विधिः। दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी। पण्डितंमन्यः, पण्डितमानी। आत्ममान इति किम्? दर्शनीयमानी देवदत्तस्य यज्ञदत्तः॥ Siddhanta Kaumudi ----------------- स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य (SK2943) । कालिंमन्या । अनव्ययस्य किम् । दिवामन्या ॥ Laghu Siddhanta Kaumudi ----------------------- स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥ Balamanorama ------------ **आत्ममाने खश्च** - आत्मामने खश्च । आत्मनः = स्वस्य, मानः = मननम् - आत्ममानः । तदाह — स्वकर्मके मनने इति । पण्डितम्भन्य इति । खशः शित्त्वेन सार्वधातुकत्वाच्छ्यन् । खित्त्वात्अरुर्द्विषटदिति मुम् । तानादिकस्य मनेग्र्रहणे तु उविकरणः स्यात् । कालीमात्मानं मन्यते इत्यर्थे खशि श्यनि कृते आह — खित्यनव्यवयस्येति ।स्त्रियाः पुंव॑दिति पुंवत्त्वं बाधित्वा परत्वाद्ध्रस्व इत्यर्थः । दिवामन्येति । अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् । Tattvabodhini ------------- **आत्ममाने खश्च** - आत्ममाने । मननं मानः, भावे घञ्, आत्मनो मान इति कर्मणि षष्ठआ समासः । स्वपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थस्तदाह — स्वकर्मक इत्यादि । चादिति । ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत् । अत्राहुः — चकारेणाऽवच्छेदाय णिनिः समुच्चीयते । तेनकरणे यजः॑ इत्यादौ णिनिरेवाऽनुवर्तते न तु खश्ष एवं चोक्तप्रयोजनानुरोधेनचानुकृष्टं नोत्तरत्रे॑ तीह न प्रवर्तते इति । पण्डितमात्मानमिति । एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं, पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम् । आत्ममाने किम् । दर्शनीयमानी देवदत्तो यज्ञदत्तस्य । कालिंमन्येति ।स्त्रियाः पुंव॑दिति प्राप्तं पुंवद्भावं बाधित्वा पर्तवाद्ध्रस्वः । यत्त्वत्रक्यङ्मानिनो॑रिति प्राप्तः पुंवद्भाव इति प्रसादकृतोक्तं, तद्रभसोक्तमेव, मानिन्रूपाऽभावस्य स्पष्टत्वात् । दिवामन्येति । अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिस्वभावात्कर्मत्वम् । Padamanjari ----------- आत्ममाने खश्च॥ चकाराण्णिनिश्चेति। वाऽसरूपविधिना सिद्धोऽपि णिनिरविच्छेदाय समुच्चीयते। तेन'करणे यजः' इत्यत्र णिनेरेवानुवृत्तिर्भवति, नानन्तरस्य खशः। आत्मशब्दोऽयं परव्यावृत्तिं कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। मननं मानः, भावे घञ्, आत्मनो मान आत्ममानः - कर्मणि षष्ठ।ल समासः। तत्र कस्येत्यपेक्षायां प्रत्ययार्थस्य सन्निहितस्य मन्तुरेवात्मन इति गम्यते, तदाह - प्रत्ययार्थः कर्तेति। दर्शनियत्वादिना धर्मेणेति विशिष्टमिति शेषः। कर्तरि षष्ठ।लस्तु समासो न भवति, सर्वस्या एव मतेर्मन्तृकर्तृकत्वाव्यभिचाराद्। एवं चेतनद्रव्यवचनेऽप्यात्मशब्दे कर्तरि षष्ठ।लमव्यभिचारादविशेषणं कर्मणि षष्ठ।ल, न तु चेतनान्तरे कर्मणि प्रत्ययप्रसङ्गः, तस्मात्स्वशब्दपर्याय एवात्मशब्दः। दर्शनीयम्मन्य इति। शरीरधर्ममपि दर्शनीयत्वादिकमात्मधर्ममेव मन्यन्ते संसारिणः शरीरशरीरिणोरग्न्ययोगोलकयोरिवाभेदं मन्यमानाः। पण्डितम्मन्य इति। एकस्याप्यात्मनस्स्वरूपेण कर्तृत्वं पण्डितत्वादिविशिष्टरूपेण कर्मत्वं च युज्यत एव। यथोक्तमाचार्यैः - अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि। भवन्ती तत्र संवितिर्युज्येताप्यात्मकर्तृका॥ इति। खशः खकारो मुमर्थः, दर्शनीयम्मन्या कुमारीत्यादौ ह्रस्वार्थश्च। शकारः सार्वधातुकसंज्ञार्थः, दिवादित्वाच्छयन्। स्वरस्तु सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति खश एव भवति, न नित्स्वरः। दर्शनीयमानी देवदतो यज्ञदतस्येति। कर्मणि षष्ठी, तदपेक्षयास्यापि दर्शनीयशब्दस्य गमकत्वात्समासः॥ Nyaas ----- `आत्ममाने` इति। मननम् = मानः, भावे घञ्। आत्मनो मानः आत्ममानः। `कर्त्तृकर्मणोः कृति` (2.3.65) इति षष्ठी, `कृद्योगा च षष्ठी समस्यते`(वा। 83) इति समासः। अथ कर्तरि षष्ठी कस्मान्न भवति? आत्मग्रहणसामर्थ्यात्। न ह्रात्मनोऽन्यस्य पदार्थस्य मतिः सम्भवति, तस्या आत्मगुणत्वात्। अथात्मशब्दोऽयं न सुखादिगुणमाचष्टे, कि तर्हि? पराभावम्। परो यो न भवति स आत्मेति, तथाप्यात्मग्रहणमनर्थकम्। एवं हि मन्तुर्या मतिर्या मतिस्त्तत्र वर्तमानादित्येषोऽर्थः स्यात्, स चायुक्तः,क सर्वा हि मतिः परमपि मन्यमानस्य मन्तुरेव भवति, तस्मात् कर्मण्येव षष्ठी। `यदा प्रत्ययार्थः कर्ता` इत्यादि। कथं पुनरेष एवार्थः, कर्म कर्ता च युज्यते? शक्तिभेदात्, यथा - पीयमानं मधु मदयतीति। खशः खकारः **अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः॥ Prakriyasarvasvam ----------------- आत्मविषये मननेऽर्थे मनः खश् णिनिश्च स्यात् । दिवादित्वाच्छ्यन् । मन् य अ, पररूपं मन्य, खित्वान्मुम् । आत्मानं बुधं मन्यत इति बुधंमन्यः बुधमानी । ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः । सुन्दर्यंमन्या स्त्री । अव्ययस्य तु न ह्रस्वमुमौ । दोषामन्यमहः ॥ Sutra Prayogas -------------- * **सुभगमानिनि** (किरातार्जुनीयम्): `आत्ममाने खश्च` इति चकाराण्णिनिप्रत्ययः। * **दोषामन्यं** (शिशुपालवधम्): `आत्ममाने खश् च` इति खशप्रत्ययः। * **शूरं-मन्यो** (भट्टिकाव्यम्): `आत्ममाने खश्च` इति खश्। * **श्रियं-मन्या** (भट्टिकाव्यम्): `आत्ममाने खश्` इति खश्-प्रत्ययः। * **वञ्चित-मानि** (भट्टिकाव्यम्): `आत्ममाने खश्च` इति णिनिः। * **शूर-मानिभिः** (भट्टिकाव्यम्): `आत्ममाने खश्च` इति खश्।