32068: अदोऽनन्ने ================ **Padacheda:** अदः | S | 5 | 1 | अनन्ने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix विट् comes after the verb अद् 'to eat' when in composition with a case-inflected word other than अन्न 'food'. Vasu English Translation ------------------------ The affix विट् comes after the verb अद् 'to eat' when in composition with a case-inflected word other than अन्न 'food'. The *anuvritti* of the word '*Chhandasi*' does not extend to this *sutra*. Thus आममत्ति =आमात् 'eating raw food'; शस्यात् 'granivorous'. But with अन्न as an *upapada*, we have अन्नादः 'eating food', which is formed by the general affix अण् (III 2.1). Bhashya ------- आदोनन्ने (835) (अथ विट्प्रकरणम्) (496 - 497 विट्प्रत्ययविधिसूत्रम् ॥ 3 । 2 । 1 आदृ 24-25) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते, न अदोनन्ने इत्येव सिद्धम्। (समाधानभाष्यम्) न सिध्यति। छन्दसीति वर्तते। भाषार्थोऽयमारम्भः ॥ (समाधानबाधकभाष्यम्) पूर्वस्मिन्नेव योगे छन्दोग्रहणं निवृत्तम्। तच्चावश्यं निर्वत्यम्। आमादित्येवमर्थम् ॥ (समाधानभाष्यम्) अत उत्तरं पठति। (2058 समाधानवार्तिकम् ॥ 1 ॥) - अदोनन्नेक्रव्यग्रहणं वासरूपनिवृत्यर्थम्- (भाष्यम्) अदोनन्ने क्रव्यग्रहणं क्रियते वासरूपो मा भूदिति ॥ अदोन ॥ क्रव्ये च ॥ 68 ॥ Kashika ------- छन्दसीति निवृत्तम्। अदेर्धातोरनन्ने सुप्युपपदे विट् प्रत्ययो भवति। आममत्ति आमात्। सस्यात्। अनन्न इति किम्? अन्नादः॥ Siddhanta Kaumudi ----------------- विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥ Balamanorama ------------ **अदोऽनन्ने** - अदोऽनन्ने । विट् स्यादिति । शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् ।जनसनखनक्रमगमो वि॑जिति छान्दससूत्राद्विडित्यनुवर्तते । सस्यादिति । सस्यमत्तीति विग्रहः । अन्नाद इति । कर्मण्यण् । Tattvabodhini ------------- **अदोऽनन्ने** - अदोऽनन्ने । विट् स्यादिति ।जनसनखनक्रमगमो विट्इति पूर्वसूत्रादनुवृत्तेः । पूर्वसूत्रं त्विह नोपन्यस्तम्, तत्र हिछन्दसि सहः॑ इत्यश्छन्दसीत्यनुवर्तनात् । Padamanjari ----------- अदोऽनन्ने॥ अन्नाद इति। भाषायामणेव भवति। च्छन्दसि त्वकारादनुपपदादित्यणि प्राप्ते पचाद्यजिष्यते, तेनान्नाद इत्यन्न इत्यन्न अद इत्यवग्रहो भवति॥ Prakriyasarvasvam ----------------- अनन्नपूर्वाददेर्विट् स्यात् । टकारो 'विड्वनो—' (६-४-४१) इत्युक्त्यर्थः । विलोपः । दस्य चर्त्वम् । घृतात् । सस्यात् । वासरूपेणाणपि । घृतादः । सस्यादः । अन्ने त्वन्नाद एव । Sutra Prayogas -------------- * **क्रव्यात्पतत्रिणः** (भट्टिकाव्यम्): `अदोऽनने` इति विट्। * **दृष्ट-कृत्स्नाऽऽमिषादः** (भट्टिकाव्यम्): `अदोनन्ने` इति विप्रत्ययेनाणो विकल्पेन बाधनात्। * **मांसाऽदा** (भट्टिकाव्यम्): `अदोऽनन्ने` इति विटि प्राप्ते वासरूपविधिना अणपि भवति। * **नृ-मांसाऽदां** (भट्टिकाव्यम्): `अदोऽनने` इति विट्।