32067: जनसनखनक्रमगमो विट् ========================= **Padacheda:** जन-सन-खन-क्रम-गमः | S | 5 | 1 | विट् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix विट् (the whole of which is elided) comes in the छन्दस् (Vedas) after the verbs 1. जन् 'to be born' 2. सन् 'to bestow' 3. खन् 'to dig' 4. क्रम् 'to pace' 5. गम् 'to go' when a word ending in case-affix is in composition and the final nasals are changed into long आ। Vasu English Translation ------------------------ The affix विट् (the whole of which is elided) comes in the छन्दस् (Vedas) after the verbs 1. जन् 'to be born' 2. सन् 'to bestow' 3. खन् 'to dig' 4. क्रम् 'to pace' 5. गम् 'to go' when a word ending in case-affix is in composition and the final nasals are changed into long आ। The words छन्दसि, उपसर्गे and सुपि are understood in this *sutra*. The verb जन् includes two verbs meaning 'to be born' and 'to happen'; so also सन् means both 'to give' and 'to worship'. Of the affix विट् the letter ट् is indicatory, and is qualifying, as in (6.4.41), by which rule the final nasal of जन्, सन् &c. is replaced by long आ when the affix विट् follows, and the whole affix is elided by (6.1.67). As अप् + जन् + विट् = अब्जाः (*Rig*. *Ved*. (VII.34.16)) 'born in water' (6.4.41); गोषाः 'born in the heaven i.e. God' (*Rig*. *Veda* (IV. 40.5)). So also from सन् - गोषाः 'acquiring or bestowing cows' (8.3.108); गोषा इन्द्रो नृषा असि 'O *Indra* bestower of cows! thou art lover of mankind' (*Rig*. *Veda* (IX. 2.10)). From खन् — विसखाः 'digger of lotus stalk'; कपूखाः 'digger of well'. From क्रम् - दधिक्राः 'who gets milk' (*Rig*. (IV. 39. I)) and (40.5). From गम् — अग्रेगा उन्नेतॄणाम् 'the leader'. Kashika ------- छन्दसि उपसर्ग सुपीत्यनुवर्तते। **जन जनने** **जनी प्रादुर्भावे** द्वयोरपि ग्रहणम्। तथा **षणु दाने** , **वन षण संभक्तौ** द्वयोरपि ग्रहणम्। जनादिभ्यो धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति। टकारः सामान्यग्रहणाविघातार्थो **वेरपृक्तस्य** (६.१.६७.) इति, विशेषणार्थश्च **विड्वनोरनुनासिकस्यात्** (६.४.४१.) इति। अ॒ब्जाः। गो॒जाः(ऋ० ४.४०.५)। सन — गो॒षा इ॑न्द्रो नृ॒षा अ॑सि (ऋ० ९.२.१०)। खन — बिस॒खाः (ऋ०६.६१.२)। कूपखाः। क्रम — द॑धि॒क्राः(ऋ० ४.३८.१०)। गम — अग्रे॒गा ने॑तृ॒णाम् (तै०सं० १.३.६.१)॥ Siddhanta Kaumudi ----------------- विड्वनोः - (SK2982) इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः - (SK3645) इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥ Padamanjari ----------- जनसनखनक्रमगमो विट्॥ विशेषणार्थश्चोति।'विवनोः' इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्। अथात्र निरनुबन्धकत्वादस्यैव ग्रहणम्?'वेरपृक्तस्य' इत्यत्राप्यस्यैव ग्रहणं स्यात्। अथात्र क्विबादीनामपि ग्रहणं स्यात्?'विड्वनोरनुनासिकस्यात्' इत्यत्रापि स्यादिति समानं वचेति भावः। गोषा इति।'सनोतेरनः' इति षत्वम्। अग्रेगा इति। पूर्ववदलुक्॥ Nyaas ----- `द्वयोरपि ग्रहणम्` इति। विशेषानुपादानात्। `तथा` इत्यादि। यथानन्तरयोर्धात्वोरुभयोग्र्रहणमिति, तथानयोरपि सम्भवक्तार्थयोरित्यर्थः। `टकारः सामान्यग्रहणविघातार्थः`इति। असति टकारे **वेरपृक्तस्य** (6.1.67) इत्यत्रैकानुबन्धपरिभाषया (व्या।प।52) अस्यैवं ग्रहणं स्यात्, न विजादीनाम्। टकारे त्वस्यापि द्वयनुबन्धकत्वात् सर्वेषां ग्रहणमुपपद्यते। `विशेषणार्थश्च` इति। `विड्वनोरनुनासिकस्यात्` (6.4.41) इत्यत्र विशेषणार्थष्टकारः, `विवनोः` इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्, तथा चाकरोदित्येवमादौ लोपः स्यात्। `अब्जाः` इति। अप्सु जायत इति अब्जाः। एवं `गोजाः`। गां सनोतीति `गोषाः`। **सनोतेरनः** (8.3.108) इति षत्वम्। नरं सनोतीति `नृषाः`। विलं खनतीति `विलखाः`। दधि क्रामतीति `दधिक्राः`। अग्रे गच्छतीति `अग्रेगाः`। **तत्पुरुषे कृति बहुलम्** (6.3.14) इति सप्तम्या अलुक्। सर्वत्र **वेरपृक्तस्य** (6.1.67) इति लोपः, `विड्वनोः` (6.4.41) इत्यात्त्वम्॥ Prakriyasarvasvam ----------------- 'विड्वनोः' — (६-४-४१) इत्यात्वम् । अजा गोजाः । गोषा इन्दो नृषा असि । 'सनोतेरेनः' (८-३-१०७) इति षत्वम् । बिसखा इवारुजत् । आ नो दधिकाः पुरोगा अग्निः ।