32061: सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ================================================================= **Padacheda:** सत्-सू-द्विष-द्रुह-दुह-युज-विद-भिद-च्छिद-जि-नी-राजाम् | S | 6 | 3 | उपसर्गे | S | 7 | 1 | अपि | S | 0 | 0 | क्विप् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्विप्comes after the following verbs when in composition with a word ending in a case-affix, though it may be an उपसर्ग viz. 1. सत् 'to sit' 2. सू 'to bring forth' 3. द्विष् 'to hate' 4. द्रुह् 'to bear malice' 5. दुह् 'to milk' 6. युज् 'to join' , 'to concentrate the mind' 7. विद् 'to know', 'to consider' 8. भिद् 'to divide' 9. च्छिद् 'to cut' 10. जि 'to conquer' 11. नी 'to lead 12. राज् 'to shine'. Vasu English Translation ------------------------ The affix क्विप्comes after the following verbs when in composition with a word ending in a case-affix, though it may be an उपसर्ग viz. 1. सत् 'to sit' 2. सू 'to bring forth' 3. द्विष् 'to hate' 4. द्रुह् 'to bear malice' 5. दुह् 'to milk' 6. युज् 'to join' , 'to concentrate the mind' 7. विद् 'to know', 'to consider' 8. भिद् 'to divide' 9. च्छिद् 'to cut' 10. जि 'to conquer' 11. नी 'to lead 12. राज् 'to shine'. The phrase 'the word ending with a case-affix' is understood in this *sutra*. The *anuvritti* of कर्म is not to be taken in this *sutra* for the same reasons as in *sutra* 58 *ante*. The *upasargas* are also words ending in a case-affix i. e. they are also *subanta* words. Their special mention in this section, indicates by implication (*jnapaka*) that wherever in the previous *sutras*, the word *subanta* (a case-inflected word) is used, it does not include an *upasarga* (2.1.10). The root सू being read in conjunction with द्विष् shows that अदादि class verb is meant here, and not तुदादि class. The verb युज् includes, both युजिर् 'to join' and युज् 'to concentrate one's mind'. The verb विद् includes the three verbs having the sense of 'to know', 'to become' and 'to consider', but does not include the verb विद् 'to gain', because that root has an indicatory लृ (विद्लृ) while all these verbs have indicatory अ. Thus, सत्-शुचिषत् 'dwelling in purity'; अन्तरिक्षसत् 'dwelling in the skies', 'epithets of *Brahma*' (*Kath*. (5.2)); उपसत् 'serving'. सू - अण्डसूः 'oviparous'; शतसूः 'bringing forth hundred'; प्रसूः 'parent'. द्विष् — मित्रद्विट् 'treacherous'; प्रद्विट् 'hostile'. द्रुह् — मित्रध्रुक् 'treacherous'; प्रध्रुक् 'hostile' (8.2.37). दुह् - गोधुक् 'cow milker'; प्रध्रुक् 'milker' (8.2.32) and (37). युज् - अश्वयुक् 'carriage'; प्रयुक् 'impulse'. विद् — वेदवित् 'knower of *Veda*'; प्रवित् 'knower'; ब्रह्मवित् 'knower of *Brahma*'. भिद् - काष्टभित् 'wood-cutter'; प्रभित् 'cutter'. छिद् - रज्जुच्छिद् 'rope-cutter'; प्रच्छिद् 'a cutter'. जि - शत्रुजित् 'enemy-conqueror'; प्रजित् 'conqueror'. नी - सेनानीः 'leader of an army'; प्रणीः 'a leader'; ग्रामणीः 'head-borough'; अग्रणीः 'first'. (Why is there cerebral ण in these words ? Because the word ग्रामणी has a cerebral ण in *sutra* (5.2.78) and that indicates that these words will have ण, as also by *sutra* (8.4.3)). राज् - विराट् 'splendour'; सम्राट् 'emperor' (the letter म is added by *sutra* (8.3.25)). This *sutra* is a continuation and expansion of *sutras* 75 and 76 *sup*. Bhashya ------- सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् (828) (495 क्विप्प्रत्ययविधिसूत्रम्॥ 3। 2 । 1 आदृ 23) (2057 वार्तिकम्॥ 1 ॥) - सदादिषु सुब्ग्रहणम्- (भाष्यम्) सदादिषु सुब्ग्रहणं कर्तव्यम्। होता वोदिषत। अतिथिर्दुरोणसत्॥ (प्रश्रभाष्यम्) न तर्हीदानीमुपसर्गेऽपीति कवक्तव्यम्॥ (समाधानभाष्यम्) वक्तव्यं च। किं प्रयोजनम्। किं ज्ञाप्यम्?। एतज्ज्ञापयत्याचार्यः - अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्?। वदः सुप्यनुपसर्गग्रहणं चोदितम्॥ तन्न वक्तव्यं भवति॥ सत्सूद्विष॥ 61 ॥ Kashika ------- सुपीत्यनुवर्तते। कर्मग्रहणं तु **स्पृशोऽनुदके क्विन्** (३.२.५८) इत्यतः प्रभृति न व्याप्रियते। सदादिभ्यो धातुभ्यः सुबन्त उपपद उपसर्गेऽप्यनुपसर्गेऽपि क्विप् प्रत्ययो भवति। उपसर्गग्रहणं ज्ञापनार्थम् — अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवतीति।**वदः सुपि क्यप् च**(३.१.१०६) इति। सू इति द्विषा साहचर्यात् सूतेरादादिकस्य ग्रहणम्, न सुवतेस्तौदादिकस्य। **युजिर् योगे** **युज समाधौ** द्वयोरपि ग्रहणम् । **विद ज्ञाने** **विद सत्तायाम्****विद विचारणे** त्रयाणामपि ग्रहणम्। न लाभार्थस्य विदेः , अकारस्य विवक्षितत्वात्। सत् — शु॑चि॒षत् (ऋ० ४.४०.५)। अन्तरिक्ष॒सत् (ऋ०४.४०.५) उ॑प॒सत् (तै०सं०६.२.३.२)। सूः — अण्डसूः। शतसूः। प्र॒सूः (तै०सं०४.७.३.२)। द्विष — मित्रद्विट्। प्रद्विट्। द्रुह — मित्रध्रुक्। प्रध्रुक्। दुह् — गोधुक्। प्रधुक्। युज् — अश्वयुक्। प्रयुक्। विद — वेदवित्। प्रवित्। ब्रह्मवित्। भिद — काष्ठभित्। प्रभित्। छिद — रज्जुच्छिद्। प्रच्छिद्। जि — शत्रुजित्। प्रजित्। नी — सेनानीः। प्रणीः। ग्रामणीः। अग्रणीः। कथमत्र णत्वम्? **स एषां ग्रामणीः** (५.२.७८) इति निपातनात्। नयतेः **पूर्वपदात् संज्ञायामगः** (८.४.३) इति णत्वम्। राज् — राट्। विराट्। सम्राट्। **मो राजि समः क्वौ** (८.३.२५) इति मत्वम्। **अन्येभ्योऽपि दृश्यते**(३.२.१७८),**क्विप् च** (३.२.७६) इति सामान्येन वक्ष्यति तस्यैवायं प्रपञ्चः॥ Siddhanta Kaumudi ----------------- एभ्यः क्विप्स्यादुपरसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि । (वार्तिकम्) ॥ अग्रणीः । ग्रामणीः ॥ Balamanorama ------------ **सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप्** - सत्सूद्विष । सद्, सू, द्विष,द्रुह, दुह, युज, विद, भिद, छिद, जि , नी, राज् एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । 'अनुपसर्गे' इत्यस्य निवृत्त्यैव सिद्धेउपसर्गेऽपी॑ति वचनमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम् । तेन 'वदः सुपि क्यप् चे' ति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् । द्युसदिति । दिवि सीदतीति विग्रहः ।सात्पदाद्यो॑रिति न षत्वम् ।पूर्वपदा॑दिति षत्वं तु न भवति, तस्य च्छान्दसत्वात् ।॒आदितेया दिविषदः॑ इत्यत्र सुषामादित्वात्वमित्याहुः । उपनिषदिति ।सदिरप्रते॑रिति षत्वम् । इत्यादीति । काष्ठभित्, रज्जुच्छित् । शत्रुजित् । अत्रह्रस्वस्य पिती॑ति तुक् । सेनानीः । विराट् । अंशभागीति । णित्त्वादुपधावृद्धिः । Tattvabodhini ------------- **सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप्** - सत्सूद्विष । षद्लृ विशरणादौ ।सू॑ इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न तु सुवतिसूयत्योः । युजिर्योगे, युज समाधौ, द्वयोरपि ग्रहणम् । विद ज्ञाने, विद विचारणे, विद सत्तायां, — त्रयाणामपि ग्रहणम् । विद्लृ लाभे इत्यस्य तु न ग्रहणम्, विदेत्यकारस्य विवक्षितत्वात् । द्युसदितिपूर्वपदा॑दिति षत्वं तु न भवति, छन्दसीत्यनुवृत्तेः । तथा च माघः — ॒मनस्सु येन द्युसदां न्यधीयते॑ ति ।आदितेया द्विषदः॑ इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः । उपनिषदित्यत्र तुसदिरप्रते॑ रिति षः । अग्रग्रामाभ्यामिति ।स एषां ग्रामणी॑रिति निर्देशेन ज्ञापितपपदादपि णत्वं, तेनाऽग्रणीरित्यपि सिद्धमित्याहुः । Padamanjari ----------- सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥ अतः प्रभृतीति। भाष्यकारप्रयोगात्प्रभृतिशब्दयोगे पञ्चमी। वदः सुपि क्यप् चेति। प्रयोजनदिगियं दर्शिता। अत्र ह्यनुपसर्ग इति वर्तते, तस्मात्'स्पृशो' नुदके क्विन्ऽ इत्यादौ प्रयोजनं द्रष्टव्यम्। सुवतेरिति। न्यायस्य तुल्यत्वाद्दैवादिकस्याप्यग्रहणम्। शुचिषदिति। छान्दसोऽयं प्रयोगः - -हंसः शुचिषदिति।'पूर्वपदात्' इति षन्वम्। शुचिसदिति पाठे लौकिकः प्रयोगः। कथमत्र णत्वमिति। ग्रामणीविषयः प्रश्नः। प्रणीरित्यत्र तु ठुपसर्गादसमासेऽपिऽ इति णत्वमस्त्येव। ज्ञापकादिति। पूर्वपदस्थान्निमितादुतरस्य नयतिनकारस्यासञ्ज्ञायामपि णत्वं भवतीति सामान्येन ज्ञापकमित्यर्थः। तेनाग्रणीरित्यत्रापि भवति। कर्मण्यणि तु न भवति, नीरूपविषयत्वाज् ज्ञापनस्य । अन्ये तु ठग्रग्रामाभ्यां नयतेरिति वक्तव्यम्ऽ इति वचनाज्ज्ञापनमपि तद्विषयम्, तत्रापि नीरूपविषयमिति स्थिताः॥ Nyaas ----- `कर्मग्रहणं तु `स्पृशोऽनुदके क्विन्` इत्यतः प्रभृति न व्याप्रतीयते` इति। ननु सकर्मका अपि धातवः सन्ति, तत्कथं न व्याप्रियत इति? एवं मन्यते - स्पृशोऽनुदके क्विन्` (3.2.58) इत्यादिषु यत् `कर्तरि` (3.2.57) इत्यनुवर्तते तत् कर्त्तृप्रचयार्थं विज्ञायते, तेन सुपीति व्याप्रियते, न कर्मणीति। एवं हि कर्त्तृप्रचयो लभ्यते, नान्यथा। अथ उपसर्गग्रहणं किमर्थम? यावतोपसर्गाः सुबन्ता एव, तत्र सुब्ग्रहणेनैवोपसर्गग्रहणं सिद्धमित्याह - `उपसर्गग्रहमं ज्ञापनार्थम्िति। `अन्यत्र सुब्ग्रहण उपसर्गग्रहणं न भवति` इति। क्वान्यत्र सुब्राग्रहण उपसर्गग्रहणं न भवतीत्याह - `वदः सुपि क्यप् च` इति। ननु च **वदः सुपि क्यप् च** (3.1.106) इत्यत्र **गदमदचरयमश्चानुपसर्गे** (3.1.100) इत्यतोऽनुपसर्गग्रहणमनुवर्तते। एवञ्चोपसर्गग्रहणं नानुवर्तयितव्यमिति वा ज्ञापनार्थमुपसर्गग्रहणम्। विकल्पप्रदर्शनार्थं कर्तव्यमित्यन्ये।`अपूरे त्वाहुः - ज्ञापकप्रयोजनदिगियमिति वृत्तिकारो दर्शयति। इदं तु स्पष्टं ज्ञापकस्य प्रयोजनम् - **स्पृशोऽनुदके क्विन्** (3.2.58) इत्यत्र `सुपि` (3.2.4) इत्यधिकारादसति ज्ञापक उपसर्गग्रहणे सुबन्तेऽप्युपसर्गे स्यात् - उपस्पृशति, संस्पृशतीति; अस्मात् ज्ञापकान्न भवति। `साहचर्यात्ित्यादि। यदि `सू`इत्ययं धातुरादादिकत्वं व्यभिचरति `द्विष अप्रीतौ`(धातुपाठः-1013) इत्येष तु न व्यभिचरति, अतोऽनेन साहचर्यात् `सू` इत्यादादिकस्य `षूङ प्राणिगर्भविमोचने` (धातुपाठः-3031) इत्यस्य ग्रहणम्, न `षू प्रेरणे` (धातुपाठः-1408) इत्यस्य तौदादिकस्य। ननु च सदिना तौदादिकसाहचर्यादस्यापि ग्रहणं भवति? नैतदस्ति; यथैव हि `सू` इत्येष तौदादिकतवं व्यभिचरति,तथा सदिरपि, तस्य भ्वादिषु पाठात्, तत्कथं तेन साहचर्यात् तौदादिकस्येह ग्रहणं स्यात्। `न सुबतेः` इति। अनादादिकसूरूपस्य धातोरुपलक्षममेतत्। `{षूङ्-धातुपाठः-}षञ् प्राणिप्रसवे` (धातुपाठः-1132) इत्येतस्यापि दैवादिकस्य ग्रहमं न युक्तम् ; न्यायस्य च तुल्यत्वात्। `द्वयोरपि ग्रहणम्` इति। विशेषानुपादानात्। `न लाभार्थस्य` इति। `विद्लृ लाभे` (धातुपाठः-1432) इत्येतस्य। `अकारस्य विवक्षितत्वात्` इति। इह लाभार्थस्यानुपादाने हेतुः `विदः` इति सूत्रेऽकारान्तोच्चारणं विवक्षितमिति,तेन विदेरकारान्तस्य गणे पाठात् स एव गृह्रते, न ऌकारान्तः।`शृचिषत्` इति। `{षद्लृ-धातुपाठः-} सद्लृ विशरणार्थः (धातुपाठः-854)। `मित्रध्रुक्िति। `द्रुह जिघांसायाम्` (धातुपाठः-1197) `वा द्रुहमुह` (8.2.33) इति ककारः, `एकाचो बशो भष्` (8.2.37) इत्यादिना भष्भावः। `गोधुक्` इति। ` दुह प्रपूरणे` (धातुपाठः-1014) **दादेर्धातोर्घः** (8.2.32) इति घत्वम्। `अआयुक्` इति। **चोः कुः** (8.2.30) इति कुत्वं गकारः, तस्य पूर्ववत् ककारः। `शत्रुजित्` इति। **ह्रस्वस्य पिति कृति तुक्** (6.1.71) । `कथमत्र णत्वम्` इति। `पूर्वपदात् संज्ञायामगः` (8.4.3) इति संज्ञायां विधीयमानेन णत्वेनासंज्ञायामिह न भवितव्यमिति भावः। `सम्राटः`इति। `राजृ दीप्तौ` (धातुपाठः-822), `व्रश्चभ्रस्ज` (8.2.36) इति चर्त्वं टकारः, `मो राजिसमः क्वौ` (8.3.25) इति मकारः। क्विपः ककारो गुणवृद्धिनिषेधार्थः। पकारस्तुगर्थः। **वेरपृक्तस्य** (6.1.67) इति वकारलोपः। इकारः `वेरपृक्तस्य` इति सामान्यग्रहणार्थः॥ Prakriyasarvasvam ----------------- ‘क्विप् च’ (३-२-७६) इत्यस्य प्रपञ्च एवायम् । व्रजसदजसूमुरद्विट् कंसध्रुक् कामधुक् च राधायुक् । अखिलविदरिभिदवच्छिन्नहेन्द्रजित् पातु गोपनीयं दुराट् ॥ ९३ ॥ सम्राज् । मोऽनुस्वारे प्राप्ते । Sutra Prayogas -------------- * **रत्नसूरपि** (रघुवंशम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **सेनान्यम्** (रघुवंशम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **कामसूः** (रघुवंशम्): `सत्सूद्विषद्रह-` इत्यादिना क्विप्। * **पक्षच्छिदा** (रघुवंशम्): `सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्` इति क्विप् प्रत्ययः। * **गोत्रभिदा** (रघुवंशम्): `सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्` इति क्विप् प्रत्ययः। * **पक्षच्छिदि** (कुमारसम्भवम्): `सत्सूद्विष...` इति क्विप्प्रत्ययः। * **सेनान्यं** (कुमारसम्भवम्): `सत्सूद्विष-` इत्यादिना क्विप् प्रत्ययः। * **शितनिस्त्रिंशयुजौ** (किरातार्जुनीयम्): `सत्सूद्विष...` (सत्सूद्धिय) इति क्विप्। * **भवच्छिदः** (किरातार्जुनीयम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **वनेसदां** (किरातार्जुनीयम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **सासुसूः** (किरातार्जुनीयम्): `सत्सूद्विष-` इति क्विप् प्रत्ययः। * **पिशङ्गमौञ्जीयुजम्** (शिशुपालवधम्): `सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्` इति क्विप् प्रत्ययः। * **नभः सदः** (शिशुपालवधम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **जगद्रहाम्** (शिशुपालवधम्): `सत्सूद्विष-` इत्यादिना क्विप् प्रत्ययः। * **संवृद्धियुजो** (शिशुपालवधम्): `सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्` इति क्विप् प्रत्ययः। * **अनिर्विदा** (शिशुपालवधम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **गोदुहः** (शिशुपालवधम्): `सत्सूद्विष-` इत्यादिना क्विप्। * **वाग्विदां** (शिशुपालवधम्): `सत्सूद्विष-` इत्यादिना क्विप् प्रत्ययः। * **कुरुराजा** (शिशुपालवधम्): `सत्सूद्विष...` इत्यादिना क्विप्। * **वालि-द्रुहं** (भट्टिकाव्यम्): `सत्सूद्विष...` इति क्विप्। * **** (भट्टिकाव्यम्): `सत्सूद्विष...` इत्यादिना क्विप्। * **द्विषौ** (भट्टिकाव्यम्): `सत्सूद्विष` इत्यादिना क्विप्। * **सदा** (भट्टिकाव्यम्): `सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्` इति क्विप्। * **इन्द्रजित्-सूर्विनाशाय** (भट्टिकाव्यम्): `सत्सूद्विप` इत्यादिनानुपसर्गे क्विप्।