32058: स्पृशोऽनुदके क्विन् ========================== **Padacheda:** स्पृशः | S | 5 | 1 | अनुदके | S | 7 | 1 | क्विन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्विन् comes after the verb स्पृश् 'to touch' when it is in composition with a case-inflected word other than उदक 'water'. Vasu English Translation ------------------------ The affix क्विन् comes after the verb स्पृश् 'to touch' when it is in composition with a case-inflected word other than उदक 'water'. By *sutra* 4 of this chapter, the *anuvritti* of the word सुपि is to be read into this *sutra*. It might be objected 'why do we not read the *anuvritti* of the word कर्म instead of सुपि, because the verb स्पृश् is a transitive verb, and after such verbs, the *anuvritti* of कर्म ought to come by *sutra* 4'? To this we say there is no harm in reading the *anuvritti* of सुपि in this case; because the word कर्तरि of the last *sutra* is also, in a way understood here, and indicates the collection of all sorts of agents whether objects, instruments &c., and this can only be when the first member of the compound is a word in general. Thus घृतं स्पृशति = घृतस्पृश्, nom. sing. घृतस्पृक् 'he who touches clarified butter'. स्पृश् + क्विन् + सु = स्पृश् + वि + ० (6.1.68) = स्पृक् + ० (6.1.67) and (8.2.62). So also मन्त्रेण स्पृशति = मन्त्रस्पृक् 'who touches with hymns'; जलेन स्पृशति = जलस्पृक् 'who touches with water'. But उदकेन स्पृशति = उदकस्पर्शः; here we have the general affix अण्. The न् of क्विन् is to distinguish this affix from affixes like क्विप् &c. For, had it been merely क्वि, then in *sutra* (8.2.62) we should have used क्वि प्रत्ययस्य कुः, and it would have been ambiguous, for क्वि might be explained as meaning both क्वि and क्विप्, as क्य means क्यष्, क्यप् &c. To remove this ambiguity, न् is added to make a distinctive affix. The न् cannot be for the sake of accent. (6.1.117), the verb being monosyllabic would of itself have taken that accent. Kashika ------- स्पृशेर्धातोरनुदके सुबन्त उपपदे क्विन् प्रत्ययो भवति। ननु च सकर्मकत्वात् स्पृशेः कर्मैवोपपदं प्राप्नोति? नैष दोषः। कर्तरीति पूर्वसूत्रादनुवर्तते, तत्कर्तृप्रचयार्थ विज्ञायते। सुबन्तमात्रे चोपपदे कर्तृप्रचयो लभ्यते। घृतं स्पृशति घृतस्पृक्। मन्त्रेण स्पृशन्ति मन्त्रस्पृक्। जलेन स्पृशति जलस्पृक् । अनुदक इति किम्? उदकस्पर्शः। नकारः **क्विन्प्रत्ययस्य कुः** (८.२.६२) इति विशेषणार्थः॥ Siddhanta Kaumudi ----------------- अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । घृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मात् ऋत्विक् (SK373)आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् (SK261) । षट् । षड् । षड्भिः । षड्भ्यः 2 । षट्चतुर्भ्यश्च (SK338) इति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक (SK116) इति विकल्पं बाधित्वा । (वार्तिकम्) ॥ इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषो रुः (SK162) इति रुत्वम् ॥ Laghu Siddhanta Kaumudi ----------------------- अनुदके सुप्युपपदे स्पृशेः क्विन् । घृतस्पृक्, घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः ॥ दधृक्, दधृग् । दधृषौ । दधृग्भ्याम् ॥ रत्नमुषौ । रत्नमुड्भ्याम् ॥ षट्, षड् । षड्भिः । षड्भ्यः । षण्णाम् । षट्सु ॥ रुत्वं प्रति षत्वस्यासिद्धत्वात् **ससजुषो रुः**(LSK104) इति रुत्वम् ॥ Balamanorama ------------ **स्पृशोऽनुदके क्विन्** - स्पृशोऽनुदके । अनुदके सुपीति । उदकशब्दबिन्ने सुबन्ते इत्यर्थः । 'सुपि स्थः' इत्यतःसपी॑त्यनुवर्तते इति भावः । घृतस्पृगिति । घृतं स्पृशतीति विग्रहे क्विन् । उपपदसमासः । सुब्लुक् । घृतस्पृशशब्दात्सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपः ।क्विन्प्रत्ययस्ये॑ति कुत्वस्याऽसिद्धत्वात् पूर्वंव्रश्चे॑ति षः ।तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वाविकल्प इति भावः । घृतस्पृग्भ्याम् । घृतस्पृक्षु । अथक्विन्प्रत्ययस्य कुः॑ इत्यत्र 'क्विनः कुः' इत्यतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहणं क्विन् प्रत्ययो यस्मादिति बहुव्रीहिलाभायेत्युक्तं युक्शब्दनिरूपणावसरे, तस्य प्रयोजनमाह — क्विप्यपिकुत्वमिति ।सति भवती॑ति शेषः । अनुदके सुप्युपपदे तावत् स्पृशेः क्विन् विहितः । अतो निरुपसर्गात् स्पृशेः क्विबेव । तस्य संप्रति क्विन्नन्तत्वाऽभावेऽपि कुत्वं भवत्येव, बहुव्रीह्राश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्वयोग्यतालाभादिति भावः । षडगकाः प्राग्वदिति । षत्वजश्त्वकुत्वचर्त्वैरिति भावः । इति शान्ताः । अथ षान्ताः । दधृष्शब्दस्य व्युत्पतिंत दर्शयति — ञि धृषेति । 'आदिर्ञिटुडवः' इति ञिरित् । आकारस्तु 'उपदेशेऽजनुनासिक' इति इत् । ऋत्विगादिनेति । क्विन्नादित्रयं निपात्यते । क्पिनि लुप्ते धृष् इत्यस्य द्वित्वं । 'उरत्' रपरत्वम् ।हलादिः शेषः॑ । कित्त्वान्न लघूपधगुणः, दधृष् इति रूपम् । ञ्नित्यादिर्नित्य॑मित्याद्युदात्तनिवृत्त्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति । जश्त्वं प्रति कुत्वस्याऽसिद्धत्वात्प्रथमं जस्त्वेन षस्य डकार इत्यर्थः । गः क इति ।क्विन्प्रत्ययस्ये॑ति डस्य कुत्वेन गकारः, तस्य चर्त्वेन ककार इत्यर्थः । रत्नमुडिति ।मुष स्तेये॑क्विप्, उपपदसमासः सुब्लुक्, हल्ङ्यादिलोपः, जश्त्वचर्त्वे इति भावः । षष्शब्दो नित्यं बहुवचनान्तः । तस्य बहुवचनेष्वेव रूपाणि दर्शयति — षड्भ्यो लुगिति ।अनेन जश्शसोर्लुकि जश्त्वचर्त्वे॑ इति शेषः । तदन्तविधिरिति ।षड्भ्यो लुक्, षट्चतुभ्र्यश्चे॑त्यनयोराङ्गत्वादिति भावः । प्रिया षट् यस्येति बहुव्रीहौ प्रियषष्शब्दस्य एकद्विबहुवचनानि सन्ति । प्रियषट-प्रियषड्, प्रियषषौ, प्रियषष इत्यादि रत्नमुषशब्दवत् । तत्र 'षड्भ्यो लुक्' इतिषट्चतुभ्र्यश्चे॑ति च लुङ्नुटोः प्रवृत्तेरिति भावः । पठितुमिच्छतीत्यर्थेपठ व्यक्तायां वाचि॑-इति धातोः 'धातोः कर्मणः' इति सन्प्रत्यये 'सन्यङीः' इति द्वित्वे हलादिशेषे 'सन्यतः' इत्यब्यासस्य इत्त्वं, सन इट्, षत्वं, 'सनाद्यन्ताः' इति धातुत्वम् । 'पिपठिष' इत्यस्मात् क्विप्,अतो लोपः॑, पिपठिष् इति षकारान्तम् । कृदन्तत्वात्प्रातिपदिकत्वं, ततः सुः । तत्र विशेषं दर्शयति-रुत्वं प्रतीति ।क्वौ लुप्तं न स्थानिवत् इति निषेधाद्धल्ङ्यादिलोपे कृते 'ससजुषो रुः' इति रुत्वम् । न च सकाराऽभावः शङ्क्यः, रुत्वं प्रति षत्वस्याऽसिद्धत्वादित्यर्थः । Tattvabodhini ------------- **स्पृशोऽनुदके क्विन्** - स्पृशोऽनुदके क्विन् । ककारो गुणाऽभावार्थः । नकारस्तुक्विन्प्रत्ययस्य कुः॑इति विशेषणार्थः । वस्तुप्रयोजनं, क्विनः प्रकृतीनामेकाच्त्वाद्धातुस्वरेणाऽपि तत्सिद्धेः ।दधृ॑गित्यत्र त्वन्तोदात्तत्वनिपातनादद्यदात्तत्वं नापेक्षितमेवेति दिक् । अत्रसुपी॑त्यनुवर्तते,कर्मणी॑ति तु निवृत्तमित्याशयेनाह -अनुदके सुप्युपपदे इति । घृतस्पृगिति । घृतं घृतेन वा स्पृशतीति विग्रहः । अनुदके किम्, उदकं स्पृशतीति उदकस्पर्शः । निषेधसामर्थ्यादिह क्विबपि न भवति, तस्मिन्ह सति क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणेन कुत्वस्याऽवर्जनीयतयाअनुदके॑इति निषेधस्य फलाऽभावात् । केचित्तुउदाकस्पृ॑डिति प्रत्युदाहरन्ति, निषेधसामर्थ्यात्कुत्बं माऽस्तु, क्विप्स्यादेवेति तेषामाशयः । इति शान्ताः । गौणत्वे त्विति । Padamanjari ----------- स्पृशोऽनुदके क्विन्॥ ननु चेत्यादि।'सुपि स्थः' इत्यत्रोक्तम् - सकर्मकेषु कर्मणीत्युपतिष्ठतेऽन्यत्र सुपीति, ततश्च सुबन्त उपपदे क्विन् प्रत्यय इत्युक्तमनुपपन्नमिति भावः। तत्कर्तृप्रचयार्थमिति।'कर्तरि कृत्' इत्येव कर्तरि क्विनः सिद्धत्वात्कर्त्रनुवृतेर्नान्यत्प्रयोजनमस्तीति भावः। कर्तृप्रचयो लभ्यत इति। कर्मण्युपपद एकः कर्ता, करणादौ चापर इत्येवं प्रचयो भवति। घृतस्पृगिति।'क्विन्प्रत्ययस्य कुः' इति शकारस्य षकारः सोष्मत्वेनान्तरतम्यात्,'झलां जशो' न्तेऽ। क्विनः ककारो गुणवृद्धिप्रतिषेधार्थः, इकारः'वेरपृक्तस्य' इति विशेषणार्थः। नकारः किमर्थः, एकाज्भ्यो ह्ययं विधीयते तत्र धातुस्वरेणैव सिद्धम्? यस्तर्ह्यनेकाज् - दधृगिति, वक्ष्यत्येतद्धृषेर्द्धिर्वचनमन्तोदातत्वञ्चेति? एवं तर्हि'क्विन्प्रत्ययस्य कुः' 'क्विप्रत्ययस्य' इत्युच्यमाने सन्देहः स्यात् - क्वेः क्विपो वा निर्देश इति। क्वेरपि निर्देशे पकारस्य ठनचि चऽ इति द्विर्वचनम्॥ Nyaas ----- **सुपि स्थः** (3.2.4) इत्यत्रोक्तम् - `कर्मणि` `सुपि`इति द्वयमनुवर्तते, तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते, अन्यत्र सुपीति। स्पृशिरयं सकर्मकः, अतः स्पृशेर्धातोरनुदके सुबन्त उपपद इत्युक्ते पूर्वापरव्याहति मन्यमान आह - `ननु च` इत्यादि।`नैषः` इत्यादिना परिहारः। कथं पुनः कर्त्तृग्रहणे कर्त्तुश्च प्रचयार्थे विज्ञायमाने सुबन्त उपपदे प्रत्ययो लभ्यत इत्याह - `सुबन्तमात्रे` इत्यादि। सुबन्तमात्र उपपदे सत्येकः प्रचयार्थः कर्ता कर्मण्युपपदे सति भवति, अपरः करणादावुपपदे; तत्र भेदे सति तत्सम्बन्धभेदेन भिद्यमानस्य कर्त्तुः प्रचयो लभ्यते। `घृतस्पृक्` इति। `क्विन्प्रत्ययस्य कुः` इत्यादि। `क्विप्रत्ययस्य कुः` इत्युच्यमाने क्विपोऽपि ग्रहणं स्यात्तो नकारोऽनुबध्यते। प्रकृतेराद्युदात्तार्थो नकारो न भवित; स्पृशेरेकाच्त्वात्,तत्स्वरेणैव सिद्धत्वात्। ककारो गुणप्रतिषेधार्थः, वकारः **वेरपृक्तस्य** (6.1.67) इति विशेषणार्थः॥ Prakriyasarvasvam ----------------- उदकशब्दवर्जिते सुप्युपपदे स्पृशेः क्विन् स्यात् । नकारः 'क्विन्प्रत्ययस्य—' (८-२-६२) इति निर्देशार्थः । इकारो 'वेरपृक्तस्ये'त्यत्र वीत्युक्त्यर्थः । कित्त्वमगुणार्थम् । इति वकारमात्रं शिष्यते । Sudha ----- स्पृशेऽनुदके । अनुदके सुपीति । उदक् शब्दभिन्ने सुबन्ते इत्यर्थः । **सुपि स्थः**(3.2.4) इत्यतः सुपीत्यनुवर्तते इति भावः । घृतस्पृक् -घृतस्पृग् । घृतं स्पृशतीति विग्रहे **स्पृशोऽनुदके क्विन्**(3.2.58) इति क्विनि, तस्य सर्वस्य लोपे **उपपदमतिङ्**(2.2.19) इति उपपदसमासे सुब्लुकि समासत्वात्प्रातिपदिकसञ्ज्ञायां सौ कृते 'वृतस्पृश् + सु इति स्थिते सोर्हल्ङ्यादिना लोपे **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वस्यासिद्धत्वात् पूर्वं **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति षः । तस्य जश्त्वेन डः । तस्य **क्विन्प्रत्ययस्य कुः**(8.2.62) इति गत्वे **वाऽवसाने**(8.4.56) इति चर्त्वेन कत्वे 'घृतस्पृक्' इति । पक्षे 'घृतस्पृग्' इति । दधृक् – दधृग् । **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च**(3.2.59) इति क्विनि, तस्य सर्वस्य लोपे निपातनाद् द्वित् अभ्यासकार्ये निष्पन्नकृदन्तदधृष्शब्दात् सावागते, तस्य हल्ङ्यादिना लोपे जश्त्वं प्रति कुत्वस्यासिद्धत्वात्प्रथमं **झलां जशोऽन्ते**(8.2.39) इति जश्त्वेन डकारे तस्य **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वेन गकारे **वाऽवसाने**(8.4.56) इति वा चर्त्वेन ककारे 'दधृक्' इति । चर्त्वाभावपक्षे 'दधृग्' इति । दधृग्भ्याम् । दधृष् + भ्याम् अत्र पदसञ्ज्ञायां जश्त्वेन डः, तस्य कुत्वेन गः, 'दधृग्भ्याम्' इति रूपम् । रत्वमुट् – रत्नमुड् । रत्नमुष + सु अत्र सोर्लोपे **झलां जशोऽन्ते**(8.2.39) इति डत्वे **वाऽवसाने**(8.4.56) इति टकारे 'रत्नमुट्' इति । पक्षे - 'रत्नमुङ्' इति । अत्र क्विन्प्रत्ययाभावान्नकुत्वम् । रत्नमुड्भ्याम् । रत्नमुष् + भ्याम् इत्यत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसञ्ज्ञायां **झलां जशोऽन्ते**(8.2.39) इति जश्त्वेन डकारे कृते रूपम् । षट् – षड् । षष् शब्दो नित्यं बहुवचनान्तः । तेन षष् शब्दाज्जसि, षष् + जस् इति स्थिते **ष्णान्ता षट्**(1.1.24) इति षट्सञ्ज्ञायां **षड्भ्यो लुक्**(7.1.22) इति जसो लुकि, **झलां जशोऽन्ते**(8.2.39) इति ष् कारस्य डकारे तस्य चर्त्वे च 'षट्' इति, पक्षे - 'षड्' इति । एवं शसि परेऽपि बोध्यम् । षष्णाम् । षष् + आम् अत्र **ष्णान्ता षट्**(1.1.24) इति षट्संज्ञायां **षट्चतुर्भ्यश्च**(7.1.55) इति नुटि टित्वाद् आम आद्यावयवे जाते उटो लोपे पदसञ्ज्ञायां **झलां जशोऽन्ते**(8.2.39) इति षकारस्य डकारे इति डकारस्यानुनासिके णकारे **ष्टुना ष्टुः**(8.4.41) इति नामो नकारस्य ष्टुवे 'षण्णाम्' इति । न च **न पदान्ताट्टोरनाम्**(8.4.42) इति ष्टुत्वनिषेध इति वाच्यम् । इति तत्र पर्युदासात् । **षट्त्सु - षट्सु** । 'षष् सुप्' अत्र पकारस्येत्सञ्ज्ञायां लोपे च **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **झलां जशोऽन्ते**(8.2.39) इति जश्त्वेन षकारस्य डकारे षड्+सु इति जाते **डः सि धुट्**(8.3.29) इति सकारस्य धुडागमे टित्वात् **आद्यन्तौ टकितौ**(1.1.46) इति आद्यावयवे जाते उटो लोपे **खरि च**(8.4.55) इति धकारस्य तकारे पुनश्च **खरि च**(8.4.55) इति डकारस्य टकारे 'षट्त्सु' इति । धुटोऽभावे 'षट्सु' इति । Sutra Prayogas -------------- * **मातृवर्गचरणस्पृशौ** (रघुवंशम्): `स्पृशोऽनुदके क्क्न्` इति क्किन्प्रत्ययः। * **** (भट्टिकाव्यम्): `स्पृशोऽनुदके क्विन्` इति क्विन्। * **स्पृश** (भट्टिकाव्यम्): `स्पृशोऽनुदके क्विन्` इति क्विन्-प्रत्ययः।